| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

षष्ठः स्कन्धः - दशमोऽध्यायः देवानां दधीचेः सकाशात् तदस्थियाचनं वज्रनिर्माणं देवदानवयुद्धं च -
षष्ठः स्कन्धः दशमः अध्यायः देवानाम् दधीचेः सकाशात् तद्-अस्थि-याचनम् वज्र-निर्माणम् देव-दानव-युद्धम् च
ṣaṣṭhaḥ skandhaḥ daśamaḥ adhyāyaḥ devānām dadhīceḥ sakāśāt tad-asthi-yācanam vajra-nirmāṇam deva-dānava-yuddham ca
श्रीशुक उवाच -
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतां अनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ १ ॥
इन्द्रम् एवम् समादिश्य भगवान् विश्वभावनः । पश्यताम् अनिमेषाणाम् अत्र एव अन्तर्दधे हरिः ॥ १ ॥
indram evam samādiśya bhagavān viśvabhāvanaḥ . paśyatām animeṣāṇām atra eva antardadhe hariḥ .. 1 ..
तथाभियाचितो देवैः ऋषिः आथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥
तथा अभियाचितः देवैः ऋषिः आथर्वणः महान् । मोदमानः उवाच इदम् प्रहसन् इव भारत ॥ २ ॥
tathā abhiyācitaḥ devaiḥ ṛṣiḥ ātharvaṇaḥ mahān . modamānaḥ uvāca idam prahasan iva bhārata .. 2 ..
अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३ ॥
अपि वृन्दारकाः यूयम् न जानीथ शरीरिणाम् । संस्थायाम् यः तु अभिद्रोहः दुःसहः चेतना-अपहः ॥ ३ ॥
api vṛndārakāḥ yūyam na jānītha śarīriṇām . saṃsthāyām yaḥ tu abhidrohaḥ duḥsahaḥ cetanā-apahaḥ .. 3 ..
जिजीविषूणां जीवानां आत्मा प्रेष्ठ इहेप्सितः । क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥
जिजीविषूणाम् जीवानाम् आत्मा प्रेष्ठः इह ईप्सितः । कः उत्सहेत तम् दातुम् भिक्षमाणाय विष्णवे ॥ ४ ॥
jijīviṣūṇām jīvānām ātmā preṣṭhaḥ iha īpsitaḥ . kaḥ utsaheta tam dātum bhikṣamāṇāya viṣṇave .. 4 ..
श्रीदेवा ऊचुः -
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥
किम् नु तत् दुस्त्यजम् ब्रह्मन् पुंसाम् भूत-अनुकम्पिनाम् । भवद्विधानाम् महताम् पुण्य-श्लोक-ईड्य-कर्मणाम् ॥ ५ ॥
kim nu tat dustyajam brahman puṃsām bhūta-anukampinām . bhavadvidhānām mahatām puṇya-śloka-īḍya-karmaṇām .. 5 ..
नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥
नूनम् स्व-अर्थ-परः लोकः न वेद पर-सङ्कटम् । यदि वेद न याचेत न इति न आह यदि ईश्वरः ॥ ६ ॥
nūnam sva-artha-paraḥ lokaḥ na veda para-saṅkaṭam . yadi veda na yāceta na iti na āha yadi īśvaraḥ .. 6 ..
श्रीऋषिरुवाच -
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥
धर्मम् वः श्रोतु-कामेन यूयम् मे प्रत्युदाहृताः । एष वः प्रियम् आत्मानम् त्यजन्तम् सन्त्यजामि अहम् ॥ ७ ॥
dharmam vaḥ śrotu-kāmena yūyam me pratyudāhṛtāḥ . eṣa vaḥ priyam ātmānam tyajantam santyajāmi aham .. 7 ..
योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥
यः अध्रुवेण आत्मना न अथाः न धर्मम् न यशः पुमान् । ईहेत भूत-दयया स शोच्यः स्थावरैः अपि ॥ ८ ॥
yaḥ adhruveṇa ātmanā na athāḥ na dharmam na yaśaḥ pumān . īheta bhūta-dayayā sa śocyaḥ sthāvaraiḥ api .. 8 ..
एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः । यो भूतशोकहर्षाभ्यां आत्मा शोचति हृष्यति ॥ ९ ॥
एतावान् अव्ययः धर्मः पुण्यश्लोकैः उपासितः । यः भूत-शोक-हर्षाभ्याम् आत्मा शोचति हृष्यति ॥ ९ ॥
etāvān avyayaḥ dharmaḥ puṇyaślokaiḥ upāsitaḥ . yaḥ bhūta-śoka-harṣābhyām ātmā śocati hṛṣyati .. 9 ..
अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । यन्नोपकुर्यादस्वार्थैः मर्त्यः स्वज्ञातिविग्रहैः ॥ १० ॥
अहो दैन्यम् अहो कष्टम् पारक्यैः क्षण-भङ्गुरैः । यत् न उपकुर्यात् अस्वार्थैः मर्त्यः स्व-ज्ञाति-विग्रहैः ॥ १० ॥
aho dainyam aho kaṣṭam pārakyaiḥ kṣaṇa-bhaṅguraiḥ . yat na upakuryāt asvārthaiḥ martyaḥ sva-jñāti-vigrahaiḥ .. 10 ..
श्रीशुक उवाच -
एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् । परे भगवति ब्रह्मणि आत्मानं सन्नयन्जहौ ॥ ११ ॥
एवम् कृत-व्यवसितः दध्यङ् आथर्वणः तनुम् । परे भगवति ब्रह्मणि आत्मानम् सन् अयन् जहौ ॥ ११ ॥
evam kṛta-vyavasitaḥ dadhyaṅ ātharvaṇaḥ tanum . pare bhagavati brahmaṇi ātmānam san ayan jahau .. 11 ..
यताक्षासुमनोबुद्धिः तत्त्वदृग् ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥
यत-अक्षा-सु मनः-बुद्धिः तत्त्व-दृश् ध्वस्त-बन्धनः । आस्थितः परमम् योगम् न देहम् बुबुधे गतम् ॥ १२ ॥
yata-akṣā-su manaḥ-buddhiḥ tattva-dṛś dhvasta-bandhanaḥ . āsthitaḥ paramam yogam na deham bubudhe gatam .. 12 ..
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । मुनेः शक्तिभिरुत्सिक्तो भगवत् तेजसान्वितः ॥ १३ ॥
अथा इन्द्रः वज्रम् उद्यम्य निर्मितम् विश्वकर्मणा । मुनेः शक्तिभिः उत्सिक्तः भगवत् तेजसा अन्वितः ॥ १३ ॥
athā indraḥ vajram udyamya nirmitam viśvakarmaṇā . muneḥ śaktibhiḥ utsiktaḥ bhagavat tejasā anvitaḥ .. 13 ..
वृतो देवगणैः सर्वैः गजेन्द्रोपर्यशोभत । स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥
वृतः देव-गणैः सर्वैः गज-इन्द्र-उपरि अशोभत । स्तूयमानः मुनि-गणैः त्रैलोक्यम् हर्षयन् इव ॥ १४ ॥
vṛtaḥ deva-gaṇaiḥ sarvaiḥ gaja-indra-upari aśobhata . stūyamānaḥ muni-gaṇaiḥ trailokyam harṣayan iva .. 14 ..
वृत्रमभ्यद्रवच्छत्रुं असुरानीकयूथपैः । पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥
वृत्रम् अभ्यद्रवत् शत्रुम् असुर-अनीक-यूथपैः । पर्यस्तम् ओजसा राजन् क्रुद्धः रुद्रः इव अन्तकम् ॥ १५ ॥
vṛtram abhyadravat śatrum asura-anīka-yūthapaiḥ . paryastam ojasā rājan kruddhaḥ rudraḥ iva antakam .. 15 ..
ततः सुराणामसुरै रणः परमदारुणः । त्रेतामुखे नर्मदायां अभवत् प्रथमे युगे ॥ १६ ॥
ततस् सुराणाम् असुरैः रणः परम-दारुणः । त्रेता-मुखे नर्मदायाम् अभवत् प्रथमे युगे ॥ १६ ॥
tatas surāṇām asuraiḥ raṇaḥ parama-dāruṇaḥ . tretā-mukhe narmadāyām abhavat prathame yuge .. 16 ..
रुद्रैर्वसुभिरादित्यैः अश्विभ्यां पितृवह्निभिः । मरुद्भिः ऋभुभिः साध्यैः विश्वेदेवैः मरुत्पतिम् ॥ १७ ॥
रुद्रैः वसुभिः आदित्यैः अश्विभ्याम् पितृ-वह्निभिः । मरुद्भिः ऋभुभिः साध्यैः विश्वेदेवैः मरुत्पतिम् ॥ १७ ॥
rudraiḥ vasubhiḥ ādityaiḥ aśvibhyām pitṛ-vahnibhiḥ . marudbhiḥ ṛbhubhiḥ sādhyaiḥ viśvedevaiḥ marutpatim .. 17 ..
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८ ॥
दृष्ट्वा वज्रधरम् शक्रम् रोचमानम् स्वया श्रिया । न अमृष्यन् असुराः राजन् मृधे वृत्र-पुरःसराः ॥ १८ ॥
dṛṣṭvā vajradharam śakram rocamānam svayā śriyā . na amṛṣyan asurāḥ rājan mṛdhe vṛtra-puraḥsarāḥ .. 18 ..
नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः । हयग्रीवः शङ्कुशिरा विप्रचित्तिः अयोमुखः ॥ १९ ॥
नमुचिः शम्बरः अनर्वा द्विमूर्धाः ऋषभः अम्बरः । हयग्रीवः शङ्कुशिराः विप्रचित्तिः अयोमुखः ॥ १९ ॥
namuciḥ śambaraḥ anarvā dvimūrdhāḥ ṛṣabhaḥ ambaraḥ . hayagrīvaḥ śaṅkuśirāḥ vipracittiḥ ayomukhaḥ .. 19 ..
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥
पुलोमा वृषपर्वा च प्रहेतिः हेतिः उत्कलः । दैतेयाः दानवाः यक्षाः रक्षांसि च सहस्रशस् ॥ २० ॥
pulomā vṛṣaparvā ca prahetiḥ hetiḥ utkalaḥ . daiteyāḥ dānavāḥ yakṣāḥ rakṣāṃsi ca sahasraśas .. 20 ..
सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
सुमालि-मालि-प्रमुखाः कार्तस्वर-परिच्छदाः । प्रतिषिध्य इन्द्रसेना-अग्रम् मृत्योः अपि दुरासदम् ॥ २१ ॥
sumāli-māli-pramukhāḥ kārtasvara-paricchadāḥ . pratiṣidhya indrasenā-agram mṛtyoḥ api durāsadam .. 21 ..
अभ्यर्दयन् असम्भ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥ २२ ॥
अभ्यर्दयन् असम्भ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिघैः बाणैः प्रास-मुद्गर-तोमरैः ॥ २२ ॥
abhyardayan asambhrāntāḥ siṃhanādena durmadāḥ . gadābhiḥ parighaiḥ bāṇaiḥ prāsa-mudgara-tomaraiḥ .. 22 ..
शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः । सर्वतोऽवाकिरन्शस्त्रैः अस्त्रैश्च विबुधर्षभान् ॥ २३ ॥
शूलैः परश्वधैः खड्गैः शतघ्नीभिः भुशुण्डिभिः । सर्वतस् अवाकिरन् शस्त्रैः अस्त्रैः च विबुध-ऋषभान् ॥ २३ ॥
śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhiḥ bhuśuṇḍibhiḥ . sarvatas avākiran śastraiḥ astraiḥ ca vibudha-ṛṣabhān .. 23 ..
न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः । पुङ्खानुपुङ्खपतितैः ज्योतींषीव नभोघनैः ॥ २४ ॥
न ते अदृश्यन्त सञ्छन्नाः शर-जालैः समन्ततः । पुङ्ख-अनुपुङ्ख-पतितैः ज्योतींषि इव नभः-घनैः ॥ २४ ॥
na te adṛśyanta sañchannāḥ śara-jālaiḥ samantataḥ . puṅkha-anupuṅkha-patitaiḥ jyotīṃṣi iva nabhaḥ-ghanaiḥ .. 24 ..
न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् । छिन्नाः सिद्धपथे देवैः लघुहस्तैः सहस्रधा ॥ २५ ॥
न ते शस्त्र-अस्त्र-वर्ष-ओघाः हि आसेदुः सुर-सैनिकान् । छिन्नाः सिद्धपथे देवैः लघुहस्तैः सहस्रधा ॥ २५ ॥
na te śastra-astra-varṣa-oghāḥ hi āseduḥ sura-sainikān . chinnāḥ siddhapathe devaiḥ laghuhastaiḥ sahasradhā .. 25 ..
अथ क्षीणास्त्रशस्त्रौघा गिरिश्रृङ्गद्रुमोपलैः । अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥
अथ क्षीण-अस्त्र-शस्त्र-ओघाः गिरि-श्रृङ्ग-द्रुम-उपलैः । अभ्यवर्षन् सुर-बलम् चिच्छिदुः तान् च पूर्ववत् ॥ २६ ॥
atha kṣīṇa-astra-śastra-oghāḥ giri-śrṛṅga-druma-upalaiḥ . abhyavarṣan sura-balam cicchiduḥ tān ca pūrvavat .. 26 ..
तानक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैर्दृषद्भिर्विविधाद्रिश्रृङ्गैः अविक्षतान् तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥
तान् अक्षतान् स्वस्तिमतः निशाम्य शस्त्र-अस्त्र-पूगैः अथ वृत्र-नाथाः । द्रुमैः दृषद्भिः विविध-अद्रि-श्रृङ्गैः अविक्षतान् तत्रसुः इन्द्र-सैनिकान् ॥ २७ ॥
tān akṣatān svastimataḥ niśāmya śastra-astra-pūgaiḥ atha vṛtra-nāthāḥ . drumaiḥ dṛṣadbhiḥ vividha-adri-śrṛṅgaiḥ avikṣatān tatrasuḥ indra-sainikān .. 27 ..
सर्वे प्रयासा अभवन्विमोघाः कृताः कृता देवगणेषु दैत्यैः । कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ २८ ॥
सर्वे प्रयासाः अभवन् विमोघाः कृताः कृताः देव-गणेषु दैत्यैः । कृष्ण-अनुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ताः रूक्ष-वाचः ॥ २८ ॥
sarve prayāsāḥ abhavan vimoghāḥ kṛtāḥ kṛtāḥ deva-gaṇeṣu daityaiḥ . kṛṣṇa-anukūleṣu yathā mahatsu kṣudraiḥ prayuktāḥ rūkṣa-vācaḥ .. 28 ..
ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः । पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥
ते स्व-प्रयासम् वितथम् निरीक्ष्य हर-अवभक्ताः हत-युद्ध-दर्पाः । पलायनाय आजि-मुखे विसृज्य पतिम् मनः ते दधुः आत्त-साराः ॥ २९ ॥
te sva-prayāsam vitatham nirīkṣya hara-avabhaktāḥ hata-yuddha-darpāḥ . palāyanāya āji-mukhe visṛjya patim manaḥ te dadhuḥ ātta-sārāḥ .. 29 ..
वृत्रोऽसुरान् तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् । पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥
वृत्रः असुरान् तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् । पलायितम् प्रेक्ष्य बलम् च भग्नम् भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥
vṛtraḥ asurān tān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat . palāyitam prekṣya balam ca bhagnam bhayena tīvreṇa vihasya vīraḥ .. 30 ..
कालोपपन्नां रुचिरां मनस्विनां मुवाच वाचं पुरुषप्रवीरः । हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन्छम्बर मे श्रृणुध्वम् ॥ ३१ ॥
काल-उपपन्नाम् रुचिराम् मनस्विनाम् वाचम् पुरुष-प्रवीरः । हे विप्रचित्ते नमुचे पुलोमन् मया अनर्वन् शम्बर मे श्रृणुध्वम् ॥ ३१ ॥
kāla-upapannām rucirām manasvinām vācam puruṣa-pravīraḥ . he vipracitte namuce puloman mayā anarvan śambara me śrṛṇudhvam .. 31 ..
जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
जातस्य मृत्युः ध्रुवः एव सर्वतस् प्रतिक्रिया यस्य न च इह कॢप्ता । लोकः यशः च अथ ततस् यदि हि अमुम् कः नाम मृत्युम् न वृणीत युक्तम् ॥ ३२ ॥
jātasya mṛtyuḥ dhruvaḥ eva sarvatas pratikriyā yasya na ca iha kḷptā . lokaḥ yaśaḥ ca atha tatas yadi hi amum kaḥ nāma mṛtyum na vṛṇīta yuktam .. 32 ..
द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः । कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३ ॥
द्वौ सम्मतौ इह मृत्यू दुरापौ यत् ब्रह्म-सन्धारणया जित-असुः । कलेवरम् योग-रतः विजह्यात् यत् अग्रणीः वीरशये अनिवृत्तः ॥ ३३ ॥
dvau sammatau iha mṛtyū durāpau yat brahma-sandhāraṇayā jita-asuḥ . kalevaram yoga-rataḥ vijahyāt yat agraṇīḥ vīraśaye anivṛttaḥ .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe indravṛtrāsurayuddhavarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In