| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत १ ।
हिरण्यकशिपुः राजन् अजेयम् अजर-अमरम् । आत्मानम् अप्रतिद्वन्द्वम् एक-राजम् व्यधित्सत ।
hiraṇyakaśipuḥ rājan ajeyam ajara-amaram . ātmānam apratidvandvam eka-rājam vyadhitsata .
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः २ ।
स तेपे मन्दर-द्रोण्याम् तपः परम-दारुणम् । ऊर्ध्वबाहुः नभः-दृष्टिः पादाङ्गुष्ठ-आश्रित-अवनिः ।
sa tepe mandara-droṇyām tapaḥ parama-dāruṇam . ūrdhvabāhuḥ nabhaḥ-dṛṣṭiḥ pādāṅguṣṭha-āśrita-avaniḥ .
जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ३ ।
जटा-दीधितिभिः रेजे संवर्त-अर्कः इव अंशुभिः । तस्मिन् तपः तप्यमाने देवाः स्थानानि भेजिरे ।
jaṭā-dīdhitibhiḥ reje saṃvarta-arkaḥ iva aṃśubhiḥ . tasmin tapaḥ tapyamāne devāḥ sthānāni bhejire .
तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधो लोकान्प्रातपद्विष्वगीरितः ४ ।
तस्य मूर्ध्नः समुद्भूतः स धूमः अग्निः तपः-मयः । तिर्यक् ऊर्ध्वम् अधस् लोकान् प्रातपत् विष्वक्-ईरितः ।
tasya mūrdhnaḥ samudbhūtaḥ sa dhūmaḥ agniḥ tapaḥ-mayaḥ . tiryak ūrdhvam adhas lokān prātapat viṣvak-īritaḥ .
चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रि श्चचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ५ ।
चुक्षुभुः नदी-उदन्वन्तः स द्वीप-अद्रि श्चचाल भूः । निपेतुः स ग्रहाः ताराः जज्वलुः च दिशः दश ।
cukṣubhuḥ nadī-udanvantaḥ sa dvīpa-adri ścacāla bhūḥ . nipetuḥ sa grahāḥ tārāḥ jajvaluḥ ca diśaḥ daśa .
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते ६ ।
तेन तप्ताः दिवम् त्यक्त्वा ब्रह्म-लोकम् ययुः सुराः । धात्रे विज्ञापयामासुः देवदेव जगत्पते ।
tena taptāḥ divam tyaktvā brahma-lokam yayuḥ surāḥ . dhātre vijñāpayāmāsuḥ devadeva jagatpate .
दैत्येन्द्र तपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन्विधेहि यदि मन्यसे ७ ।
दैत्य-इन्द्र तपसा तप्ताः दिवि स्थातुम् न शक्नुमः । तस्य च उपशमम् भूमन् विधेहि यदि मन्यसे ।
daitya-indra tapasā taptāḥ divi sthātum na śaknumaḥ . tasya ca upaśamam bhūman vidhehi yadi manyase .
लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः । तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः ८ ।
लोकाः न यावत् नङ्क्ष्यन्ति बलि-हाराः तव अभिभूः । तस्य अयम् किल सङ्कल्पः चरतः दुश्चरम् तपः ।
lokāḥ na yāvat naṅkṣyanti bali-hārāḥ tava abhibhūḥ . tasya ayam kila saṅkalpaḥ carataḥ duścaram tapaḥ .
सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ९ ।
सृष्ट्वा चराचरम् इदम् तपः-योग-समाधिना । अध्यास्ते सर्व-धिष्ण्येभ्यः परमेष्ठी निज-आसनम् ।
sṛṣṭvā carācaram idam tapaḥ-yoga-samādhinā . adhyāste sarva-dhiṣṇyebhyaḥ parameṣṭhī nija-āsanam .
तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मनः १० ।
तत् अहम् वर्धमानेन तपः-योग-समाधिना । काल-आत्मनोः च नित्य-त्वात् साधयिष्ये तथा आत्मनः ।
tat aham vardhamānena tapaḥ-yoga-samādhinā . kāla-ātmanoḥ ca nitya-tvāt sādhayiṣye tathā ātmanaḥ .
अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ११ ।
अन्यथा इदम् विधास्ये अहम् अयथा पूर्वम् ओजसा । किम् अन्यैः काल-निर्धूतैः कल्प-अन्ते वैष्णव-आदिभिः ।
anyathā idam vidhāsye aham ayathā pūrvam ojasā . kim anyaiḥ kāla-nirdhūtaiḥ kalpa-ante vaiṣṇava-ādibhiḥ .
इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर १२ ।
इति शुश्रुम निर्बन्धम् तपः परमम् आस्थितः । विधत्स्व अनन्तरम् युक्तम् स्वयम् त्रिभुवन-ईश्वर ।
iti śuśruma nirbandham tapaḥ paramam āsthitaḥ . vidhatsva anantaram yuktam svayam tribhuvana-īśvara .
तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च १३ ।
तव आसनम् द्विजगवाम् पारमेष्ठ्यम् जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ।
tava āsanam dvijagavām pārameṣṭhyam jagatpate . bhavāya śreyase bhūtyai kṣemāya vijayāya ca .
इति विज्ञापितो देवैर्भगवानात्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् १४ ।
इति विज्ञापितः देवैः भगवान् आत्मभूः नृप । परितस् भृगु-दक्ष-आद्यैः ययौ दैत्य-ईश्वर-आश्रमम् ।
iti vijñāpitaḥ devaiḥ bhagavān ātmabhūḥ nṛpa . paritas bhṛgu-dakṣa-ādyaiḥ yayau daitya-īśvara-āśramam .
न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् १५ ।
न ददर्श प्रतिच्छन्नम् वल्मीक-तृण-कीचकैः । पिपीलिकाभिः आचीर्णम् मेदः त्वच्-मांस-शोणितम् ।
na dadarśa praticchannam valmīka-tṛṇa-kīcakaiḥ . pipīlikābhiḥ ācīrṇam medaḥ tvac-māṃsa-śoṇitam .
तपन्तं तपसा लोकान्यथाभ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः १६ ।
तपन्तम् तपसा लोकान् यथा अभ्र-अपिहितम् रविम् । विलक्ष्य विस्मितः प्राह हसन् तम् हंसवाहनः ।
tapantam tapasā lokān yathā abhra-apihitam ravim . vilakṣya vismitaḥ prāha hasan tam haṃsavāhanaḥ .
श्रीब्रह्मोवाच ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप । वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः १७ ।
उत्तिष्ठ उत्तिष्ठ भद्रम् ते तपः-सिद्धः असि काश्यप । वर-दः अहम् अनुप्राप्तः व्रियताम् ईप्सितः वरः ।
uttiṣṭha uttiṣṭha bhadram te tapaḥ-siddhaḥ asi kāśyapa . vara-daḥ aham anuprāptaḥ vriyatām īpsitaḥ varaḥ .
अद्रा क्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते १८ ।
अद्रा क्षम् अहम् एतम् ते हृद्-सारम् महत् अद्भुतम् । दंश-भक्षित-देहस्य प्राणाः हि अस्थिषु शेरते ।
adrā kṣam aham etam te hṛd-sāram mahat adbhutam . daṃśa-bhakṣita-dehasya prāṇāḥ hi asthiṣu śerate .
नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् १९ ।
न एतत् पूर्व-ऋषयः चक्रुः न करिष्यन्ति च अपरे । निरम्बुः धारयेत् प्राणान् कः वै दिव्य-समाः शतम् ।
na etat pūrva-ṛṣayaḥ cakruḥ na kariṣyanti ca apare . nirambuḥ dhārayet prāṇān kaḥ vai divya-samāḥ śatam .
व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवताजितोऽहं दितिनन्दन २० ।
व्यवसायेन ते अनेन दुष्करेण मनस्विनाम् । तपः-निष्ठेन भवता अजितः अहम् दिति-नन्दन ।
vyavasāyena te anena duṣkareṇa manasvinām . tapaḥ-niṣṭhena bhavatā ajitaḥ aham diti-nandana .
ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम २१ ।
ततस् ते आशिषः सर्वाः ददामि असुर-पुङ्गव । मर्तस्य ते हि अमर्तस्य दर्शनम् न अफलम् मम ।
tatas te āśiṣaḥ sarvāḥ dadāmi asura-puṅgava . martasya te hi amartasya darśanam na aphalam mama .
श्रीनारद उवाच ।
इ त्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः! । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा २२ ।
इ ति उक्त्वा आदिभवः देवः भक्षित-अङ्गम् पिपीलिकैः! । कमण्डलु-जलेन औक्षत् दिव्येन अमोघ-राधसा ।
i ti uktvā ādibhavaḥ devaḥ bhakṣita-aṅgam pipīlikaiḥ! . kamaṇḍalu-jalena aukṣat divyena amogha-rādhasā .
स तत्कीचकवल्मीकात्सहओजोबलान्वितः । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधसः २३ ।
स तत् कीचक-वल्मीकात् सहः-ओजः-बल-अन्वितः । सर्व-अवयव-सम्पन्नः वज्र-संहननः युवा । उत्थितः तप्त-हेम-आभः विभावसुः इव एधसः ।
sa tat kīcaka-valmīkāt sahaḥ-ojaḥ-bala-anvitaḥ . sarva-avayava-sampannaḥ vajra-saṃhananaḥ yuvā . utthitaḥ tapta-hema-ābhaḥ vibhāvasuḥ iva edhasaḥ .
स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः २४ ।
स निरीक्ष्य अम्बरे देवम् हंस-वाहम् उपस्थितम् । ननाम शिरसा भूमौ तद्-दर्शन-महा-उत्सवः ।
sa nirīkṣya ambare devam haṃsa-vāham upasthitam . nanāma śirasā bhūmau tad-darśana-mahā-utsavaḥ .
उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् । हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् २५ ।
उत्थाय प्राञ्जलिः प्रह्वः ईक्षमाणः दृशा विभुम् । हर्ष-अश्रु-पुलक-उद्भेदः गिरा गद्गदया अगृणात् ।
utthāya prāñjaliḥ prahvaḥ īkṣamāṇaḥ dṛśā vibhum . harṣa-aśru-pulaka-udbhedaḥ girā gadgadayā agṛṇāt .
श्रीहिरण्यकशिपुरुवाच ।
कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् । अभिव्यनग्जगदिदं स्वयञ्ज्योतिः स्वरोचिषा २६ ।
कल्प-अन्ते काल-सृष्टेन यः अन्धेन तमसा आवृतम् । अभिव्यनक् जगत् इदम् स्वयन् ज्योतिः स्व-रोचिषा ।
kalpa-ante kāla-sṛṣṭena yaḥ andhena tamasā āvṛtam . abhivyanak jagat idam svayan jyotiḥ sva-rociṣā .
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्त्वतमोधाम्ने पराय महते नमः २७ ।
आत्मना त्रिवृता च इदम् सृजति अवति लुम्पति । रजः-सत्त्व-तमः-धाम्ने पराय महते नमः ।
ātmanā trivṛtā ca idam sṛjati avati lumpati . rajaḥ-sattva-tamaḥ-dhāmne parāya mahate namaḥ .
नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रि यमनोबुद्धि विकारैर्व्यक्तिमीयुषे २८ ।
नमः आद्याय बीजाय ज्ञान-विज्ञान-मूर्तये । प्राण-इन्द्रि य-मनः-बुद्धि विकारैः व्यक्तिम् ईयुषे ।
namaḥ ādyāya bījāya jñāna-vijñāna-mūrtaye . prāṇa-indri ya-manaḥ-buddhi vikāraiḥ vyaktim īyuṣe .
त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तैर्मनैन्द्रि याणां पतिर्महान्भूतगुणाशयेशः २९ ।
त्वम् ईशिषे जगतः तस्थुषः च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य पतिः महान् भूत-गुण-आशय-ईशः ।
tvam īśiṣe jagataḥ tasthuṣaḥ ca prāṇena mukhyena patiḥ prajānām . cittasya patiḥ mahān bhūta-guṇa-āśaya-īśaḥ .
त्वं सप्ततन्तून्वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादिरनन्तपारः कविरन्तरात्मा ३० ।
त्वम् सप्त-तन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रक-विद्यया च । त्वम् एकः आत्मा आत्मवताम् अनादिः अनन्त-पारः कविः अन्तरात्मा ।
tvam sapta-tantūn vitanoṣi tanvā trayyā caturhotraka-vidyayā ca . tvam ekaḥ ātmā ātmavatām anādiḥ ananta-pāraḥ kaviḥ antarātmā .
त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यवयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा ३१ ।
त्वम् एव कालः अनिमिषः जनानाम् आयुः-लव-आदि-अवयवैः क्षिणोषि । कूटस्थः आत्मा परमेष्ठी अजः महान् त्वम् जीव-लोकस्य च जीवः आत्मा ।
tvam eva kālaḥ animiṣaḥ janānām āyuḥ-lava-ādi-avayavaiḥ kṣiṇoṣi . kūṭasthaḥ ātmā parameṣṭhī ajaḥ mahān tvam jīva-lokasya ca jīvaḥ ātmā .
त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चिद्व्यतिरिक्तमस्ति । विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः ३२ ।
त्वत्तः परम् न अपरम् अपि अनेजत् एजत् च किञ्चिद् व्यतिरिक्तम् अस्ति । विद्याः कलाः ते तनवः च सर्वाः हिरण्यगर्भः असि बृहत् त्रि-पृष्ठः ।
tvattaḥ param na aparam api anejat ejat ca kiñcid vyatiriktam asti . vidyāḥ kalāḥ te tanavaḥ ca sarvāḥ hiraṇyagarbhaḥ asi bṛhat tri-pṛṣṭhaḥ .
व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रि यप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ३३ ।
व्यक्तम् विभो स्थूलम् इदम् शरीरम् येन इन्द्रि-प्राण-मनः-गुणान् त्वम् । भुङ्क्षे स्थितः धामनि पारमेष्ठ्ये अव्यक्ते आत्मा पुरुषः पुराणः ।
vyaktam vibho sthūlam idam śarīram yena indri-prāṇa-manaḥ-guṇān tvam . bhuṅkṣe sthitaḥ dhāmani pārameṣṭhye avyakte ātmā puruṣaḥ purāṇaḥ .
अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ३४ ।
अनन्त-अव्यक्त-रूपेण येन इदम् अखिलम् ततम् । चित्-अचित्-शक्ति-युक्ताय तस्मै भगवते नमः ।
ananta-avyakta-rūpeṇa yena idam akhilam tatam . cit-acit-śakti-yuktāya tasmai bhagavate namaḥ .
यदि दास्यस्यभिमतान्वरान्मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ३५ ।
यदि दास्यसि अभिमतान् वरान् मे वर-द-उत्तम । भूतेभ्यः त्वद्-विसृष्टेभ्यः मृत्युः मा भूत् मम प्रभो ।
yadi dāsyasi abhimatān varān me vara-da-uttama . bhūtebhyaḥ tvad-visṛṣṭebhyaḥ mṛtyuḥ mā bhūt mama prabho .
नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ३६ ।
न अन्तर् बहिस् दिवा नक्तम् अन्यस्मात् अपि च आयुधैः । न भूमौ ना अम्बरे मृत्युः न नरैः न मृगैः अपि ।
na antar bahis divā naktam anyasmāt api ca āyudhaiḥ . na bhūmau nā ambare mṛtyuḥ na naraiḥ na mṛgaiḥ api .
व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ३७ ।
व्यसुभिः वा असुमद्भिः वा सुर-असुर-महा-उरगैः । अप्रतिद्वन्द्व-ताम् युद्धे ऐकपत्यम् च देहिनाम् ।
vyasubhiḥ vā asumadbhiḥ vā sura-asura-mahā-uragaiḥ . apratidvandva-tām yuddhe aikapatyam ca dehinām .
सर्वेषां लोकपालानां महिमानं यथात्मनः । तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ३८ ।
सर्वेषाम् लोकपालानाम् महिमानम् यथा आत्मनः । तपः-योग-प्रभावाणाम् यत् न रिष्यति कर्हिचित् ।
sarveṣām lokapālānām mahimānam yathā ātmanaḥ . tapaḥ-yoga-prabhāvāṇām yat na riṣyati karhicit .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे हिरण्यकशिपोर्वरयाचनम् नाम तृतीयः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe hiraṇyakaśiporvarayācanam nāma tṛtīyaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In