| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीपरीक्षिदुवाच -
निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १ ॥
निवृत्ति-मार्गः कथितः आदौ भगवता यथा । क्रम-योग-उपलब्धेन ब्रह्मणा यत् असंसृतिः ॥ १ ॥
nivṛtti-mārgaḥ kathitaḥ ādau bhagavatā yathā . krama-yoga-upalabdhena brahmaṇā yat asaṃsṛtiḥ .. 1 ..
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । योऽसावलीनप्रकृतेः गुणसर्गः पुनः पुनः ॥ २ ॥
प्रवृत्ति-लक्षणः च एव त्रैगुण्य-विषयः मुने । यः असौ अलीन-प्रकृतेः गुण-सर्गः पुनर् पुनर् ॥ २ ॥
pravṛtti-lakṣaṇaḥ ca eva traiguṇya-viṣayaḥ mune . yaḥ asau alīna-prakṛteḥ guṇa-sargaḥ punar punar .. 2 ..
अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३ ॥
अधर्म-लक्षणाः नाना नरकाः च अनुवर्णिताः । मन्वन्तरः च व्याख्यातः आद्यः स्वायम्भुवः यतस् ॥ ३ ॥
adharma-lakṣaṇāḥ nānā narakāḥ ca anuvarṇitāḥ . manvantaraḥ ca vyākhyātaḥ ādyaḥ svāyambhuvaḥ yatas .. 3 ..
प्रियव्रतोत्तानपदोः वंशस्तत् चरितानि च । द्वीपवर्षसमुद्राद्रि नद्युद्यान वनस्पतीन् ॥ ४ ॥
प्रियव्रत-उत्तानपदोः वंशः तद्-चरितानि च । द्वीप-वर्ष-समुद्र-अद्रि-नदी-उद्यान-वनस्पतीन् ॥ ४ ॥
priyavrata-uttānapadoḥ vaṃśaḥ tad-caritāni ca . dvīpa-varṣa-samudra-adri-nadī-udyāna-vanaspatīn .. 4 ..
धरामण्डलसंस्थानं भागलक्षणमानतः । ज्योतिषां विवराणां च यथेदं असृजद्विभुः ॥ ५ ॥
धरा-मण्डल-संस्थानम् भाग-लक्षण-मानतः । ज्योतिषाम् विवराणाम् च यथा इदम् असृजत् विभुः ॥ ५ ॥
dharā-maṇḍala-saṃsthānam bhāga-lakṣaṇa-mānataḥ . jyotiṣām vivarāṇām ca yathā idam asṛjat vibhuḥ .. 5 ..
अधुनेह महाभाग यथैव नरकान्नरः । नानोग्रयातनान्नेयात् तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
अधुना इह महाभाग यथा एव नरकात् नरः । नाना उग्र-यातनात् न इयात् तत् मे व्याख्यातुम् अर्हसि ॥ ६ ॥
adhunā iha mahābhāga yathā eva narakāt naraḥ . nānā ugra-yātanāt na iyāt tat me vyākhyātum arhasi .. 6 ..
श्रीशुक उवाच -
न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः । ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतः तिग्मयातनाः ॥ ७ ॥
न चेद् इह एव अपचितिम् यथा अंहसः कृतस्य कुर्यात् मनः-उक्त-पाणिभिः । ध्रुवम् स वै प्रेत्य नरकान् उपैति ये कीर्तिताः मे भवतः तिग्म-यातनाः ॥ ७ ॥
na ced iha eva apacitim yathā aṃhasaḥ kṛtasya kuryāt manaḥ-ukta-pāṇibhiḥ . dhruvam sa vai pretya narakān upaiti ye kīrtitāḥ me bhavataḥ tigma-yātanāḥ .. 7 ..
तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक्चिकित्सेत रुजां निदानवित् ॥ ८ ॥
तस्मात् पुरा एव आशु इह पाप-निष्कृतौ यतेत मृत्योः अविपद्यत आत्मना । दोषस्य दृष्ट्वा गुरुलाघवम् यथा भिषज् चिकित्सेत रुजाम् निदान-विद् ॥ ८ ॥
tasmāt purā eva āśu iha pāpa-niṣkṛtau yateta mṛtyoḥ avipadyata ātmanā . doṣasya dṛṣṭvā gurulāghavam yathā bhiṣaj cikitseta rujām nidāna-vid .. 8 ..
श्रीराजोवाच -
दृष्टश्रुताभ्यां यत्पापं जानन् अपि आत्मनोऽहितम् । करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९ ॥
दृष्ट-श्रुताभ्याम् यत् पापम् जानन् अपि आत्मनः अहितम् । करोति भूयस् विवशः प्रायश्चित्तम् अथो कथम् ॥ ९ ॥
dṛṣṭa-śrutābhyām yat pāpam jānan api ātmanaḥ ahitam . karoti bhūyas vivaśaḥ prāyaścittam atho katham .. 9 ..
क्वचित् निवर्तते अभद्रात् क्वचित् चरति तत्पुनः । प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥
क्वचिद् निवर्तते अभद्रात् क्वचिद् चरति तत्पुनर् । प्रायश्चित्तम् अथो अपार्थम् मन्ये कुञ्जर-शौच-वत् ॥ १० ॥
kvacid nivartate abhadrāt kvacid carati tatpunar . prāyaścittam atho apārtham manye kuñjara-śauca-vat .. 10 ..
श्रीशुक उवाच -
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ ११ ॥
कर्मणा कर्म-निर्हारः न हि आत्यन्तिकः इष्यते । अ विद्वत्-अधिकारि-त्वात् प्रायश्चित्तम् विमर्शनम् ॥ ११ ॥
karmaṇā karma-nirhāraḥ na hi ātyantikaḥ iṣyate . a vidvat-adhikāri-tvāt prāyaścittam vimarśanam .. 11 ..
नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि । एवं नियमकृद् राजन् शनैः क्षेमाय कल्पते ॥ १२ ॥
न अश्नतः पथ्यम् एव अन्नम् व्याधयः अभिभवन्ति हि । एवम् नियम-कृत् राजन् शनैस् क्षेमाय कल्पते ॥ १२ ॥
na aśnataḥ pathyam eva annam vyādhayaḥ abhibhavanti hi . evam niyama-kṛt rājan śanais kṣemāya kalpate .. 12 ..
तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ १३ ॥
तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्य-शौचाभ्याम् यमेन नियमेन वा ॥ १३ ॥
tapasā brahmacaryeṇa śamena ca damena ca . tyāgena satya-śaucābhyām yamena niyamena vā .. 13 ..
देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥
देह-वाच्-बुद्धि-जम् धीराः धर्म-ज्ञाः श्रद्धया अन्विताः । क्षिपन्ति अघम् महत् अपि वेणु-गुल्मम् इव अनलः ॥ १४ ॥
deha-vāc-buddhi-jam dhīrāḥ dharma-jñāḥ śraddhayā anvitāḥ . kṣipanti agham mahat api veṇu-gulmam iva analaḥ .. 14 ..
केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५ ॥
केचिद् केवलया भक्त्या वासुदेव-परायणाः । अघम् धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ १५ ॥
kecid kevalayā bhaktyā vāsudeva-parāyaṇāḥ . agham dhunvanti kārtsnyena nīhāram iva bhāskaraḥ .. 15 ..
न तथा ह्यघवान् राजन् पूयेत तप आदिभिः । यथा कृष्णार्पितप्राणः तत्पूरुषनिषेवया ॥ १६ ॥
न तथा हि अघवान् राजन् पूयेत तपः-आदिभिः । यथा कृष्ण-अर्पित-प्राणः तत्पूरुष-निषेवया ॥ १६ ॥
na tathā hi aghavān rājan pūyeta tapaḥ-ādibhiḥ . yathā kṛṣṇa-arpita-prāṇaḥ tatpūruṣa-niṣevayā .. 16 ..
सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७ ॥
सध्रीचीनः हि अयम् लोके पन्थाः क्षेमः अकुतोभयः । सु शीलाः साधवः यत्र नारायण-परायणाः ॥ १७ ॥
sadhrīcīnaḥ hi ayam loke panthāḥ kṣemaḥ akutobhayaḥ . su śīlāḥ sādhavaḥ yatra nārāyaṇa-parāyaṇāḥ .. 17 ..
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः॥ १८ ॥
प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् । न निष्पुनन्ति राज-इन्द्र सुरा-कुम्भम् इव आपगाः॥ १८ ॥
prāyaścittāni cīrṇāni nārāyaṇa-parāṅmukham . na niṣpunanti rāja-indra surā-kumbham iva āpagāḥ.. 18 ..
सकृन्मनः कृष्णपदारविन्दयोः र्निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वन्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९ ॥
सकृत् मनः कृष्ण-पद-अरविन्दयोः र्निवेशितम् तद्-गुण-रागि यैः इह । न ते यमम् पाश-भृतः च तद्-भटान् स्वन् स्वप्ने अपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ १९ ॥
sakṛt manaḥ kṛṣṇa-pada-aravindayoḥ rniveśitam tad-guṇa-rāgi yaiḥ iha . na te yamam pāśa-bhṛtaḥ ca tad-bhaṭān svan svapne api paśyanti hi cīrṇa-niṣkṛtāḥ .. 19 ..
अत्र च उदाहरन्ति इमं इतिहासं पुरातनम् । दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ २० ॥
अत्र च उदाहरन्ति इमम् इतिहासम् पुरातनम् । दूतानाम् विष्णु-यमयोः संवादः तम् निबोध मे ॥ २० ॥
atra ca udāharanti imam itihāsam purātanam . dūtānām viṣṇu-yamayoḥ saṃvādaḥ tam nibodha me .. 20 ..
कान्यकुब्जे द्विजः कश्चित् दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१ ॥
कान्यकुब्जे द्विजः कश्चिद् दासी-पतिः अजामिलः । नाम्ना नष्ट-सत्-आचारः दास्याः संसर्ग-दूषितः ॥ २१ ॥
kānyakubje dvijaḥ kaścid dāsī-patiḥ ajāmilaḥ . nāmnā naṣṭa-sat-ācāraḥ dāsyāḥ saṃsarga-dūṣitaḥ .. 21 ..
बन्द्यक्षैः कैतवैश्चौर्यैः गर्हितां वृत्तिमास्थितः । बिभ्रत्कुटुम्बं अशुचिः यातयामास देहिनः ॥ २२ ॥
बन्दि-अक्षैः कैतवैः चौर्यैः गर्हिताम् वृत्तिम् आस्थितः । बिभ्रत् कुटुम्बम् अशुचिः यातयामास देहिनः ॥ २२ ॥
bandi-akṣaiḥ kaitavaiḥ cauryaiḥ garhitām vṛttim āsthitaḥ . bibhrat kuṭumbam aśuciḥ yātayāmāsa dehinaḥ .. 22 ..
एवं निवसतस्तस्य लालयानस्य तत्सुतान् । कालोऽत्यगान् महान् राजन् नष्टाशीत्यायुषः समाः ॥ २३ ॥
एवम् निवसतः तस्य लालयानस्य तद्-सुतान् । कालः अत्यगात् महान् राजन् नष्ट-अशीति-आयुषः समाः ॥ २३ ॥
evam nivasataḥ tasya lālayānasya tad-sutān . kālaḥ atyagāt mahān rājan naṣṭa-aśīti-āyuṣaḥ samāḥ .. 23 ..
तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥
तस्य प्रवयसः पुत्राः दश तेषाम् तु यः अवमः । बालः नारायणः नाम्ना पित्रोः च दयितः भृशम् ॥ २४ ॥
tasya pravayasaḥ putrāḥ daśa teṣām tu yaḥ avamaḥ . bālaḥ nārāyaṇaḥ nāmnā pitroḥ ca dayitaḥ bhṛśam .. 24 ..
स बद्धहृदयस्तस्मिन् अर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥
स बद्ध-हृदयः तस्मिन् अर्भके कल-भाषिणि । निरीक्षमाणः तद्-लीलाम् मुमुदे जरठः भृशम् ॥ २५ ॥
sa baddha-hṛdayaḥ tasmin arbhake kala-bhāṣiṇi . nirīkṣamāṇaḥ tad-līlām mumude jaraṭhaḥ bhṛśam .. 25 ..
भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः । भोजयन् पाययन्मूढो न वेदागतमन्तकम् ॥ २६ ॥
भुञ्जानः प्रपिबन् खादन् बालकम् स्नेह-यन्त्रितः । भोजयन् पाययन् मूढः न वेद आगतम् अन्तकम् ॥ २६ ॥
bhuñjānaḥ prapiban khādan bālakam sneha-yantritaḥ . bhojayan pāyayan mūḍhaḥ na veda āgatam antakam .. 26 ..
स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥
सः एवम् वर्तमानः अज्ञः मृत्यु-काले उपस्थिते । मतिम् चकार तनये बाले नारायण-आह्वये ॥ २७ ॥
saḥ evam vartamānaḥ ajñaḥ mṛtyu-kāle upasthite . matim cakāra tanaye bāle nārāyaṇa-āhvaye .. 27 ..
स पाशहस्तान् त्रीन् दृष्ट्वा पुरुषान् अति दारुणान् । वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥
स पाश-हस्तान् त्रीन् दृष्ट्वा पुरुषान् अति दारुणान् । वक्रतुण्डान् ऊर्ध्व-रोम्णः आत्मानम् नेतुम् आगतान् ॥ २८ ॥
sa pāśa-hastān trīn dṛṣṭvā puruṣān ati dāruṇān . vakratuṇḍān ūrdhva-romṇaḥ ātmānam netum āgatān .. 28 ..
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैः आजुहावाकुलेन्द्रियः ॥ २९ ॥
दूरे क्रीडनक-आसक्तम् पुत्रम् नारायण-आह्वयम् । प्लावितेन स्वरेण उच्चैस् आजुहाव आकुल-इन्द्रियः ॥ २९ ॥
dūre krīḍanaka-āsaktam putram nārāyaṇa-āhvayam . plāvitena svareṇa uccais ājuhāva ākula-indriyaḥ .. 29 ..
निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन् ॥ ३० ॥
निशम्य म्रियमाणस्य मुखतः हरि-कीर्तनम् । भर्तुः नाम महा-राज पार्षदाः सहसा अपतन् ॥ ३० ॥
niśamya mriyamāṇasya mukhataḥ hari-kīrtanam . bhartuḥ nāma mahā-rāja pārṣadāḥ sahasā apatan .. 30 ..
विकर्षतोऽन्तर्हृदयाद् दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥
विकर्षतः अन्तर् हृदयात् दासी-पतिम् अजामिलम् । यम-प्रेष्यान् विष्णु-दूताः वारयामासुः ओजसा ॥ ३१ ॥
vikarṣataḥ antar hṛdayāt dāsī-patim ajāmilam . yama-preṣyān viṣṇu-dūtāḥ vārayāmāsuḥ ojasā .. 31 ..
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः । के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥
ऊचुः निषेधिताः तान् ते वैवस्वत-पुरःसराः । के यूयम् प्रतिषेद्धारः धर्मराजस्य शासनम् ॥ ३२ ॥
ūcuḥ niṣedhitāḥ tān te vaivasvata-puraḥsarāḥ . ke yūyam pratiṣeddhāraḥ dharmarājasya śāsanam .. 32 ..
कस्य वा कुत आयाताः कस्मादस्य निषेधथ । किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ ३३ ॥
कस्य वा कुतस् आयाताः कस्मात् अस्य निषेधथ । किम् देवाः उपदेवाः याः यूयम् किम् सिद्ध-सत्तमाः ॥ ३३ ॥
kasya vā kutas āyātāḥ kasmāt asya niṣedhatha . kim devāḥ upadevāḥ yāḥ yūyam kim siddha-sattamāḥ .. 33 ..
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः । किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४ ॥
सर्वे पद्म-पलाश-अक्षाः पीत-कौशेय-वाससः । किरीटिनः कुण्डलिनः लसत्-पुष्कर-मालिनः ॥ ३४ ॥
sarve padma-palāśa-akṣāḥ pīta-kauśeya-vāsasaḥ . kirīṭinaḥ kuṇḍalinaḥ lasat-puṣkara-mālinaḥ .. 34 ..
सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः । धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः ॥ ३५ ॥
सर्वे च नूत्न-वयसः सर्वे चारु-चतुर्-भुजाः । धनुः-निषङ्ग-असि-गदा शङ्ख-चक्र-अम्बुज-श्रियः ॥ ३५ ॥
sarve ca nūtna-vayasaḥ sarve cāru-catur-bhujāḥ . dhanuḥ-niṣaṅga-asi-gadā śaṅkha-cakra-ambuja-śriyaḥ .. 35 ..
दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा । किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ॥ ३६ ॥
दिशः वितिमिर-आलोकाः कुर्वन्तः स्वेन तेजसा । किमर्थम् धर्मपालस्य किङ्करान् नः निषेधथ ॥ ३६ ॥
diśaḥ vitimira-ālokāḥ kurvantaḥ svena tejasā . kimartham dharmapālasya kiṅkarān naḥ niṣedhatha .. 36 ..
श्रीशुक उवाच -
इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः । तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥
इति उक्ते यमदूतैः ते वासुदेव-उक्त-कारिणः । तान् प्रत्यूचुः प्रहस्य इदम् मेघ-निर्ह्रादया गिरा ॥ ३७ ॥
iti ukte yamadūtaiḥ te vāsudeva-ukta-kāriṇaḥ . tān pratyūcuḥ prahasya idam megha-nirhrādayā girā .. 37 ..
श्रीविष्णुदूता ऊचुः -
यूयं वै धर्मराजस्य यदि निर्देशकारिणः । ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥
यूयम् वै धर्मराजस्य यदि निर्देश-कारिणः । ब्रूत धर्मस्य नः तत्त्वम् यत् च धर्मस्य लक्षणम् ॥ ३८ ॥
yūyam vai dharmarājasya yadi nirdeśa-kāriṇaḥ . brūta dharmasya naḥ tattvam yat ca dharmasya lakṣaṇam .. 38 ..
कथं स्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम् । दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन्नृणाम् ॥ ३९ ॥
कथम् स्विद् ध्रियते दण्डः किम् वा अस्य स्थानम् ईप्सितम् । दण्ड्याः किम् कारिणः सर्वे आहो स्विद् कतिचिद् नृणाम् ॥ ३९ ॥
katham svid dhriyate daṇḍaḥ kim vā asya sthānam īpsitam . daṇḍyāḥ kim kāriṇaḥ sarve āho svid katicid nṛṇām .. 39 ..
यमदूता ऊचुः -
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षाय् स्वयम्भूः इति शुश्रुम ॥ ४० ॥
वेद-प्रणिहितः धर्मः हि अधर्मः तद्-विपर्ययः । वेदः नारायणः साक्षात् स्वयम्भूः इति शुश्रुम ॥ ४० ॥
veda-praṇihitaḥ dharmaḥ hi adharmaḥ tad-viparyayaḥ . vedaḥ nārāyaṇaḥ sākṣāt svayambhūḥ iti śuśruma .. 40 ..
येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥
येन स्व-धाम्नि अमी भावाः रजः-सत्त्व-तमः-मयाः । गुण-नाम-क्रिया-रूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥
yena sva-dhāmni amī bhāvāḥ rajaḥ-sattva-tamaḥ-mayāḥ . guṇa-nāma-kriyā-rūpaiḥ vibhāvyante yathātatham .. 41 ..
सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः । कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२ ॥
सूर्यः अग्निः खम् मरुत् गावः सोमः सन्ध्या-अहनी दिशः । कम् कुः स्वयम् धर्मः इति हि एते दैह्यस्य साक्षिणः ॥ ४२ ॥
sūryaḥ agniḥ kham marut gāvaḥ somaḥ sandhyā-ahanī diśaḥ . kam kuḥ svayam dharmaḥ iti hi ete daihyasya sākṣiṇaḥ .. 42 ..
एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते । सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३ ॥
एतैः अधर्मः विज्ञातः स्थानम् दण्डस्य युज्यते । सर्वे कर्म-अनुरोधेन दण्डम् अर्हन्ति कारिणः ॥ ४३ ॥
etaiḥ adharmaḥ vijñātaḥ sthānam daṇḍasya yujyate . sarve karma-anurodhena daṇḍam arhanti kāriṇaḥ .. 43 ..
सम्भवन्ति हि भद्राणि विपरीतानि चानघाः । कारिणां गुणसङ्गोऽस्ति देहवान् न ह्यकर्मकृत् ४४ ॥
सम्भवन्ति हि भद्राणि विपरीतानि च अनघाः । कारिणाम् गुण-सङ्गः अस्ति देहवान् न हि अकर्म-कृत् ॥
sambhavanti hi bhadrāṇi viparītāni ca anaghāḥ . kāriṇām guṇa-saṅgaḥ asti dehavān na hi akarma-kṛt ..
येन यावान् यथाधर्मो धर्मो वेह समीहितः । स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ ४५ ॥
येन यावान् यथा धर्मः धर्मः वा इह समीहितः । सः एव तद्-फलम् भुङ्क्ते तथा तावत् अमुत्र वै ॥ ४५ ॥
yena yāvān yathā dharmaḥ dharmaḥ vā iha samīhitaḥ . saḥ eva tad-phalam bhuṅkte tathā tāvat amutra vai .. 45 ..
यथेह देवप्रवराः त्रैविध्यं उपलभ्यते । भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ ४६ ॥
यथा इह देव-प्रवराः त्रैविध्यम् उपलभ्यते । भूतेषु गुण-वैचित्र्यात् तथा अन्यत्र अनुमीयते ॥ ४६ ॥
yathā iha deva-pravarāḥ traividhyam upalabhyate . bhūteṣu guṇa-vaicitryāt tathā anyatra anumīyate .. 46 ..
वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा । एवं जन्मान्ययोरेतद् धर्माधर्मनिदर्शनम् ॥ ४७ ॥
वर्तमानः अन्ययोः कालः गुण-अभिज्ञापकः यथा । एवम् जन्म-अन्ययोः एतत् धर्म-अधर्म-निदर्शनम् ॥ ४७ ॥
vartamānaḥ anyayoḥ kālaḥ guṇa-abhijñāpakaḥ yathā . evam janma-anyayoḥ etat dharma-adharma-nidarśanam .. 47 ..
मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥
मनसा एव पुरे देवः पूर्व-रूपम् विपश्यति । अनुमीमांसते अपूर्वम् मनसा भगवान् अजः ॥ ४८ ॥
manasā eva pure devaḥ pūrva-rūpam vipaśyati . anumīmāṃsate apūrvam manasā bhagavān ajaḥ .. 48 ..
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥
यथा अज्ञः तमसा युक्तः उपास्ते व्यक्तम् एव हि । न वेद पूर्वम् अपरम् नष्ट-जन्म-स्मृतिः तथा ॥ ४९ ॥
yathā ajñaḥ tamasā yuktaḥ upāste vyaktam eva hi . na veda pūrvam aparam naṣṭa-janma-smṛtiḥ tathā .. 49 ..
पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः । एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥
पञ्चभिः कुरुते स्व-अर्थान् पञ्च वेद अथ पञ्चभिः । एकः तु षोडशेन त्रीन् स्वयम् सप्तदशः अश्नुते ॥ ५० ॥
pañcabhiḥ kurute sva-arthān pañca veda atha pañcabhiḥ . ekaḥ tu ṣoḍaśena trīn svayam saptadaśaḥ aśnute .. 50 ..
तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् । धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१ ॥
तत् एतत् षोडश-कलम् लिङ्गम् शक्ति-त्रयम् महत् । धत्ते अनुसंसृतिम् पुंसि हर्ष-शोक-भय-आर्ति-दाम् ॥ ५१ ॥
tat etat ṣoḍaśa-kalam liṅgam śakti-trayam mahat . dhatte anusaṃsṛtim puṃsi harṣa-śoka-bhaya-ārti-dām .. 51 ..
देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते । कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२ ॥
देहि-अज्ञः अजित-षड्वर्गः न इच्छन् कर्माणि कार्यते । कोशकारः इव आत्मानम् कर्मणा आच्छाद्य मुह्यति ॥ ५२ ॥
dehi-ajñaḥ ajita-ṣaḍvargaḥ na icchan karmāṇi kāryate . kośakāraḥ iva ātmānam karmaṇā ācchādya muhyati .. 52 ..
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ ५३ ॥
न हि कश्चिद् क्षणम् अपि जातु तिष्ठति अ कर्म-कृत् । कार्यते हि अवशः कर्म गुणैः स्वाभाविकैः बलात् ॥ ५३ ॥
na hi kaścid kṣaṇam api jātu tiṣṭhati a karma-kṛt . kāryate hi avaśaḥ karma guṇaiḥ svābhāvikaiḥ balāt .. 53 ..
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत । यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४ ॥
लब्ध्वा निमित्तम् अव्यक्तम् व्यक्त-अव्यक्तम् भवति उत । यथायोनि यथाबीजम् स्वभावेन बलीयसा ॥ ५४ ॥
labdhvā nimittam avyaktam vyakta-avyaktam bhavati uta . yathāyoni yathābījam svabhāvena balīyasā .. 54 ..
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः । आसीत्स एव न चिराद् ईशसङ्गाद् विलीयते ॥ ५५ ॥
एष प्रकृति-सङ्गेन पुरुषस्य विपर्ययः । आसीत् सः एव न चिरात् ईश-सङ्गात् विलीयते ॥ ५५ ॥
eṣa prakṛti-saṅgena puruṣasya viparyayaḥ . āsīt saḥ eva na cirāt īśa-saṅgāt vilīyate .. 55 ..
अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः । धृतव्रतो मृदुर्दान्तः सत्यवान् मंत्रविच्छुचिः ॥ ५६ ॥
अयम् हि श्रुत-सम्पन्नः शील-वृत्त-गुण-आलयः । धृतव्रतः मृदुः दान्तः सत्यवान् मंत्र-विद् शुचिः ॥ ५६ ॥
ayam hi śruta-sampannaḥ śīla-vṛtta-guṇa-ālayaḥ . dhṛtavrataḥ mṛduḥ dāntaḥ satyavān maṃtra-vid śuciḥ .. 56 ..
गुर्वग्न्यतिथिवृद्धानां शुश्रूषुर्निरहङ्कृतः । सर्वभूतसुहृत्साधुः मिर्मितवागनसूयकः ॥ ॥ ५७ ॥
गुरु-अग्नि-अतिथि-वृद्धानाम् शुश्रूषुः निरहङ्कृतः । सर्व-भूत-सुहृद् साधुः ॥ ॥ ५७ ॥
guru-agni-atithi-vṛddhānām śuśrūṣuḥ nirahaṅkṛtaḥ . sarva-bhūta-suhṛd sādhuḥ .. .. 57 ..
एकदासौ वनं यातः पितृसन्देशकृद् द्विजः । आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८ ॥
एकदा असौ वनम् यातः पितृ-सन्देश-कृत् द्विजः । आदाय ततस् आवृत्तः फल-पुष्प-समिध्-कुशान् ॥ ५८ ॥
ekadā asau vanam yātaḥ pitṛ-sandeśa-kṛt dvijaḥ . ādāya tatas āvṛttaḥ phala-puṣpa-samidh-kuśān .. 58 ..
ददर्श कामिनं कञ्चित् शूद्रं सह भुजिष्यया । पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥
ददर्श कामिनम् कञ्चिद् शूद्रम् सह भुजिष्यया । पीत्वा च मधु मैरेयम् मद-आघूर्णित-नेत्रया ॥ ५९ ॥
dadarśa kāminam kañcid śūdram saha bhujiṣyayā . pītvā ca madhu maireyam mada-āghūrṇita-netrayā .. 59 ..
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् । क्रीडन्तं अनुगायन्तं हसन्तमनयान्तिके ॥ ६० ॥
मत्तया विश्लथत्-नीव्या व्यपेतम् निरपत्रपम् । क्रीडन्तम् अनुगायन्तम् हसन्तम् अनया अन्तिके ॥ ६० ॥
mattayā viślathat-nīvyā vyapetam nirapatrapam . krīḍantam anugāyantam hasantam anayā antike .. 60 ..
दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१ ॥
दृष्ट्वा ताम् काम-लिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छय-वशम् सहसा एव विमोहितः ॥ ६१ ॥
dṛṣṭvā tām kāma-liptena bāhunā parirambhitām . jagāma hṛcchaya-vaśam sahasā eva vimohitaḥ .. 61 ..
स्तम्भयन् आत्मनात्मानं यावत्सत्त्वं यथाश्रुतम् । न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥
स्तम्भयन् आत्मना आत्मानम् यावत्सत्त्वम् यथाश्रुतम् । न शशाक समाधातुम् मनः मदन-वेपितम् ॥ ६२ ॥
stambhayan ātmanā ātmānam yāvatsattvam yathāśrutam . na śaśāka samādhātum manaḥ madana-vepitam .. 62 ..
तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः । तामेव मनसा ध्यायन् स्वधर्माद् विरराम ह ॥ ६३ ॥
तद्-निमित्त-स्मर-व्याज ग्रह-ग्रस्तः विचेतनः । ताम् एव मनसा ध्यायन् स्वधर्मात् विरराम ह ॥ ६३ ॥
tad-nimitta-smara-vyāja graha-grastaḥ vicetanaḥ . tām eva manasā dhyāyan svadharmāt virarāma ha .. 63 ..
तामेव तोषयामास पित्र्येणार्थेन यावता । ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥
ताम् एव तोषयामास पित्र्येण अर्थेन यावता । ग्राम्यैः मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥
tām eva toṣayāmāsa pitryeṇa arthena yāvatā . grāmyaiḥ manoramaiḥ kāmaiḥ prasīdeta yathā tathā .. 64 ..
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् । विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः ॥ ६५ ॥
विप्राम् स्व-भार्याम् अप्रौढाम् कुले महति लम्भिताम् । विससर्ज अचिरात् पापः स्वैरिण्या अपाङ्ग-विद्ध-धीः ॥ ६५ ॥
viprām sva-bhāryām aprauḍhām kule mahati lambhitām . visasarja acirāt pāpaḥ svairiṇyā apāṅga-viddha-dhīḥ .. 65 ..
यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् । बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६ ॥
यतस् ततस् च उपनिन्ये न्यायतः अन्यायतः धनम् । बभार अस्याः कुटुम्बिन्याः कुटुम्बम् मन्द-धीरयम् ॥ ६६ ॥
yatas tatas ca upaninye nyāyataḥ anyāyataḥ dhanam . babhāra asyāḥ kuṭumbinyāḥ kuṭumbam manda-dhīrayam .. 66 ..
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यतिगर्हितः । अवर्तत चिरं कालं अघायुः अशुचिर्मलात् ॥ ६७ ॥
यत् असौ शास्त्रम् उल्लङ्घ्य स्वैः अचारी अति गर्हितः । अवर्तत चिरम् कालम् अघायुः अशुचिः मलात् ॥ ६७ ॥
yat asau śāstram ullaṅghya svaiḥ acārī ati garhitaḥ . avartata ciram kālam aghāyuḥ aśuciḥ malāt .. 67 ..
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् । नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥
ततस् एनम् दण्डपाणेः सकाशम् कृत-किल्बिषम् । नेष्यामः अकृत-निर्वेशम् यत्र दण्डेन शुद्धि-अति ॥ ६८ ॥
tatas enam daṇḍapāṇeḥ sakāśam kṛta-kilbiṣam . neṣyāmaḥ akṛta-nirveśam yatra daṇḍena śuddhi-ati .. 68 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे अजामिल-उपाख्याने प्रथमः अध्यायः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe ajāmila-upākhyāne prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In