| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
एवं वृतः शतधृतिः हिरण्यकशिपोरथ । प्रादात् तत् तपसा प्रीतो वरान् तस्य सुदुर्लभान् ॥ १ ॥
एवम् वृतः शतधृतिः हिरण्यकशिपोः अथ । प्रादात् तत् तपसा प्रीतः वरान् तस्य सु दुर्लभान् ॥ १ ॥
evam vṛtaḥ śatadhṛtiḥ hiraṇyakaśipoḥ atha . prādāt tat tapasā prītaḥ varān tasya su durlabhān .. 1 ..
ब्रह्मोवाच -
तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यदपि दुर्लभान् ॥ २ ॥
तात इमे दुर्लभाः पुंसाम् यान् वृणीषे वरान् मम । तथा अपि वितरामि अङ्ग वरान् यत् अपि दुर्लभान् ॥ २ ॥
tāta ime durlabhāḥ puṃsām yān vṛṇīṣe varān mama . tathā api vitarāmi aṅga varān yat api durlabhān .. 2 ..
ततो जगाम भगवान् अमोघानुग्रहो विभुः । पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥
ततस् जगाम भगवान् अमोघ-अनुग्रहः विभुः । पूजितः असुर-वर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥
tatas jagāma bhagavān amogha-anugrahaḥ vibhuḥ . pūjitaḥ asura-varyeṇa stūyamānaḥ prajeśvaraiḥ .. 3 ..
एवं लब्धवरो दैत्यो बिभ्रद् हेममयं वपुः । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥
एवम् लब्ध-वरः दैत्यः बिभ्रत् हेम-मयम् वपुः । भगवति अकरोत् द्वेषम् भ्रातुः वधम् अनुस्मरन् ॥ ४ ॥
evam labdha-varaḥ daityaḥ bibhrat hema-mayam vapuḥ . bhagavati akarot dveṣam bhrātuḥ vadham anusmaran .. 4 ..
स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः । देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥
स विजित्य दिशः सर्वाः लोकान् च त्रीन् महा-असुरः । देव-असुर-मनुष्य-इन्द्रान् गन्धर्व-गरुड-उरगान् ॥ ५ ॥
sa vijitya diśaḥ sarvāḥ lokān ca trīn mahā-asuraḥ . deva-asura-manuṣya-indrān gandharva-garuḍa-uragān .. 5 ..
सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६ ॥
सिद्ध-चारण-विद्याध्रान् ऋषीन् पितृ-पतीन् मनून् । यक्ष-रक्षः-पिशाच-ईशान् प्रेत-भूतपतीन् अथ ॥ ६ ॥
siddha-cāraṇa-vidyādhrān ṛṣīn pitṛ-patīn manūn . yakṣa-rakṣaḥ-piśāca-īśān preta-bhūtapatīn atha .. 6 ..
सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥
सर्व-सत्त्व-पतीन् जित्वा वशम् आनीय विश्वजित् । जहार लोकपालानाम् स्थानानि सह तेजसा ॥ ७ ॥
sarva-sattva-patīn jitvā vaśam ānīya viśvajit . jahāra lokapālānām sthānāni saha tejasā .. 7 ..
देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत् ॥ ८३ ।
देव-उद्यान-श्रिया जुष्टम् अध्यास्ते स्म त्रिपिष्टपम् । महेन्द्र-भवनम् साक्षात् निर्मितम् विश्वकर्मणा । त्रैलोक्य-लक्ष्म्यायतनम् अध्युवास अखिल-ऋद्धिमत् ॥ ८३ ।
deva-udyāna-śriyā juṣṭam adhyāste sma tripiṣṭapam . mahendra-bhavanam sākṣāt nirmitam viśvakarmaṇā . trailokya-lakṣmyāyatanam adhyuvāsa akhila-ṛddhimat .. 83 .
यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥ ९ ॥
यत्र विद्रुम-सोपानाः महा-मारकताः भुवः । यत्र स्फाटिक-कुड्यानि वैदूर्य-स्तम्भ-पङ्क्तयः ॥ ९ ॥
yatra vidruma-sopānāḥ mahā-mārakatāḥ bhuvaḥ . yatra sphāṭika-kuḍyāni vaidūrya-stambha-paṅktayaḥ .. 9 ..
यत्र चित्रवितानानि पद्मरागासनानि च । पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १० ॥
यत्र चित्र-वितानानि पद्मराग-आसनानि च । पयः-फेन-निभाः शय्याः मुक्ता-दाम-परिच्छदाः ॥ १० ॥
yatra citra-vitānāni padmarāga-āsanāni ca . payaḥ-phena-nibhāḥ śayyāḥ muktā-dāma-paricchadāḥ .. 10 ..
कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥
कूजद्भिः नूपुरैः देव्यः शब्दयन्त्यः इतस् ततस् । रत्न-स्थलीषु पश्यन्ति सुदतीः सुन्दरम् मुखम् ॥ ११ ॥
kūjadbhiḥ nūpuraiḥ devyaḥ śabdayantyaḥ itas tatas . ratna-sthalīṣu paśyanti sudatīḥ sundaram mukham .. 11 ..
तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥
तस्मिन् महा-इन्द्र-भवने महा-बलः महामनाः निर्जित-लोकः एकराज् । रेमे अभिवन्द्य अङ्घ्रि-युगः सुर-आदिभिः प्रतापितैः ऊर्जित-चण्ड-शासनः ॥ १२ ॥
tasmin mahā-indra-bhavane mahā-balaḥ mahāmanāḥ nirjita-lokaḥ ekarāj . reme abhivandya aṅghri-yugaḥ sura-ādibhiḥ pratāpitaiḥ ūrjita-caṇḍa-śāsanaḥ .. 12 ..
तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥
तम् अङ्ग मत्तम् मधुना ऊरु-गन्धिना विवृत्त-ताम्र-अक्षम् अशेष-धिष्ण्यपाः । उपासत उपायन-पाणिभिः विना त्रिभिः तपः-योग-बल-ओजसाम् पदम् ॥ १३ ॥
tam aṅga mattam madhunā ūru-gandhinā vivṛtta-tāmra-akṣam aśeṣa-dhiṣṇyapāḥ . upāsata upāyana-pāṇibhiḥ vinā tribhiḥ tapaḥ-yoga-bala-ojasām padam .. 13 ..
जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥
जगुः महा-इन्द्रासनम् ओजसा स्थितम् विश्वावसुः तुम्बुरुः अस्मद्-आदयः । गन्धर्व-सिद्धाः ऋषयः अस्तुवन् मुहुर् विद्याधराः अप्सरसः च पाण्डव ॥ १४ ॥
jaguḥ mahā-indrāsanam ojasā sthitam viśvāvasuḥ tumburuḥ asmad-ādayaḥ . gandharva-siddhāḥ ṛṣayaḥ astuvan muhur vidyādharāḥ apsarasaḥ ca pāṇḍava .. 14 ..
स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥
सः एव वर्ण-आश्रमिभिः क्रतुभिः भूरि-दक्षिणैः । इज्यमानः हविः-भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥
saḥ eva varṇa-āśramibhiḥ kratubhiḥ bhūri-dakṣiṇaiḥ . ijyamānaḥ haviḥ-bhāgān agrahīt svena tejasā .. 15 ..
अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ १६ ॥
अ कृष्ट-पच्या तस्य आसीत् सप्त-द्वीपवती मही । तथा कामदुघाः गावः नाना आश्चर्य-पदम् नभः ॥ १६ ॥
a kṛṣṭa-pacyā tasya āsīt sapta-dvīpavatī mahī . tathā kāmadughāḥ gāvaḥ nānā āścarya-padam nabhaḥ .. 16 ..
रत्नाकराश्च रत्नौघान् तत्पत्न्यश्चोहुरूर्मिभिः । क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ १७ ॥
रत्न-आकराः च रत्न-ओघान् तद्-पत्न्यः च ऊहुः ऊर्मिभिः । क्षार-सीधु-घृत-क्षौद्र-दधि-क्षीर-अमृत-उदकाः ॥ १७ ॥
ratna-ākarāḥ ca ratna-oghān tad-patnyaḥ ca ūhuḥ ūrmibhiḥ . kṣāra-sīdhu-ghṛta-kṣaudra-dadhi-kṣīra-amṛta-udakāḥ .. 17 ..
शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानां एक एव पृथग्गुणान् ॥ १८ ॥
शैलाः द्रोणीभिः आक्रीडम् सर्व-ऋतुषु गुणान् द्रुमाः । दधार लोकपालानाम् एकः एव पृथक् गुणान् ॥ १८ ॥
śailāḥ droṇībhiḥ ākrīḍam sarva-ṛtuṣu guṇān drumāḥ . dadhāra lokapālānām ekaḥ eva pṛthak guṇān .. 18 ..
स इत्थं निर्जितककुब् एकराड् वियान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥ १९ ॥
सः इत्थम् निर्जित-ककुभ् एकराज् वियान् प्रियान् । यथोपजोषम् भुञ्जानः न अतृप्यत् अजित-इन्द्रियः ॥ १९ ॥
saḥ ittham nirjita-kakubh ekarāj viyān priyān . yathopajoṣam bhuñjānaḥ na atṛpyat ajita-indriyaḥ .. 19 ..
एवं ऐश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापं उपेयुषः ॥ २० ॥
एवम् ऐश्वर्य-मत्तस्य दृप्तस्य उच्छास्त्र-वर्तिनः । कालः महान् व्यतीयाय ब्रह्म-शापम् उपेयुषः ॥ २० ॥
evam aiśvarya-mattasya dṛptasya ucchāstra-vartinaḥ . kālaḥ mahān vyatīyāya brahma-śāpam upeyuṣaḥ .. 20 ..
तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥
तस्य उग्र-दण्ड-संविग्नाः सर्वे लोकाः स पालकाः । अन्यत्र अलब्ध-शरणाः शरणम् ययुः अच्युतम् ॥ २१ ॥
tasya ugra-daṇḍa-saṃvignāḥ sarve lokāḥ sa pālakāḥ . anyatra alabdha-śaraṇāḥ śaraṇam yayuḥ acyutam .. 21 ..
तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । यद्गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥
तस्यै नमः अस्तु काष्ठायै यत्र आत्मा हरिः ईश्वरः । यत् गत्वा न निवर्तन्ते शान्ताः संन्यासिनः अमलाः ॥ २२ ॥
tasyai namaḥ astu kāṣṭhāyai yatra ātmā hariḥ īśvaraḥ . yat gatvā na nivartante śāntāḥ saṃnyāsinaḥ amalāḥ .. 22 ..
इति ते संयतात्मानः समाहितधियोऽमलाः । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥
इति ते संयत-आत्मानः समाहित-धियः अमलाः । उपतस्थुः हृषीकेशम् विनिद्राः वायु-भोजनाः ॥ २३ ॥
iti te saṃyata-ātmānaḥ samāhita-dhiyaḥ amalāḥ . upatasthuḥ hṛṣīkeśam vinidrāḥ vāyu-bhojanāḥ .. 23 ..
तेषां आविरभूद्वाणी अरूपा मेघनिःस्वना । सन्नादयन्ती ककुभः साधूनां अभयङ्करी ॥ २४ ॥
तेषाम् आविरभूत् वाणी अरूपा मेघ-निःस्वना । सन् नादयन्ती ककुभः साधूनाम् अभयङ्करी ॥ २४ ॥
teṣām āvirabhūt vāṇī arūpā megha-niḥsvanā . san nādayantī kakubhaḥ sādhūnām abhayaṅkarī .. 24 ..
मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥
मा भैष्ट विबुध-श्रेष्ठाः सर्वेषाम् भद्रम् अस्तु वः । मद्-दर्शनम् हि भूतानाम् सर्व-श्रेयः-उपपत्तये ॥ २५ ॥
mā bhaiṣṭa vibudha-śreṣṭhāḥ sarveṣām bhadram astu vaḥ . mad-darśanam hi bhūtānām sarva-śreyaḥ-upapattaye .. 25 ..
ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥
ज्ञातम् एतस्य दौरात्म्यम् दैतेय-अपसदस्य यत् । तस्य शान्तिम् करिष्यामि कालम् तावत् प्रतीक्षत ॥ २६ ॥
jñātam etasya daurātmyam daiteya-apasadasya yat . tasya śāntim kariṣyāmi kālam tāvat pratīkṣata .. 26 ..
यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥
यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वै आशु विनश्यति ॥ २७ ॥
yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu . dharme mayi ca vidveṣaḥ sa vai āśu vinaśyati .. 27 ..
निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद् हनिष्येऽपि वरोर्जितम् ॥ २८ ॥
निर्वैराय प्रशान्ताय स्व-सुताय महात्मने । प्रह्रादाय यदा द्रुह्येत् हनिष्ये अपि वर-ऊर्जितम् ॥ २८ ॥
nirvairāya praśāntāya sva-sutāya mahātmane . prahrādāya yadā druhyet haniṣye api vara-ūrjitam .. 28 ..
नारद उवाच -
इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥
इति उक्ताः लोकगुरुणा तम् प्रणम्य दिवौकसः । न्यवर्तन्त गत-उद्वेगाः मेनिरे च असुरम् हतम् ॥ २९ ॥
iti uktāḥ lokaguruṇā tam praṇamya divaukasaḥ . nyavartanta gata-udvegāḥ menire ca asuram hatam .. 29 ..
तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्रादोऽभून् महांन् तेषां गुणैर्महदुपासकः ॥ ३० ॥
तस्य दैत्य-पतेः पुत्राः चत्वारः परम-अद्भुताः । प्रह्रादः अभूत् महान् तेषाम् गुणैः महत्-उपासकः ॥ ३० ॥
tasya daitya-pateḥ putrāḥ catvāraḥ parama-adbhutāḥ . prahrādaḥ abhūt mahān teṣām guṇaiḥ mahat-upāsakaḥ .. 30 ..
ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । आत्मवत्सर्वभूतानां एकः प्रियसुहृत्तमः ॥ ३१ ॥
ब्रह्मण्यः शील-सम्पन्नः सत्य-सन्धः जित-इन्द्रियः । आत्मवत् सर्व-भूतानाम् एकः प्रिय-सुहृत्तमः ॥ ३१ ॥
brahmaṇyaḥ śīla-sampannaḥ satya-sandhaḥ jita-indriyaḥ . ātmavat sarva-bhūtānām ekaḥ priya-suhṛttamaḥ .. 31 ..
दासवत्सन्नतार्याङ्घ्रिः पितृवद् दीनवत्सलः । भ्रातृवत्सदृशे स्निग्धो गुरुषु ईश्वरभावनः ॥ ३२ ॥
पितृ-वत् दीन-वत्सलः । भ्रातृ-वत् सदृशे स्निग्धः गुरुषु ईश्वर-भावनः ॥ ३२ ॥
pitṛ-vat dīna-vatsalaḥ . bhrātṛ-vat sadṛśe snigdhaḥ guruṣu īśvara-bhāvanaḥ .. 32 ..
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ ३२३ ।
विद्या-अर्थ-रूप-जन्म-आढ्यः मान-स्तम्भ-विवर्जितः ॥ ३२३ ।
vidyā-artha-rūpa-janma-āḍhyaḥ māna-stambha-vivarjitaḥ .. 323 .
नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३ ॥
न उद्विग्न-चित्तः व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेषु अवस्तु-दृश् । दान्त-इन्द्रिय-प्राण-शरीर-धीः सदा प्रशान्त-कामः रहित-असुरः असुरः ॥ ३३ ॥
na udvigna-cittaḥ vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣu avastu-dṛś . dānta-indriya-prāṇa-śarīra-dhīḥ sadā praśānta-kāmaḥ rahita-asuraḥ asuraḥ .. 33 ..
यस्मिन्महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥
यस्मिन् महत्-गुणाः राजन् गृह्यन्ते कविभिः मुहुर् । न ते अधुना पिधीयन्ते यथा भगवति ईश्वरे ॥ ३४ ॥
yasmin mahat-guṇāḥ rājan gṛhyante kavibhiḥ muhur . na te adhunā pidhīyante yathā bhagavati īśvare .. 34 ..
यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५ ॥
यम् साधु-गाथा-सदसि रिपवः अपि सुराः नृप । प्रतिमानम् प्रकुर्वन्ति किम् उत अन्ये भवादृशाः ॥ ३५ ॥
yam sādhu-gāthā-sadasi ripavaḥ api surāḥ nṛpa . pratimānam prakurvanti kim uta anye bhavādṛśāḥ .. 35 ..
गुणैरलमसंख्येयै माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥
गुणैः अलम् असंख्येयैः माहात्म्यम् तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥
guṇaiḥ alam asaṃkhyeyaiḥ māhātmyam tasya sūcyate . vāsudeve bhagavati yasya naisargikī ratiḥ .. 36 ..
न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥
न्यस्त-क्रीडनकः बालः जड-वत् तद्-मनः-तया । कृष्ण-ग्रह-गृहीत-आत्मा न वेद जगत् ईदृशम् ॥ ३७ ॥
nyasta-krīḍanakaḥ bālaḥ jaḍa-vat tad-manaḥ-tayā . kṛṣṇa-graha-gṛhīta-ātmā na veda jagat īdṛśam .. 37 ..
आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८ ॥
आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् । न अनुसन्धत्ते एतानि गोविन्द-परिरम्भितः ॥ ३८ ॥
āsīnaḥ paryaṭan aśnan śayānaḥ prapiban bruvan . na anusandhatte etāni govinda-parirambhitaḥ .. 38 ..
क्वचिद् रुदति वैकुण्ठ चिन्ताशबलचेतनः । क्वचिद् हसति तच्चिन्ता ह्लाद उद्गायति क्वचित् ॥ ३९ ॥
क्वचिद् रुदति वैकुण्ठ चिन्ता-शबल-चेतनः । क्वचिद् हसति तद्-चिन्ता ह्लादः उद्गायति क्वचिद् ॥ ३९ ॥
kvacid rudati vaikuṇṭha cintā-śabala-cetanaḥ . kvacid hasati tad-cintā hlādaḥ udgāyati kvacid .. 39 ..
नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित्तद्भावनायुक्तः तन्मयोऽनुचकार ह ॥ ४० ॥
नदति क्वचिद् उत्कण्ठः विलज्जः नृत्यति क्वचिद् । क्वचिद् तद्-भावना-युक्तः तद्-मयः अनुचकार ह ॥ ४० ॥
nadati kvacid utkaṇṭhaḥ vilajjaḥ nṛtyati kvacid . kvacid tad-bhāvanā-yuktaḥ tad-mayaḥ anucakāra ha .. 40 ..
क्वचिदुत्पुलकस्तूष्णीं आस्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ ४१ ॥
क्वचिद् उत्पुलकः तूष्णीम् आस्ते संस्पर्श-निर्वृतः । अस्पन्द-प्रणय-आनन्द सलिल-आमीलित-ईक्षणः ॥ ४१ ॥
kvacid utpulakaḥ tūṣṇīm āste saṃsparśa-nirvṛtaḥ . aspanda-praṇaya-ānanda salila-āmīlita-īkṣaṇaḥ .. 41 ..
स उत्तमश्लोकपदारविन्दयोः निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुः दुसङ्गदीनस्य मनः शमं व्यधात् ॥ ४२ ॥
सः उत्तमश्लोक-पद-अरविन्दयोः निषेवया आकिञ्चन-सङ्ग-लब्धया । तन्वन् पराम् निर्वृतिम् आत्मनः मुहुर् दुसङ्ग-दीनस्य मनः शमम् व्यधात् ॥ ४२ ॥
saḥ uttamaśloka-pada-aravindayoḥ niṣevayā ākiñcana-saṅga-labdhayā . tanvan parām nirvṛtim ātmanaḥ muhur dusaṅga-dīnasya manaḥ śamam vyadhāt .. 42 ..
(अनुष्टुप्)
तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन् अकरोद् अघमात्मजे ॥ ४३ ॥
तस्मिन् महा-भागवते महाभागे महात्मनि । हिरण्यकशिपुः राजन् अकरोत् अघम् आत्मजे ॥ ४३ ॥
tasmin mahā-bhāgavate mahābhāge mahātmani . hiraṇyakaśipuḥ rājan akarot agham ātmaje .. 43 ..
युधिष्ठिर उवाच -
देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४ ॥
देव-ऋषे एतत् इच्छामः वेदितुम् तव सुव्रत । यद्-आत्मजाय शुद्धाय पिता अदात् साधवे हि अघम् ॥ ४४ ॥
deva-ṛṣe etat icchāmaḥ veditum tava suvrata . yad-ātmajāya śuddhāya pitā adāt sādhave hi agham .. 44 ..
पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥
पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्र-वत्सलाः । उपालभन्ते शिक्षा-अर्थम् न एव अघम् अपरः यथा ॥ ४५ ॥
putrān vipratikūlān svān pitaraḥ putra-vatsalāḥ . upālabhante śikṣā-artham na eva agham aparaḥ yathā .. 45 ..
किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् । एतत्कौतूहलं ब्रह्मन् अस्माकं विधम प्रभो । पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥
किम् उत अनुवशान् साधून् तादृशान् गुरु-देवतान् । एतत् कौतूहलम् ब्रह्मन् अस्माकम् विधम प्रभो । पितुः पुत्राय यद्-द्वेषः मरणाय प्रयोजितः ॥ ४६ ॥
kim uta anuvaśān sādhūn tādṛśān guru-devatān . etat kautūhalam brahman asmākam vidhama prabho . pituḥ putrāya yad-dveṣaḥ maraṇāya prayojitaḥ .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्रादचरिते चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahrādacarite caturthaḥ adhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In