ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः । सत्त्वैकतानगतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः । किं तोष्टुमर्हति स मे हरिरुग्रजातेः ८ ।
PADACHEDA
ब्रह्म-आदयः सुर-गणाः मुनयः अथ सिद्धाः । सत्त्व-एकतान-गतयः वचसाम् प्रवाहैः । न आराधितुम् पुरु-गुणैः अधुना अपि पिप्रुः । किम् तोष्टुम् अर्हति स मे हरिः उग्र-जातेः ।
TRANSLITERATION
brahma-ādayaḥ sura-gaṇāḥ munayaḥ atha siddhāḥ . sattva-ekatāna-gatayaḥ vacasām pravāhaiḥ . na ārādhitum puru-guṇaiḥ adhunā api pipruḥ . kim toṣṭum arhati sa me hariḥ ugra-jāteḥ .
न अहम् बिभेमि अजित ते अति भयानका अस्य । जिह्वा-अर्क-नेत्र-भ्रुकुटी-रभस-उग्र-दंष्ट्रात् । आन्त्र-स्रजः-क्षतज-केशर-शङ्कु-कर्णान् । निर्ह्राद-भीत-दिगिभात् अरि-भिन्न-ख-अग्रात् ।
TRANSLITERATION
na aham bibhemi ajita te ati bhayānakā asya . jihvā-arka-netra-bhrukuṭī-rabhasa-ugra-daṃṣṭrāt . āntra-srajaḥ-kṣataja-keśara-śaṅku-karṇān . nirhrāda-bhīta-digibhāt ari-bhinna-kha-agrāt .
yasmāt priya-apriya-viyoga-saṃyoga-janma . śoka-agninā sakala-yoniṣu dahyamānaḥ . duḥkha-auṣadham tat api duḥkham a tad-dhiyā aham . bhūman bhramāmi vada me tava dāsya-yogam .
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् । आयुः श्रियो विभव इच्छति यान्जनोऽयम् । येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू । विस्फूर्जितेन लुलिताः स तु ते निरस्तः २३ ।
PADACHEDA
दृष्टा मया दिवि विभो अखिल-धिष्ण्यपानाम् । आयुः श्रियः विभवः इच्छति यान् जनः अयम् । ये अस्मद्-पितुः कुपित-हास-विजृम्भित-भ्रू । विस्फूर्जितेन लुलिताः स तु ते निरस्तः ।
TRANSLITERATION
dṛṣṭā mayā divi vibho akhila-dhiṣṇyapānām . āyuḥ śriyaḥ vibhavaḥ icchati yān janaḥ ayam . ye asmad-pituḥ kupita-hāsa-vijṛmbhita-bhrū . visphūrjitena lulitāḥ sa tu te nirastaḥ .
kutra āśiṣaḥ śruti-sukhāḥ mṛgatṛṣṇi-rūpāḥ . kva idam kalevaram aśeṣa-rujām virohaḥ . nirvidyate na tu janaḥ yat api iti vidvān . kāma-analam madhu-lavaiḥ śamayan durāpaiḥ .
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् । जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया । यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः २६ ।
PADACHEDA
क्व अहम् रजः-प्रभवे ईश तमः-अधिके अस्मिन् । जातः सुरेतर-कुले क्व तव अनुकम्पा । न ब्रह्मणः न तु भवस्य न वै रमाया । यत् मे अर्पितः शिरसि पद्मकरः प्रसादः ।
TRANSLITERATION
kva aham rajaḥ-prabhave īśa tamaḥ-adhike asmin . jātaḥ suretara-kule kva tava anukampā . na brahmaṇaḥ na tu bhavasya na vai ramāyā . yat me arpitaḥ śirasi padmakaraḥ prasādaḥ .
को न्वत्र तेऽखिलगुरो भगवन्प्रयास । उत्तारणेऽस्य भवसम्भवलोपहेतोः । मूढेषु वै महदनुग्रह आर्तबन्धो । किं तेन ते प्रियजनाननुसेवतां नः ४२ ।
PADACHEDA
कः नु अत्र ते अखिल-गुरो भगवन् प्रयास । उत्तारणे अस्य भव-सम्भव-लोप-हेतोः । मूढेषु वै महत् अनुग्रहः आर्त-बन्धो । किम् तेन ते प्रिय-जनान् अनुसेवताम् नः ।
TRANSLITERATION
kaḥ nu atra te akhila-guro bhagavan prayāsa . uttāraṇe asya bhava-sambhava-lopa-hetoḥ . mūḍheṣu vai mahat anugrahaḥ ārta-bandho . kim tena te priya-janān anusevatām naḥ .
त्वम् वायुः अग्निः अवनिः वियत् अम्बु मात्राः । प्राण-इन्द्रि हृदयम् चित्-अनुग्रहः च । सर्वम् त्वम् एव सगुणः विगुणः च भूमन् । न अन्यत् त्वत् अस्ति अपि मनः-वचसा निरुक्तम् ।
TRANSLITERATION
tvam vāyuḥ agniḥ avaniḥ viyat ambu mātrāḥ . prāṇa-indri hṛdayam cit-anugrahaḥ ca . sarvam tvam eva saguṇaḥ viguṇaḥ ca bhūman . na anyat tvat asti api manaḥ-vacasā niruktam .
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.