| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके १ ।
पौरोहित्याय भगवान् वृतः काव्यः किल असुरैः । षण्डामर्कौ सुतौ तस्य दैत्य-राज-गृह-अन्तिके ।
paurohityāya bhagavān vṛtaḥ kāvyaḥ kila asuraiḥ . ṣaṇḍāmarkau sutau tasya daitya-rāja-gṛha-antike .
तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् २ ।
तौ राज्ञा प्रापितम् बालम् प्रह्लादम् नय-कोविदम् । पाठयामासतुः पाठ्यान् अन्यान् च असुर-बालकान् ।
tau rājñā prāpitam bālam prahlādam naya-kovidam . pāṭhayāmāsatuḥ pāṭhyān anyān ca asura-bālakān .
यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ३ ।
यत् तत्र गुरुणा प्रोक्तम् शुश्रुवे अनुपपाठ च । न साधु मनसा मेने स्व-पर-असत्-ग्रह-आश्रयम् ।
yat tatra guruṇā proktam śuśruve anupapāṭha ca . na sādhu manasā mene sva-para-asat-graha-āśrayam .
एकदासुरराट्पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ४ ।
एकदा असुर-राज्-पुत्रम् अङ्कम् आरोप्य पाण्डव । पप्रच्छ कथ्यताम् वत्स मन्यते साधु यत् भवान् ।
ekadā asura-rāj-putram aṅkam āropya pāṇḍava . papraccha kathyatām vatsa manyate sādhu yat bhavān .
श्रीप्रह्लाद उवाच ।
तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ५ ।
तत् साधु मन्ये असुर-वर्य देहिनाम् सदा समुद्विग्न-धियाम् असद्ग्रहात् । हित्वा आत्मपातम् गृहम् अन्धकूपम् वनम् गतः यत् हरिम् आश्रयेत ।
tat sādhu manye asura-varya dehinām sadā samudvigna-dhiyām asadgrahāt . hitvā ātmapātam gṛham andhakūpam vanam gataḥ yat harim āśrayeta .
श्रीनारद उवाच ।
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ६ ।
श्रुत्वा पुत्र-गिरः दैत्यः पर-पक्ष-समाहिताः । जहास बुद्धिः बालानाम् भिद्यते पर-बुद्धिभिः ।
śrutvā putra-giraḥ daityaḥ para-pakṣa-samāhitāḥ . jahāsa buddhiḥ bālānām bhidyate para-buddhibhiḥ .
सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ७ ।
सम्यक् विधार्यताम् बालः गुरु-गेहे द्विजातिभिः । विष्णु-पक्षैः प्रतिच्छन्नैः न भिद्येत अस्य धीः यथा ।
samyak vidhāryatām bālaḥ guru-gehe dvijātibhiḥ . viṣṇu-pakṣaiḥ praticchannaiḥ na bhidyeta asya dhīḥ yathā .
गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ८ ।
गृहम् आनीतम् आहूय प्रह्रादम् दैत्य-याजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ।
gṛham ānītam āhūya prahrādam daitya-yājakāḥ . praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ .
वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ९ ।
वत्स प्रह्राद भद्रम् ते सत्यम् कथय मा मृषा । बालान् अति कुतस् तुभ्यम् एष बुद्धि-विपर्ययः ।
vatsa prahrāda bhadram te satyam kathaya mā mṛṣā . bālān ati kutas tubhyam eṣa buddhi-viparyayaḥ .
बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन १० ।
बुद्धि-भेदः पर-कृतः उत अहो ते स्वतस् अभवत् । भण्यताम् श्रोतु-कामानाम् गुरूणाम् कुल-नन्दन ।
buddhi-bhedaḥ para-kṛtaḥ uta aho te svatas abhavat . bhaṇyatām śrotu-kāmānām gurūṇām kula-nandana .
श्रीप्रह्राद उवाच ।
परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ११ ।
परः स्वः च इति असत्-ग्राहः पुंसाम् यद्-मायया कृतः । विमोहित-धियाम् दृष्टः तस्मै भगवते नमः ।
paraḥ svaḥ ca iti asat-grāhaḥ puṃsām yad-māyayā kṛtaḥ . vimohita-dhiyām dṛṣṭaḥ tasmai bhagavate namaḥ .
स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्योऽहमिति भेदगतासती १२ ।
स यदा अनुव्रतः पुंसाम् पशु-बुद्धिः विभिद्यते । अन्यः एष तथा अन्यः अहम् इति भेद-गता असती ।
sa yadā anuvrataḥ puṃsām paśu-buddhiḥ vibhidyate . anyaḥ eṣa tathā anyaḥ aham iti bheda-gatā asatī .
स एष आत्मा स्वपरेत्यबुद्धिभिर्दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् १३ ।
सः एषः आत्मा स्व-पर-इत्य बुद्धिभिः दुरत्यय-अनुक्रमणः निरूप्यते । मुह्यन्ति यद्-वर्त्मनि वेद-वादिनः ब्रह्म-आदयः हि एष भिनत्ति मे मतिम् ।
saḥ eṣaḥ ātmā sva-para-itya buddhibhiḥ duratyaya-anukramaṇaḥ nirūpyate . muhyanti yad-vartmani veda-vādinaḥ brahma-ādayaḥ hi eṣa bhinatti me matim .
यथा भ्राम्यत्ययो ब्रह्मन्स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया १४ ।
यथा भ्रामि अत्ययः ब्रह्मन् स्वयम् आकर्ष-सन्निधौ । तथा मे भिद्यते चेतः चक्रपाणेः यदृच्छया ।
yathā bhrāmi atyayaḥ brahman svayam ākarṣa-sannidhau . tathā me bhidyate cetaḥ cakrapāṇeḥ yadṛcchayā .
श्रीनारद उवाच ।
एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः । तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः १५ ।
एतावत् ब्राह्मणाय उक्त्वा विरराम महामतिः । तम् सन् निभर्त्स्य कुपितः सु दीनः राज-सेवकः ।
etāvat brāhmaṇāya uktvā virarāma mahāmatiḥ . tam san nibhartsya kupitaḥ su dīnaḥ rāja-sevakaḥ .
आनीयतामरे वेत्रमस्माकमयशस्करः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः १६ ।
आनीयता अमरे वेत्रम् अस्माकम् अयशस्करः । कुलाङ्गारस्य दुर्बुद्धेः चतुर्थः अस्य उदितः दमः ।
ānīyatā amare vetram asmākam ayaśaskaraḥ . kulāṅgārasya durbuddheḥ caturthaḥ asya uditaḥ damaḥ .
दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः १७ ।
दैतेय-चन्दन-वने जातः अयम् कण्टक-द्रुमः । यद्-मूल-उन्मूल-परशोः विष्णोः नालायितः अर्भकः ।
daiteya-candana-vane jātaḥ ayam kaṇṭaka-drumaḥ . yad-mūla-unmūla-paraśoḥ viṣṇoḥ nālāyitaḥ arbhakaḥ .
इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् १८ ।
इति तम् विविध-उपायैः भीषयन् तर्जन-आदिभिः । प्रह्रादम् ग्राहयामास त्रिवर्गस्य उपपादनम् ।
iti tam vividha-upāyaiḥ bhīṣayan tarjana-ādibhiḥ . prahrādam grāhayāmāsa trivargasya upapādanam .
तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् १९ ।
ततस् एनम् गुरुः ज्ञात्वा ज्ञात-ज्ञेय-चतुष्टयम् । दैत्य-इन्द्रम् दर्शयामास मातृ-मृष्टम् अलङ्कृतम् ।
tatas enam guruḥ jñātvā jñāta-jñeya-catuṣṭayam . daitya-indram darśayāmāsa mātṛ-mṛṣṭam alaṅkṛtam .
पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् २० ।
पादयोः पतितम् बालम् प्रतिनन्द्य आशिषा असुरः । परिष्वज्य चिरम् दोर्भ्याम् परमाम् आप निर्वृतिम् ।
pādayoḥ patitam bālam pratinandya āśiṣā asuraḥ . pariṣvajya ciram dorbhyām paramām āpa nirvṛtim .
आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः । आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर २१ ।
आरोप्य अङ्कम् अवघ्राय मूर्धनि अश्रु-कला-अम्बुभिः । आसिञ्चन् विकसत्-वक्त्रम् इदम् आह युधिष्ठिर ।
āropya aṅkam avaghrāya mūrdhani aśru-kalā-ambubhiḥ . āsiñcan vikasat-vaktram idam āha yudhiṣṭhira .
हिरण्यकशिपुरुवाच ।
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन्यदशिक्षद्गुरोर्भवान् २२ ।
प्रह्राद अनूच्यताम् तात सु अधीतम् किञ्चिद् उत्तमम् । कालेन एतावता आयुष्मन् यत् अशिक्षत् गुरोः भवान् ।
prahrāda anūcyatām tāta su adhītam kiñcid uttamam . kālena etāvatā āyuṣman yat aśikṣat guroḥ bhavān .
श्रीप्रह्राद उवाच ।
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् २३ ।
श्रवणम् कीर्तनम् विष्णोः स्मरणम् पाद-सेवनम् । अर्चनम् वन्दनम् दास्यम् सख्यम् आत्म-निवेदनम् ।
śravaṇam kīrtanam viṣṇoḥ smaraṇam pāda-sevanam . arcanam vandanam dāsyam sakhyam ātma-nivedanam .
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् २४ ।
इति पुंसा अर्पिता विष्णौ भक्तिः चेद् नव-लक्षणा । क्रियेत भगवति अद्धा तत् मन्ये अधीतम् उत्तमम् ।
iti puṃsā arpitā viṣṇau bhaktiḥ ced nava-lakṣaṇā . kriyeta bhagavati addhā tat manye adhītam uttamam .
निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः २५ ।
निशम्य एतत् सुत-वचः हिरण्यकशिपुः तदा । गुरु-पुत्रम् उवाच इदम् रुषा प्रस्फुरित-अधरः ।
niśamya etat suta-vacaḥ hiraṇyakaśipuḥ tadā . guru-putram uvāca idam ruṣā prasphurita-adharaḥ .
ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनादृत्य दुर्मते २६ ।
ब्रह्मबन्धो किम् एतत् ते विपक्षम् श्रयत असता । असारम् ग्राहितः बालः माम् अन् आदृत्य दुर्मते ।
brahmabandho kim etat te vipakṣam śrayata asatā . asāram grāhitaḥ bālaḥ mām an ādṛtya durmate .
सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव २७ ।
सन्ति हि असाधवः लोके दुर्मैत्राः छद्म-वेषिणः । तेषाम् उदेति अघम् काले रोगः पातकिनाम् इव ।
santi hi asādhavaḥ loke durmaitrāḥ chadma-veṣiṇaḥ . teṣām udeti agham kāle rogaḥ pātakinām iva .
श्रीगुरुपुत्र उवाच ।
न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्र शत्रो । नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्युं कददाः स्म मा नः २८ ।
न मद्-प्रणीतम् न पर-प्रणीतम् सुतः वदति एष तव इन्द्र शत्रो । नैसर्गिकी इयम् मतिः अस्य राजन् नियच्छ मन्युम् कददाः स्म मा नः ।
na mad-praṇītam na para-praṇītam sutaḥ vadati eṣa tava indra śatro . naisargikī iyam matiḥ asya rājan niyaccha manyum kadadāḥ sma mā naḥ .
श्रीनारद उवाच ।
गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् । न चेद्गुरुमुखीयं ते कुतोऽभद्रा सती मतिः २९ ।
गुरुणा एवम् प्रतिप्रोक्तः भूयस् आह असुरः सुतम् । न चेद् गुरु-मुखी इयम् ते कुतस् अभद्रा सती मतिः ।
guruṇā evam pratiproktaḥ bhūyas āha asuraḥ sutam . na ced guru-mukhī iyam te kutas abhadrā satī matiḥ .
श्रीप्रह्राद उवाच ।
मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ३० ।
मतिः न कृष्णे परतस् स्वतस् वा मिथस् अभिपद्येत गृह-व्रतानाम् । अ दान्त-गोभिः विशताम् तमिस्रम् पुनर् पुनर् चर्वित-चर्वणानाम् ।
matiḥ na kṛṣṇe paratas svatas vā mithas abhipadyeta gṛha-vratānām . a dānta-gobhiḥ viśatām tamisram punar punar carvita-carvaṇānām .
न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धैरुपनीयमानास्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ३१ ।
न ते विदुः स्व-अर्थ-गतिम् हि विष्णुम् दुराशयाः ये बहिरर्थ-मानिनः । अन्धाः यथा अन्धैः उपनीयमानाः ते अपि ईश-तन्त्र्याम् उरु-दाम्नि बद्धाः ।
na te viduḥ sva-artha-gatim hi viṣṇum durāśayāḥ ye bahirartha-māninaḥ . andhāḥ yathā andhaiḥ upanīyamānāḥ te api īśa-tantryām uru-dāmni baddhāḥ .
नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ३२ ।
न एषाम् मतिः तावत् उरुक्रम-अङ्घ्रिम् स्पृशति अनर्थ-अपगमः यद्-अर्थः । महीयसाम् पाद-रजः-अभिषेकम् निष्किञ्चनानाम् न वृणीत यावत् ।
na eṣām matiḥ tāvat urukrama-aṅghrim spṛśati anartha-apagamaḥ yad-arthaḥ . mahīyasām pāda-rajaḥ-abhiṣekam niṣkiñcanānām na vṛṇīta yāvat .
इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ३३ ।
इति उक्त्वा उपरतम् पुत्रम् हिरण्यकशिपुः रुषा । अन्धीकृत-आत्मा स्व-उत्सङ्गात् निरस्यत मही-तले ।
iti uktvā uparatam putram hiraṇyakaśipuḥ ruṣā . andhīkṛta-ātmā sva-utsaṅgāt nirasyata mahī-tale .
आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ३४ ।
आह अमर्ष-रुषा आविष्टः कषायीभूत-लोचनः । वध्यताम् आश्वयम् वध्यः निःसारयत नैरृताः ।
āha amarṣa-ruṣā āviṣṭaḥ kaṣāyībhūta-locanaḥ . vadhyatām āśvayam vadhyaḥ niḥsārayata nairṛtāḥ .
अयं मे भ्रातृहा सोऽयं हित्वा स्वान्सुहृदोऽधमः । पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ३५ ।
अयम् मे भ्रातृ-हा सः अयम् हित्वा स्वान् सुहृदः अधमः । पितृव्य-हन्तुः पादौ यः विष्णोः दास-वत् अर्चति ।
ayam me bhrātṛ-hā saḥ ayam hitvā svān suhṛdaḥ adhamaḥ . pitṛvya-hantuḥ pādau yaḥ viṣṇoḥ dāsa-vat arcati .
विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः । सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ३६ ।
विष्णोः वा साधु असौ किम् नु करिष्यति असमञ्जसः । सौहृदम् दुस्त्यजम् पित्रोः अहाद्यः पञ्चहायनः ।
viṣṇoḥ vā sādhu asau kim nu kariṣyati asamañjasaḥ . sauhṛdam dustyajam pitroḥ ahādyaḥ pañcahāyanaḥ .
परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः । छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ३७ ।
परः अपि अपत्यम् हित-कृत् यथा औषधम् स्व-देह-जः अपि आमय-वत् सुतः अहितः । छिन्द्यात् तद्-अङ्गम् यत् उत आत्मनः अहितम् शेषम् सुखम् जीवति यद्-विवर्जनात् ।
paraḥ api apatyam hita-kṛt yathā auṣadham sva-deha-jaḥ api āmaya-vat sutaḥ ahitaḥ . chindyāt tad-aṅgam yat uta ātmanaḥ ahitam śeṣam sukham jīvati yad-vivarjanāt .
सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ३८ ।
सर्वैः उपायैः हन्तव्यः सम्भोज-शयन-आसनैः । सुहृद्-लिङ्ग-धरः शत्रुः मुनेः दुष्टम् इव इन्द्रियम् ।
sarvaiḥ upāyaiḥ hantavyaḥ sambhoja-śayana-āsanaiḥ . suhṛd-liṅga-dharaḥ śatruḥ muneḥ duṣṭam iva indriyam .
नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ३९ ।
नैरृताः ते समादिष्टाः भर्त्रा वै शूल-पाणयः । तिग्म-दंष्ट्र-कराल-आस्याः ताम्र-श्मश्रु-शिरोरुहाः ।
nairṛtāḥ te samādiṣṭāḥ bhartrā vai śūla-pāṇayaḥ . tigma-daṃṣṭra-karāla-āsyāḥ tāmra-śmaśru-śiroruhāḥ .
नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः । आसीनं चाहनन्शूलैः प्रह्रादं सर्वमर्मसु ४० ।
नदन्तः भैरवम् नादम् छिन्धि भिन्धि इति वादिनः । आसीनम् च अहनन् शूलैः प्रह्रादम् सर्व-मर्मसु ।
nadantaḥ bhairavam nādam chindhi bhindhi iti vādinaḥ . āsīnam ca ahanan śūlaiḥ prahrādam sarva-marmasu .
परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ४१ ।
परे ब्रह्मणि अनिर्देश्ये भगवति अखिलात्मनि । युक्त-आत्मनि अफलाः आसन्न-पुण्यस्य इव सत्क्रियाः ।
pare brahmaṇi anirdeśye bhagavati akhilātmani . yukta-ātmani aphalāḥ āsanna-puṇyasya iva satkriyāḥ .
प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ४२ ।
प्रयासे अपहते तस्मिन् दैत्य-इन्द्रः परिशङ्कितः । चकार तद्-वध-उपायान् निर्बन्धेन युधिष्ठिर ।
prayāse apahate tasmin daitya-indraḥ pariśaṅkitaḥ . cakāra tad-vadha-upāyān nirbandhena yudhiṣṭhira .
दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ४३ ।
दिग्गजैः दन्दशूक-इन्द्रैः अभिचार-अवपातनैः । मायाभिः सन्निरोधैः च गर-दानैः अभोजनैः ।
diggajaiḥ dandaśūka-indraiḥ abhicāra-avapātanaiḥ . māyābhiḥ sannirodhaiḥ ca gara-dānaiḥ abhojanaiḥ .
हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् ४४ ।
हिम-वायु-अग्नि-सलिलैः पर्वत-आक्रमणैः अपि । न शशाक यदा हन्तुम् अपापम् असुरः सुतम् ।
hima-vāyu-agni-salilaiḥ parvata-ākramaṇaiḥ api . na śaśāka yadā hantum apāpam asuraḥ sutam .
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत । एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः । तैस्तैद्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ४५ ।
चिन्ताम् दीर्घतमाम् प्राप्तः तत् कर्तुम् न अभ्यपद्यत । एष मे बहु-असाधु-उक्तः वध-उपायाः च निर्मिताः । तैः तैः रोहैः असत्-धर्मैः मुक्तः स्वेन एव तेजसा ।
cintām dīrghatamām prāptaḥ tat kartum na abhyapadyata . eṣa me bahu-asādhu-uktaḥ vadha-upāyāḥ ca nirmitāḥ . taiḥ taiḥ rohaiḥ asat-dharmaiḥ muktaḥ svena eva tejasā .
वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् । न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ४६ ।
वर्तमानः अविदूरे वै बालः अपि अ जड-धीः अयम् । न विस्मरति मे अनार्यम् शुनः शेपः इव प्रभुः ।
vartamānaḥ avidūre vai bālaḥ api a jaḍa-dhīḥ ayam . na vismarati me anāryam śunaḥ śepaḥ iva prabhuḥ .
अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ४७ ।
अप्रमेय-अनुभावः अयम् अकुतश्चिद्भयः अमरः । नूनम् एतद्-विरोधेन मृत्युः मे भविता न वा ।
aprameya-anubhāvaḥ ayam akutaścidbhayaḥ amaraḥ . nūnam etad-virodhena mṛtyuḥ me bhavitā na vā .
इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् । शण्डामर्कावौशनसौ विविक्त इति होचतुः ४८ ।
इति तद्-चिन्तया किञ्चिद् म्लान-श्रियम् अधोमुखम् । शण्डामर्कौ औशनसौ विविक्ते इति ह ऊचतुः ।
iti tad-cintayā kiñcid mlāna-śriyam adhomukham . śaṇḍāmarkau auśanasau vivikte iti ha ūcatuḥ .
जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् ४९ ।
जितम् त्वया एकेन जगत्त्रयम् भ्रुवोः विजृम्भण-त्रस्त-समस्त-धिष्ण्यपम् । न तस्य चिन्त्यम् तव नाथ चक्ष्वहे न वै शिशूनाम् गुण-दोषयोः पदम् ।
jitam tvayā ekena jagattrayam bhruvoḥ vijṛmbhaṇa-trasta-samasta-dhiṣṇyapam . na tasya cintyam tava nātha cakṣvahe na vai śiśūnām guṇa-doṣayoḥ padam .
इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ५० ।
इमम् तु पाशैः वरुणस्य बद्ध्वा निधेहि भीतः न पलायते यथा । बुद्धिः च पुंसः वयसा आर्य-सेवया यावत् गुरुः भार्गवः आगमिष्यति ।
imam tu pāśaiḥ varuṇasya baddhvā nidhehi bhītaḥ na palāyate yathā . buddhiḥ ca puṃsaḥ vayasā ārya-sevayā yāvat guruḥ bhārgavaḥ āgamiṣyati .
तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ५१ ।
तथा इति गुरु-पुत्र-उक्तम् अनुज्ञाय इदम् अब्रवीत् । धर्मः हि अस्य उपदेष्टव्यः राज्ञाम् यः गृहमेधिनाम् ।
tathā iti guru-putra-uktam anujñāya idam abravīt . dharmaḥ hi asya upadeṣṭavyaḥ rājñām yaḥ gṛhamedhinām .
धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्रादायोचतू राजन्प्रश्रितावनताय च ५२ ।
धर्मम् अर्थम् च कामम् च नितराम् च अनुपूर्वशस् । प्रह्रादाय ऊचतुः राजन् प्रश्रित-अवनताय च ।
dharmam artham ca kāmam ca nitarām ca anupūrvaśas . prahrādāya ūcatuḥ rājan praśrita-avanatāya ca .
यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ५३ ।
यथा त्रिवर्गम् गुरुभिः आत्मने उपशिक्षितम् । न साधु मेने तद्-शिक्षाम् द्वन्द्व-आराम-उपवर्णिताम् ।
yathā trivargam gurubhiḥ ātmane upaśikṣitam . na sādhu mene tad-śikṣām dvandva-ārāma-upavarṇitām .
यदाचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ५४ ।
यत् आचार्यः परावृत्तः गृहमेधीय-कर्मसु । वयस्यैः बालकैः तत्र सः उपहूतः कृतक्षणैः ।
yat ācāryaḥ parāvṛttaḥ gṛhamedhīya-karmasu . vayasyaiḥ bālakaiḥ tatra saḥ upahūtaḥ kṛtakṣaṇaiḥ .
अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ५५ ।
अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महा-बुधः । उवाच विद्वान् तद्-निष्ठाम् कृपया प्रहसन् इव ।
atha tān ślakṣṇayā vācā pratyāhūya mahā-budhaḥ . uvāca vidvān tad-niṣṭhām kṛpayā prahasan iva .
ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः । बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ५६ ।
ते तु तद्-गौरवात् सर्वे त्यक्त-क्रीडा-परिच्छदाः । बालाः अ दूषित-धियः द्वन्द्व-आराम-ईरित-ईहितैः ।
te tu tad-gauravāt sarve tyakta-krīḍā-paricchadāḥ . bālāḥ a dūṣita-dhiyaḥ dvandva-ārāma-īrita-īhitaiḥ .
पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः । तानाह करुणो मैत्रो महाभागवतोऽसुरः ५७ ।
पर्युपासत राज-इन्द्र तद्-न्यस्त-हृदय-ईक्षणाः । तान् आह करुणः मैत्रः महा-भागवतः असुरः ।
paryupāsata rāja-indra tad-nyasta-hṛdaya-īkṣaṇāḥ . tān āha karuṇaḥ maitraḥ mahā-bhāgavataḥ asuraḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते पञ्चमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्लादानुचरिते पञ्चमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahlādānucarite pañcamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In