| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपं राजन पर्यंतप्यद्रुषा शुचा ॥१॥
भ्रातरि एवम् विनिहते हरिणा क्रोड-मूर्तिना । हिरण्य-कशिपम् राजन पर्यंतप्य द्रुषा शुचा ॥१॥
bhrātari evam vinihate hariṇā kroḍa-mūrtinā . hiraṇya-kaśipam rājana paryaṃtapya druṣā śucā ..1..
आह चेदं रुषा घुर्णः सन्दष्ट दशनच्छदः । कोपोज्वलदभ्यां चक्षुभ्यां निरीक्षन ध्रुममम्बरम ॥२॥
आह च इदम् रुषा घुर्णः सन्दष्ट दशनच्छदः । कोपः ज्वलत्-अभ्याम् चक्षुभ्याम् ध्रुमम् अम्बरम् ॥२॥
āha ca idam ruṣā ghurṇaḥ sandaṣṭa daśanacchadaḥ . kopaḥ jvalat-abhyām cakṣubhyām dhrumam ambaram ..2..
करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शुलमुद्यम्य सदसि दानवानिदमब्रवीत ॥३॥
कराल-दंष्ट्र-उग्र-दृष्ट्या दुष्प्रेक्ष्य-भ्रुकुटी-मुखः । शुलम् उद्यम्य सदसि दानवान् इदम् अब्रवीत ॥३॥
karāla-daṃṣṭra-ugra-dṛṣṭyā duṣprekṣya-bhrukuṭī-mukhaḥ . śulam udyamya sadasi dānavān idam abravīta ..3..
भो भो दानवदैतेयाः द्विमूर्धस्त्रक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥४॥
भो भो दानव-दैतेयाः द्विमूर्धस्-त्रक्ष शम्बर । शत-बाहो हयग्रीव नमुचे पाकः इल्वल ॥४॥
bho bho dānava-daiteyāḥ dvimūrdhas-trakṣa śambara . śata-bāho hayagrīva namuce pākaḥ ilvala ..4..
विप्रचित्ते मम वचः पुलोमन शकुनादयः । श्रृणुतानन्तरं सर्व क्रियतामाशु मा चिरम ॥५॥
विप्रचित्ते मम वचः पुलोमन शकुन-आदयः । श्रृणुत अनन्तरम् सर्व क्रियताम् आशु मा चिरम् ॥५॥
vipracitte mama vacaḥ pulomana śakuna-ādayaḥ . śrṛṇuta anantaram sarva kriyatām āśu mā ciram ..5..
सपत्नैर्घातितःक्षुद्रैर्भ्राता मे दयितः सुहृत । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥६॥
सपत्नैः घातितः क्षुद्रैः भ्राता मे दयितः सुहृत । पार्ष्णिग्राहेण हरिणा समेन अपि उपधावनैः ॥६॥
sapatnaiḥ ghātitaḥ kṣudraiḥ bhrātā me dayitaḥ suhṛta . pārṣṇigrāheṇa hariṇā samena api upadhāvanaiḥ ..6..
तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥
तस्य त्यक्त-स्वभावस्य घृणेः माया-वनौकसः । भजन्तम् भजमानस्य बालस्य इव अस्थिर-आत्मनः ॥७॥
tasya tyakta-svabhāvasya ghṛṇeḥ māyā-vanaukasaḥ . bhajantam bhajamānasya bālasya iva asthira-ātmanaḥ ..7..
मच्छूलाभिन्नग्रीवस्य भुरिणा रुधिरेण वै । रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥
मद्-शूल-अभिन्न-ग्रीवस्य भुरिणा रुधिरेण वै । रुधिर-प्रियम् तर्पयिष्ये भ्रातरम् मे गत-व्यथः ॥८॥
mad-śūla-abhinna-grīvasya bhuriṇā rudhireṇa vai . rudhira-priyam tarpayiṣye bhrātaram me gata-vyathaḥ ..8..
तस्मिन कुटेऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥९॥
तस्मिन् कुटे अहिते नष्टे कृत्त-मूले वनस्पतौ । विटपाः इव शुष्यन्ति विष्णु-प्राणाः दिवौकसः ॥९॥
tasmin kuṭe ahite naṣṭe kṛtta-mūle vanaspatau . viṭapāḥ iva śuṣyanti viṣṇu-prāṇāḥ divaukasaḥ ..9..
तावद्यात भुवं युयं विप्रक्षत्रसमेधिताम । सुदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥
तावत् यात भुवम् विप्र-क्षत्र-समेधि-ताम । तपः-यज्ञ-स्वाध्याय-व्रत-दानिनः ॥१०॥
tāvat yāta bhuvam vipra-kṣatra-samedhi-tāma . tapaḥ-yajña-svādhyāya-vrata-dāninaḥ ..10..
विष्णूंर्द्विजक्रियामुलो यज्ञो धर्ममयः पुमान । देवर्षिपितृभुतानां धर्मस्य च परयणम ॥११॥
यज्ञः धर्म-मयः । देव-ऋषि-पितृ-भुतानाम् धर्मस्य च ॥११॥
yajñaḥ dharma-mayaḥ . deva-ṛṣi-pitṛ-bhutānām dharmasya ca ..11..
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमः क्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥१२॥
यत्र यत्र द्विजाः गावः वेदाः वर्ण-आश्रमः क्रियाः । तम् तम् जनपदम् यात सन्दीपयत वृश्चत ॥१२॥
yatra yatra dvijāḥ gāvaḥ vedāḥ varṇa-āśramaḥ kriyāḥ . tam tam janapadam yāta sandīpayata vṛścata ..12..
इति ते भुर्तुनिर्देशमादाय शिरसाऽऽदुताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥
इति ते भुर्तु-निर्देशम् आदाय शिरसा आदुताः । तथा प्रजानाम् कदनम् विदधुः कदन-प्रियाः ॥१३॥
iti te bhurtu-nirdeśam ādāya śirasā ādutāḥ . tathā prajānām kadanam vidadhuḥ kadana-priyāḥ ..13..
पुरग्रामव्रजोद्यानक्षेत्रारामा श्रमाकरान । खेटवर्वटघोषांश्च ददहुः पत्तनानि च ॥१४॥
पुर-ग्राम-व्रज-उद्यान-क्षेत्र-आरामा । खेट-वर्वट-घोषान् च ददहुः पत्तनानि च ॥१४॥
pura-grāma-vraja-udyāna-kṣetra-ārāmā . kheṭa-varvaṭa-ghoṣān ca dadahuḥ pattanāni ca ..14..
केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान । आजीव्यांस्चिच्चिदुर्वृक्षान केचित्पशुरपाणयः । प्रादहन शरणान्यन्ये प्रजांना ज्वालितोल्मुकैः ॥१५॥
केचिद् खनित्रैः बिभिदुः सेतु-प्राकार-गोपुरान् । आजीव्यान् चित् चित् उर्वृक्षान् केचिद् पशुः अ पाणयः । शरणानि अन्ये ज्वालित-उल्मुकैः ॥१५॥
kecid khanitraiḥ bibhiduḥ setu-prākāra-gopurān . ājīvyān cit cit urvṛkṣān kecid paśuḥ a pāṇayaḥ . śaraṇāni anye jvālita-ulmukaiḥ ..15..
एवं विप्रकृते लोके दैत्येन्दरानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥
एवम् विप्रकृते लोके दैत्य-इन्दर-अनुचरैः मुहुर् । दिवम् देवाः परित्यज्य भुवि चेरुः अलक्षिताः ॥१६॥
evam viprakṛte loke daitya-indara-anucaraiḥ muhur . divam devāḥ parityajya bhuvi ceruḥ alakṣitāḥ ..16..
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादिनी भ्रातुपुत्रानसान्त्वयत ॥१७॥
हिरण्यकशिपुः भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कट-उदक-आदिनी भ्रातु-पुत्रान् असान्त्वयत ॥१७॥
hiraṇyakaśipuḥ bhrātuḥ samparetasya duḥkhitaḥ . kṛtvā kaṭa-udaka-ādinī bhrātu-putrān asāntvayata ..17..
शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम ॥१८॥
शकुनिम् शम्बरम् धृष्टम् भूतसन्तापनम् वृकम् । कालनाभम् महानाभम् हरिश्मश्रुम् अथ उत्कचम् ॥१८॥
śakunim śambaram dhṛṣṭam bhūtasantāpanam vṛkam . kālanābham mahānābham hariśmaśrum atha utkacam ..18..
तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वरः ॥१९॥
तद्-मातरम् रुषाभानुम् दितिम् च जननीम् गिरा । श्लक्ष्णया देश-काल-ज्ञः इदम् आह जनेश्वरः ॥१९॥
tad-mātaram ruṣābhānum ditim ca jananīm girā . ślakṣṇayā deśa-kāla-jñaḥ idam āha janeśvaraḥ ..19..
हिरण्यकशिपुरुवाच अम्बाम्ब हे वधुः पुत्रा वीरं मार्हथ शोचितुम । रिपोरभिमुखे श्लाघ्यः शुराणां वध ईप्सितः ॥२०॥
हिरण्यकशिपुः उवाच अम्ब अम्ब हे वधुः पुत्राः वीरम् मा अर्हथ शोचितुम् । रिपोः अभिमुखे श्लाघ्यः शुराणाम् वधः ईप्सितः ॥२०॥
hiraṇyakaśipuḥ uvāca amba amba he vadhuḥ putrāḥ vīram mā arhatha śocitum . ripoḥ abhimukhe ślāghyaḥ śurāṇām vadhaḥ īpsitaḥ ..20..
भुतानामिह संवाहः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानं स्वकर्मभिः ॥२१॥
भुतानाम् इह संवाहः प्रपायाम् इव सुव्रते । दैवेन एकत्र नीतानाम् उन्नीतानम् स्व-कर्मभिः ॥२१॥
bhutānām iha saṃvāhaḥ prapāyām iva suvrate . daivena ekatra nītānām unnītānam sva-karmabhiḥ ..21..
नित्य आत्माव्ययःशुद्धः सर्वगः सर्वविप्तरः । धत्तेऽसावात्मनो लिंग मायया विसृजन्गुणान ॥२२॥
नित्यः आत्मा अव्ययः शुद्धः सर्व-गः सर्व-विप्तरः । धत्ते असौ आत्मनः लिंग मायया विसृजन् गुणान् ॥२२॥
nityaḥ ātmā avyayaḥ śuddhaḥ sarva-gaḥ sarva-viptaraḥ . dhatte asau ātmanaḥ liṃga māyayā visṛjan guṇān ..22..
यथा मभसा प्रचलता तरवोऽपि चला इव । चक्षुणा भ्राम्यमाणेन दृश्यते चलतीत भूः ॥२३॥
यथा मभसा प्रचलता तरवः अपि चलाः इव । चक्षुणा भ्राम्यमाणेन दृश्यते चलति इत भूः ॥२३॥
yathā mabhasā pracalatā taravaḥ api calāḥ iva . cakṣuṇā bhrāmyamāṇena dṛśyate calati ita bhūḥ ..23..
एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान । याति तत्साम्य्ततां भद्रे ह्यालिंगोलिंगवानिव ॥२४॥
एवम् गुणैः भ्राम्यमाणे मनसि अविकलः । याति भद्रे हि आलिंगः उलिंगवान् इव ॥२४॥
evam guṇaiḥ bhrāmyamāṇe manasi avikalaḥ . yāti bhadre hi āliṃgaḥ uliṃgavān iva ..24..
एष आत्मविपर्यासो ह्यालिंगेः लिंगभावना । एष प्रियाप्रिर्यैर्योगो वियोगः कर्मसंसृतिः ॥२५॥
एषः आत्म-विपर्यासः हि आलिंगेः लिंग-भावना । एष प्रिय-अप्रिः यैः योगः वियोगः कर्म-संसृतिः ॥२५॥
eṣaḥ ātma-viparyāsaḥ hi āliṃgeḥ liṃga-bhāvanā . eṣa priya-apriḥ yaiḥ yogaḥ viyogaḥ karma-saṃsṛtiḥ ..25..
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेक्श्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥
सम्भवः च विनाशः च शोकः च विविधः स्मृतः । अविवेकः च चिन्ता च विवेक-अस्मृतिः एव च ॥२६॥
sambhavaḥ ca vināśaḥ ca śokaḥ ca vividhaḥ smṛtaḥ . avivekaḥ ca cintā ca viveka-asmṛtiḥ eva ca ..26..
अत्राप्युदहरन्तीममितिहासं पुरातनम । यमस्य प्रेतबन्धुनां संवादं तं निबोधत ॥२७॥
अत्र अपि उदहरन्ति इमम् इतिहासम् पुरातनम् । यमस्य प्रेत-बन्धुनाम् संवादम् तम् निबोधत ॥२७॥
atra api udaharanti imam itihāsam purātanam . yamasya preta-bandhunām saṃvādam tam nibodhata ..27..
उशीनरेष्वभुद्राचा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥
सुयज्ञः इति विश्रुतः । सपत्नैः निहतः युद्धे ज्ञातयः तम् उपासत ॥२८॥
suyajñaḥ iti viśrutaḥ . sapatnaiḥ nihataḥ yuddhe jñātayaḥ tam upāsata ..28..
विशीर्णरत्नकवचं विभ्रष्टाबह्रणस्रजम । शरनिर्भिन्नहृदयं शयानमसृगाविलम ॥२९॥
विशीर्ण-रत्न-कवचम् । शर-निर्भिन्न-हृदयम् शयानम् असृज्-आविलम् ॥२९॥
viśīrṇa-ratna-kavacam . śara-nirbhinna-hṛdayam śayānam asṛj-āvilam ..29..
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम । रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मॄधे ॥३०॥
प्रकीर्ण-केशम् ध्वस्त-अक्षम् रभसा । रजः कुण्ठ-मुख-अम्भोजम् छिन्न-आयुध-भुजम् ॥३०॥
prakīrṇa-keśam dhvasta-akṣam rabhasā . rajaḥ kuṇṭha-mukha-ambhojam chinna-āyudha-bhujam ..30..
उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन ॥३१॥
उशीनर-इन्द्रम् विधिना तथा कृतम् पतिम् महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथ इति करैः उरः भृशम् घ्नन्त्यः मुहुर् तद्-पदयोः उपापतन ॥३१॥
uśīnara-indram vidhinā tathā kṛtam patim mahiṣyaḥ prasamīkṣya duḥkhitāḥ . hatāḥ sma nātha iti karaiḥ uraḥ bhṛśam ghnantyaḥ muhur tad-padayoḥ upāpatana ..31..
रुदत्य उच्चेर्दयितांडघ्रिपंकज सिचंन्त्य अस्त्रैः कुचकुडकुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥
रुदत्यः अस्त्रैः कुच-कुडकुम-अरुणैः । विस्रस्त-केश-आभरणाः शुचम् नृणाम् सृजन्त्यः आक्रन्दनया विलेपिरे ॥३२॥
rudatyaḥ astraiḥ kuca-kuḍakuma-aruṇaiḥ . visrasta-keśa-ābharaṇāḥ śucam nṛṇām sṛjantyaḥ ākrandanayā vilepire ..32..
अहो विधात्राकरुणेन नः प्रभो भवान प्रणीतो दृदगोचरां दशाम । उशीनराणामासि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः ॥३३॥
अहो विधात्रा अकरुणेन नः प्रभो भवान प्रणीतः दृद-गोचराम् दशाम । उशीनराणाम् आसि वृत्ति-दः पुरा कृतः अधुना येन शुचाम् विवर्धनः ॥३३॥
aho vidhātrā akaruṇena naḥ prabho bhavāna praṇītaḥ dṛda-gocarām daśāma . uśīnarāṇām āsi vṛtti-daḥ purā kṛtaḥ adhunā yena śucām vivardhanaḥ ..33..
त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रुषतीनां दिशं यत्र यास्यसि ॥३४॥
त्वया कृतज्ञेन वयम् महीपते कथम् विना स्याम सुहृत्तमेन ते । तत्र अनुयानम् तव वीर पादयोः शुश्रुषतीनाम् दिशम् यत्र यास्यसि ॥३४॥
tvayā kṛtajñena vayam mahīpate katham vinā syāma suhṛttamena te . tatra anuyānam tava vīra pādayoḥ śuśruṣatīnām diśam yatra yāsyasi ..34..
एवं विलपतीनांवै परिगृह्या मृतं पतिम । अनिच्छतीनां निर्हारकार्कोऽस्तं संन्यवर्तत ॥३५॥
एवम् विलपतीनाम् वै परिगृह्य मृतम् । अन् इच्छतीनाम् निर्हारक-अर्कः अस्तम् संन्यवर्तत ॥३५॥
evam vilapatīnām vai parigṛhya mṛtam . an icchatīnām nirhāraka-arkaḥ astam saṃnyavartata ..35..
तत्र ह प्रेतबन्धुनामाश्रुत्य परिदेवितम । आह तान बालको भुत्वा यमः स्वय्मुपागतः ॥३६॥
तत्र ह प्रेत-बन्धु-नाम आश्रुत्य परिदेवितम् । आह तान बालकः भुत्वा यमः स्वय्म् उपागतः ॥३६॥
tatra ha preta-bandhu-nāma āśrutya paridevitam . āha tāna bālakaḥ bhutvā yamaḥ svaym upāgataḥ ..36..
यम उवाच अहो अमीषां वयसाधिकांनी विपश्यतां लोकविधि विमोहः । यत्रगतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम ॥३७॥
यमः उवाच अहो अमीषाम् विपश्यताम् लोक-विधि विमोहः । यत्र गतः तत्र गतम् मनुष्यम् स्वयम् सधर्माः अपि शोचन्ति अपार्थम ॥३७॥
yamaḥ uvāca aho amīṣām vipaśyatām loka-vidhi vimohaḥ . yatra gataḥ tatra gatam manuṣyam svayam sadharmāḥ api śocanti apārthama ..37..
अहो वयं धन्यतमा यदत्र त्यक्ता पितृषां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि नर्भे ॥३८॥
अहो वयम् धन्यतमाः यत् अत्र त्यक्ता पितृषाम् न विचिन्तयामः । अ भक्ष्यमाणाः अबलाः वृक-आदिभिः स रक्षिता रक्षति यः हि न ऋभे ॥३८॥
aho vayam dhanyatamāḥ yat atra tyaktā pitṛṣām na vicintayāmaḥ . a bhakṣyamāṇāḥ abalāḥ vṛka-ādibhiḥ sa rakṣitā rakṣati yaḥ hi na ṛbhe ..38..
य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरेशितु श्चराचरं निग्रहसंग्रेहे प्रभुः ॥३९॥
यः इच्छया ईशः सृजति इदम् अव्ययः यः एव रक्षति अवलुम्पते च यः । तस्य अबलाः क्रीडनम् आहुः एशितुः चराचरम् निग्रह-संग्रेहे प्रभुः ॥३९॥
yaḥ icchayā īśaḥ sṛjati idam avyayaḥ yaḥ eva rakṣati avalumpate ca yaḥ . tasya abalāḥ krīḍanam āhuḥ eśituḥ carācaram nigraha-saṃgrehe prabhuḥ ..39..
पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥४०॥
पथि च्युतम् तिष्ठति दिष्ट-रक्षितम् गृहे स्थितम् तत् विहतम् विनश्यति । जीवति अनाथः अपि तद्-ईक्षितः वने गृहे अपि गुप्तः अस्य हतः न जीवति ॥४०॥
pathi cyutam tiṣṭhati diṣṭa-rakṣitam gṛhe sthitam tat vihatam vinaśyati . jīvati anāthaḥ api tad-īkṣitaḥ vane gṛhe api guptaḥ asya hataḥ na jīvati ..40..
भुतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थित स्तस्या गुणैरन्यतमो निबध्यते ॥४१॥
भुतानि तैः तैः निज-योनि-कर्मभिः भवन्ति काले न भवन्ति सर्वशस् । न तत्र ह आत्मा प्रकृतौ अपि स्थितः स्तस्याः गुणैः अन्यतमः निबध्यते ॥४१॥
bhutāni taiḥ taiḥ nija-yoni-karmabhiḥ bhavanti kāle na bhavanti sarvaśas . na tatra ha ātmā prakṛtau api sthitaḥ stasyāḥ guṇaiḥ anyatamaḥ nibadhyate ..41..
इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भीतिकमीयते गृहम । यथौदकैः पार्थिवतैजसैर्जनः कालेनःजातो विकृतो विनश्यति ॥४२॥
इदम् शरीरम् पुरुषस्य मोह-जम् यथा पृथक् भीतिकम् ईयते गृहम् । यथा औदकैः पार्थिव-तैजसैः जनः विकृतः विनश्यति ॥४२॥
idam śarīram puruṣasya moha-jam yathā pṛthak bhītikam īyate gṛham . yathā audakaiḥ pārthiva-taijasaiḥ janaḥ vikṛtaḥ vinaśyati ..42..
यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक स्थितः । यथा नभः सर्वगतं ग सज्जते तथा पुमान सर्वगुणाश्रयः परः ॥४३॥
यथा अनलः दारुषु भिन्नः ईयते यथा अनिलः देह-गतः पृथक स्थितः । यथा नभः सर्व-गतम् सज्जते तथा सर्व-गुण-आश्रयः परः ॥४३॥
yathā analaḥ dāruṣu bhinnaḥ īyate yathā anilaḥ deha-gataḥ pṛthaka sthitaḥ . yathā nabhaḥ sarva-gatam sajjate tathā sarva-guṇa-āśrayaḥ paraḥ ..43..
सुयज्ञो नन्वयं शेते मुढा यमनुशोचथ । यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित ॥४४॥
सु यज्ञः ननु अयम् शेते मुढाः यम् अनुशोचथ । यः श्रोता यः अनुवक्ता इह स न दृश्येत कर्हिचित ॥४४॥
su yajñaḥ nanu ayam śete muḍhāḥ yam anuśocatha . yaḥ śrotā yaḥ anuvaktā iha sa na dṛśyeta karhicita ..44..
न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः । यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥४५॥
न श्रोता न अनुवक्ता अयम् मुख्यः अपि अत्र महान् असुः । यः तु इह इन्द्रियवान् आत्मा स च अन्यः प्राण-देहयोः ॥४५॥
na śrotā na anuvaktā ayam mukhyaḥ api atra mahān asuḥ . yaḥ tu iha indriyavān ātmā sa ca anyaḥ prāṇa-dehayoḥ ..45..
भुतेन्द्रियमनोलिंगन देहानुच्चावचान विभूः । भजत्युत्सृजति ह्यान्यस्तच्चपि स्वेन तेजसा ॥४६॥
विभूः । भजति उत्सृजति हि आन्यः तत् च अपि स्वेन तेजसा ॥४६॥
vibhūḥ . bhajati utsṛjati hi ānyaḥ tat ca api svena tejasā ..46..
यावाल्लिंगन्वितो ह्यात्मा तावत कर्म निबन्धनम । ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥
यावान् लिंग-अन्वितः हि आत्मा कर्म निबन्धनम् । ततस् विपर्ययः क्लेशः माया-योगः अनुवर्तते ॥४७॥
yāvān liṃga-anvitaḥ hi ātmā karma nibandhanam . tatas viparyayaḥ kleśaḥ māyā-yogaḥ anuvartate ..47..
वितथाभिनिवेशोऽयं यद गुणैष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥
वितथ-अभिनिवेशः अयम् गुणैषु अर्थ-दृश् वचः । यथा मनोरथः स्वप्नः सर्वम् ऐन्द्रियकम् मृषा ॥४८॥
vitatha-abhiniveśaḥ ayam guṇaiṣu artha-dṛś vacaḥ . yathā manorathaḥ svapnaḥ sarvam aindriyakam mṛṣā ..48..
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तृं स्वभावः शोचतामिति ॥४९॥
अथ नित्यम् अनित्यम् वा न इह शोचन्ति तद्-विदः । न अन्यथा शक्यते कर्तृम् स्वभावः शोचताम् इति ॥४९॥
atha nityam anityam vā na iha śocanti tad-vidaḥ . na anyathā śakyate kartṛm svabhāvaḥ śocatām iti ..49..
लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन ॥५०॥
लुब्धकः विपिने कश्चिद् पक्षिणाम् निर्मितः अन्तकः । वितत्य जालम् विदधे तत्र तत्र प्रलोभयन ॥५०॥
lubdhakaḥ vipine kaścid pakṣiṇām nirmitaḥ antakaḥ . vitatya jālam vidadhe tatra tatra pralobhayana ..50..
कुलिंगमिथुनं तत्र विचरत्समदृश्यत । तयोः कुलिंगीं सहसा लुब्धकेन प्रलोभिता ॥५१॥
कुलिंग-मिथुनम् तत्र विचरत् समदृश्यत । तयोः कुलिंगीम् सहसा लुब्धकेन प्रलोभिता ॥५१॥
kuliṃga-mithunam tatra vicarat samadṛśyata . tayoḥ kuliṃgīm sahasā lubdhakena pralobhitā ..51..
सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता । कुलिंगस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयतः ॥५२॥
सा असज्जत शिचः तन्त्याम् महिषी काल-यन्त्रिता । कुलिंगः ताम् तथा आपन्नाम् निरीक्ष्य भृश-दुःखितः । स्नेहात् अकल्पः कृपणः कृपणाम् ॥५२॥
sā asajjata śicaḥ tantyām mahiṣī kāla-yantritā . kuliṃgaḥ tām tathā āpannām nirīkṣya bhṛśa-duḥkhitaḥ . snehāt akalpaḥ kṛpaṇaḥ kṛpaṇām ..52..
अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः । कृपणं मानुशोचन्त्त्या दीनया किं करिष्यति ॥५३॥
अहो अकरुणः देवः स्त्रिया आकरुणया विभुः । कृपणम् मा अनुशोचन्त्त्या दीनया किम् करिष्यति ॥५३॥
aho akaruṇaḥ devaḥ striyā ākaruṇayā vibhuḥ . kṛpaṇam mā anuśocanttyā dīnayā kim kariṣyati ..53..
कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥
कामम् नयतु माम् देवः किम् अर्धेन आत्मनः हि मे । दीनेन जीवता दुःखम् अनेन विधुर-आयुषा ॥५४॥
kāmam nayatu mām devaḥ kim ardhena ātmanaḥ hi me . dīnena jīvatā duḥkham anena vidhura-āyuṣā ..54..
कथं त्वजातपक्षांस्तान मातृहीनाना बिभर्म्यहम । मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥
कथम् तु अजात-पक्षान् तान् बिभर्मि अहम । मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरम् प्रजाः ॥५५॥
katham tu ajāta-pakṣān tān bibharmi ahama . mandabhāgyaḥ pratīkṣante nīḍe me mātaram prajāḥ ..55..
एवं कुलिंग विलपन्तमारात प्रियवियोगातुरमश्रुकण्ठम । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥५६॥
एवम् कुलिंग विलपन्तम् आरात प्रिय-वियोग-आतुरम् अश्रु-कण्ठम् । सः एव तम् शाकुनिकः शरेण विव्याध काल-प्रहितः विलीनः ॥५६॥
evam kuliṃga vilapantam ārāta priya-viyoga-āturam aśru-kaṇṭham . saḥ eva tam śākunikaḥ śareṇa vivyādha kāla-prahitaḥ vilīnaḥ ..56..
एवं युयमपश्यन्त्य आत्मापायमबुद्धयाः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥
एवम् युयम् अपश्यन्त्यः आत्म-अपायम् अबुद्धयाः । न एनम् प्राप्स्यथ शोचन्त्यः पतिम् वर्ष-शतैः अपि ॥५७॥
evam yuyam apaśyantyaḥ ātma-apāyam abuddhayāḥ . na enam prāpsyatha śocantyaḥ patim varṣa-śataiḥ api ..57..
हिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम ॥५८॥
हिरण्यकशिपुः उवाच बालः एवम् प्रवदति सर्वे विस्मित-चेतसः । ज्ञातयः मेनिरे सर्वम् अनित्यम् अयथा उत्थितम् ॥५८॥
hiraṇyakaśipuḥ uvāca bālaḥ evam pravadati sarve vismita-cetasaḥ . jñātayaḥ menire sarvam anityam ayathā utthitam ..58..
यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परयिकम ॥५९॥
यमः एतत् उपाख्याय तत्र एव अन्तरधीयत । ज्ञातयः अपि सुयज्ञस्य चक्रुः यत् साम्परयिकम् ॥५९॥
yamaḥ etat upākhyāya tatra eva antaradhīyata . jñātayaḥ api suyajñasya cakruḥ yat sāmparayikam ..59..
ततः शोचत मा युयं परं चात्मानमेव च । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम ॥६०॥
ततस् शोचत मा परम् च आत्मानम् एव च । कः आत्मा कः परः वा अत्र स्वीयः पारक्यः एव वा । स्व-पर-अभिनिवेशेन विना अज्ञानेन देहिनाम नाम ॥६०॥
tatas śocata mā param ca ātmānam eva ca . kaḥ ātmā kaḥ paraḥ vā atra svīyaḥ pārakyaḥ eva vā . sva-para-abhiniveśena vinā ajñānena dehināma nāma ..60..
नारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात्यक्त्वा तत्त्वे चित्तमधारयत ॥६१॥
नारदः उवाच इति दैत्य-पतेः वाक्यम् दितिः आकर्ण्य स स्नुषा । पुत्र-शोकम् तत्त्वे चित्तम् अधारयत ॥६१॥
nāradaḥ uvāca iti daitya-pateḥ vākyam ditiḥ ākarṇya sa snuṣā . putra-śokam tattve cittam adhārayata ..61..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥२॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितांयाम् सप्तम-स्कन्धे दितिशोकापनयनम् नाम द्वितीयः अध्यायः ॥२॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāṃyām saptama-skandhe ditiśokāpanayanam nāma dvitīyaḥ adhyāyaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In