| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
एवं सुरादयः सर्वे ब्रह्मरुद्र पुरः सराः । नोपैतुमशकन्मन्यु संरम्भं सुदुरासदम् १ ।
एवम् सुर-आदयः सर्वे ब्रह्म-रुद्र पुरस् सराः । न उपैतुम् अशकत् मन्यु संरम्भम् सु दुरासदम् ।
evam sura-ādayaḥ sarve brahma-rudra puras sarāḥ . na upaitum aśakat manyu saṃrambham su durāsadam .
साक्षात्श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता २ ।
साक्षात् श्रीः प्रेषिता देवैः दृष्ट्वा तम् महत् अद्भुतम् । अ दृष्ट-अ श्रुत-पूर्व-त्वात् सा ना उपेयाय शङ्किता ।
sākṣāt śrīḥ preṣitā devaiḥ dṛṣṭvā tam mahat adbhutam . a dṛṣṭa-a śruta-pūrva-tvāt sā nā upeyāya śaṅkitā .
प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके । तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ३ ।
प्रह्रादम् प्रेषयामास ब्रह्म अवस्थितम् अन्तिके । तात प्रशमय उपेहि स्व-पित्रे कुपितम् प्रभुम् ।
prahrādam preṣayāmāsa brahma avasthitam antike . tāta praśamaya upehi sva-pitre kupitam prabhum .
तथेति शनकै राजन्महाभागवतोऽर्भकः । उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ४ ।
तथा इति शनकैस् राजन् महा-भागवतः अर्भकः । उपेत्य भुवि कायेन ननाम विधृत-अञ्जलिः ।
tathā iti śanakais rājan mahā-bhāgavataḥ arbhakaḥ . upetya bhuvi kāyena nanāma vidhṛta-añjaliḥ .
स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् ५ ।
स्व-पाद-मूले पतितम् तम् अर्भकम् विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तद्-शीर्ष्णि अदधात् कर-अम्बुजम् काल-अहि-वित्रस्त-धियाम् कृत-अभयम् ।
sva-pāda-mūle patitam tam arbhakam vilokya devaḥ kṛpayā pariplutaḥ . utthāpya tad-śīrṣṇi adadhāt kara-ambujam kāla-ahi-vitrasta-dhiyām kṛta-abhayam .
स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः । तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ६ ।
स तद्-कर-स्पर्श-धुत-अखिल-अशुभः सपदि अभिव्यक्त-परात्म-दर्शनः । तद्-पाद-पद्मम् हृदि निर्वृतः हृष्यत्-तनुः क्लिन्न-हृद्-अश्रु-लोचनः ।
sa tad-kara-sparśa-dhuta-akhila-aśubhaḥ sapadi abhivyakta-parātma-darśanaḥ . tad-pāda-padmam hṛdi nirvṛtaḥ hṛṣyat-tanuḥ klinna-hṛd-aśru-locanaḥ .
अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः । प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ७ ।
अस्तौषीत् हरिम् एकाग्र मनसा सु समाहितः । प्रेम-गद्गदया वाचा तद्-न्यस्त-हृदय-ईक्षणः ।
astauṣīt harim ekāgra manasā su samāhitaḥ . prema-gadgadayā vācā tad-nyasta-hṛdaya-īkṣaṇaḥ .
श्रीप्रह्राद उवाच ।
ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः । सत्त्वैकतानगतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः । किं तोष्टुमर्हति स मे हरिरुग्रजातेः ८ ।
ब्रह्म-आदयः सुर-गणाः मुनयः अथ सिद्धाः । सत्त्व-एकतान-गतयः वचसाम् प्रवाहैः । न आराधितुम् पुरु-गुणैः अधुना अपि पिप्रुः । किम् तोष्टुम् अर्हति स मे हरिः उग्र-जातेः ।
brahma-ādayaḥ sura-gaṇāḥ munayaḥ atha siddhāḥ . sattva-ekatāna-gatayaḥ vacasām pravāhaiḥ . na ārādhitum puru-guṇaiḥ adhunā api pipruḥ . kim toṣṭum arhati sa me hariḥ ugra-jāteḥ .
मन्ये धनाभिजनरूपतपःश्रुतौजस् । तेजःप्रभावबलपौरुषबुद्धियोगाः । नाराधनाय हि भवन्ति परस्य पुंसो । भक्त्या तुतोष भगवान्गजयूथपाय ९ ।
मन्ये धन-अभिजन-रूप-तपः-श्रुत-ओजः । तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः । न आराधनाय हि भवन्ति परस्य पुंसः । भक्त्या तुतोष भगवान् गज-यूथपाय ।
manye dhana-abhijana-rūpa-tapaḥ-śruta-ojaḥ . tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ . na ārādhanāya hi bhavanti parasya puṃsaḥ . bhaktyā tutoṣa bhagavān gaja-yūthapāya .
विप्राद्द्विषड्गुणयुतादरविन्दनाभ । पादारविन्दविमुखात्श्वपचं वरिष्ठम् । मन्ये तदर्पितमनोवचनेहितार्थ । प्राणं पुनाति स कुलं न तु भूरिमानः १० ।
विप्रात् द्वि-षड्गुण-युतात् अरविन्दनाभ । पाद-अरविन्द-विमुखात् श्वपचम् वरिष्ठम् । मन्ये तद्-अर्पित-मनः-वचन-ईहित-अर्थ । प्राणम् पुनाति स कुलम् न तु भूरि-मानः ।
viprāt dvi-ṣaḍguṇa-yutāt aravindanābha . pāda-aravinda-vimukhāt śvapacam variṣṭham . manye tad-arpita-manaḥ-vacana-īhita-artha . prāṇam punāti sa kulam na tu bhūri-mānaḥ .
नैवात्मनः प्रभुरयं निजलाभपूर्णो । मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं । तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ११ ।
न एव आत्मनः प्रभुः अयम् निज-लाभ-पूर्णः । मानम् जनात् अ विदुषः करुणः वृणीते । यत् यत् जनः भगवते विदधीत मानम् । तत् च आत्मने प्रतिमुखस्य यथा मुख-श्रीः ।
na eva ātmanaḥ prabhuḥ ayam nija-lābha-pūrṇaḥ . mānam janāt a viduṣaḥ karuṇaḥ vṛṇīte . yat yat janaḥ bhagavate vidadhīta mānam . tat ca ātmane pratimukhasya yathā mukha-śrīḥ .
तस्मादहं विगतविक्लव ईश्वरस्य । सर्वात्मना महि गृणामि यथा मनीषम् । नीचोऽजया गुणविसर्गमनुप्रविष्टः । पूयेत येन हि पुमाननुवर्णितेन १२ ।
तस्मात् अहम् विगत-विक्लवः ईश्वरस्य । सर्व-आत्मना महि गृणामि यथा मनीषम् । नीचः अजया गुण-विसर्गम् अनुप्रविष्टः । पूयेत येन हि पुमान् अनुवर्णितेन ।
tasmāt aham vigata-viklavaḥ īśvarasya . sarva-ātmanā mahi gṛṇāmi yathā manīṣam . nīcaḥ ajayā guṇa-visargam anupraviṣṭaḥ . pūyeta yena hi pumān anuvarṇitena .
सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो । ब्रह्मादयो वयमिवेश न चोद्विजन्तः । क्षेमाय भूतय उतात्मसुखाय चास्य । विक्रीडितं भगवतो रुचिरावतारैः १३ ।
सर्वे हि अमी विधि-कराः तव सत्त्व-धाम्नः । ब्रह्म-आदयः वयम् इव ईश न च उद्विजन्तः । क्षेमाय भूतये उत आत्म-सुखाय च अस्य । विक्रीडितम् भगवतः रुचिर-अवतारैः ।
sarve hi amī vidhi-karāḥ tava sattva-dhāmnaḥ . brahma-ādayaḥ vayam iva īśa na ca udvijantaḥ . kṣemāya bhūtaye uta ātma-sukhāya ca asya . vikrīḍitam bhagavataḥ rucira-avatāraiḥ .
तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य । मोदेत साधुरपि वृश्चिकसर्पहत्या । लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे । रूपं नृसिंह विभयाय जनाः स्मरन्ति १४ ।
तत् यच्छ मन्युम् असुरः च हतः त्वया अद्य । मोदेत साधुः अपि वृश्चिक-सर्प-हत्या । लोकाः च निर्वृति-मिताः प्रतियन्ति सर्वे । रूपम् नृसिंह विभयाय जनाः स्मरन्ति ।
tat yaccha manyum asuraḥ ca hataḥ tvayā adya . modeta sādhuḥ api vṛścika-sarpa-hatyā . lokāḥ ca nirvṛti-mitāḥ pratiyanti sarve . rūpam nṛsiṃha vibhayāya janāḥ smaranti .
नाहं बिभेम्यजित तेऽतिभयानकास्य । जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् । आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् । निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् १५ ।
न अहम् बिभेमि अजित ते अति भयानका अस्य । जिह्वा-अर्क-नेत्र-भ्रुकुटी-रभस-उग्र-दंष्ट्रात् । आन्त्र-स्रजः-क्षतज-केशर-शङ्कु-कर्णान् । निर्ह्राद-भीत-दिगिभात् अरि-भिन्न-ख-अग्रात् ।
na aham bibhemi ajita te ati bhayānakā asya . jihvā-arka-netra-bhrukuṭī-rabhasa-ugra-daṃṣṭrāt . āntra-srajaḥ-kṣataja-keśara-śaṅku-karṇān . nirhrāda-bhīta-digibhāt ari-bhinna-kha-agrāt .
त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र । संसारचक्रकदनाद्ग्रसतां प्रणीतः । बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं । प्रीतोऽपवर्गशरणं ह्वयसे कदा नु १६ ।
त्रस्तः अस्मि अहम् कृपण-वत्सल दुःसह-उग्र । संसार-चक्र-कदनात् ग्रसताम् प्रणीतः । बद्धः स्व-कर्मभिः उशत्तम ते अङ्घ्रि-मूलम् । प्रीतः अपवर्ग-शरणम् ह्वयसे कदा नु ।
trastaḥ asmi aham kṛpaṇa-vatsala duḥsaha-ugra . saṃsāra-cakra-kadanāt grasatām praṇītaḥ . baddhaḥ sva-karmabhiḥ uśattama te aṅghri-mūlam . prītaḥ apavarga-śaraṇam hvayase kadā nu .
यस्मात्प्रियाप्रियवियोगसंयोगजन्म । शोकाग्निना सकलयोनिषु दह्यमानः । दुःखौषधं तदपि दुःखमतद्धियाहं । भूमन्भ्रमामि वद मे तव दास्ययोगम् १७ ।
यस्मात् प्रिय-अप्रिय-वियोग-संयोग-जन्म । शोक-अग्निना सकल-योनिषु दह्यमानः । दुःख-औषधम् तत् अपि दुःखम् अ तद्-धिया अहम् । भूमन् भ्रमामि वद मे तव दास्य-योगम् ।
yasmāt priya-apriya-viyoga-saṃyoga-janma . śoka-agninā sakala-yoniṣu dahyamānaḥ . duḥkha-auṣadham tat api duḥkham a tad-dhiyā aham . bhūman bhramāmi vada me tava dāsya-yogam .
सोऽहं प्रियस्य सुहृदः परदेवताया । लीलाकथास्तव नृसिंह विरिञ्चगीताः । अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो । दुर्गाणि ते पदयुगालयहंससङ्गः १८ ।
सः अहम् प्रियस्य सुहृदः पर-देवताया । लीला-कथाः तव नृसिंह विरिञ्च-गीताः । अञ्जस् तितर्मि अनुगृणन् गुण-विप्रमुक्तः । दुर्गाणि ते पद-युग-आलय-हंस-सङ्गः ।
saḥ aham priyasya suhṛdaḥ para-devatāyā . līlā-kathāḥ tava nṛsiṃha viriñca-gītāḥ . añjas titarmi anugṛṇan guṇa-vipramuktaḥ . durgāṇi te pada-yuga-ālaya-haṃsa-saṅgaḥ .
बालस्य नेह शरणं पितरौ नृसिंह । नार्तस्य चागदमुदन्वति मज्जतो नौः । तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् । तावद्विभो तनुभृतां त्वदुपेक्षितानाम् १९ ।
बालस्य ना इह शरणम् पितरौ नृसिंह । न आर्तस्य च अगदम् उदन्वति मज्जतः नौः । तप्तस्य तद्-प्रतिविधिः यः इह अञ्जसा इष्टः । तावत् विभो तनुभृताम् त्वद्-उपेक्षितानाम् ।
bālasya nā iha śaraṇam pitarau nṛsiṃha . na ārtasya ca agadam udanvati majjataḥ nauḥ . taptasya tad-pratividhiḥ yaḥ iha añjasā iṣṭaḥ . tāvat vibho tanubhṛtām tvad-upekṣitānām .
यस्मिन्यतो यर्हि येन च यस्य यस्माद् । यस्मै यथा यदुत यस्त्वपरः परो वा । भावः करोति विकरोति पृथक्स्वभावः । सञ्चोदितस्तदखिलं भवतः स्वरूपम् २० ।
यस्मिन् यतस् यर्हि येन च यस्य यस्मात् । यस्मै यथा यत् उत यः तु अपरः परः वा । भावः करोति विकरोति पृथक् स्वभावः । सञ्चोदितः तत् अखिलम् भवतः स्व-रूपम् ।
yasmin yatas yarhi yena ca yasya yasmāt . yasmai yathā yat uta yaḥ tu aparaḥ paraḥ vā . bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ . sañcoditaḥ tat akhilam bhavataḥ sva-rūpam .
माया मनः सृजति कर्ममयं बलीयः । कालेन चोदितगुणानुमतेन पुंसः । छन्दोमयं यदजयार्पितषोडशारं । संसारचक्रमज कोऽतितरेत्त्वदन्यः २१ ।
माया मनः सृजति कर्म-मयम् बलीयः । कालेन च उदित-गुण-अनुमतेन पुंसः । छन्दः-मयम् यत् अजया अर्पित-षोडश-अरम् । संसार-चक्रम् अज कः अतितरेत् त्वद्-अन्यः ।
māyā manaḥ sṛjati karma-mayam balīyaḥ . kālena ca udita-guṇa-anumatena puṃsaḥ . chandaḥ-mayam yat ajayā arpita-ṣoḍaśa-aram . saṃsāra-cakram aja kaḥ atitaret tvad-anyaḥ .
स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना । कालो वशीकृतविसृज्यविसर्गशक्तिः । चक्रे विसृष्टमजयेश्वर षोडशारे । निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् २२ ।
स त्वम् हि नित्य-विजित-आत्म-गुणः स्व-धाम्ना । । चक्रे विसृष्टम् अजयेश्वर षोडशारे । निष्पीड्यमानम् उपकर्ष विभो प्रपन्नम् ।
sa tvam hi nitya-vijita-ātma-guṇaḥ sva-dhāmnā . . cakre visṛṣṭam ajayeśvara ṣoḍaśāre . niṣpīḍyamānam upakarṣa vibho prapannam .
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् । आयुः श्रियो विभव इच्छति यान्जनोऽयम् । येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू । विस्फूर्जितेन लुलिताः स तु ते निरस्तः २३ ।
दृष्टा मया दिवि विभो अखिल-धिष्ण्यपानाम् । आयुः श्रियः विभवः इच्छति यान् जनः अयम् । ये अस्मद्-पितुः कुपित-हास-विजृम्भित-भ्रू । विस्फूर्जितेन लुलिताः स तु ते निरस्तः ।
dṛṣṭā mayā divi vibho akhila-dhiṣṇyapānām . āyuḥ śriyaḥ vibhavaḥ icchati yān janaḥ ayam . ye asmad-pituḥ kupita-hāsa-vijṛmbhita-bhrū . visphūrjitena lulitāḥ sa tu te nirastaḥ .
तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ । आयुः श्रियं विभवमैन्द्रि यमाविरिञ्च्यात् । नेच्छामि ते विलुलितानुरुविक्रमेण । कालात्मनोपनय मां निजभृत्यपार्श्वम् २४ ।
तस्मात् अमूः तनुभृताम् अहम् आशिषः अज्ञ । आयुः श्रियम् विभवम् ऐन्द्रि यम् आ विरिञ्च्यात् । न इच्छामि ते विलुलितान् उरु-विक्रमेण । काल-आत्मना उपनय माम् निज-भृत्य-पार्श्वम् ।
tasmāt amūḥ tanubhṛtām aham āśiṣaḥ ajña . āyuḥ śriyam vibhavam aindri yam ā viriñcyāt . na icchāmi te vilulitān uru-vikrameṇa . kāla-ātmanā upanaya mām nija-bhṛtya-pārśvam .
कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः । क्वेदं कलेवरमशेषरुजां विरोहः । निर्विद्यते न तु जनो यदपीति विद्वान् । कामानलं मधुलवैः शमयन्दुरापैः २५ ।
कुत्र आशिषः श्रुति-सुखाः मृगतृष्णि-रूपाः । क्व इदम् कलेवरम् अशेष-रुजाम् विरोहः । निर्विद्यते न तु जनः यत् अपि इति विद्वान् । काम-अनलम् मधु-लवैः शमयन् दुरापैः ।
kutra āśiṣaḥ śruti-sukhāḥ mṛgatṛṣṇi-rūpāḥ . kva idam kalevaram aśeṣa-rujām virohaḥ . nirvidyate na tu janaḥ yat api iti vidvān . kāma-analam madhu-lavaiḥ śamayan durāpaiḥ .
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् । जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया । यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः २६ ।
क्व अहम् रजः-प्रभवे ईश तमः-अधिके अस्मिन् । जातः सुरेतर-कुले क्व तव अनुकम्पा । न ब्रह्मणः न तु भवस्य न वै रमाया । यत् मे अर्पितः शिरसि पद्मकरः प्रसादः ।
kva aham rajaḥ-prabhave īśa tamaḥ-adhike asmin . jātaḥ suretara-kule kva tava anukampā . na brahmaṇaḥ na tu bhavasya na vai ramāyā . yat me arpitaḥ śirasi padmakaraḥ prasādaḥ .
नैषा परावरमतिर्भवतो ननु स्याज् । जन्तोर्यथात्मसुहृदो जगतस्तथापि । संसेवया सुरतरोरिव ते प्रसादः । सेवानुरूपमुदयो न परावरत्वम् २७ ।
न एषा परावर-मतिः भवतः ननु स्यात् । जन्तोः यथा आत्म-सुहृदः जगतः तथा अपि । संसेवया सुर-तरोः इव ते प्रसादः । सेवा-अनुरूपम् उदयः न परावर-त्वम् ।
na eṣā parāvara-matiḥ bhavataḥ nanu syāt . jantoḥ yathā ātma-suhṛdaḥ jagataḥ tathā api . saṃsevayā sura-taroḥ iva te prasādaḥ . sevā-anurūpam udayaḥ na parāvara-tvam .
एवं जनं निपतितं प्रभवाहिकूपे । कामाभिकाममनु यः प्रपतन्प्रसङ्गात् । कृत्वात्मसात्सुरर्षिणा भगवन्गृहीतः । सोऽहं कथं नु विसृजे तव भृत्यसेवाम् २८ ।
एवम् जनम् निपतितम् प्रभव-अहि-कूपे । काम-अभिकामम् अनु यः प्रपतन् प्रसङ्गात् । कृत्वा आत्मसात् सुर-ऋषिणा भगवन् गृहीतः । सः अहम् कथम् नु विसृजे तव भृत्य-सेवाम् ।
evam janam nipatitam prabhava-ahi-kūpe . kāma-abhikāmam anu yaḥ prapatan prasaṅgāt . kṛtvā ātmasāt sura-ṛṣiṇā bhagavan gṛhītaḥ . saḥ aham katham nu visṛje tava bhṛtya-sevām .
मत्प्राणरक्षणमनन्त पितुर्वधश्च । मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् । खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् । त्वामीश्वरो मदपरोऽवतु कं हरामि २९ ।
मद्-प्राण-रक्षणम् अनन्त पितुः वधः च । मन्ये स्व-भृत्य-ऋषि-वाक्य-मृतम् विधातुम् । खड्गम् प्रगृह्य यत् अवोचत् असत्-विधित्सुः । त्वाम् ईश्वरः मद्-अपरः अवतु कम् हरामि ।
mad-prāṇa-rakṣaṇam ananta pituḥ vadhaḥ ca . manye sva-bhṛtya-ṛṣi-vākya-mṛtam vidhātum . khaḍgam pragṛhya yat avocat asat-vidhitsuḥ . tvām īśvaraḥ mad-aparaḥ avatu kam harāmi .
एकस्त्वमेव जगदेतममुष्य यत्त्वम् । आद्यन्तयोः पृथगवस्यसि मध्यतश्च । सृष्ट्वा गुणव्यतिकरं निजमाययेदं । नानेव तैरवसितस्तदनुप्रविष्टः ३० ।
एकः त्वम् एव जगत् एतम् अमुष्य यत् त्वम् । आदि-अन्तयोः पृथक् अवस्यसि मध्यतः च । सृष्ट्वा गुण-व्यतिकरम् निज-मायया इदम् । नाना इव तैः अवसितः तद्-अनुप्रविष्टः ।
ekaḥ tvam eva jagat etam amuṣya yat tvam . ādi-antayoḥ pṛthak avasyasi madhyataḥ ca . sṛṣṭvā guṇa-vyatikaram nija-māyayā idam . nānā iva taiḥ avasitaḥ tad-anupraviṣṭaḥ .
त्वम्वा इदं सदसदीश भवांस्ततोऽन्यो । माया यदात्मपरबुद्धिरियं ह्यपार्था । यद्यस्य जन्म निधनं स्थितिरीक्षणं च । तद्वैतदेव वसुकालवदष्टितर्वोः ३१ ।
त्वम् वै इदम् सत्-असत् ईश भवान् ततस् अन्यो । माया यत् आत्म-पर-बुद्धिः इयम् हि अपार्था । यत् यस्य जन्म निधनम् स्थितिः ईक्षणम् च । तत् वा एतत् एव वसु-कालवत् अष्टि-तर्वोः ।
tvam vai idam sat-asat īśa bhavān tatas anyo . māyā yat ātma-para-buddhiḥ iyam hi apārthā . yat yasya janma nidhanam sthitiḥ īkṣaṇam ca . tat vā etat eva vasu-kālavat aṣṭi-tarvoḥ .
न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये । शेषेत्मना निजसुखानुभवो निरीहः । योगेन मीलितदृगात्मनिपीतनिद्र स् । तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ३२ ।
न्यस्य इदम् आत्मनि जगत्-विलय-अम्बु-मध्ये । शेष-ईत्मना निज-सुख-अनुभवः निरीहः । योगेन स् । तुर्ये स्थितः न तु तमः न गुणान् च युङ्क्षे ।
nyasya idam ātmani jagat-vilaya-ambu-madhye . śeṣa-ītmanā nija-sukha-anubhavaḥ nirīhaḥ . yogena s . turye sthitaḥ na tu tamaḥ na guṇān ca yuṅkṣe .
तस्यैव ते वपुरिदं निजकालशक्त्या । सञ्चोदितप्रकृतिधर्मण आत्मगूढम् । अम्भस्यनन्तशयनाद्विरमत्समाधेर् । नाभेरभूत्स्वकणिकावटवन्महाब्जम् ३३ ।
तस्य एव ते वपुः इदम् निज-काल-शक्त्या । सञ्चोदित-प्रकृति-धर्मणः आत्म-गूढम् । अम्भसि अनन्त-शयनात् विरमत्-समाधेः । नाभेः अभूत् स्व-कणिका-वट-वत् महा-अब्जम् ।
tasya eva te vapuḥ idam nija-kāla-śaktyā . sañcodita-prakṛti-dharmaṇaḥ ātma-gūḍham . ambhasi ananta-śayanāt viramat-samādheḥ . nābheḥ abhūt sva-kaṇikā-vaṭa-vat mahā-abjam .
तत्सम्भवः कविरतोऽन्यदपश्यमानस् । त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य । नाविन्ददब्दशतमप्सु निमज्जमानो । जातेऽङ्कुरे कथमुहोपलभेत बीजम् ३४ ।
तद्-सम्भवः कविः अतस् अन्यत् अपश्यमानः । त्वाम् बीजम् आत्मनि ततम् स बहिस् विचिन्त्य । न अविन्दत् अब्द-शतम् अप्सु निमज्जमानः । जाते अङ्कुरे कथम् उह उपलभेत बीजम् ।
tad-sambhavaḥ kaviḥ atas anyat apaśyamānaḥ . tvām bījam ātmani tatam sa bahis vicintya . na avindat abda-śatam apsu nimajjamānaḥ . jāte aṅkure katham uha upalabheta bījam .
स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं । कालेन तीव्रतपसा परिशुद्धभावः । त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं । भूतेन्द्रि याशयमये विततं ददर्श ३५ ।
स तु आत्मयोनिः अति विस्मितः आश्रितः अब्जम् । कालेन तीव्र-तपसा परिशुद्ध-भावः । त्वाम् आत्मनि ईश भुवि गन्धम् इव अति सूक्ष्मम् । भूत-इन्द्रि-आशय-मये विततम् ददर्श ।
sa tu ātmayoniḥ ati vismitaḥ āśritaḥ abjam . kālena tīvra-tapasā pariśuddha-bhāvaḥ . tvām ātmani īśa bhuvi gandham iva ati sūkṣmam . bhūta-indri-āśaya-maye vitatam dadarśa .
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु । नासाद्यकर्णनयनाभरणायुधाढ्यम् । मायामयं सदुपलक्षितसन्निवेशं । दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ३६ ।
एवम् सहस्र-वदन-अङ्घ्रि-शिरः-कर-ऊरु । नासाद्य-कर्ण-नयन-आभरण-आयुध-आढ्यम् । माया-मयम् सत्-उपलक्षित-सन्निवेशम् । दृष्ट्वा महापुरुषम् आप मुदम् विरिञ्चः ।
evam sahasra-vadana-aṅghri-śiraḥ-kara-ūru . nāsādya-karṇa-nayana-ābharaṇa-āyudha-āḍhyam . māyā-mayam sat-upalakṣita-sanniveśam . dṛṣṭvā mahāpuruṣam āpa mudam viriñcaḥ .
तस्मै भवान्हयशिरस्तनुवं हि बिभ्रद् । वेदद्रुहावतिबलौ मधुकैटभाख्यौ । हत्वानयच्छ्रुतिगणांश्च रजस्तमश्च । सत्त्वं तव प्रियतमां तनुमामनन्ति ३७ ।
तस्मै भवान् हय-शिरः तनुवम् हि बिभ्रत् । वेदद्रुहौ अतिबलौ मधु-कैटभ-आख्यौ । हत्वा अनयत् श्रुति-गणान् च रजः तमः च । सत्त्वम् तव प्रियतमाम् तनुम् आमनन्ति ।
tasmai bhavān haya-śiraḥ tanuvam hi bibhrat . vedadruhau atibalau madhu-kaiṭabha-ākhyau . hatvā anayat śruti-gaṇān ca rajaḥ tamaḥ ca . sattvam tava priyatamām tanum āmananti .
इत्थं नृतिर्यगृषिदेवझषावतारैर् । लोकान्विभावयसि हंसि जगत्प्रतीपान् । धर्मं महापुरुष पासि युगानुवृत्तं । छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ३८ ।
इत्थम् नृ-तिर्यक्-ऋषि-देव-झष-अवतारैः । लोकान् विभावयसि हंसि जगत्-प्रतीपान् । धर्मम् महापुरुष पासि युग-अनुवृत्तम् । छन्नः कलौ यत् अभवः त्रि-युगः अथ स त्वम् ।
ittham nṛ-tiryak-ṛṣi-deva-jhaṣa-avatāraiḥ . lokān vibhāvayasi haṃsi jagat-pratīpān . dharmam mahāpuruṣa pāsi yuga-anuvṛttam . channaḥ kalau yat abhavaḥ tri-yugaḥ atha sa tvam .
नैतन्मनस्तव कथासु विकुण्ठनाथ । सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् । कामातुरं हर्षशोकभयैषणार्तं । तस्मिन्कथं तव गतिं विमृशामि दीनः ३९ ।
न एतत् मनः तव कथासु विकुण्ठ-नाथ । सम्प्रीयते दुरित-दुष्टम् असाधु तीव्रम् । काम-आतुरम् हर्ष-शोक-भय-एषणा-आर्तम् । तस्मिन् कथम् तव गतिम् विमृशामि दीनः ।
na etat manaḥ tava kathāsu vikuṇṭha-nātha . samprīyate durita-duṣṭam asādhu tīvram . kāma-āturam harṣa-śoka-bhaya-eṣaṇā-ārtam . tasmin katham tava gatim vimṛśāmi dīnaḥ .
जिह्वैकतोऽच्युत विकर्षति मावितृप्ता । शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । घ्राणोऽन्यतश्चपलदृक्क्व च कर्मशक्तिर् । बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ४० ।
जिह्वा एकतस् अच्युत विकर्षति मा अ वितृप्ता । शिश्नः अन्यतस् त्वच्-उदरम् श्रवणम् कुतश्चिद् । घ्राणः अन्यतस् चपल-दृश् क्व च कर्म-शक्तिः । बह्व्यः सपत्न्यः इव गेहपतिम् लुनन्ति ।
jihvā ekatas acyuta vikarṣati mā a vitṛptā . śiśnaḥ anyatas tvac-udaram śravaṇam kutaścid . ghrāṇaḥ anyatas capala-dṛś kva ca karma-śaktiḥ . bahvyaḥ sapatnyaḥ iva gehapatim lunanti .
एवं स्वकर्मपतितं भववैतरण्याम् । अन्योन्यजन्ममरणाशनभीतभीतम् । पश्यन्जनं स्वपरविग्रहवैरमैत्रं । हन्तेति पारचर पीपृहि मूढमद्य ४१ ।
एवम् स्व-कर्म-पतितम् भव-वैतरण्याम् । अन्योन्य-जन्म-मरण-अशन-भीत-भीतम् । पश्यन् जनम् स्व-पर-विग्रह-वैर-मैत्रम् । हन्त इति पारचर पीपृहि मूढम् अद्य ।
evam sva-karma-patitam bhava-vaitaraṇyām . anyonya-janma-maraṇa-aśana-bhīta-bhītam . paśyan janam sva-para-vigraha-vaira-maitram . hanta iti pāracara pīpṛhi mūḍham adya .
को न्वत्र तेऽखिलगुरो भगवन्प्रयास । उत्तारणेऽस्य भवसम्भवलोपहेतोः । मूढेषु वै महदनुग्रह आर्तबन्धो । किं तेन ते प्रियजनाननुसेवतां नः ४२ ।
कः नु अत्र ते अखिल-गुरो भगवन् प्रयास । उत्तारणे अस्य भव-सम्भव-लोप-हेतोः । मूढेषु वै महत् अनुग्रहः आर्त-बन्धो । किम् तेन ते प्रिय-जनान् अनुसेवताम् नः ।
kaḥ nu atra te akhila-guro bhagavan prayāsa . uttāraṇe asya bhava-sambhava-lopa-hetoḥ . mūḍheṣu vai mahat anugrahaḥ ārta-bandho . kim tena te priya-janān anusevatām naḥ .
नैवोद्विजे पर दुरत्ययवैतरण्यास् । त्वद्वीर्यगायनमहामृतमग्नचित्तः । शोचे ततो विमुखचेतस इन्द्रि यार्थ । मायासुखाय भरमुद्वहतो विमूढान् ४३ ।
न एव उद्विजे पर दुरत्यय-वैतरण्याः । त्वद्-वीर्य-गायन-महा-अमृत-मग्न-चित्तः । शोचे ततस् विमुख-चेतसः इन्द्रि यार्थ । माया-सुखाय भरम् उद्वहतः विमूढान् ।
na eva udvije para duratyaya-vaitaraṇyāḥ . tvad-vīrya-gāyana-mahā-amṛta-magna-cittaḥ . śoce tatas vimukha-cetasaḥ indri yārtha . māyā-sukhāya bharam udvahataḥ vimūḍhān .
प्रायेण देव मुनयः स्वविमुक्तिकामा । मौनं चरन्ति विजने न परार्थनिष्ठाः । नैतान्विहाय कृपणान्विमुमुक्ष एको । नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ४४ ।
प्रायेण देव मुनयः स्व-विमुक्ति-कामा । मौनम् चरन्ति विजने न पर-अर्थ-निष्ठाः । न एतान् विहाय कृपणान् विमुमुक्षे एकः । न अन्यम् त्वत् अस्य शरणम् भ्रमतः अनुपश्ये ।
prāyeṇa deva munayaḥ sva-vimukti-kāmā . maunam caranti vijane na para-artha-niṣṭhāḥ . na etān vihāya kṛpaṇān vimumukṣe ekaḥ . na anyam tvat asya śaraṇam bhramataḥ anupaśye .
यन्मैथुनादिगृहमेधिसुखं हि तुच्छं । कण्डूयनेन करयोरिव दुःखदुःखम् । तृप्यन्ति नेह कृपणा बहुदुःखभाजः । कण्डूतिवन्मनसिजं विषहेत धीरः ४५ ।
यत् मैथुन-आदि-गृहमेधि-सुखम् हि तुच्छम् । कण्डूयनेन करयोः इव दुःख-दुःखम् । तृप्यन्ति न इह कृपणाः बहु-दुःख-भाजः । कण्डूति-वत् मनसिजम् विषहेत धीरः ।
yat maithuna-ādi-gṛhamedhi-sukham hi tuccham . kaṇḍūyanena karayoḥ iva duḥkha-duḥkham . tṛpyanti na iha kṛpaṇāḥ bahu-duḥkha-bhājaḥ . kaṇḍūti-vat manasijam viṣaheta dhīraḥ .
मौनव्रतश्रुततपोऽध्ययनस्वधर्म । व्याख्यारहोजपसमाधय आपवर्ग्याः । प्रायः परं पुरुष ते त्वजितेन्द्रियाणां । वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ४६ ।
मौन-व्रत-श्रुत-तपः-अध्ययन-स्वधर्म । व्याख्या-रहः-जप-समाधयः आपवर्ग्याः । प्रायस् परम् पुरुष ते तु अजित-इन्द्रियाणाम् । वार्ताः भवन्ति उत न वा अत्र तु दाम्भिकानाम् ।
mauna-vrata-śruta-tapaḥ-adhyayana-svadharma . vyākhyā-rahaḥ-japa-samādhayaḥ āpavargyāḥ . prāyas param puruṣa te tu ajita-indriyāṇām . vārtāḥ bhavanti uta na vā atra tu dāmbhikānām .
रूपे इमे सदसती तव वेदसृष्टे । बीजाङ्कुराविव न चान्यदरूपकस्य । युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां । योगेन वह्निमिव दारुषु नान्यतः स्यात् ४७ ।
रूपे इमे सत्-असती तव वेद-सृष्टे । बीज-अङ्कुरौ इव न च अन्यत् अरूपकस्य । युक्ताः समक्षम् उभयत्र विचक्षन्ते त्वाम् । योगेन वह्निम् इव दारुषु न अन्यतस् स्यात् ।
rūpe ime sat-asatī tava veda-sṛṣṭe . bīja-aṅkurau iva na ca anyat arūpakasya . yuktāḥ samakṣam ubhayatra vicakṣante tvām . yogena vahnim iva dāruṣu na anyatas syāt .
त्वं वायुरग्निरवनिर्वियदम्बु मात्राः । प्राणेन्द्रि याणि हृदयं चिदनुग्रहश्च । सर्वं त्वमेव सगुणो विगुणश्च भूमन् । नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ४८ ।
त्वम् वायुः अग्निः अवनिः वियत् अम्बु मात्राः । प्राण-इन्द्रि हृदयम् चित्-अनुग्रहः च । सर्वम् त्वम् एव सगुणः विगुणः च भूमन् । न अन्यत् त्वत् अस्ति अपि मनः-वचसा निरुक्तम् ।
tvam vāyuḥ agniḥ avaniḥ viyat ambu mātrāḥ . prāṇa-indri hṛdayam cit-anugrahaḥ ca . sarvam tvam eva saguṇaḥ viguṇaḥ ca bhūman . na anyat tvat asti api manaḥ-vacasā niruktam .
नैते गुणा न गुणिनो महदादयो ये । सर्वे मनः प्रभृतयः सहदेवमर्त्याः । आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् । एवं विमृश्य सुधियो विरमन्ति शब्दात् ४९ ।
न एते गुणाः न गुणिनः महत्-आदयः ये । सर्वे मनः-प्रभृतयः सहदेव-मर्त्याः । आदि-अन्तवन्तः उरुगाय विदन्ति हि त्वाम् । एवम् विमृश्य सुधियः विरमन्ति शब्दात् ।
na ete guṇāḥ na guṇinaḥ mahat-ādayaḥ ye . sarve manaḥ-prabhṛtayaḥ sahadeva-martyāḥ . ādi-antavantaḥ urugāya vidanti hi tvām . evam vimṛśya sudhiyaḥ viramanti śabdāt .
तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः । कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षडङ्गया किं । भक्तिंं जनः परमहंसगतौ लभेत ५० ।
तत् ते अर्हत्तम नमः स्तुति-कर्म-पूजाः । कर्म स्मृतिः चरणयोः श्रवणम् कथायाम् । संसेवया त्वयि विना इति षडङ्गया किम् । भक्तिम् जनः परमहंस-गतौ लभेत ।
tat te arhattama namaḥ stuti-karma-pūjāḥ . karma smṛtiḥ caraṇayoḥ śravaṇam kathāyām . saṃsevayā tvayi vinā iti ṣaḍaṅgayā kim . bhaktim janaḥ paramahaṃsa-gatau labheta .
श्रीनारद उवाच ।
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः । प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ५१ ।
एतावत्-वर्णित-गुणः भक्त्या भक्तेन निर्गुणः । प्रह्रादम् प्रणतम् प्रीतः यत-मन्युः अभाषत ।
etāvat-varṇita-guṇaḥ bhaktyā bhaktena nirguṇaḥ . prahrādam praṇatam prītaḥ yata-manyuḥ abhāṣata .
श्रीभगवानुवाच ।
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम । वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ५२ ।
प्रह्राद भद्र भद्रम् ते प्रीतः अहम् ते असुर-उत्तम । वरम् वृणीष्व अभिमतम् कामपूरः अस्मि अहम् नृणाम् ।
prahrāda bhadra bhadram te prītaḥ aham te asura-uttama . varam vṛṇīṣva abhimatam kāmapūraḥ asmi aham nṛṇām .
मामप्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे । दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ५३ ।
माम् अ प्रीणतः आयुष्मन् दर्शनम् दुर्लभम् हि मे । दृष्ट्वा माम् न पुनर् जन्तुः आत्मानम् तप्तुम् अर्हति ।
mām a prīṇataḥ āyuṣman darśanam durlabham hi me . dṛṣṭvā mām na punar jantuḥ ātmānam taptum arhati .
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः । श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ५४ ।
प्रीणन्ति हि अथ माम् धीराः सर्व-भावेन साधवः । श्रेयस्कामाः महाभाग सर्वासाम् आशिषाम् पतिम् ।
prīṇanti hi atha mām dhīrāḥ sarva-bhāvena sādhavaḥ . śreyaskāmāḥ mahābhāga sarvāsām āśiṣām patim .
श्रीनारद उवाच ।
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः । एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ५५ ।
एवम् प्रलोभ्यमानः अपि वरैः लोक-प्रलोभनैः । एकान्ति-त्वात् भगवति न ऐच्छत् तान् असुर-उत्तमः ।
evam pralobhyamānaḥ api varaiḥ loka-pralobhanaiḥ . ekānti-tvāt bhagavati na aicchat tān asura-uttamaḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते भगवत्स्तवो नाम नवमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्लादचरिते भगवत्स्तवः नाम नवमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahlādacarite bhagavatstavaḥ nāma navamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In