| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

युधिष्ठिर उवाच -
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥
गृहस्थः एताम् पदवीम् विधिना येन च अञ्जसा । याति देवऋषे ब्रूहि मादृशः गृह-मूढ-धीः ॥ १ ॥
gṛhasthaḥ etām padavīm vidhinā yena ca añjasā . yāti devaṛṣe brūhi mādṛśaḥ gṛha-mūḍha-dhīḥ .. 1 ..
श्रीनारद उवाच -
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन्यथोचिताः । वासुदेवार्पणं साक्षाद् उपासीत महामुनीन् ॥ २ ॥
गृहेषु अवस्थितः राजन् क्रियाः कुर्वन् यथोचिताः । वासुदेव-अर्पणम् साक्षात् उपासीत महा-मुनीन् ॥ २ ॥
gṛheṣu avasthitaḥ rājan kriyāḥ kurvan yathocitāḥ . vāsudeva-arpaṇam sākṣāt upāsīta mahā-munīn .. 2 ..
श्रृण्वन्भगवतोऽभीक्ष्णं अवतारकथामृतम् । श्रद्दधानो यथाकालं उपशान्तजनावृतः ॥ ३ ॥
श्रृण्वन् भगवतः अभीक्ष्णम् अवतार-कथा-अमृतम् । श्रद्दधानः यथाकालम् उपशान्त-जन-आवृतः ॥ ३ ॥
śrṛṇvan bhagavataḥ abhīkṣṇam avatāra-kathā-amṛtam . śraddadhānaḥ yathākālam upaśānta-jana-āvṛtaḥ .. 3 ..
सत्सङ्गाच्छनकैः सङ्गं आत्मजायात्मजादिषु । विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४ ॥
सत्-सङ्गात् शनकैस् सङ्गम् आत्मजाया-आत्मज-आदिषु । विमुञ्चेत् मुच्यमानेषु स्वयम् स्वप्न-वत् उत्थितः ॥ ४ ॥
sat-saṅgāt śanakais saṅgam ātmajāyā-ātmaja-ādiṣu . vimuñcet mucyamāneṣu svayam svapna-vat utthitaḥ .. 4 ..
यावद् अर्थमुपासीनो देहे गेहे च पण्डितः । विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥
यावत् अर्थम् उपासीनः देहे गेहे च पण्डितः । विरक्तः रक्त-वत् तत्र नृ-लोके नर-ताम् न्यसेत् ॥ ५ ॥
yāvat artham upāsīnaḥ dehe gehe ca paṇḍitaḥ . viraktaḥ rakta-vat tatra nṛ-loke nara-tām nyaset .. 5 ..
ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे । यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६ ॥
ज्ञातयः पितरौ पुत्राः भ्रातरः सुहृदः अपरे । यत् वदन्ति यत् इच्छन्ति च अनुमोदेत निर्ममः ॥ ६ ॥
jñātayaḥ pitarau putrāḥ bhrātaraḥ suhṛdaḥ apare . yat vadanti yat icchanti ca anumodeta nirmamaḥ .. 6 ..
दिव्यं भौमं चान्तरीक्षं वित्तं अच्युतनिर्मितम् । तत्सर्वं उपयुञ्जान एतत्कुर्यात् स्वतो बुधः ॥ ७ ॥
दिव्यम् भौमम् च आन्तरीक्षम् वित्तम् अच्युत-निर्मितम् । तत् सर्वम् उपयुञ्जानः एतत् कुर्यात् स्वतस् बुधः ॥ ७ ॥
divyam bhaumam ca āntarīkṣam vittam acyuta-nirmitam . tat sarvam upayuñjānaḥ etat kuryāt svatas budhaḥ .. 7 ..
यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥
यावत् भ्रियेत जठरम् तावत् स्व-त्वम् हि देहिनाम् । अधिकम् यः अभिमन्येत स स्तेनः दण्डम् अर्हति ॥ ८ ॥
yāvat bhriyeta jaṭharam tāvat sva-tvam hi dehinām . adhikam yaḥ abhimanyeta sa stenaḥ daṇḍam arhati .. 8 ..
मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः । आत्मनः पुत्रवत्पश्येत् तैरेषामन्तरं कियत् ॥ ९ ॥
सरीसृप्-खग-मक्षिकाः । आत्मनः पुत्र-वत् पश्येत् तैः एषाम् अन्तरम् कियत् ॥ ९ ॥
sarīsṛp-khaga-makṣikāḥ . ātmanaḥ putra-vat paśyet taiḥ eṣām antaram kiyat .. 9 ..
त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ १० ॥
त्रिवर्गम् न अतिकृच्छ्रेण भजेत गृहमेधी अपि । यथादेशम् यथाकालम् यावत् दैव-उपपादितम् ॥ १० ॥
trivargam na atikṛcchreṇa bhajeta gṛhamedhī api . yathādeśam yathākālam yāvat daiva-upapāditam .. 10 ..
आश्वाघान्तेऽवसायिभ्यः कामान् सविभजेद् यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११ ॥
आशु-आघ-अन्ते अवसायिभ्यः कामान् स विभजेत् यथा । अपि एकाम् आत्मनः दाराम् नृणाम् स्व-त्व-ग्रहः यतस् ॥ ११ ॥
āśu-āgha-ante avasāyibhyaḥ kāmān sa vibhajet yathā . api ekām ātmanaḥ dārām nṛṇām sva-tva-grahaḥ yatas .. 11 ..
जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥
जह्यात् यद्-अर्थे स्व-प्राणान् हन्यात् वा पितरम् गुरुम् । तस्याम् स्व-त्वम् स्त्रियाम् जह्यात् यः तेन हि अजितः जितः ॥ १२ ॥
jahyāt yad-arthe sva-prāṇān hanyāt vā pitaram gurum . tasyām sva-tvam striyām jahyāt yaḥ tena hi ajitaḥ jitaḥ .. 12 ..
कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३ ॥
कृमि-विष्-भस्म-निष्ठ-अन्तम् क्व इदम् तुच्छम् कलेवरम् । क्व तदीय-रतिः भार्या क्व अयम् आत्मा नभः-छदिः ॥ १३ ॥
kṛmi-viṣ-bhasma-niṣṭha-antam kva idam tuccham kalevaram . kva tadīya-ratiḥ bhāryā kva ayam ātmā nabhaḥ-chadiḥ .. 13 ..
सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः । शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४ ॥
सिद्धैः यज्ञ-अवशिष्ट-अर्थैः कल्पयेत् वृत्तिम् आत्मनः । शेषे स्व-त्वम् त्यजन् प्राज्ञः पदवीम् महताम् इयात् ॥ १४ ॥
siddhaiḥ yajña-avaśiṣṭa-arthaiḥ kalpayet vṛttim ātmanaḥ . śeṣe sva-tvam tyajan prājñaḥ padavīm mahatām iyāt .. 14 ..
देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥
देवान् ऋषीन् नृ-भूतानि पितॄन् आत्मानम् अन्वहम् । स्व-वृत्ति-आगत-वित्तेन यजेत पुरुषम् पृथक् ॥ १५ ॥
devān ṛṣīn nṛ-bhūtāni pitṝn ātmānam anvaham . sva-vṛtti-āgata-vittena yajeta puruṣam pṛthak .. 15 ..
यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥
यर्हि आत्मनः अधिकार-आद्याः सर्वाः स्युः यज्ञ-सम्पदः । वैतानिकेन विधिना अग्निहोत्र-आदिना यजेत् ॥ १६ ॥
yarhi ātmanaḥ adhikāra-ādyāḥ sarvāḥ syuḥ yajña-sampadaḥ . vaitānikena vidhinā agnihotra-ādinā yajet .. 16 ..
न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७ ॥
न हि अग्नि-मुखतः अयम् वै भगवान् सर्व-यज्ञ-भुज् । इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः ॥ १७ ॥
na hi agni-mukhataḥ ayam vai bhagavān sarva-yajña-bhuj . ijyeta haviṣā rājan yathā vipra-mukhe hutaiḥ .. 17 ..
तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥
तस्मात् ब्राह्मण-देवेषु मर्त्य-आदिषु यथार्हतः । तैः तैः कामैः यजस्व एनम् क्षेत्रज्ञम् ब्राह्मणान् अनु ॥ १८ ॥
tasmāt brāhmaṇa-deveṣu martya-ādiṣu yathārhataḥ . taiḥ taiḥ kāmaiḥ yajasva enam kṣetrajñam brāhmaṇān anu .. 18 ..
कुर्याद् आपरपक्षीयं मासि प्रौष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ १९ ॥
कुर्यात् आपरपक्षीयम् मासि प्रौष्ठपदे द्विजः । श्राद्धम् पित्रोः यथावित्तम् तद्-बन्धूनाम् च वित्तवान् ॥ १९ ॥
kuryāt āparapakṣīyam māsi prauṣṭhapade dvijaḥ . śrāddham pitroḥ yathāvittam tad-bandhūnām ca vittavān .. 19 ..
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥
अयने विषुवे कुर्यात् व्यतीपाते दिनक्षये । चन्द्र-आदित्य-उपरागे च द्वादश्याम् श्रवणेषु च ॥ २० ॥
ayane viṣuve kuryāt vyatīpāte dinakṣaye . candra-āditya-uparāge ca dvādaśyām śravaṇeṣu ca .. 20 ..
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
तृतीयायाम् शुक्ल-पक्षे नवम्याम् अथ कार्तिके । चतसृषु अपि अष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
tṛtīyāyām śukla-pakṣe navamyām atha kārtike . catasṛṣu api aṣṭakāsu hemante śiśire tathā .. 21 ..
माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥
माघे च सित-सप्तम्याम् मघा-राका-समागमे । राकया च अनुमत्या च मास-ऋक्षाणि युतानि अपि ॥ २२ ॥
māghe ca sita-saptamyām maghā-rākā-samāgame . rākayā ca anumatyā ca māsa-ṛkṣāṇi yutāni api .. 22 ..
द्वादश्यां अनुराधा स्यात् श्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३ ॥
द्वादश्याम् अनुराधा स्यात् श्रवणः तिस्रः उत्तराः । तिसृषु एकादशी वा आसु जन्म-ऋक्ष-श्रोण-योग-युज् ॥ २३ ॥
dvādaśyām anurādhā syāt śravaṇaḥ tisraḥ uttarāḥ . tisṛṣu ekādaśī vā āsu janma-ṛkṣa-śroṇa-yoga-yuj .. 23 ..
त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४ ॥
ते एते श्रेयसः कालाः नॄणाम् श्रेयः-विवर्धनाः । कुर्यात् सर्व-आत्मना एतेषु श्रेयः अमोघम् तद्-आयुषः ॥ २४ ॥
te ete śreyasaḥ kālāḥ nṝṇām śreyaḥ-vivardhanāḥ . kuryāt sarva-ātmanā eteṣu śreyaḥ amogham tad-āyuṣaḥ .. 24 ..
एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २५ ॥
एषु स्नानम् जपः होमः व्रतम् देव-द्विज-अर्चनम् । पितृ-देव-नृ-भूतेभ्यः यत् दत्तम् तत् हि अनश्वरम् ॥ २५ ॥
eṣu snānam japaḥ homaḥ vratam deva-dvija-arcanam . pitṛ-deva-nṛ-bhūtebhyaḥ yat dattam tat hi anaśvaram .. 25 ..
संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥
संस्कार-कालः जायायाः अपत्यस्य आत्मनः तथा । प्रेतसंस्था मृताहः च कर्मणि अभ्युदये नृप ॥ २६ ॥
saṃskāra-kālaḥ jāyāyāḥ apatyasya ātmanaḥ tathā . pretasaṃsthā mṛtāhaḥ ca karmaṇi abhyudaye nṛpa .. 26 ..
अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥
अथ देशान् प्रवक्ष्यामि धर्म-आदि-श्रेयः-आवहान् । स वै पुण्यतमः देशः सत्-पात्रम् यत्र लभ्यते ॥ २७ ॥
atha deśān pravakṣyāmi dharma-ādi-śreyaḥ-āvahān . sa vai puṇyatamaḥ deśaḥ sat-pātram yatra labhyate .. 27 ..
बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥
बिम्बम् भगवतः यत्र सर्वम् एतत् चराचरम् । यत्र ह ब्राह्मण-कुलम् तपः-विद्या-दया-अन्वितम् ॥ २८ ॥
bimbam bhagavataḥ yatra sarvam etat carācaram . yatra ha brāhmaṇa-kulam tapaḥ-vidyā-dayā-anvitam .. 28 ..
यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । यत्र गंगादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥
यत्र यत्र हरेः अर्चा स देशः श्रेयसाम् पदम् । यत्र गंगा-आदयः नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥
yatra yatra hareḥ arcā sa deśaḥ śreyasām padam . yatra gaṃgā-ādayaḥ nadyaḥ purāṇeṣu ca viśrutāḥ .. 29 ..
सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥
सरांसि पुष्कर-आदीनि क्षेत्राणि अर्ह-आश्रितानि उत । कुरुक्षेत्रम् गयशिरः प्रयागः पुलह-आश्रमः ॥ ३० ॥
sarāṃsi puṣkara-ādīni kṣetrāṇi arha-āśritāni uta . kurukṣetram gayaśiraḥ prayāgaḥ pulaha-āśramaḥ .. 30 ..
नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥
नैमिषम् फाल्गुनम् सेतुः प्रभासः अथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरः तथा ॥ ३१ ॥
naimiṣam phālgunam setuḥ prabhāsaḥ atha kuśasthalī . vārāṇasī madhupurī pampā bindusaraḥ tathā .. 31 ..
नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२ ॥
। सर्वे कुल-अचलाः राजन् महेन्द्र-मलय-आदयः ॥ ३२ ॥
. sarve kula-acalāḥ rājan mahendra-malaya-ādayaḥ .. 32 ..
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३ ॥
एते पुण्यतमाः देशाः हरेः अर्चा-आश्रिताः च ये । एतान् देशान् निषेवेत श्रेयस्कामः हि अभीक्ष्णशस् । धर्मः हि अत्र ईहितः पुंसाम् सहस्र-आधि-फल-उदयः ॥ ३३ ॥
ete puṇyatamāḥ deśāḥ hareḥ arcā-āśritāḥ ca ye . etān deśān niṣeveta śreyaskāmaḥ hi abhīkṣṇaśas . dharmaḥ hi atra īhitaḥ puṃsām sahasra-ādhi-phala-udayaḥ .. 33 ..
पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥
पात्रम् तु अत्र निरुक्तम् वै कविभिः पात्र-वित्तमैः । हरिः एव एकः उर्वी-ईश यद्-मयम् वै चराचरम् ॥ ३४ ॥
pātram tu atra niruktam vai kavibhiḥ pātra-vittamaiḥ . hariḥ eva ekaḥ urvī-īśa yad-mayam vai carācaram .. 34 ..
देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यद् अग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५ ॥
देव-ऋषि-अर्हत्सु वै सत्सु तत्र ब्रह्म-आत्मज-आदिषु । राजन् यत् अग्र-पूजायाम् मतः पात्र-तया अच्युतः ॥ ३५ ॥
deva-ṛṣi-arhatsu vai satsu tatra brahma-ātmaja-ādiṣu . rājan yat agra-pūjāyām mataḥ pātra-tayā acyutaḥ .. 35 ..
जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् । तन्मूलत्वाद् अच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥
जीव-राशिभिः आकीर्ण अण्डकोश-अङ्घ्रिपः महान् । तद्-मूल-त्वात् अच्युत-इज्या सर्व-जीव-आत्म-तर्पणम् ॥ ३६ ॥
jīva-rāśibhiḥ ākīrṇa aṇḍakośa-aṅghripaḥ mahān . tad-mūla-tvāt acyuta-ijyā sarva-jīva-ātma-tarpaṇam .. 36 ..
पुराण्यनेन सृष्टानि नृ तिर्यग् ऋषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥
पुराणि अनेन सृष्टानि तिर्यक् ऋषि-देवताः । शेते जीवेन रूपेण पुरेषु पुरुषः हि असौ ॥ ३७ ॥
purāṇi anena sṛṣṭāni tiryak ṛṣi-devatāḥ . śete jīvena rūpeṇa pureṣu puruṣaḥ hi asau .. 37 ..
तेष्वेव भगवान् राजन् तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥
तेषु एव भगवान् राजन् तारतम्येन वर्तते । तस्मात् पात्रम् हि पुरुषः यावान् आत्मा यथा इयते ॥ ३८ ॥
teṣu eva bhagavān rājan tāratamyena vartate . tasmāt pātram hi puruṣaḥ yāvān ātmā yathā iyate .. 38 ..
दृष्ट्वा तेषां मिथो नृणां अवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९ ॥
दृष्ट्वा तेषाम् मिथस् नृणाम् अवज्ञान-आत्म-ताम् नृप । त्रेता-आदिषु हरेः अर्चा क्रियायै कविभिः कृता ॥ ३९ ॥
dṛṣṭvā teṣām mithas nṛṇām avajñāna-ātma-tām nṛpa . tretā-ādiṣu hareḥ arcā kriyāyai kavibhiḥ kṛtā .. 39 ..
ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥
ततस् अर्चायाम् हरिम् केचिद् संश्रद्धाय सपर्यया । उपासतः उपास्ता अपि न अर्थ-दा पुरुष-द्विषाम् ॥ ४० ॥
tatas arcāyām harim kecid saṃśraddhāya saparyayā . upāsataḥ upāstā api na artha-dā puruṣa-dviṣām .. 40 ..
पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥
पुरुषेषु अपि राज-इन्द्र सु पात्रम् ब्राह्मणम् विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदम् हरेः तनुम् ॥ ४१ ॥
puruṣeṣu api rāja-indra su pātram brāhmaṇam viduḥ . tapasā vidyayā tuṣṭyā dhatte vedam hareḥ tanum .. 41 ..
नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥
ननु अस्य ब्राह्मणाः राजन् कृष्णस्य जगदात्मनः । पुनन्तः पाद-रजसा त्रिलोकीम् दैवतम् महत् ॥ ४२ ॥
nanu asya brāhmaṇāḥ rājan kṛṣṇasya jagadātmanaḥ . punantaḥ pāda-rajasā trilokīm daivatam mahat .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे सदाचारनिर्णयः नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe sadācāranirṇayaḥ nāma caturdaśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In