| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

प्रह्लाद उवाच - (अनुष्टुप्)
कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥
कौमारे आचरेत् प्राज्ञः धर्मान् भागवतान् इह । दुर्लभम् मानुषम् जन्म तत् अपि अध्रुवम् अर्थ-दम् ॥ १ ॥
kaumāre ācaret prājñaḥ dharmān bhāgavatān iha . durlabham mānuṣam janma tat api adhruvam artha-dam .. 1 ..
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २ ॥
यथा हि पुरुषस्य इह विष्णोः पाद-उपसर्पणम् । यत् एष सर्व-भूतानाम् प्रियः आत्म-ईश्वरः सुहृद् ॥ २ ॥
yathā hi puruṣasya iha viṣṇoḥ pāda-upasarpaṇam . yat eṣa sarva-bhūtānām priyaḥ ātma-īśvaraḥ suhṛd .. 2 ..
सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्नतः ॥ ३ ॥
सुखम् ऐन्द्रियकम् दैत्याः देह-योगेन देहिनाम् । सर्वत्र लभ्यते दैवात् यथा दुःखम् अयत्नतः ॥ ३ ॥
sukham aindriyakam daityāḥ deha-yogena dehinām . sarvatra labhyate daivāt yathā duḥkham ayatnataḥ .. 3 ..
तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥
तद्-प्रयासः न कर्तव्यः यतस् आयुः-व्ययः परम् । न तथा विन्दते क्षेमम् मुकुन्द-चरण-अम्बुजम् ॥ ४ ॥
tad-prayāsaḥ na kartavyaḥ yatas āyuḥ-vyayaḥ param . na tathā vindate kṣemam mukunda-caraṇa-ambujam .. 4 ..
ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावत् न विपद्येत पुष्कलम् ॥ ५ ॥
ततस् यतेत कुशलः क्षेमाय भवम् आश्रितः । शरीरम् पौरुषम् यावत् न विपद्येत पुष्कलम् ॥ ५ ॥
tatas yateta kuśalaḥ kṣemāya bhavam āśritaḥ . śarīram pauruṣam yāvat na vipadyeta puṣkalam .. 5 ..
पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः । निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥
पुंसः वर्ष-शतम् हि आयुः तद्-अर्धम् च अजितात्मनः । निष्फलम् यत् असौ रात्र्याम् शेते अन्धम् प्रापितः तमः ॥ ६ ॥
puṃsaḥ varṣa-śatam hi āyuḥ tad-ardham ca ajitātmanaḥ . niṣphalam yat asau rātryām śete andham prāpitaḥ tamaḥ .. 6 ..
मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७ ॥
मुग्धस्य बाल्ये कौमारे क्रीडतः याति विंशतिः । जरया ग्रस्त-देहस्य याति अकल्पस्य विंशतिः ॥ ७ ॥
mugdhasya bālye kaumāre krīḍataḥ yāti viṃśatiḥ . jarayā grasta-dehasya yāti akalpasya viṃśatiḥ .. 7 ..
दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥
दुरापूरेण कामेन मोहेन च बलीयसा । शेषम् गृहेषु सक्तस्य प्रमत्तस्य अपयाति हि ॥ ८ ॥
durāpūreṇa kāmena mohena ca balīyasā . śeṣam gṛheṣu saktasya pramattasya apayāti hi .. 8 ..
को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम् ॥ ९ ॥
कः गृहेषु पुमान् सक्तम् आत्मानम् अजित-इन्द्रियः । स्नेह-पाशैः दृढैः बद्धम् उत्सहेत विमोचितुम् ॥ ९ ॥
kaḥ gṛheṣu pumān saktam ātmānam ajita-indriyaḥ . sneha-pāśaiḥ dṛḍhaiḥ baddham utsaheta vimocitum .. 9 ..
को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक् ॥ १० ॥
कः नु अर्थ-तृष्णाम् विसृजेत् प्राणेभ्यः अपि यः ईप्सितः । यम् क्रीणाति असुभिः प्रेष्ठैः तस्करः सेवकः वणिज् ॥ १० ॥
kaḥ nu artha-tṛṣṇām visṛjet prāṇebhyaḥ api yaḥ īpsitaḥ . yam krīṇāti asubhiḥ preṣṭhaiḥ taskaraḥ sevakaḥ vaṇij .. 10 ..
कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ ११ ॥
कथम् प्रियायाः अनुकम्पितायाः सङ्गम् रहस्यम् रुचिरान् च मन्त्रान् । सुहृत्सु तद्-स्नेह-सितः शिशूनाम् कला-अक्षराणाम् अनुरक्त-चित्तः ॥ ११ ॥
katham priyāyāḥ anukampitāyāḥ saṅgam rahasyam rucirān ca mantrān . suhṛtsu tad-sneha-sitaḥ śiśūnām kalā-akṣarāṇām anurakta-cittaḥ .. 11 ..
पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । गृहान् मनोज्ञोः उपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥
पुत्रान् स्मरन् ताः दुहितॄः हृदय्याः भ्रातॄन् स्वसॄः वा पितरौ च दीनौ । गृहान् मनोज्ञोः उपरिच्छदान् च वृत्तीः च कुल्याः पशु-भृत्य-वर्गान् ॥ १२ ॥
putrān smaran tāḥ duhitṝḥ hṛdayyāḥ bhrātṝn svasṝḥ vā pitarau ca dīnau . gṛhān manojñoḥ uparicchadān ca vṛttīḥ ca kulyāḥ paśu-bhṛtya-vargān .. 12 ..
त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ १३ ॥
त्यजेत कोशस्कृत् इव ईहमानः कर्माणि लोभात् अ वितृप्त-कामः । औपस्थ्य-जैह्वम् बहु-मन्यमानः कथम् विरज्येत दुरन्त-मोहः ॥ १३ ॥
tyajeta kośaskṛt iva īhamānaḥ karmāṇi lobhāt a vitṛpta-kāmaḥ . aupasthya-jaihvam bahu-manyamānaḥ katham virajyeta duranta-mohaḥ .. 13 ..
कुटुम्बपोषाय वियन् निजायुः न बुध्यतेऽर्थं विहतं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ १४ ॥
कुटुम्ब-पोषाय वियत् निज-आयुः न बुध्यते अर्थम् विहतम् प्रमत्तः । सर्वत्र ताप-त्रय-दुःखित-आत्मा निर्विद्यते न स्व-कुटुम्ब-रामः ॥ १४ ॥
kuṭumba-poṣāya viyat nija-āyuḥ na budhyate artham vihatam pramattaḥ . sarvatra tāpa-traya-duḥkhita-ātmā nirvidyate na sva-kuṭumba-rāmaḥ .. 14 ..
वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह चाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी ॥ १५ ॥
वित्तेषु नित्य-अभिनिविष्ट-चेताः विद्वान् च दोषम् पर-वित्त-हर्तुः । प्रेत्य इह च अथ अपि अजित-इन्द्रियः तत् अशान्त-कामः हरते कुटुम्बी ॥ १५ ॥
vitteṣu nitya-abhiniviṣṭa-cetāḥ vidvān ca doṣam para-vitta-hartuḥ . pretya iha ca atha api ajita-indriyaḥ tat aśānta-kāmaḥ harate kuṭumbī .. 15 ..
विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावः तमः प्रपद्येत यथा विमूढः ॥ १६ ॥
विद्वान् अपि इत्थम् दनुजाः कुटुम्बम् पुष्णन् स्व-लोकाय न कल्पते वै । यः स्वीय-पारक्य-विभिन्न-भावः तमः प्रपद्येत यथा विमूढः ॥ १६ ॥
vidvān api ittham danujāḥ kuṭumbam puṣṇan sva-lokāya na kalpate vai . yaḥ svīya-pārakya-vibhinna-bhāvaḥ tamaḥ prapadyeta yathā vimūḍhaḥ .. 16 ..
यतो न कश्चित् क्व च कुत्रचिद् वा दीनः स्वमात्मानमलं समर्थः । विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः ॥ १७ ॥
यतस् न कश्चिद् क्व च कुत्रचिद् वा दीनः स्वम् आत्मानम् अलम् समर्थः । विमोचितुम् काम-दृशाम् विहार क्रीडामृगः यत् निगडः विसर्गः ॥ १७ ॥
yatas na kaścid kva ca kutracid vā dīnaḥ svam ātmānam alam samarthaḥ . vimocitum kāma-dṛśām vihāra krīḍāmṛgaḥ yat nigaḍaḥ visargaḥ .. 17 ..
ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्गैः इषितोऽपवर्गः ॥ १८ ॥
ततस् विदूरात् परिहृत्य दैत्याः दैत्येषु सङ्गम् विषय-आत्मकेषु । उपेत नारायणम् आदिदेवम् स मुक्त-सङ्गैः इषितः अपवर्गः ॥ १८ ॥
tatas vidūrāt parihṛtya daityāḥ daityeṣu saṅgam viṣaya-ātmakeṣu . upeta nārāyaṇam ādidevam sa mukta-saṅgaiḥ iṣitaḥ apavargaḥ .. 18 ..
(अनुष्टुप्)
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः । आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ १९ ॥
न हि अच्युतम् प्रीणयतः बहु-आयासः असुर-आत्मजाः । आत्म-त्वात् सर्व-भूतानाम् सिद्ध-त्वात् इह सर्वतस् ॥ १९ ॥
na hi acyutam prīṇayataḥ bahu-āyāsaḥ asura-ātmajāḥ . ātma-tvāt sarva-bhūtānām siddha-tvāt iha sarvatas .. 19 ..
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥
परावरेषु भूतेषु ब्रह्म-अन्त-स्थावर-आदिषु । भौतिकेषु विकारेषु भूतेषु अथ महत्सु च ॥ २० ॥
parāvareṣu bhūteṣu brahma-anta-sthāvara-ādiṣu . bhautikeṣu vikāreṣu bhūteṣu atha mahatsu ca .. 20 ..
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः ॥ २१ ॥
गुणेषु गुण-साम्ये च गुण-व्यतिकरे तथा । एकः एव परः हि आत्मा भगवान् ईश्वरः अव्ययः ॥ २१ ॥
guṇeṣu guṇa-sāmye ca guṇa-vyatikare tathā . ekaḥ eva paraḥ hi ātmā bhagavān īśvaraḥ avyayaḥ .. 21 ..
प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो हि, अनिर्देश्योऽविकल्पितः ॥ २२ ॥
प्रत्यगात्म-स्वरूपेण दृश्य-रूपेण च स्वयम् । व्याप्य-व्यापक-निर्देश्यः हि, अनिर्देश्यः अविकल्पितः ॥ २२ ॥
pratyagātma-svarūpeṇa dṛśya-rūpeṇa ca svayam . vyāpya-vyāpaka-nirdeśyaḥ hi, anirdeśyaḥ avikalpitaḥ .. 22 ..
केवलानुभवानन्द स्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥
केवल-अनुभव-आनन्द-स्वरूपः परमेश्वरः । मायया अन्तर्हित-ऐश्वर्यः ईयते गुण-सर्गया ॥ २३ ॥
kevala-anubhava-ānanda-svarūpaḥ parameśvaraḥ . māyayā antarhita-aiśvaryaḥ īyate guṇa-sargayā .. 23 ..
तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४ ॥
तस्मात् सर्वेषु भूतेषु दयाम् कुरुत सौहृदम् । आसुरम् भावम् उन्मुच्य यया तुष्यति अधोक्षजः ॥ २४ ॥
tasmāt sarveṣu bhūteṣu dayām kuruta sauhṛdam . āsuram bhāvam unmucya yayā tuṣyati adhokṣajaḥ .. 24 ..
तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।
तुष्टे च तत्र किम् अलभ्यम् अनन्ते आद्ये किम् तैः गुण-व्यतिकरात् इह ये स्व-सिद्धाः ।
tuṣṭe ca tatra kim alabhyam anante ādye kim taiḥ guṇa-vyatikarāt iha ye sva-siddhāḥ .
धर्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥ २५ ॥
धर्म-आदयः किम् अगुणेन च काङ्क्षितेन सारंजुषाम् चरणयोः उपगायताम् नः ॥ २५ ॥
dharma-ādayaḥ kim aguṇena ca kāṅkṣitena sāraṃjuṣām caraṇayoḥ upagāyatām naḥ .. 25 ..
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६ ॥
धर्म-अर्थ-कामः इति यः अभिहितः त्रिवर्गः ईक्षा त्रयी नय-दमौ विविधा च वार्ता । मन्ये तत् एतत् अखिलम् निगमस्य सत्यम् स्व-आत्म-अर्पणम् स्व-सुहृदः परमस्य पुंसः ॥ २६ ॥
dharma-artha-kāmaḥ iti yaḥ abhihitaḥ trivargaḥ īkṣā trayī naya-damau vividhā ca vārtā . manye tat etat akhilam nigamasya satyam sva-ātma-arpaṇam sva-suhṛdaḥ paramasya puṃsaḥ .. 26 ..
ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय । एकान्तिनां भगवतः तदकिञ्चनानां पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात् ॥ २७ ॥
ज्ञानम् तत् एतत् अमलम् दुरवापम् आह नारायणः नर-सखः किल नारदाय । एकान्तिनाम् भगवतः तत् अकिञ्चनानाम् पाद-अरविन्द रजसा आप्लुत-देहिनाम् स्यात् ॥ २७ ॥
jñānam tat etat amalam duravāpam āha nārāyaṇaḥ nara-sakhaḥ kila nāradāya . ekāntinām bhagavataḥ tat akiñcanānām pāda-aravinda rajasā āpluta-dehinām syāt .. 27 ..
(अनुष्टुप्)
श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ २८ ॥
श्रुतम् एतत् मया पूर्वम् ज्ञानम् विज्ञान-संयुतम् । धर्मम् भागवतम् शुद्धम् नारदात् देवदर्शनात् ॥ २८ ॥
śrutam etat mayā pūrvam jñānam vijñāna-saṃyutam . dharmam bhāgavatam śuddham nāradāt devadarśanāt .. 28 ..
श्रीदैत्यपुत्रा ऊचुः -
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥
प्रह्राद त्वम् वयम् च अपि न ऋते अन्यम् विद्महे गुरुम् । एताभ्याम् गुरु-पुत्राभ्याम् बालानाम् अपि हि ईश्वरौ ॥ २९ ॥
prahrāda tvam vayam ca api na ṛte anyam vidmahe gurum . etābhyām guru-putrābhyām bālānām api hi īśvarau .. 29 ..
बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम् ॥ ३० ॥
बालस्य अन्तःपुर-स्थस्य महत् सङ्गः दुरन्वयः । छिन्द्धि नः संशयम् सौम्य स्यात् चेद् विश्रम्भ-कारणम् ॥ ३० ॥
bālasya antaḥpura-sthasya mahat saṅgaḥ duranvayaḥ . chinddhi naḥ saṃśayam saumya syāt ced viśrambha-kāraṇam .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्रादचरिते षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahrādacarite ṣaṣṭhaḥ adhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In