| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः । उवाच तान्स्मयमानः स्मरन्मदनुभाषितम् १ ।
एवम् दैत्य-सुतैः पृष्टः महा-भागवतः असुरः । उवाच तान् स्मयमानः स्मरन् मद्-अनुभाषितम् ।
evam daitya-sutaiḥ pṛṣṭaḥ mahā-bhāgavataḥ asuraḥ . uvāca tān smayamānaḥ smaran mad-anubhāṣitam .
श्रीप्रह्राद उवाच ।
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् । युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति २ ।
पितरि प्रस्थिते अस्माकम् तपसे मन्दर-अचलम् । युद्ध-उद्यमम् परम् चक्रुः विबुधाः दानवान् प्रति ।
pitari prasthite asmākam tapase mandara-acalam . yuddha-udyamam param cakruḥ vibudhāḥ dānavān prati .
पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः । पापेन पापोऽभक्षीति वदन्तो वासवादयः ३ ।
पिपीलिकैः अहिः इव दिष्ट्या लोक-उपतापनः । पापेन पापः अभक्षि इति वदन्तः वासव-आदयः ।
pipīlikaiḥ ahiḥ iva diṣṭyā loka-upatāpanaḥ . pāpena pāpaḥ abhakṣi iti vadantaḥ vāsava-ādayaḥ .
तेषामतिबलोद्योगं निशम्यासुरयूथपाः । वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ४ ।
तेषाम् अति बल-उद्योगम् निशम्य असुर-यूथपाः । वध्यमानाः सुरैः भीताः दुद्रुवुः सर्वतस् दिशम् ।
teṣām ati bala-udyogam niśamya asura-yūthapāḥ . vadhyamānāḥ suraiḥ bhītāḥ dudruvuḥ sarvatas diśam .
कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान् । नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ५ ।
कलत्र-पुत्र-वित्त-आप्तान् गृहान् पशु-परिच्छदान् । न अवेक्ष्यमाणाः त्वरिताः सर्वे प्राण-परीप्सवः ।
kalatra-putra-vitta-āptān gṛhān paśu-paricchadān . na avekṣyamāṇāḥ tvaritāḥ sarve prāṇa-parīpsavaḥ .
व्यलुम्पन्राजशिबिरममरा जयकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ६ ।
व्यलुम्पन् राज-शिबिरम् अमराः जय-काङ्क्षिणः । इन्द्रः तु राज-महिषीम् मातरम् मम च अग्रहीत् ।
vyalumpan rāja-śibiram amarāḥ jaya-kāṅkṣiṇaḥ . indraḥ tu rāja-mahiṣīm mātaram mama ca agrahīt .
नीयमानां भयोद्विग्नां रुदतीं कुररीमिव । यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ७ ।
नीयमानाम् भय-उद्विग्नाम् रुदतीम् कुररीम् इव । यदृच्छया आगतः तत्र देवर्षिः ददृशे पथि ।
nīyamānām bhaya-udvignām rudatīm kurarīm iva . yadṛcchayā āgataḥ tatra devarṣiḥ dadṛśe pathi .
प्राह नैनां सुरपते नेतुमर्हस्यनागसम् । मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ८ ।
प्राह ना एनाम् सुरपते नेतुम् अर्हसि अनागसम् । मुञ्च मुञ्च महाभाग सतीम् पर-परिग्रहम् ।
prāha nā enām surapate netum arhasi anāgasam . muñca muñca mahābhāga satīm para-parigraham .
श्रीइन्द्र उवाच ।
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः । आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ९ ।
आस्ते अस्याः जठरे वीर्यम् अविषह्यम् सुरद्विषः । आस्यताम् यावत् प्रसवम् मोक्ष्ये अर्थ-पदवीम् गतः ।
āste asyāḥ jaṭhare vīryam aviṣahyam suradviṣaḥ . āsyatām yāvat prasavam mokṣye artha-padavīm gataḥ .
श्रीनारद उवाच ।
अयं निष्किल्बिषः साक्षान्महाभागवतो महान् । त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली १० ।
अयम् निष्किल्बिषः साक्षात् महाभागवतः महान् । त्वया न प्राप्स्यते संस्थाम् अनन्त-अनुचरः बली ।
ayam niṣkilbiṣaḥ sākṣāt mahābhāgavataḥ mahān . tvayā na prāpsyate saṃsthām ananta-anucaraḥ balī .
इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः । अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ११ ।
इति उक्तः ताम् विहाय इन्द्रः देवर्षेः मानयन् वचः । अनन्त-प्रिय-भक्त्या एनाम् परिक्रम्य दिवम् ययौ ।
iti uktaḥ tām vihāya indraḥ devarṣeḥ mānayan vacaḥ . ananta-priya-bhaktyā enām parikramya divam yayau .
ततो मे मातरमृषिः समानीय निजाश्रमे । आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः १२ ।
ततस् मे मातरम् ऋषिः समानीय निज-आश्रमे । आश्वास्य इह उष्यताम् वत्से यावत् ते भर्तुः आगमः ।
tatas me mātaram ṛṣiḥ samānīya nija-āśrame . āśvāsya iha uṣyatām vatse yāvat te bhartuḥ āgamaḥ .
तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया । यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत १३ ।
तथा इति अवात्सीत् देवर्षेः अन्तिके सा अकुतोभया । यावत् दैत्य-पतिः घोरात् तपसः न न्यवर्तत ।
tathā iti avātsīt devarṣeḥ antike sā akutobhayā . yāvat daitya-patiḥ ghorāt tapasaḥ na nyavartata .
ऋषिं पर्यचरत्तत्र भक्त्या परमया सती । अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये १४ ।
ऋषिम् पर्यचरत् तत्र भक्त्या परमया सती । अन्तर्वत्नी स्व-गर्भस्य क्षेमाय इच्छा-प्रसूतये ।
ṛṣim paryacarat tatra bhaktyā paramayā satī . antarvatnī sva-garbhasya kṣemāya icchā-prasūtaye .
ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः । धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् १५ ।
ऋषिः कारुणिकः तस्याः प्रादात् उभयम् ईश्वरः । धर्मस्य तत्त्वम् ज्ञानम् च माम् अपि उद्दिश्य निर्मलम् ।
ṛṣiḥ kāruṇikaḥ tasyāḥ prādāt ubhayam īśvaraḥ . dharmasya tattvam jñānam ca mām api uddiśya nirmalam .
तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे । ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः १६ ।
तत् तु कालस्य दीर्घ-त्वात् स्त्री-त्वात् मातुः तिरोदधे । ऋषिणा अनुगृहीतम् माम् न अधुना अपि अजहात् स्मृतिः ।
tat tu kālasya dīrgha-tvāt strī-tvāt mātuḥ tirodadhe . ṛṣiṇā anugṛhītam mām na adhunā api ajahāt smṛtiḥ .
भवतामपि भूयान्मे यदि श्रद्दधते वचः । वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा १७ ।
भवताम् अपि भूयात् मे यदि श्रद्दधते वचः । वैशारदी धीः श्रद्धातः स्त्री-बालानाम् च मे यथा ।
bhavatām api bhūyāt me yadi śraddadhate vacaḥ . vaiśāradī dhīḥ śraddhātaḥ strī-bālānām ca me yathā .
जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः । फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना १८ ।
जन्म-आद्याः षट् इमे भावाः दृष्टाः देहस्य न आत्मनः । फलानाम् इव वृक्षस्य कालेन ईश्वर-मूर्तिना ।
janma-ādyāḥ ṣaṭ ime bhāvāḥ dṛṣṭāḥ dehasya na ātmanaḥ . phalānām iva vṛkṣasya kālena īśvara-mūrtinā .
आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अविक्रियः स्वदृघेतुर्व्यापकोऽसङ्ग्यनावृतः १९ ।
आत्मा नित्यः अव्ययः शुद्धः एकः क्षेत्रज्ञः आश्रयः । अविक्रियः स्वदृश् हेतुः व्यापकः असङ्गी अनावृतः ।
ātmā nityaḥ avyayaḥ śuddhaḥ ekaḥ kṣetrajñaḥ āśrayaḥ . avikriyaḥ svadṛś hetuḥ vyāpakaḥ asaṅgī anāvṛtaḥ .
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः । अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् २० ।
एतैः द्वादशभिः विद्वान् आत्मनः लक्षणैः परैः । अहम् मम इति असद्भावम् देह-आदौ मोह-जम् त्यजेत् ।
etaiḥ dvādaśabhiḥ vidvān ātmanaḥ lakṣaṇaiḥ paraiḥ . aham mama iti asadbhāvam deha-ādau moha-jam tyajet .
स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् । क्षेत्रेषु देहेषु तथात्मयोगैरध्यात्मविद्ब्रह्मगतिं लभेत २१ ।
स्वर्णम् यथा ग्रावसु हेमकारः क्षेत्रेषु योगैः तद्-अभिज्ञः आप्नुयात् । क्षेत्रेषु देहेषु तथा आत्म-योगैः अध्यात्म-विद् ब्रह्म-गतिम् लभेत ।
svarṇam yathā grāvasu hemakāraḥ kṣetreṣu yogaiḥ tad-abhijñaḥ āpnuyāt . kṣetreṣu deheṣu tathā ātma-yogaiḥ adhyātma-vid brahma-gatim labheta .
अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः । विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् २२ ।
अष्टौ प्रकृतयः प्रोक्ताः त्रयः एव हि तद्-गुणाः । विकाराः षोडश आचार्यैः पुमान् एकः समन्वयात् ।
aṣṭau prakṛtayaḥ proktāḥ trayaḥ eva hi tad-guṇāḥ . vikārāḥ ṣoḍaśa ācāryaiḥ pumān ekaḥ samanvayāt .
देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा । अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् २३ ।
देहः तु सर्व-सङ्घातः जगत् तस्थुः इति द्विधा । अत्र एव मृग्यः पुरुषः न इति न इति इति अ तत् त्यजन् ।
dehaḥ tu sarva-saṅghātaḥ jagat tasthuḥ iti dvidhā . atra eva mṛgyaḥ puruṣaḥ na iti na iti iti a tat tyajan .
अन्वयव्यतिरेकेण विवेकेनोशतात्मना । स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः २४ ।
अन्वय-व्यतिरेकेण विवेकेन उशता आत्मना । स्वर्ग-स्थान-समाम्नायैः विमृशद्भिः असत्वरैः ।
anvaya-vyatirekeṇa vivekena uśatā ātmanā . svarga-sthāna-samāmnāyaiḥ vimṛśadbhiḥ asatvaraiḥ .
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः २५ ।
बुद्धेः जागरणम् स्वप्नः सुषुप्तिः इति वृत्तयः । ताः येन एव अनुभूयन्ते सः अध्यक्षः पुरुषः परः ।
buddheḥ jāgaraṇam svapnaḥ suṣuptiḥ iti vṛttayaḥ . tāḥ yena eva anubhūyante saḥ adhyakṣaḥ puruṣaḥ paraḥ .
एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः । स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् २६ ।
एभिः त्रि-वर्णैः पर्यस्तैः बुद्धि-भेदैः क्रिया-उद्भवैः । स्व-रूपम् आत्मनः बुध्येत् गन्धैः वायुम् इव अन्वयात् ।
ebhiḥ tri-varṇaiḥ paryastaiḥ buddhi-bhedaiḥ kriyā-udbhavaiḥ . sva-rūpam ātmanaḥ budhyet gandhaiḥ vāyum iva anvayāt .
एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते २७ ।
एतद्-द्वारः हि संसारः गुण-कर्म-निबन्धनः । अज्ञान-मूलः अपार्थः अपि पुंसः स्वप्नः इव अर्प्यते ।
etad-dvāraḥ hi saṃsāraḥ guṇa-karma-nibandhanaḥ . ajñāna-mūlaḥ apārthaḥ api puṃsaḥ svapnaḥ iva arpyate .
तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् । बीजनिर्हरणं योगः प्रवाहोपरमो धियः २८ ।
तस्मात् भवद्भिः कर्तव्यम् कर्मणाम् त्रिगुण-आत्मनाम् । बीज-निर्हरणम् योगः प्रवाह-उपरमः धियः ।
tasmāt bhavadbhiḥ kartavyam karmaṇām triguṇa-ātmanām . bīja-nirharaṇam yogaḥ pravāha-uparamaḥ dhiyaḥ .
तत्रोपायसहस्राणामयं भगवतोदितः । यदीश्वरे भगवति यथा यैरञ्जसा रतिः २९ ।
तत्र उपाय-सहस्राणाम् अयम् भगवता उदितः । यदि ईश्वरे भगवति यथा यैः अञ्जसा रतिः ।
tatra upāya-sahasrāṇām ayam bhagavatā uditaḥ . yadi īśvare bhagavati yathā yaiḥ añjasā ratiḥ .
गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च । सङ्गेन साधुभक्तानामीश्वराराधनेन च ३० ।
गुरु-शुश्रूषया भक्त्या सर्व-लब्ध-अर्पणेन च । सङ्गेन साधु-भक्तानाम् ईश्वर-आराधनेन च ।
guru-śuśrūṣayā bhaktyā sarva-labdha-arpaṇena ca . saṅgena sādhu-bhaktānām īśvara-ārādhanena ca .
श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् । तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ३१ ।
श्रद्धया तद्-कथायाम् च कीर्तनैः गुण-कर्मणाम् । तद्-पाद-अम्बुरुह-ध्यानात् तद्-लिङ्ग-ईक्षा-अर्हण-आदिभिः ।
śraddhayā tad-kathāyām ca kīrtanaiḥ guṇa-karmaṇām . tad-pāda-amburuha-dhyānāt tad-liṅga-īkṣā-arhaṇa-ādibhiḥ .
हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः । इति भूतानि मनसा कामैस्तैः साधु मानयेत् ३२ ।
हरिः सर्वेषु भूतेषु भगवान् आस्ते ईश्वरः । इति भूतानि मनसा कामैः तैः साधु मानयेत् ।
hariḥ sarveṣu bhūteṣu bhagavān āste īśvaraḥ . iti bhūtāni manasā kāmaiḥ taiḥ sādhu mānayet .
एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ३३ ।
एवम् निर्जित-षड्वर्गैः क्रियते भक्तिः ईश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ।
evam nirjita-ṣaḍvargaiḥ kriyate bhaktiḥ īśvare . vāsudeve bhagavati yayā saṃlabhyate ratiḥ .
निशम्य कर्माणि गुणानतुल्यान्वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ३४ ।
निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीला-तनुभिः कृतानि । यदा अति हर्ष-उत्पुलक-अश्रु-गद्गदम् प्रोत्कण्ठः उद्गायति रौति नृत्यति ।
niśamya karmāṇi guṇān atulyān vīryāṇi līlā-tanubhiḥ kṛtāni . yadā ati harṣa-utpulaka-aśru-gadgadam protkaṇṭhaḥ udgāyati rauti nṛtyati .
यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ३५ ।
यदा ग्रह-ग्रस्तः इव क्वचिद् हसति आक्रन्दते ध्यायति वन्दते जनम् । मुहुर् श्वसन् वक्ति हरे जगत्पते नारायण इति आत्म-मतिः गत-त्रपः ।
yadā graha-grastaḥ iva kvacid hasati ākrandate dhyāyati vandate janam . muhur śvasan vakti hare jagatpate nārāyaṇa iti ātma-matiḥ gata-trapaḥ .
तदा पुमान्मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ३६ ।
तदा पुमान् मुक्त-समस्त-बन्धनः तद्-भाव-भाव-अनुकृत-आशय-आकृतिः । निर्दग्ध-बीज-अनुशयः महीयसा भक्ति-प्रयोगेण समेति अधोक्षजम् ।
tadā pumān mukta-samasta-bandhanaḥ tad-bhāva-bhāva-anukṛta-āśaya-ākṛtiḥ . nirdagdha-bīja-anuśayaḥ mahīyasā bhakti-prayogeṇa sameti adhokṣajam .
अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ३७ ।
अधोक्षज-आलम्भम् इह अशुभ-आत्मनः शरीरिणः संसृति-चक्र-शातनम् । तत् ब्रह्म-निर्वाण-सुखम् विदुः बुधाः ततस् भजध्वम् हृदये हृदि ईश्वरम् ।
adhokṣaja-ālambham iha aśubha-ātmanaḥ śarīriṇaḥ saṃsṛti-cakra-śātanam . tat brahma-nirvāṇa-sukham viduḥ budhāḥ tatas bhajadhvam hṛdaye hṛdi īśvaram .
कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वे हृदि छिद्र वत्सतः । स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ३८ ।
कः अति प्रयासः असुर-बालकाः हरेः उपासने स्वे हृदि छिद्र वत्सतः । स्वस्य आत्मनः सख्युः अशेष-देहिनाम् सामान्यतस् किम् विषय-उपपादनैः ।
kaḥ ati prayāsaḥ asura-bālakāḥ hareḥ upāsane sve hṛdi chidra vatsataḥ . svasya ātmanaḥ sakhyuḥ aśeṣa-dehinām sāmānyatas kim viṣaya-upapādanaiḥ .
रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः । सर्वेऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः ३९ ।
रायः कलत्रम् पशवः सुत-आदयः गृहाः मही कुञ्जर-कोश-भूतयः । सर्वे अर्थ-कामाः क्षण-भङ्गुर-आयुषः कुर्वन्ति मर्त्यस्य कियत् प्रियम् चलाः ।
rāyaḥ kalatram paśavaḥ suta-ādayaḥ gṛhāḥ mahī kuñjara-kośa-bhūtayaḥ . sarve artha-kāmāḥ kṣaṇa-bhaṅgura-āyuṣaḥ kurvanti martyasya kiyat priyam calāḥ .
एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः । तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये ४० ।
एवम् हि लोकाः क्रतुभिः कृताः अमी क्षयिष्णवः स अतिशयाः न निर्मलाः । तस्मात् अदृष्ट-श्रुत-दूषणम् परम् भक्त्या उक्तया ईशम् भजत आत्म-लब्धये ।
evam hi lokāḥ kratubhiḥ kṛtāḥ amī kṣayiṣṇavaḥ sa atiśayāḥ na nirmalāḥ . tasmāt adṛṣṭa-śruta-dūṣaṇam param bhaktyā uktayā īśam bhajata ātma-labdhaye .
यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नरः । करोत्यतो विपर्यासममोघं विन्दते फलम् ४१ ।
यद्-अर्थे इह कर्माणि विद्वन्मानि असकृत् नरः । करोति अतस् विपर्यासम् अमोघम् विन्दते फलम् ।
yad-arthe iha karmāṇi vidvanmāni asakṛt naraḥ . karoti atas viparyāsam amogham vindate phalam .
सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः । सदाप्नोतीहया दुःखमनीहायाः सुखावृतः ४२ ।
सुखाय दुःख-मोक्षाय सङ्कल्पः इह कर्मिणः । सदा आप्नोति ईहया दुःखम् अनीहायाः सुख-आवृतः ।
sukhāya duḥkha-mokṣāya saṅkalpaḥ iha karmiṇaḥ . sadā āpnoti īhayā duḥkham anīhāyāḥ sukha-āvṛtaḥ .
कामान्कामयते काम्यैर्यदर्थमिह पूरुषः । स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ४३ ।
कामान् कामयते काम्यैः यद्-अर्थम् इह पूरुषः । स वै देहः तु पारक्यः भङ्गुरः याति उपैति च ।
kāmān kāmayate kāmyaiḥ yad-artham iha pūruṣaḥ . sa vai dehaḥ tu pārakyaḥ bhaṅguraḥ yāti upaiti ca .
किमु व्यवहितापत्य दारागारधनादयः । राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः ४४ ।
किमु दार-आगार-धन-आदयः । राज्य-कोश-गज-अमात्य-भृत्य-आप्ताः ममता-आस्पदाः ।
kimu dāra-āgāra-dhana-ādayaḥ . rājya-kośa-gaja-amātya-bhṛtya-āptāḥ mamatā-āspadāḥ .
किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः । अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः ४५ ।
किम् एतैः आत्मनः तुच्छैः सह देहेन नश्वरैः । अनर्थैः अर्थ-सङ्काशैः नित्य-आनन्द-रस-उदधेः ।
kim etaiḥ ātmanaḥ tucchaiḥ saha dehena naśvaraiḥ . anarthaiḥ artha-saṅkāśaiḥ nitya-ānanda-rasa-udadheḥ .
निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः । निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ४६ ।
निरूप्यताम् इह स्व-अर्थः कियान् देहभृतः असुराः । निषेक-आदिषु अवस्थासु क्लिश्यमानस्य कर्मभिः ।
nirūpyatām iha sva-arthaḥ kiyān dehabhṛtaḥ asurāḥ . niṣeka-ādiṣu avasthāsu kliśyamānasya karmabhiḥ .
कर्माण्यारभते देही देहेनात्मानुवर्तिना । कर्मभिस्तनुते देहमुभयं त्वविवेकतः ४७ ।
कर्माणि आरभते देही देहेन आत्म-अनुवर्तिना । कर्मभिः तनुते देहम् उभयम् तु अविवेकतः ।
karmāṇi ārabhate dehī dehena ātma-anuvartinā . karmabhiḥ tanute deham ubhayam tu avivekataḥ .
तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः । भजतानीहयात्मानमनीहं हरिमीश्वरम् ४८ ।
तस्मात् अर्थाः च कामाः च धर्माः च यद्-अपाश्रयाः । भजत अनीहया आत्मानम् अनीहम् हरिम् ईश्वरम् ।
tasmāt arthāḥ ca kāmāḥ ca dharmāḥ ca yad-apāśrayāḥ . bhajata anīhayā ātmānam anīham harim īśvaram .
सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ४९ ।
सर्वेषाम् अपि भूतानाम् हरिः आत्म-ईश्वरः प्रियः । भूतैः महद्भिः स्व-कृतैः कृतानाम् जीव-संज्ञितः ।
sarveṣām api bhūtānām hariḥ ātma-īśvaraḥ priyaḥ . bhūtaiḥ mahadbhiḥ sva-kṛtaiḥ kṛtānām jīva-saṃjñitaḥ .
देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन्मुकुन्दचरणं स्वस्तिमान्स्याद्यथा वयम् ५० ।
देवः असुरः मनुष्यः वा यक्षः गन्धर्वः एव वा । भजन् मुकुन्द-चरणम् स्वस्तिमान् स्यात् यथा वयम् ।
devaḥ asuraḥ manuṣyaḥ vā yakṣaḥ gandharvaḥ eva vā . bhajan mukunda-caraṇam svastimān syāt yathā vayam .
नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ५१ ।
न अलम् द्विज-त्वम् देव-त्वम् ऋषि-त्वम् वा असुर-आत्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तम् न बहु-ज्ञ-ता ।
na alam dvija-tvam deva-tvam ṛṣi-tvam vā asura-ātmajāḥ . prīṇanāya mukundasya na vṛttam na bahu-jña-tā .
न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ५२ ।
न दानम् न तपः न इज्या न शौचम् न व्रतानि च । प्रीयते अमलया भक्त्या हरिः अन्यत् विडम्बनम् ।
na dānam na tapaḥ na ijyā na śaucam na vratāni ca . prīyate amalayā bhaktyā hariḥ anyat viḍambanam .
ततो हरौ भगवति भक्तिं कुरुत दानवाः । आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ५३ ।
ततस् हरौ भगवति भक्तिम् कुरुत दानवाः । आत्म-औपम्येन सर्वत्र सर्व-भूत-आत्मनि ईश्वरे ।
tatas harau bhagavati bhaktim kuruta dānavāḥ . ātma-aupamyena sarvatra sarva-bhūta-ātmani īśvare .
दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ५४ ।
दैतेयाः यक्ष-रक्षांसि स्त्रियः शूद्राः व्रज-ओकसः । खगाः मृगाः पाप-जीवाः सन्ति हि अच्युत-ताम् गताः ।
daiteyāḥ yakṣa-rakṣāṃsi striyaḥ śūdrāḥ vraja-okasaḥ . khagāḥ mṛgāḥ pāpa-jīvāḥ santi hi acyuta-tām gatāḥ .
एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः । एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ५५ ।
एतावान् एव लोके अस्मिन् पुंसः स्व-अर्थः परः स्मृतः । एकान्त-भक्तिः गोविन्दे यत् सर्वत्र तत् ईक्षणम् ।
etāvān eva loke asmin puṃsaḥ sva-arthaḥ paraḥ smṛtaḥ . ekānta-bhaktiḥ govinde yat sarvatra tat īkṣaṇam .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनम् नाम सप्तमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahlādānucarite daityaputrānuśāsanam nāma saptamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In