| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वृत्रस्य भक्तिज्ञानवैराग्ययुक्त वीरोचितोद्गाराः -
वृत्रस्य भक्ति-ज्ञान-वैराग्य-युक्त-वीर-उचित-उद्गाराः
vṛtrasya bhakti-jñāna-vairāgya-yukta-vīra-ucita-udgārāḥ
श्रीशुक उवाच -
ते एवं शंसतो धर्मं वचः पत्युरचेतसः । नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १ ॥
ते एवम् शंसतः धर्मम् वचः पत्युः अचेतसः । न एव अगृह्णन् भय-त्रस्ताः पलायन-पराः नृप ॥ १ ॥
te evam śaṃsataḥ dharmam vacaḥ patyuḥ acetasaḥ . na eva agṛhṇan bhaya-trastāḥ palāyana-parāḥ nṛpa .. 1 ..
विशीर्यमाणां पृतनां आसुरीं असुरर्षभः । कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥
विशीर्यमाणाम् पृतनाम् आसुरीम् असुर-ऋषभः । काल-अनुकूलैः त्रिदशैः काल्यमानाम् अनाथ-वत् ॥ २ ॥
viśīryamāṇām pṛtanām āsurīm asura-ṛṣabhaḥ . kāla-anukūlaiḥ tridaśaiḥ kālyamānām anātha-vat .. 2 ..
दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः । तान्निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥
दृष्ट्वा अतप्यत सङ्क्रुद्धः इन्द्रशत्रुः अमर्षितः । तान् निवार्य ओजसा राजन् निर्भर्त्स्य इदम् उवाच ह ॥ ३ ॥
dṛṣṭvā atapyata saṅkruddhaḥ indraśatruḥ amarṣitaḥ . tān nivārya ojasā rājan nirbhartsya idam uvāca ha .. 3 ..
किं व उच्चरितैर्मातुः धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥
किम् वः उच्चरितैः मातुः धावद्भिः पृष्ठतस् हतैः । न हि भीत-वधः श्लाघ्यः न स्वर्ग्यः शूर-मानिनाम् ॥ ४ ॥
kim vaḥ uccaritaiḥ mātuḥ dhāvadbhiḥ pṛṣṭhatas hataiḥ . na hi bhīta-vadhaḥ ślāghyaḥ na svargyaḥ śūra-māninām .. 4 ..
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ ५ ॥
यदि वः प्रधने श्रद्धा सारम् वा क्षुल्लकाः हृदि । अग्रे तिष्ठत मात्रम् मे न चेद् ग्राम्य-सुखे स्पृहा ॥ ५ ॥
yadi vaḥ pradhane śraddhā sāram vā kṣullakāḥ hṛdi . agre tiṣṭhata mātram me na ced grāmya-sukhe spṛhā .. 5 ..
एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥
एवम् सुर-गणान् क्रुद्धः भीषयन् वपुषा रिपून् । व्यनदत् सु महा-प्राणः येन लोकाः विचेतसः ॥ ६ ॥
evam sura-gaṇān kruddhaḥ bhīṣayan vapuṣā ripūn . vyanadat su mahā-prāṇaḥ yena lokāḥ vicetasaḥ .. 6 ..
तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥
तेन देव-गणाः सर्वे वृत्र-विस्फोटनेन वै । निपेतुः मूर्च्छिताः भूमौ यथा एव अशनिना हताः ॥ ७ ॥
tena deva-gaṇāḥ sarve vṛtra-visphoṭanena vai . nipetuḥ mūrcchitāḥ bhūmau yathā eva aśaninā hatāḥ .. 7 ..
ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः । गां कम्पयन् उद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥
ममर्द पद्भ्याम् सुर-सैन्यम् आतुरम् निमीलित-अक्षम् रण-रङ्ग-दुर्मदः । गाम् कम्पयन् उद्यत-शूलः ओजसा न अलम् वनम् यूथ-पतिः यथा उन्मदः ॥ ८ ॥
mamarda padbhyām sura-sainyam āturam nimīlita-akṣam raṇa-raṅga-durmadaḥ . gām kampayan udyata-śūlaḥ ojasā na alam vanam yūtha-patiḥ yathā unmadaḥ .. 8 ..
विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥ ९ ॥
विलोक्य तम् वज्रधरः अत्यमर्षितः स्व-शत्रवे अभिद्रवते महा-गदाम् । चिक्षेप ताम् आपततीम् सु दुःसहाम् जग्राह वामेन करेण लीलया ॥ ९ ॥
vilokya tam vajradharaḥ atyamarṣitaḥ sva-śatrave abhidravate mahā-gadām . cikṣepa tām āpatatīm su duḥsahām jagrāha vāmena kareṇa līlayā .. 9 ..
स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः । जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥
सः इन्द्रशत्रुः कुपितः भृशम् तया महा-इन्द्र-वाहम् गदया उरु-विक्रमः । जघान कुम्भ-स्थले उन्नदन् मृधे तद्-कर्म सर्वे समपूजयन् नृप ॥ १० ॥
saḥ indraśatruḥ kupitaḥ bhṛśam tayā mahā-indra-vāham gadayā uru-vikramaḥ . jaghāna kumbha-sthale unnadan mṛdhe tad-karma sarve samapūjayan nṛpa .. 10 ..
ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा । अपासरद् भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११ ॥
ऐरावतः वृत्र-गदा-अभिमृष्टः विघूर्णितः अद्रिः कुलिश-आहतः यथा । अपासरत् भिन्न-मुखः सह इन्द्रः मुञ्चन् असृज् सप्तधनुः-भृश-आर्तः ॥ ११ ॥
airāvataḥ vṛtra-gadā-abhimṛṣṭaḥ vighūrṇitaḥ adriḥ kuliśa-āhataḥ yathā . apāsarat bhinna-mukhaḥ saha indraḥ muñcan asṛj saptadhanuḥ-bhṛśa-ārtaḥ .. 11 ..
न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा । इन्द्रोऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥
न सन्न-वाहाय विषण्ण-चेतसे प्रायुङ्क्त भूयस् स गदाम् महात्मा । इन्द्रः अमृत-स्यन्दि-कर-अभिमर्श वीत-व्यथ-क्षत-वाहः अवतस्थे ॥ १२ ॥
na sanna-vāhāya viṣaṇṇa-cetase prāyuṅkta bhūyas sa gadām mahātmā . indraḥ amṛta-syandi-kara-abhimarśa vīta-vyatha-kṣata-vāhaḥ avatasthe .. 12 ..
स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य । स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद ॥ १३ ॥
स तम् नृप-इन्द्र-आहव-काम्यया रिपुम् वज्रायुधम् भ्रातृ-हणम् विलोक्य । स्मरन् च तत् कर्म नृशंसम् अंहः शोकेन मोहेन हसन् जगाद ॥ १३ ॥
sa tam nṛpa-indra-āhava-kāmyayā ripum vajrāyudham bhrātṛ-haṇam vilokya . smaran ca tat karma nṛśaṃsam aṃhaḥ śokena mohena hasan jagāda .. 13 ..
श्रीवृत्र उवाच
दिष्ट्या भवान् मे समवस्थितो रिपुः यो ब्रह्महा गुरुहा भ्रातृहा च । दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्न दृषद्धृदाचिरात् ॥ १४ ॥
दिष्ट्या भवान् मे समवस्थितः रिपुः यः ब्रह्म-हा गुरु-हा भ्रातृ-हा च । दिष्ट्या अनृणः अद्य अहम् असत्तम त्वया मद्-शूल-निर्भिन्न दृषद्-हृदा आचिरात् ॥ १४ ॥
diṣṭyā bhavān me samavasthitaḥ ripuḥ yaḥ brahma-hā guru-hā bhrātṛ-hā ca . diṣṭyā anṛṇaḥ adya aham asattama tvayā mad-śūla-nirbhinna dṛṣad-hṛdā ācirāt .. 14 ..
यो नोऽग्रजस्यात्मविदो द्विजातेः गुरोरपापस्य च दीक्षितस्य । विश्रभ्य खड्गेन शिरांस्यवृश्चय् पशोरिवाकरुणः स्वर्गकामः ॥ १५ ॥
यः नः अग्रजस्य आत्म-विदः द्विजातेः गुरोः अपापस्य च दीक्षितस्य । विश्रभ्य खड्गेन शिरांसि अवृश्चय् पशोः इव अकरुणः स्वर्ग-कामः ॥ १५ ॥
yaḥ naḥ agrajasya ātma-vidaḥ dvijāteḥ guroḥ apāpasya ca dīkṣitasya . viśrabhya khaḍgena śirāṃsi avṛścay paśoḥ iva akaruṇaḥ svarga-kāmaḥ .. 15 ..
ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् । कृच्छ्रेण मच्छूलविभिन्नदेहं अस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६ ॥
ह्री-श्री-दया-कीर्तिभिः उज्झितम् त्वाम् स्व-कर्मणा पुरुषादैः च गर्ह्यम् । कृच्छ्रेण मद्-शूल-विभिन्न-देहम् अ स्पृष्ट-वह्निम् समदन्ति गृध्राः ॥ १६ ॥
hrī-śrī-dayā-kīrtibhiḥ ujjhitam tvām sva-karmaṇā puruṣādaiḥ ca garhyam . kṛcchreṇa mad-śūla-vibhinna-deham a spṛṣṭa-vahnim samadanti gṛdhrāḥ .. 16 ..
अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥
अन्ये अनु ये त्वा इह नृशंसम् अज्ञाः ये हि उद्यत-अस्त्राः प्रहरन्ति मह्यम् । तैः भूत-नाथान् स गणान् त्रिशूल-निर्भिन्न-गलैः यजामि ॥ १७ ॥
anye anu ye tvā iha nṛśaṃsam ajñāḥ ye hi udyata-astrāḥ praharanti mahyam . taiḥ bhūta-nāthān sa gaṇān triśūla-nirbhinna-galaiḥ yajāmi .. 17 ..
अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥ १८ ॥
अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्य एव शिरः यदि इह । तत्र अनृणः भूत-बलिम् विधाय मनस्विनाम् पाद-रजः प्रपत्स्ये ॥ १८ ॥
atho hare me kuliśena vīra hartā pramathya eva śiraḥ yadi iha . tatra anṛṇaḥ bhūta-balim vidhāya manasvinām pāda-rajaḥ prapatsye .. 18 ..
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् । मा संशयिष्ठा न गदेव वज्रः स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९ ॥
सुरेश कस्मात् न हिनोषि वज्रम् पुरस् स्थिते वैरिणि मयि अमोघम् । मा संशयिष्ठाः न गदा इव वज्रः स्यात् निष्फलः कृपण-अर्था इव याच्ञा ॥ १९ ॥
sureśa kasmāt na hinoṣi vajram puras sthite vairiṇi mayi amogham . mā saṃśayiṣṭhāḥ na gadā iva vajraḥ syāt niṣphalaḥ kṛpaṇa-arthā iva yācñā .. 19 ..
नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः । तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥
ननु एष वज्रः तव शक्र तेजसा हरेः दधीचेः तपसा च तेजितः । तेन एव शत्रुम् जहि विष्णु-यन्त्रितः यतस् हरिः विजयः श्रीः गुणाः ततस् ॥ २० ॥
nanu eṣa vajraḥ tava śakra tejasā hareḥ dadhīceḥ tapasā ca tejitaḥ . tena eva śatrum jahi viṣṇu-yantritaḥ yatas hariḥ vijayaḥ śrīḥ guṇāḥ tatas .. 20 ..
अहं समाधाय मनो यथाऽऽह नः सङ्कर्षणस्तच्चरणारविन्दे । त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः ॥ २१ ॥
अहम् समाधाय मनः यथा आह नः सङ्कर्षणः तद्-चरण-अरविन्दे । त्वद्-वज्र-रंहः-लुलित-ग्राम्य-पाशः गतिम् मुनेः यामि अपविद्ध-लोकः ॥ २१ ॥
aham samādhāya manaḥ yathā āha naḥ saṅkarṣaṇaḥ tad-caraṇa-aravinde . tvad-vajra-raṃhaḥ-lulita-grāmya-pāśaḥ gatim muneḥ yāmi apaviddha-lokaḥ .. 21 ..
पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् । न राति यद् द्वेष उद्वेग आधिः मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥
पुंसाम् किल एकान्त-धियाम् स्वकानाम् याः सम्पदः दिवि भूमौ रसायाम् । न राति यत् द्वेषः उद्वेगः आधिः मदः कलिः व्यसनम् सम्प्रयासः ॥ २२ ॥
puṃsām kila ekānta-dhiyām svakānām yāḥ sampadaḥ divi bhūmau rasāyām . na rāti yat dveṣaḥ udvegaḥ ādhiḥ madaḥ kaliḥ vyasanam samprayāsaḥ .. 22 ..
त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र । ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३ ॥
त्रैवर्गिक-आयास-विघातम् अस्मत् पतिः विधत्ते पुरुषस्य शक्र । ततस् अनुमेयः भगवत्-प्रसादः यः दुर्लभः अकिञ्चन-गोचरः अन्यैः ॥ २३ ॥
traivargika-āyāsa-vighātam asmat patiḥ vidhatte puruṣasya śakra . tatas anumeyaḥ bhagavat-prasādaḥ yaḥ durlabhaḥ akiñcana-gocaraḥ anyaiḥ .. 23 ..
अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ॥ २४ ॥
अहम् हरे तव पाद-एक-मूल दास-अनुदासः भवितास्मि भूयस् । मनः स्मरेत असुपतेः गुणान् ते गृणीत वाच्-कर्म करोतु कायः ॥ २४ ॥
aham hare tava pāda-eka-mūla dāsa-anudāsaḥ bhavitāsmi bhūyas . manaḥ smareta asupateḥ guṇān te gṛṇīta vāc-karma karotu kāyaḥ .. 24 ..
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५ ॥
न नाक-पृष्ठम् न च पारमेष्ठ्यम् न सार्वभौमम् न रस-आधिपत्यम् । न योग-सिद्धीः अपुनर्भवम् वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५ ॥
na nāka-pṛṣṭham na ca pārameṣṭhyam na sārvabhaumam na rasa-ādhipatyam . na yoga-siddhīḥ apunarbhavam vā samañjasa tvā virahayya kāṅkṣe .. 25 ..
अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥
अजात-पक्षाः इव मातरम् खगाः स्तन्यम् यथा वत्सतराः क्षुधा आर्ताः । प्रियम् प्रिया इव व्युषितम् विषण्णा मनः अरविन्द-अक्ष दिदृक्षते त्वाम् ॥ २६ ॥
ajāta-pakṣāḥ iva mātaram khagāḥ stanyam yathā vatsatarāḥ kṣudhā ārtāḥ . priyam priyā iva vyuṣitam viṣaṇṇā manaḥ aravinda-akṣa didṛkṣate tvām .. 26 ..
ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्मात्मजदारगेहे ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥
मम उत्तमश्लोक-जनेषु सख्यम् संसार-चक्रे भ्रमतः स्व-कर्मभिः । त्वद्-मायया आत्म-आत्मज-दार-गेहे सु आसक्त-चित्तस्य न नाथ भूयात् ॥ २७ ॥
mama uttamaśloka-janeṣu sakhyam saṃsāra-cakre bhramataḥ sva-karmabhiḥ . tvad-māyayā ātma-ātmaja-dāra-gehe su āsakta-cittasya na nātha bhūyāt .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनम् नाम एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe indravṛtrāsurayuddhavarṇanam nāma ekādaśaḥ adhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In