| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः । ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् १ ॥
कल्पः तु एवम् परिव्रज्य देह-मात्र-अवशेषितः । ग्राम-एक-रात्र-विधिना निरपेक्षः चरेत् महीम् ॥
kalpaḥ tu evam parivrajya deha-mātra-avaśeṣitaḥ . grāma-eka-rātra-vidhinā nirapekṣaḥ caret mahīm ..
बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् । त्यक्तं न लिङ्गाद्दण्डादेरन्यत्किञ्चिदनापदि २ ॥
बिभृयात् यदि असौ वासः कौपीन-आच्छादनम् परम् । त्यक्तम् न लिङ्गात् दण्ड-आदेः अन्यत् किञ्चिद् अनापदि ॥
bibhṛyāt yadi asau vāsaḥ kaupīna-ācchādanam param . tyaktam na liṅgāt daṇḍa-ādeḥ anyat kiñcid anāpadi ..
एक एव चरेद्भिक्षुरात्मारामोऽनपाश्रयः । सर्वभूतसुहृच्छान्तो नारायणपरायणः ३ ॥
एकः एव चरेत् भिक्षुः आत्म-आरामः अनपाश्रयः । ॥
ekaḥ eva caret bhikṣuḥ ātma-ārāmaḥ anapāśrayaḥ . ..
पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये । आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ४ ॥
पश्येत् आत्मनि अदः विश्वम् परे सत्-असतः अव्यये । आत्मानम् च परम् ब्रह्म सर्वत्र सत्-असत्-मये ॥
paśyet ātmani adaḥ viśvam pare sat-asataḥ avyaye . ātmānam ca param brahma sarvatra sat-asat-maye ..
सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् । पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः ५ ॥
सुप्ति-प्रबोधयोः सन्धौ आत्मनः गतिम् आत्म-दृश् । पश्यन् बन्धम् च मोक्षम् च माया-मात्रम् न वस्तुतस् ॥
supti-prabodhayoḥ sandhau ātmanaḥ gatim ātma-dṛś . paśyan bandham ca mokṣam ca māyā-mātram na vastutas ..
नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् । कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ६ ॥
न अभिनन्देत् ध्रुवम् मृत्युम् अध्रुवम् वा अस्य जीवितम् । कालम् परम् प्रतीक्षेत भूतानाम् प्रभव-अप्ययम् ॥
na abhinandet dhruvam mṛtyum adhruvam vā asya jīvitam . kālam param pratīkṣeta bhūtānām prabhava-apyayam ..
नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् । वादवादांस्त्यजेत्तर्कान्पक्षं कंच न संश्रयेत् ७ ॥
न असत्-शास्त्रेषु सज्जेत न उपजीवेत जीविकाम् । वाद-वादान् त्यजेत् तर्कान् पक्षम् कं च न संश्रयेत् ॥
na asat-śāstreṣu sajjeta na upajīveta jīvikām . vāda-vādān tyajet tarkān pakṣam kaṃ ca na saṃśrayet ..
न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ८ ॥
न शिष्यान् अनुबध्नीत ग्रन्थान् न एव अभ्यसेत् बहून् । न व्याख्याम् उपयुञ्जीत न आरम्भान् आरभेत् क्वचिद् ॥
na śiṣyān anubadhnīta granthān na eva abhyaset bahūn . na vyākhyām upayuñjīta na ārambhān ārabhet kvacid ..
न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः । शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ९ ॥
न यतेः आश्रमः प्रायस् धर्म-हेतुः महात्मनः । शान्तस्य सम-चित्तस्य बिभृयात् उत वा त्यजेत् ॥
na yateḥ āśramaḥ prāyas dharma-hetuḥ mahātmanaḥ . śāntasya sama-cittasya bibhṛyāt uta vā tyajet ..
अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् । कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् १० ॥
। कविः मूक-वत् आत्मानम् स दृष्ट्या दर्शयेत् नृणाम् ॥
. kaviḥ mūka-vat ātmānam sa dṛṣṭyā darśayet nṛṇām ..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्रादस्य च संवादं मुनेराजगरस्य च ११ ॥
अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् । प्रह्रादस्य च संवादम् मुनेः आजगरस्य च ॥
atra api udāharanti imam itihāsam purātanam . prahrādasya ca saṃvādam muneḥ ājagarasya ca ..
तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् १२ ॥
तम् शयानम् धरोपस्थे कावेर्याम् सह्य-सानुनि । रजस्वलैः तनू-देशैः निगूढ-अमल-तेजसम् ॥
tam śayānam dharopasthe kāveryām sahya-sānuni . rajasvalaiḥ tanū-deśaiḥ nigūḍha-amala-tejasam ..
ददर्श लोकान्विचरन्लोकतत्त्वविवित्सया । वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः १३ ॥
ददर्श लोकान् विचरन् लोक-तत्त्व-विवित्सया । वृतः अमात्यैः कतिपयैः प्रह्रादः भगवत्-प्रियः ॥
dadarśa lokān vicaran loka-tattva-vivitsayā . vṛtaḥ amātyaiḥ katipayaiḥ prahrādaḥ bhagavat-priyaḥ ..
कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः । न विदन्ति जना यं वै सोऽसाविति न वेति च १४ ॥
कर्मणा आकृतिभिः वाचा लिङ्गैः वर्ण-आश्रम-आदिभिः । न विदन्ति जनाः यम् वै सः असौ इति न वा इति च ॥
karmaṇā ākṛtibhiḥ vācā liṅgaiḥ varṇa-āśrama-ādibhiḥ . na vidanti janāḥ yam vai saḥ asau iti na vā iti ca ..
तं नत्वाभ्यर्च्य विधिवत्पादयोः शिरसा स्पृशन् । विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः १५ ॥
तम् नत्वा अभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् । विवित्सुः इदम् अप्राक्षीत् महा-भागवतः असुरः ॥
tam natvā abhyarcya vidhivat pādayoḥ śirasā spṛśan . vivitsuḥ idam aprākṣīt mahā-bhāgavataḥ asuraḥ ..
बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा । वित्तं चैवोद्यमवतां भोगो वित्तवतामिह भोगिनां खलु देहोऽयं पीवा भवति नान्यथा १६ ॥
बिभर्षि कायम् पीवानम् स उद्यमः भोगवान् यथा । वित्तम् च एव उद्यमवताम् भोगः वित्तवताम् इह भोगिनाम् खलु देहः अयम् पीवाः भवति ना अन्यथा ॥
bibharṣi kāyam pīvānam sa udyamaḥ bhogavān yathā . vittam ca eva udyamavatām bhogaḥ vittavatām iha bhoginām khalu dehaḥ ayam pīvāḥ bhavati nā anyathā ..
न ते शयानस्य निरुद्यमस्य ब्रह्मन्नु हार्थो यत एव भोगः । अभोगिनोऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् १७ ॥
न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु ह अर्थः यतस् एव भोगः । अभोगिनः अयम् तव विप्र देहः पीवाः यतस् तत् वद नः क्षमम् चेद् ॥
na te śayānasya nirudyamasya brahman nu ha arthaḥ yatas eva bhogaḥ . abhoginaḥ ayam tava vipra dehaḥ pīvāḥ yatas tat vada naḥ kṣamam ced ..
कविः कल्पो निपुणदृक्चित्रप्रियकथः समः । लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा १८ ॥
कविः कल्पः निपुण-दृश्-चित्र-प्रिय-कथः समः । लोकस्य कुर्वतः कर्म शेषे तद्-वीक्षिता अपि वा ॥
kaviḥ kalpaḥ nipuṇa-dṛś-citra-priya-kathaḥ samaḥ . lokasya kurvataḥ karma śeṣe tad-vīkṣitā api vā ..
श्रीनारद उवाच
स इत्थं दैत्यपतिना परिपृष्टो महामुनिः । स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः १९ ॥
सः इत्थम् दैत्य-पतिना परिपृष्टः महा-मुनिः । स्मयमानः तम् अभ्याह तद्-वाच्-अमृत-यन्त्रितः ॥
saḥ ittham daitya-patinā paripṛṣṭaḥ mahā-muniḥ . smayamānaḥ tam abhyāha tad-vāc-amṛta-yantritaḥ ..
श्रीब्राह्मण उवाच
वेदेदमसुरश्रेष्ठ भवान्नन्वार्यसम्मतः । ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा २० ॥
वेद इदम् असुर-श्रेष्ठ भवान् ननु आर्य-सम्मतः । ईहा-उपरमयोः नॄणाम् पदानि अध्यात्म-चक्षुषा ॥
veda idam asura-śreṣṭha bhavān nanu ārya-sammataḥ . īhā-uparamayoḥ nṝṇām padāni adhyātma-cakṣuṣā ..
यस्य नारायणो देवो भगवान्हृद्गतः सदा । भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् २१ ॥
यस्य नारायणः देवः भगवान् हृद्-गतः सदा । भक्त्या केवलया अज्ञानम् धुनोति ध्वान्तम् अर्क-वत् ॥
yasya nārāyaṇaḥ devaḥ bhagavān hṛd-gataḥ sadā . bhaktyā kevalayā ajñānam dhunoti dhvāntam arka-vat ..
तथापि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम् । सम्भाषणीयो हि भवानात्मनः शुद्धिमिच्छता २२ ॥
तथा अपि ब्रूमहे प्रश्नान् तव राजन् यथाश्रुतम् । सम्भाषणीयः हि भवान् आत्मनः शुद्धिम् इच्छता ॥
tathā api brūmahe praśnān tava rājan yathāśrutam . sambhāṣaṇīyaḥ hi bhavān ātmanaḥ śuddhim icchatā ..
तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः २३ ॥
तृष्णया भव-वाहिन्या योग्यैः कामैः अपूर्यया । कर्माणि कार्यमाणः अहम् नाना योनिषु योजितः ॥
tṛṣṇayā bhava-vāhinyā yogyaiḥ kāmaiḥ apūryayā . karmāṇi kāryamāṇaḥ aham nānā yoniṣu yojitaḥ ..
यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च २४ ॥
यदृच्छया लोकम् इमम् प्रापितः कर्मभिः भ्रमन् । स्वर्ग-अपवर्गयोः द्वारम् तिरश्चाम् पुनर् अस्य च ॥
yadṛcchayā lokam imam prāpitaḥ karmabhiḥ bhraman . svarga-apavargayoḥ dvāram tiraścām punar asya ca ..
तत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् २५ ॥
तत्र अपि दम्पतीनाम् च सुखाय अन्य-अपनुत्तये । कर्माणि कुर्वताम् दृष्ट्वा निवृत्तः अस्मि विपर्ययम् ॥
tatra api dampatīnām ca sukhāya anya-apanuttaye . karmāṇi kurvatām dṛṣṭvā nivṛttaḥ asmi viparyayam ..
सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान्दृष्ट्वा भोगान्स्वप्स्यामि संविशन् २६ ॥
सुखम् अस्य आत्मनः रूपम् सर्वा इह उपरतिः तनुः । मनः-संस्पर्श-जान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥
sukham asya ātmanaḥ rūpam sarvā iha uparatiḥ tanuḥ . manaḥ-saṃsparśa-jān dṛṣṭvā bhogān svapsyāmi saṃviśan ..
इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् २७ ॥
इति एतत् आत्मनः स्व-अर्थम् सन्तम् विस्मृत्य वै पुमान् । विचित्राम् असति द्वैते घोराम् आप्नोति संसृतिम् ॥
iti etat ātmanaḥ sva-artham santam vismṛtya vai pumān . vicitrām asati dvaite ghorām āpnoti saṃsṛtim ..
जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेत्तथान्यत्रार्थदृक्स्वतः २८ ॥
जलम् तद्-उद्भवैः छन्नम् हित्वा अज्ञः जल-काम्यया । मृगतृष्णाम् उपाधावेत् तथा अन्यत्र अर्थ-दृश् स्वतः ॥
jalam tad-udbhavaiḥ channam hitvā ajñaḥ jala-kāmyayā . mṛgatṛṣṇām upādhāvet tathā anyatra artha-dṛś svataḥ ..
देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः २९ ॥
देह-आदिभिः दैव-तन्त्रैः आत्मनः सुखम् ईहतः । दुःख-अत्ययम् च अनीशस्य क्रियाः मोघाः कृताः कृताः ॥
deha-ādibhiḥ daiva-tantraiḥ ātmanaḥ sukham īhataḥ . duḥkha-atyayam ca anīśasya kriyāḥ moghāḥ kṛtāḥ kṛtāḥ ..
आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ३० ॥
आध्यात्मिक-आदिभिः दुःखैः अविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्र-उपनतैः अर्थैः कामैः क्रियेत किम् ॥
ādhyātmika-ādibhiḥ duḥkhaiḥ avimuktasya karhicit . martyasya kṛcchra-upanataiḥ arthaiḥ kāmaiḥ kriyeta kim ..
पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्रा णां सर्वतोऽभिविशङ्किनाम् ३१ ॥
पश्यामि धनिनाम् क्लेशम् लुब्धानाम् अजित-आत्मनाम् । भयात् अलब्ध-निद्राणाम् सर्वतस् अभिविशङ्किनाम् ॥
paśyāmi dhaninām kleśam lubdhānām ajita-ātmanām . bhayāt alabdha-nidrāṇām sarvatas abhiviśaṅkinām ..
राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ३२ ॥
राजतः चौरतः शत्रोः स्व-जनात् पशु-पक्षितः । अर्थिभ्यः कालतः स्वस्मात् नित्यम् प्राण-अर्थ-वत् भयम् ॥
rājataḥ caurataḥ śatroḥ sva-janāt paśu-pakṣitaḥ . arthibhyaḥ kālataḥ svasmāt nityam prāṇa-artha-vat bhayam ..
शोकमोहभयक्रोध रागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ३३ ॥
शोक-मोह-भय-क्रोध राग-क्लैब्य-श्रम-आदयः । यद्-मूलाः स्युः नृणाम् जह्यात् स्पृहाम् प्राण-अर्थयोः बुधः ॥
śoka-moha-bhaya-krodha rāga-klaibya-śrama-ādayaḥ . yad-mūlāḥ syuḥ nṛṇām jahyāt spṛhām prāṇa-arthayoḥ budhaḥ ..
मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ३४ ॥
मधुकार-महा-सर्पौ लोके अस्मिन् नः गुरु-उत्तमौ । वैराग्यम् परितोषम् च प्राप्ताः यत् शिक्षया वयम् ॥
madhukāra-mahā-sarpau loke asmin naḥ guru-uttamau . vairāgyam paritoṣam ca prāptāḥ yat śikṣayā vayam ..
विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ३५ ॥
विरागः सर्व-कामेभ्यः शिक्षितः मे मधु-व्रतात् । कृच्छ्र-आप्तम् मधु-वत् वित्तम् हत्वा अपि अन्यः हरेत् पतिम् ॥
virāgaḥ sarva-kāmebhyaḥ śikṣitaḥ me madhu-vratāt . kṛcchra-āptam madhu-vat vittam hatvā api anyaḥ haret patim ..
अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ३६ ॥
अनीहः परितुष्ट-आत्मा यदृच्छा-उपनतात् अहम् । नो चेद् शये बहु-अहानि महा-अहिः इव सत्त्ववान् ॥
anīhaḥ parituṣṭa-ātmā yadṛcchā-upanatāt aham . no ced śaye bahu-ahāni mahā-ahiḥ iva sattvavān ..
क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ३७ ॥
क्वचिद् अल्पम् क्वचिद् भूरि भुञ्जे अन्नम् स्वादु अस्वादु वा । क्वचिद् भूरि गुण-उपेतम् गुण-हीनम् उत क्वचिद् ॥
kvacid alpam kvacid bhūri bhuñje annam svādu asvādu vā . kvacid bhūri guṇa-upetam guṇa-hīnam uta kvacid ..
श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ३८ ॥
श्रद्धया उपहृतम् क्वापि कदाचिद् मान-वर्जितम् । भुञ्जे भुक्त्वा अथ कस्मिंश्चिद् दिवा नक्तम् यदृच्छया ॥
śraddhayā upahṛtam kvāpi kadācid māna-varjitam . bhuñje bhuktvā atha kasmiṃścid divā naktam yadṛcchayā ..
क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसेऽन्यदपि सम्प्राप्तं दिष्टभुक्तुष्टधीरहम् ३९ ॥
क्षौमम् दुकूलम् अजिनम् चीरम् वल्कलम् एव वा । वसे अन्यत् अपि सम्प्राप्तम् दिष्ट-भुज्-तुष्ट-धीः अहम् ॥
kṣaumam dukūlam ajinam cīram valkalam eva vā . vase anyat api samprāptam diṣṭa-bhuj-tuṣṭa-dhīḥ aham ..
क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ४० ॥
क्वचिद् शये धरा-उपस्थे तृण-पर्ण-अश्म-भस्मसु । क्वचिद् प्रासाद-पर्यङ्के कशिपौ वा पर-इच्छया ॥
kvacid śaye dharā-upasthe tṛṇa-parṇa-aśma-bhasmasu . kvacid prāsāda-paryaṅke kaśipau vā para-icchayā ..
क्वचित्स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः । रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ४१ ॥
क्वचिद् स्नातः अनुलिप्त-अङ्गः सु वासाः स्रग्वी अलङ्कृतः । रथ-इभ-अश्वैः चरे क्वापि दिग्वासाः ग्रह-वत् विभो ॥
kvacid snātaḥ anulipta-aṅgaḥ su vāsāḥ sragvī alaṅkṛtaḥ . ratha-ibha-aśvaiḥ care kvāpi digvāsāḥ graha-vat vibho ..
नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् । एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ४२ ॥
न अहम् निन्दे न च स्तौमि स्वभाव-विषमम् जनम् । एतेषाम् श्रेयः आशासे उत ऐकात्म्यम् महात्मनि ॥
na aham ninde na ca staumi svabhāva-viṣamam janam . eteṣām śreyaḥ āśāse uta aikātmyam mahātmani ..
विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे । मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ४३ ॥
विकल्पम् जुहुयात् चित्तौ ताम् मनसि अर्थ-विभ्रमे । मनः वैकारिके हुत्वा तम् मायायाम् जुहोति अनु ॥
vikalpam juhuyāt cittau tām manasi artha-vibhrame . manaḥ vaikārike hutvā tam māyāyām juhoti anu ..
आत्मानुभूतौ तां मायां जुहुयात्सत्यदृङ्मुनिः । ततो निरीहो विरमेत्स्वानुभूत्यात्मनि स्थितः ४४ ॥
आत्म-अनुभूतौ ताम् मायाम् जुहुयात् सत्य-दृश् मुनिः । ततस् निरीहः विरमेत् स्व-अनुभूति-आत्मनि स्थितः ॥
ātma-anubhūtau tām māyām juhuyāt satya-dṛś muniḥ . tatas nirīhaḥ viramet sva-anubhūti-ātmani sthitaḥ ..
स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् । व्यपेतं लोकशास्त्राभ्यां भवान्हि भगवत्परः ४५॥
स्व-आत्म-वृत्तम् मया इत्थम् ते सु गुप्तम् अपि वर्णितम् । व्यपेतम् लोक-शास्त्राभ्याम् भवान् हि भगवत्-परः॥
sva-ātma-vṛttam mayā ittham te su guptam api varṇitam . vyapetam loka-śāstrābhyām bhavān hi bhagavat-paraḥ..
श्रीनारद उवाच
धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः। पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ४६॥
धर्मम् पारमहंस्यम् वै मुनेः श्रुत्वा सुरेश्वरः। पूजयित्वा ततस् प्रीतः आमन्त्र्य प्रययौ गृहम्॥
dharmam pāramahaṃsyam vai muneḥ śrutvā sureśvaraḥ. pūjayitvā tatas prītaḥ āmantrya prayayau gṛham..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे यतिधर्मे त्रयोदशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे यति-धर्मे त्रयोदशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe yudhiṣṭhira-nārada-saṃvāde yati-dharme trayodaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In