| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच
कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे । स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयोः १ ॥
कर्म-निष्ठाः द्विजाः केचिद् तपः-निष्ठाः नृप-अपरे । स्वाध्याये अन्ये प्रवचने केचन ज्ञान-योगयोः ॥
karma-niṣṭhāḥ dvijāḥ kecid tapaḥ-niṣṭhāḥ nṛpa-apare . svādhyāye anye pravacane kecana jñāna-yogayoḥ ..
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः २ ॥
ज्ञान-निष्ठाय देयानि कव्यानि आनन्त्यम् इच्छता । दैवे च तद्-अभावे स्यात् इतरेभ्यः यथार्हतः ॥
jñāna-niṣṭhāya deyāni kavyāni ānantyam icchatā . daive ca tad-abhāve syāt itarebhyaḥ yathārhataḥ ..
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ३ ॥
द्वौ दैवे पितृ-कार्ये त्रीन् एकैकम् उभयत्र वा । भोजयेत् सु समृद्धः अपि श्राद्धे कुर्यात् न विस्तरम् ॥
dvau daive pitṛ-kārye trīn ekaikam ubhayatra vā . bhojayet su samṛddhaḥ api śrāddhe kuryāt na vistaram ..
देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ४ ॥
देश-काल-उचित-श्रद्धा द्रव्य-पात्र-अर्हणानि च । सम्यक् भवन्ति न एतानि विस्तरात् स्व-जन-अर्पणात् ॥
deśa-kāla-ucita-śraddhā dravya-pātra-arhaṇāni ca . samyak bhavanti na etāni vistarāt sva-jana-arpaṇāt ..
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ५ ॥
देशे काले च सम्प्राप्ते मुनि-अन्नम् हरि-दैवतम् । श्रद्धया विधिवत् पात्रे न्यस्तम् कामधुक् अक्षयम् ॥
deśe kāle ca samprāpte muni-annam hari-daivatam . śraddhayā vidhivat pātre nyastam kāmadhuk akṣayam ..
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ६ ॥
देव-ऋषि-पितृ-भूतेभ्यः आत्मने स्व-जनाय च । अन्नम् संविभजन् पश्येत् सर्वम् तत् पुरुष-आत्मकम् ॥
deva-ṛṣi-pitṛ-bhūtebhyaḥ ātmane sva-janāya ca . annam saṃvibhajan paśyet sarvam tat puruṣa-ātmakam ..
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ७ ॥
न दद्यात् आमिषम् श्राद्धे न च अद्यात् धर्म-तत्त्व-विद् । मुनि-अन्नैः स्यात् परा प्रीतिः यथा न पशु-हिंसया ॥
na dadyāt āmiṣam śrāddhe na ca adyāt dharma-tattva-vid . muni-annaiḥ syāt parā prītiḥ yathā na paśu-hiṃsayā ..
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ८ ॥
न एतादृशः परः धर्मः नृणाम् सत्-धर्मम् इच्छताम् । न्यासः दण्डस्य भूतेषु मनः-वाच्-काय-जस्य यः ॥
na etādṛśaḥ paraḥ dharmaḥ nṛṇām sat-dharmam icchatām . nyāsaḥ daṇḍasya bhūteṣu manaḥ-vāc-kāya-jasya yaḥ ..
एके कर्ममयान्यज्ञान्ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ९ ॥
एके कर्म-मयान् यज्ञान् ज्ञानिनः यज्ञ-वित्तमाः । आत्म-संयमने अनीहाः जुह्वति ज्ञान-दीपिते ॥
eke karma-mayān yajñān jñāninaḥ yajña-vittamāḥ . ātma-saṃyamane anīhāḥ juhvati jñāna-dīpite ..
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् १० ॥
द्रव्य-यज्ञैः यक्ष्यमाणम् दृष्ट्वा भूतानि बिभ्यति । एष मा अकरुणः हन्यात् अतज्ज्ञः हि असुतृप् ध्रुवम् ॥
dravya-yajñaiḥ yakṣyamāṇam dṛṣṭvā bhūtāni bibhyati . eṣa mā akaruṇaḥ hanyāt atajjñaḥ hi asutṛp dhruvam ..
तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ११ ॥
तस्मात् दैव-उपपन्नेन मुनि-अन्नेन अपि धर्म-विद् । सन्तुष्टः अहरहर् कुर्यात् नित्य-नैमित्तिकीः क्रियाः ॥
tasmāt daiva-upapannena muni-annena api dharma-vid . santuṣṭaḥ aharahar kuryāt nitya-naimittikīḥ kriyāḥ ..
विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् १२ ॥
विधर्मः पर-धर्मः च आभासः उपमा छलः । अधर्म-शाखाः पञ्च इमाः धर्म-ज्ञः अधर्म-वत् त्यजेत् ॥
vidharmaḥ para-dharmaḥ ca ābhāsaḥ upamā chalaḥ . adharma-śākhāḥ pañca imāḥ dharma-jñaḥ adharma-vat tyajet ..
धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः १३ ॥
धर्म-बाधः विधर्मः स्यात् पर-धर्मः अन्य-चोदितः । उपधर्मः तु पाखण्डः दम्भः वा ॥
dharma-bādhaḥ vidharmaḥ syāt para-dharmaḥ anya-coditaḥ . upadharmaḥ tu pākhaṇḍaḥ dambhaḥ vā ..
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये १४ ॥
यः तु इच्छया कृतः पुम्भिः आभासः हि आश्रमात् पृथक् । स्वभाव-विहितः धर्मः कस्य न इष्टः प्रशान्तये ॥
yaḥ tu icchayā kṛtaḥ pumbhiḥ ābhāsaḥ hi āśramāt pṛthak . svabhāva-vihitaḥ dharmaḥ kasya na iṣṭaḥ praśāntaye ..
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा १५ ॥
धर्म-अर्थम् अपि न ईहेत यात्रा-अर्थम् वा अधनः धनम् । अनीहा अनीहमानस्य महा-अहेः इव वृत्ति-दा ॥
dharma-artham api na īheta yātrā-artham vā adhanaḥ dhanam . anīhā anīhamānasya mahā-aheḥ iva vṛtti-dā ..
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः १६ ॥
सन्तुष्टस्य निरीहस्य स्व-आत्म-आरामस्य यत् सुखम् । कुतस् तत् काम-लोभेन धावतः अर्थ-ईहया दिशः ॥
santuṣṭasya nirīhasya sva-ātma-ārāmasya yat sukham . kutas tat kāma-lobhena dhāvataḥ artha-īhayā diśaḥ ..
सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् १७ ॥
सदा सन्तुष्ट-मनसः सर्वाः शिव-मयाः दिशः । शर्करा-कण्टक-आदिभ्यः यथा उपानह् पदः शिवम् ॥
sadā santuṣṭa-manasaḥ sarvāḥ śiva-mayāḥ diśaḥ . śarkarā-kaṇṭaka-ādibhyaḥ yathā upānah padaḥ śivam ..
सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः १८ ॥
सन्तुष्टः केन वा राजन् न वर्तेत अपि वारिणा । औपस्थ्य-जैह्व्य-कार्पण्यात् गृहपालायते जनः ॥
santuṣṭaḥ kena vā rājan na varteta api vāriṇā . aupasthya-jaihvya-kārpaṇyāt gṛhapālāyate janaḥ ..
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते १९ ॥
असन्तुष्टस्य विप्रस्य तेजः विद्या तपः यशः । स्रवन्ति इन्द्रिय-लौल्येन ज्ञानम् च एव अवकीर्यते ॥
asantuṣṭasya viprasya tejaḥ vidyā tapaḥ yaśaḥ . sravanti indriya-laulyena jñānam ca eva avakīryate ..
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः २० ॥
कामस्य अन्तम् हि क्षुध्-तृड्भ्याम् क्रोधस्य एतद्-फल-उदयात् । जनः याति न लोभस्य जित्वा भुक्त्वा दिशः भुवः ॥
kāmasya antam hi kṣudh-tṛḍbhyām krodhasya etad-phala-udayāt . janaḥ yāti na lobhasya jitvā bhuktvā diśaḥ bhuvaḥ ..
पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः । सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः २१ ॥
पण्डिताः बहवः राजन् बहु-ज्ञाः संशय-छिदः । सदसस्पतयः अपि एके असन्तोषात् पतन्ति अधस् ॥
paṇḍitāḥ bahavaḥ rājan bahu-jñāḥ saṃśaya-chidaḥ . sadasaspatayaḥ api eke asantoṣāt patanti adhas ..
असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् २२ ॥
असङ्कल्पात् जयेत् कामम् क्रोधम् काम-विवर्जनात् । अर्थ-अनर्थ-ईक्षया लोभम् भयम् तत्त्व-अवमर्शनात् ॥
asaṅkalpāt jayet kāmam krodham kāma-vivarjanāt . artha-anartha-īkṣayā lobham bhayam tattva-avamarśanāt ..
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान्मौनेन हिंसां कामाद्यनीहया २३ ॥
आन्वीक्षिक्या शोक-मोहौ दम्भम् महत्-उपासया । योग-अन्तरायात् मौनेन हिंसाम् काम-आदि-अनीहया ॥
ānvīkṣikyā śoka-mohau dambham mahat-upāsayā . yoga-antarāyāt maunena hiṃsām kāma-ādi-anīhayā ..
कृपया भूतजं दुःखं दैवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया २४ ॥
कृपया भूत-जम् दुःखम् दैवम् जह्यात् समाधिना । आत्म-जम् योग-वीर्येण निद्राम् सत्त्व-निषेवया ॥
kṛpayā bhūta-jam duḥkham daivam jahyāt samādhinā . ātma-jam yoga-vīryeṇa nidrām sattva-niṣevayā ..
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् २५ ॥
रजः तमः च सत्त्वेन सत्त्वम् च उपशमेन च । एतत् सर्वम् गुरौ भक्त्या पुरुषः हि अञ्जसा जयेत् ॥
rajaḥ tamaḥ ca sattvena sattvam ca upaśamena ca . etat sarvam gurau bhaktyā puruṣaḥ hi añjasā jayet ..
यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् २६ ॥
यस्य साक्षात् भगवति ज्ञान-दीप-प्रदे गुरौ । मर्त्य-असत्-धीः श्रुतम् तस्य सर्वम् कुञ्जर-शौच-वत् ॥
yasya sākṣāt bhagavati jñāna-dīpa-prade gurau . martya-asat-dhīḥ śrutam tasya sarvam kuñjara-śauca-vat ..
एष वै भगवान्साक्षात्प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् २७ ॥
एष वै भगवान् साक्षात् प्रधान-पुरुष-ईश्वरः । योग-ईश्वरैः विमृग्य अङ्घ्रिः लोकः यम् मन्यते नरम् ॥
eṣa vai bhagavān sākṣāt pradhāna-puruṣa-īśvaraḥ . yoga-īśvaraiḥ vimṛgya aṅghriḥ lokaḥ yam manyate naram ..
षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगानावहेयुः श्रमावहाः २८ ॥
षड्वर्ग-संयम-एकान्ताः सर्वाः नियम-चोदनाः । तद्-अन्ताः यदि नो योगान् आवहेयुः श्रम-आवहाः ॥
ṣaḍvarga-saṃyama-ekāntāḥ sarvāḥ niyama-codanāḥ . tad-antāḥ yadi no yogān āvaheyuḥ śrama-āvahāḥ ..
यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः २९ ॥
यथा वार्त्ता-आदयः हि अर्थाः योगस्य अर्थम् न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तम् इष्टम् तथा असतः ॥
yathā vārttā-ādayaḥ hi arthāḥ yogasya artham na bibhrati . anarthāya bhaveyuḥ sma pūrtam iṣṭam tathā asataḥ ..
यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ३० ॥
यः चित्त-विजये यत्तः स्यात् निःसङ्गः अपरिग्रहः । एकः विविक्त-शरणः भिक्षुः भैक्ष्य-मित-अशनः ॥
yaḥ citta-vijaye yattaḥ syāt niḥsaṅgaḥ aparigrahaḥ . ekaḥ vivikta-śaraṇaḥ bhikṣuḥ bhaikṣya-mita-aśanaḥ ..
देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ३१ ॥
देशे शुचौ समे राजन् संस्थाप्य आसनम् आत्मनः । स्थिरम् सुखम् समम् तस्मिन् आसीत ऋजु-अङ्गे ओम् इति ॥
deśe śucau same rājan saṃsthāpya āsanam ātmanaḥ . sthiram sukham samam tasmin āsīta ṛju-aṅge om iti ..
प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकैः । यावन्मनस्त्यजेत्कामान्स्वनासाग्रनिरीक्षणः ३२ ॥
प्राण-अपानौ सन् निरुन्ध्यात् पूर-कुम्भक-रेचकैः । यावत् मनः त्यजेत् कामान् स्व-नासा-अग्र-निरीक्षणः ॥
prāṇa-apānau san nirundhyāt pūra-kumbhaka-recakaiḥ . yāvat manaḥ tyajet kāmān sva-nāsā-agra-nirīkṣaṇaḥ ..
यतो यतो निःसरति मनः कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ३३ ॥
यतस् यतस् निःसरति मनः काम-हतम् भ्रमत् । ततस् ततस् उपाहृत्य हृदि रुन्ध्यात् शनैस् बुधः ॥
yatas yatas niḥsarati manaḥ kāma-hatam bhramat . tatas tatas upāhṛtya hṛdi rundhyāt śanais budhaḥ ..
एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ३४ ॥
एवम् अभ्यस्यतः चित्तम् कालेन अल्पीयसा यतेः । अनिशम् तस्य निर्वाणम् याति अन् इन्धन-वह्नि-वत् ॥
evam abhyasyataḥ cittam kālena alpīyasā yateḥ . aniśam tasya nirvāṇam yāti an indhana-vahni-vat ..
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ३५ ॥
काम-आदिभिः अन् आविद्धम् प्रशान्त-अखिल-वृत्ति यत् । चित्तम् ब्रह्म-सुख-स्पृष्टम् न एव उत्तिष्ठेत कर्हिचित् ॥
kāma-ādibhiḥ an āviddham praśānta-akhila-vṛtti yat . cittam brahma-sukha-spṛṣṭam na eva uttiṣṭheta karhicit ..
यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः । यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः ३६ ॥
यः प्रव्रज्य गृहात् पूर्वम् त्रिवर्ग-आवपनात् पुनर् । यदि सेवेत तान् भिक्षुः स वै वान्त-आशी अपत्रपः ॥
yaḥ pravrajya gṛhāt pūrvam trivarga-āvapanāt punar . yadi seveta tān bhikṣuḥ sa vai vānta-āśī apatrapaḥ ..
यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ३७ ॥
यैः स्व-देहः स्मृतः अनात्मा मर्त्यः विष्-कृमि-भस्म-वत् । ते एनम् आत्मसात् कृत्वा श्लाघयन्ति हि असत्तमाः ॥
yaiḥ sva-dehaḥ smṛtaḥ anātmā martyaḥ viṣ-kṛmi-bhasma-vat . te enam ātmasāt kṛtvā ślāghayanti hi asattamāḥ ..
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ३८ ॥
गृहस्थस्य क्रिया-त्यागः व्रत-त्यागः वटोः अपि । तपस्विनः ग्राम-सेवा भिक्षोः इन्द्रिय-लोल-ता ॥
gṛhasthasya kriyā-tyāgaḥ vrata-tyāgaḥ vaṭoḥ api . tapasvinaḥ grāma-sevā bhikṣoḥ indriya-lola-tā ..
आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः । देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ३९ ॥
आश्रम-अपसदाः हि एते खलु आश्रम-विडम्बनाः । देव-माया-विमूढान् तान् उपेक्षेत अनुकम्पया ॥
āśrama-apasadāḥ hi ete khalu āśrama-viḍambanāḥ . deva-māyā-vimūḍhān tān upekṣeta anukampayā ..
आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः । किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ४० ॥
आत्मानम् चेद् विजानीयात् परम् ज्ञान-धुत-आशयः । किम् इच्छन् कस्य वा हेतोः देहम् पुष्णाति लम्पटः ॥
ātmānam ced vijānīyāt param jñāna-dhuta-āśayaḥ . kim icchan kasya vā hetoḥ deham puṣṇāti lampaṭaḥ ..
आहुः शरीरं रथमिन्द्रियाणि हयानभीषून्मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ४१ ॥
आहुः शरीरम् रथम् इन्द्रियाणि हयान् अभीषु उद् मनः इन्द्रिय-ईशम् । वर्त्मानि मात्राः धिषणाम् च सूतम् सत्त्वम् बृहत्-बन्धुरम् ईश-सृष्टम् ॥
āhuḥ śarīram ratham indriyāṇi hayān abhīṣu ud manaḥ indriya-īśam . vartmāni mātrāḥ dhiṣaṇām ca sūtam sattvam bṛhat-bandhuram īśa-sṛṣṭam ..
अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ४२ ॥
अक्षम् दशप्राणम् अधर्म-धर्मौ चक्रे अभिमानम् रथिनम् च जीवम् । धनुः हि तस्य प्रणवम् पठन्ति शरम् तु जीवम् परम् एव लक्ष्यम् ॥
akṣam daśaprāṇam adharma-dharmau cakre abhimānam rathinam ca jīvam . dhanuḥ hi tasya praṇavam paṭhanti śaram tu jīvam param eva lakṣyam ..
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ४३ ॥
रागः द्वेषः च लोभः च शोक-मोहौ भयम् मदः । मानः अवमानः असूया च माया हिंसा च मत्सरः ॥
rāgaḥ dveṣaḥ ca lobhaḥ ca śoka-mohau bhayam madaḥ . mānaḥ avamānaḥ asūyā ca māyā hiṃsā ca matsaraḥ ..
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः । रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ४४ ॥
रजः प्रमादः क्षुध् निद्रा शत्रवः तु एवमादयः । रजः-तमः-प्रकृतयः सत्त्व-प्रकृतयः क्वचिद् ॥
rajaḥ pramādaḥ kṣudh nidrā śatravaḥ tu evamādayaḥ . rajaḥ-tamaḥ-prakṛtayaḥ sattva-prakṛtayaḥ kvacid ..
यावन्नृकायरथमात्मवशोपकल्पं । धत्ते गरिष्ठचरणार्चनया निशातम् । ज्ञानासिमच्युतबलो दधदस्तशत्रुः । स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ४५ ।
यावत् नृ-काय-रथम् आत्म-वश-उपकल्पम् । धत्ते गरिष्ठ-चरण-अर्चनया निशातम् । ज्ञान-असिम् अच्युत-बलः दधत् अस्त-शत्रुः । स्व-आनन्द-तुष्टः उपशान्तः इदम् विजह्यात् ।
yāvat nṛ-kāya-ratham ātma-vaśa-upakalpam . dhatte gariṣṭha-caraṇa-arcanayā niśātam . jñāna-asim acyuta-balaḥ dadhat asta-śatruḥ . sva-ānanda-tuṣṭaḥ upaśāntaḥ idam vijahyāt .
नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता । नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति । ते दस्यवः सहयसूतममुं तमोऽन्धे । संसारकूप उरुमृत्युभये क्षिपन्ति ४६ ॥
नो चेद् प्रमत्तम् असत्-इन्द्रिय-वाजि-सूता । नीत्वा उत्पथम् विषय-दस्युषु निक्षिपन्ति । ते दस्यवः स हय-सूतम् अमुम् तमः-अन्धे । संसार-कूपे उरु-मृत्यु-भये क्षिपन्ति ॥
no ced pramattam asat-indriya-vāji-sūtā . nītvā utpatham viṣaya-dasyuṣu nikṣipanti . te dasyavaḥ sa haya-sūtam amum tamaḥ-andhe . saṃsāra-kūpe uru-mṛtyu-bhaye kṣipanti ..
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ४७ ॥
प्रवृत्तम् च निवृत्तम् च द्विविधम् कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेन अश्नुते अमृतम् ॥
pravṛttam ca nivṛttam ca dvividham karma vaidikam . āvartate pravṛttena nivṛttena aśnute amṛtam ..
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ४८ ॥
हिंस्रम् द्रव्य-मयम् काम्यम् अग्निहोत्र-आदि-अशान्ति-दम् । दर्शः च पूर्णमासः च चातुर्मास्यम् पशुः सुतः ॥
hiṃsram dravya-mayam kāmyam agnihotra-ādi-aśānti-dam . darśaḥ ca pūrṇamāsaḥ ca cāturmāsyam paśuḥ sutaḥ ..
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयाराम कूपा जीव्यादिलक्षणम् ४९ ॥
एतत् इष्टम् प्रवृत्त-आख्यम् हुतम् प्रहुतम् एव च । पूर्तम् सुरालय-आराम कूपाः जीव्य-आदि-लक्षणम् ॥
etat iṣṭam pravṛtta-ākhyam hutam prahutam eva ca . pūrtam surālaya-ārāma kūpāḥ jīvya-ādi-lakṣaṇam ..
द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ५० ॥
द्रव्य-सूक्ष्म-विपाकः च धूमः रात्रिः अपक्षयः । अयनम् दक्षिणम् सोमः दर्शः ओषधि-वीरुधः ॥
dravya-sūkṣma-vipākaḥ ca dhūmaḥ rātriḥ apakṣayaḥ . ayanam dakṣiṇam somaḥ darśaḥ oṣadhi-vīrudhaḥ ..
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ५१ ॥
अन्नम् रेतः इति क्ष्मा ईश पितृयानम् पुनर्भवः । एकैकश्येन अनुपूर्वम् भूत्वा भूत्वा इह जायते ॥
annam retaḥ iti kṣmā īśa pitṛyānam punarbhavaḥ . ekaikaśyena anupūrvam bhūtvā bhūtvā iha jāyate ..
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः । इन्द्रियेषु क्रियायज्ञान्ज्ञानदीपेषु जुह्वति ५२ ॥
निषेक-आदि-श्मशान-अन्तैः संस्कारैः संस्कृतः द्विजः । इन्द्रियेषु क्रिया-यज्ञान् ज्ञान-दीपेषु जुह्वति ॥
niṣeka-ādi-śmaśāna-antaiḥ saṃskāraiḥ saṃskṛtaḥ dvijaḥ . indriyeṣu kriyā-yajñān jñāna-dīpeṣu juhvati ..
इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः । वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ५३ ॥
इन्द्रियाणि मनसि ऊर्मौ वाचि वैकारिकम् मनः । वाचम् वर्ण-समाम्नाये तम् ओङ्कारे स्वरे न्यसेत् ॥
indriyāṇi manasi ūrmau vāci vaikārikam manaḥ . vācam varṇa-samāmnāye tam oṅkāre svare nyaset ..
ॐकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् । अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ५४ ॥
ओंकारम् बिन्दौ नादे तम् तम् तु प्राणे महति अमुम् । अग्निः सूर्यः दिवा प्राह्णः शुक्लः राका-उत्तरम् स्वराज् । विश्वः अथ तैजसः प्राज्ञः तुर्यः आत्मा समन्वयात् ॥
oṃkāram bindau nāde tam tam tu prāṇe mahati amum . agniḥ sūryaḥ divā prāhṇaḥ śuklaḥ rākā-uttaram svarāj . viśvaḥ atha taijasaḥ prājñaḥ turyaḥ ātmā samanvayāt ..
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ५५ ॥
देव-यानम् इदम् प्राहुः भूत्वा भूत्वा अनुपूर्वशस् । आत्म-याजी उपशान्त-आत्मा हि आत्म-स्थः न निवर्तते ॥
deva-yānam idam prāhuḥ bhūtvā bhūtvā anupūrvaśas . ātma-yājī upaśānta-ātmā hi ātma-sthaḥ na nivartate ..
य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ५६ ॥
ये एते पितृ-देवानाम् अयने वेद-निर्मिते । शास्त्रेण चक्षुषा वेद जन-स्थः अपि न मुह्यति ॥
ye ete pitṛ-devānām ayane veda-nirmite . śāstreṇa cakṣuṣā veda jana-sthaḥ api na muhyati ..
आदावन्ते जनानां सद्बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ५७ ॥
आदौ अन्ते जनानाम् सत् बहिस् अन्तर् परावरम् । ज्ञानम् ज्ञेयम् वचः वाच्यम् तमः ज्योतिः तु अयम् स्वयम् ॥
ādau ante janānām sat bahis antar parāvaram . jñānam jñeyam vacaḥ vācyam tamaḥ jyotiḥ tu ayam svayam ..
आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ५८ ॥
आबाधितः अपि हि आभासः यथा वस्तु-तया स्मृतः । दुर्घट-त्वात् ऐन्द्रियकम् तद्वत् अर्थ-विकल्पितम् ॥
ābādhitaḥ api hi ābhāsaḥ yathā vastu-tayā smṛtaḥ . durghaṭa-tvāt aindriyakam tadvat artha-vikalpitam ..
क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ५९ ॥
क्षिति-आदीनाम् इह अर्थानाम् छाया न कतमा अपि हि । न सङ्घातः विकारः अपि न पृथक् ना अन्वितः मृषा ॥
kṣiti-ādīnām iha arthānām chāyā na katamā api hi . na saṅghātaḥ vikāraḥ api na pṛthak nā anvitaḥ mṛṣā ..
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः ६० ॥
धातवः अवयवि-त्वात् च तन्मात्र-अवयवैः विना । न स्युः हि असति अवयविनि असन् अवयवः अन्ततस् ॥
dhātavaḥ avayavi-tvāt ca tanmātra-avayavaiḥ vinā . na syuḥ hi asati avayavini asan avayavaḥ antatas ..
स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ६१ ॥
स्यात् सादृश्य-भ्रमः तावत् विकल्पे सति वस्तुनः । जाग्रत्-स्वापौ यथा स्वप्ने तथा विधि-निषेध-ता ॥
syāt sādṛśya-bhramaḥ tāvat vikalpe sati vastunaḥ . jāgrat-svāpau yathā svapne tathā vidhi-niṣedha-tā ..
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः ६२ ॥
भाव-अद्वैतम् क्रिया-अद्वैतम् द्रव्य-अद्वैतम् तथा आत्मनः । वर्तयन् स्व-अनुभूत्या इह त्रीन् स्वप्नान् धुनुते मुनिः ॥
bhāva-advaitam kriyā-advaitam dravya-advaitam tathā ātmanaḥ . vartayan sva-anubhūtyā iha trīn svapnān dhunute muniḥ ..
कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ६३ ॥
कार्य-कारण-वस्तु-ऐक्य-दर्शनम् पट-तन्तु-वत् । अवस्तु-त्वात् विकल्पस्य भाव-अद्वैतम् तत् उच्यते ॥
kārya-kāraṇa-vastu-aikya-darśanam paṭa-tantu-vat . avastu-tvāt vikalpasya bhāva-advaitam tat ucyate ..
यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ६४ ॥
यत् ब्रह्मणि परे साक्षात् सर्व-कर्म-समर्पणम् । मनः-वाच्-तनुभिः पार्थ क्रिया-अद्वैतम् तत् उच्यते ॥
yat brahmaṇi pare sākṣāt sarva-karma-samarpaṇam . manaḥ-vāc-tanubhiḥ pārtha kriyā-advaitam tat ucyate ..
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ६५ ॥
आत्म-जाया-सुत-आदीनाम् अन्येषाम् सर्व-देहिनाम् । यत् स्व-अर्थ-कामयोः ऐक्यम् द्रव्य-अद्वैतम् तत् उच्यते ॥
ātma-jāyā-suta-ādīnām anyeṣām sarva-dehinām . yat sva-artha-kāmayoḥ aikyam dravya-advaitam tat ucyate ..
यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ६६ ॥
यदि अस्य वा अ निषिद्धम् स्यात् येन यत्र यतस् नृप । स तेन ईहेत कार्याणि नरः न अन्यैः अनापदि ॥
yadi asya vā a niṣiddham syāt yena yatra yatas nṛpa . sa tena īheta kāryāṇi naraḥ na anyaiḥ anāpadi ..
एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः । गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ्नरः ६७ ॥
एतैः अन्यैः च वेद-उक्तैः वर्तमानः स्व-कर्मभिः । गृहे अपि अस्य गतिम् यायात् राजन् तद्-भक्ति-भाज् नरः ॥
etaiḥ anyaiḥ ca veda-uktaiḥ vartamānaḥ sva-karmabhiḥ . gṛhe api asya gatim yāyāt rājan tad-bhakti-bhāj naraḥ ..
यथा हि यूयं नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवानहार्षीन्निर्जितदिग्गजः क्रतून् ६८ ॥
यथा हि यूयम् नृप-देव दुस्त्यजात् आपद्-गणात् उत्तर-ता-आत्मनः प्रभोः । यद्-पाद-पङ्केरुह-सेवया भवान् अहार्षीत् निर्जित-दिग्गजः क्रतून् ॥
yathā hi yūyam nṛpa-deva dustyajāt āpad-gaṇāt uttara-tā-ātmanaḥ prabhoḥ . yad-pāda-paṅkeruha-sevayā bhavān ahārṣīt nirjita-diggajaḥ kratūn ..
अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ६९ ॥
अहम् पुरा अभवम् कश्चिद् गन्धर्वः उपबर्हणः । नाम्ना अतीते महाकल्पे गन्धर्वाणाम् सु सम्मतः ॥
aham purā abhavam kaścid gandharvaḥ upabarhaṇaḥ . nāmnā atīte mahākalpe gandharvāṇām su sammataḥ ..
रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ७० ॥
। स्त्रीणाम् प्रियतमः नित्यम् मत्तः स्व-पुर-लम्पटः ॥
. strīṇām priyatamaḥ nityam mattaḥ sva-pura-lampaṭaḥ ..
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ७१ ॥
एकदा देव-सत्रे तु गन्धर्व-अप्सरसाम् गणाः । उपहूता विश्वसृग्भिः हरि-गाथा-उपगायने ॥
ekadā deva-satre tu gandharva-apsarasām gaṇāḥ . upahūtā viśvasṛgbhiḥ hari-gāthā-upagāyane ..
अहं च गायंस्तद्विद्वान्स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा । याहि त्वं शूद्र तामाशु नष्टश्रीः कृतहेलनः ७२ ॥
अहम् च गायन् तद्-विद्वान् स्त्रीभिः परिवृतः गतः । ज्ञात्वा विश्वसृजः तत् मे हेलनम् शेपुः ओजसा । याहि त्वम् शूद्र ताम् आशु नष्ट-श्रीः कृत-हेलनः ॥
aham ca gāyan tad-vidvān strībhiḥ parivṛtaḥ gataḥ . jñātvā viśvasṛjaḥ tat me helanam śepuḥ ojasā . yāhi tvam śūdra tām āśu naṣṭa-śrīḥ kṛta-helanaḥ ..
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ७३ ॥
तावत् दास्याम् अहम् जज्ञे तत्र अपि ब्रह्म-वादिनाम् । शुश्रूषया अनुषङ्गेण प्राप्तः अहम् ब्रह्म-पुत्र-ताम् ॥
tāvat dāsyām aham jajñe tatra api brahma-vādinām . śuśrūṣayā anuṣaṅgeṇa prāptaḥ aham brahma-putra-tām ..
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ७४ ॥
धर्मः ते गृहमेधीयः वर्णितः पाप-नाशनः । गृहस्थः येन पदवीम् अञ्जसा न्यासिनाम् इयात् ॥
dharmaḥ te gṛhamedhīyaḥ varṇitaḥ pāpa-nāśanaḥ . gṛhasthaḥ yena padavīm añjasā nyāsinām iyāt ..
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ७५ ॥
यूयम् नृ-लोके बत भूरि-भागाः लोकम् पुनानाः मुनयः अभियन्ति । येषाम् गृहान् आवसति इति साक्षात् गूढम् परम् ब्रह्म मनुष्य-लिङ्गम् ॥
yūyam nṛ-loke bata bhūri-bhāgāḥ lokam punānāḥ munayaḥ abhiyanti . yeṣām gṛhān āvasati iti sākṣāt gūḍham param brahma manuṣya-liṅgam ..
स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ७६ ॥
स वै अयम् ब्रह्म महत् विमृग्य कैवल्य-निर्वाण-सुख-अनुभूतिः । प्रियः सुहृद् वः खलु मातुलेयः आत्म-अर्हणीयः विधि-कृत् गुरुः च ॥
sa vai ayam brahma mahat vimṛgya kaivalya-nirvāṇa-sukha-anubhūtiḥ . priyaḥ suhṛd vaḥ khalu mātuleyaḥ ātma-arhaṇīyaḥ vidhi-kṛt guruḥ ca ..
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ७७ ॥
न यस्य साक्षात् भव-पद्मज-आदिभिः रूपम् धिया वस्तु-तया उपवर्णितम् । मौनेन भक्त्या उपशमेन पूजितः प्रसीदताम् एष स सात्वताम् पतिः ॥
na yasya sākṣāt bhava-padmaja-ādibhiḥ rūpam dhiyā vastu-tayā upavarṇitam . maunena bhaktyā upaśamena pūjitaḥ prasīdatām eṣa sa sātvatām patiḥ ..
श्रीशुक उवाच
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ ७८ ॥
इति देव-ऋषिणा प्रोक्तम् निशम्य भरत-ऋषभः । पूजयामास सु प्रीतः कृष्णम् च प्रेम-विह्वलः ॥ ७८ ॥
iti deva-ṛṣiṇā proktam niśamya bharata-ṛṣabhaḥ . pūjayāmāsa su prītaḥ kṛṣṇam ca prema-vihvalaḥ .. 78 ..
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ ७९ ॥
कृष्ण-पार्थौ उपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णम् परम् ब्रह्म पार्थः परम-विस्मितः ॥ ७९ ॥
kṛṣṇa-pārthau upāmantrya pūjitaḥ prayayau muniḥ . śrutvā kṛṣṇam param brahma pārthaḥ parama-vismitaḥ .. 79 ..
इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ ८० ॥
इति दाक्षायिणीनाम् ते प्रकीर्तिताः । देव-असुर-मनुष्य-आद्याः लोकाः यत्र चर-अचराः ॥ ८० ॥
iti dākṣāyiṇīnām te prakīrtitāḥ . deva-asura-manuṣya-ādyāḥ lokāḥ yatra cara-acarāḥ .. 80 ..
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे वैयासिक्याम् अष्टादश-साहस्र्याम् पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्लाद-अनुचरिते युधिष्ठिर-नारद-संवादे सदाचारनिर्णयः नाम पञ्चदशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe vaiyāsikyām aṣṭādaśa-sāhasryām pāramahaṃsyām saṃhitāyām saptama-skandhe prahlāda-anucarite yudhiṣṭhira-nārada-saṃvāde sadācāranirṇayaḥ nāma pañcadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In