| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - द्वादशोऽध्यायः इन्द्रवृत्रयुद्धं वृत्रस्य वधश्च -
श्रीमत्-भागवत-महापुराण-षष्ठः स्कन्धः द्वादशः अध्यायः इन्द्र-वृत्र-युद्धम् वृत्रस्य वधः च
śrīmat-bhāgavata-mahāpurāṇa-ṣaṣṭhaḥ skandhaḥ dvādaśaḥ adhyāyaḥ indra-vṛtra-yuddham vṛtrasya vadhaḥ ca
श्रीऋषिरुवाच -
एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः । शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥
एवम् जिहासुः नृप देहम् आजौ मृत्युम् वरम् विजयात् मन्यमानः । शूलम् प्रगृह्य अभ्यपतत् सुर-इन्द्रम् यथा महा-पुरुषम् कैटभः अप्सु ॥ १ ॥
evam jihāsuḥ nṛpa deham ājau mṛtyum varam vijayāt manyamānaḥ . śūlam pragṛhya abhyapatat sura-indram yathā mahā-puruṣam kaiṭabhaḥ apsu .. 1 ..
ततो युगान्ताग्निकठोरजिह्वं आविध्य शूलं तरसासुरेन्द्रः । क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥ २ ॥
ततस् युगान्त-अग्नि-कठोर-जिह्वम् आविध्य शूलम् तरसा असुर-इन्द्रः । क्षिप्त्वा महा-इन्द्राय विनद्य वीरः हतः असि पाप इति रुषा जगाद ॥ २ ॥
tatas yugānta-agni-kaṭhora-jihvam āvidhya śūlam tarasā asura-indraḥ . kṣiptvā mahā-indrāya vinadya vīraḥ hataḥ asi pāpa iti ruṣā jagāda .. 2 ..
ख आपतत् तद् विचलद् ग्रहोल्कवद् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ ३ ॥
खे आपतत् तत् विचलत् ग्रह-उल्कवत् निरीक्ष्य दुष्प्रेक्ष्यम् अजात-विक्लवः । वज्रेण वज्री शतपर्वणा आच्छिनत् भुजम् च तस्य उरग-राज-भोगम् ॥ ३ ॥
khe āpatat tat vicalat graha-ulkavat nirīkṣya duṣprekṣyam ajāta-viklavaḥ . vajreṇa vajrī śataparvaṇā ācchinat bhujam ca tasya uraga-rāja-bhogam .. 3 ..
छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् । हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान् न्यपतन् मघोनः ॥ ४ ॥
छिन्न-एक-बाहुः परिघेण वृत्रः संरब्धः आसाद्य गृहीत-वज्रम् । हनौ तताड इन्द्रम् अथ अमर-इभम् वज्रम् च हस्तात् न्यपतत् मघोनः ॥ ४ ॥
chinna-eka-bāhuḥ parigheṇa vṛtraḥ saṃrabdhaḥ āsādya gṛhīta-vajram . hanau tatāḍa indram atha amara-ibham vajram ca hastāt nyapatat maghonaḥ .. 4 ..
वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः । अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥
वृत्रस्य कर्म अति महा-अद्भुतम् तत् सुर-असुराः चारण-सिद्ध-सङ्घाः । अपूजयन् तत् पुरुहूत-सङ्कटम् निरीक्ष्य हा हा इति विचुक्रुशुः भृशम् ॥ ५ ॥
vṛtrasya karma ati mahā-adbhutam tat sura-asurāḥ cāraṇa-siddha-saṅghāḥ . apūjayan tat puruhūta-saṅkaṭam nirīkṣya hā hā iti vicukruśuḥ bhṛśam .. 5 ..
इन्द्रो न वज्रं जगृहे विलज्जितः च्युतं स्वहस्तादरिसन्निधौ पुनः । तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥ ६ ॥
इन्द्रः न वज्रम् जगृहे विलज्जितः च्युतम् स्व-हस्तात् अरि-सन्निधौ पुनर् । तम् आह वृत्रः हरः आत्त-वज्रः जहि स्व-शत्रुम् न विषाद-कालः ॥ ६ ॥
indraḥ na vajram jagṛhe vilajjitaḥ cyutam sva-hastāt ari-sannidhau punar . tam āha vṛtraḥ haraḥ ātta-vajraḥ jahi sva-śatrum na viṣāda-kālaḥ .. 6 ..
युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् । विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥
युयुत्सताम् कुत्रचिद् आततायिनाम् जयः सदा एकत्र न वै परात्मनाम् । विना एकम् उत्पत्ति-लय-स्थिति-ईश्वरम् सर्वज्ञम् आद्यम् पुरुषम् सनातनम् ॥ ७ ॥
yuyutsatām kutracid ātatāyinām jayaḥ sadā ekatra na vai parātmanām . vinā ekam utpatti-laya-sthiti-īśvaram sarvajñam ādyam puruṣam sanātanam .. 7 ..
लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८ ॥
लोकाः स पालाः यस्य इमे श्वसन्ति विवशाः वशे । द्विजाः इव शिचा बद्धाः स कालः इह कारणम् ॥ ८ ॥
lokāḥ sa pālāḥ yasya ime śvasanti vivaśāḥ vaśe . dvijāḥ iva śicā baddhāḥ sa kālaḥ iha kāraṇam .. 8 ..
ओजः सहो बलं प्राणं अमृतं मृत्युमेव च । तमज्ञाय जनो हेतुं आत्मानं मन्यते जडम् ॥ ९ ॥
ओजः सहः बलम् प्राणम् अमृतम् मृत्युम् एव च । तम् अ ज्ञाय जनः हेतुम् आत्मानम् मन्यते जडम् ॥ ९ ॥
ojaḥ sahaḥ balam prāṇam amṛtam mṛtyum eva ca . tam a jñāya janaḥ hetum ātmānam manyate jaḍam .. 9 ..
यथा दारुमयी नारी यथा यंत्रमयो मृगः । एवं भूतानि मघवन् नीशतन्त्राणि विद्धि भोः ॥ १० ॥
यथा दारु-मयी नारी यथा यंत्र-मयः मृगः । एवम् भूतानि मघवन् नीश-तन्त्राणि विद्धि भोः ॥ १० ॥
yathā dāru-mayī nārī yathā yaṃtra-mayaḥ mṛgaḥ . evam bhūtāni maghavan nīśa-tantrāṇi viddhi bhoḥ .. 10 ..
पुरुषः प्रकृतिर्व्यक्तं आत्मा भूतेन्द्रियाशयाः । शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥
पुरुषः प्रकृतिः व्यक्तम् आत्मा भूत-इन्द्रिय-आशयाः । शक्नुवन्ति अस्य सर्ग-आदौ न विना यद्-अनुग्रहात् ॥ ११ ॥
puruṣaḥ prakṛtiḥ vyaktam ātmā bhūta-indriya-āśayāḥ . śaknuvanti asya sarga-ādau na vinā yad-anugrahāt .. 11 ..
अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् । भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥
अ विद्वान् एवम् आत्मानम् मन्यते अनीशम् ईश्वरम् । भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥
a vidvān evam ātmānam manyate anīśam īśvaram . bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam .. 12 ..
आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः । भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३ ॥
आयुः श्रीः कीर्तिः ऐश्वर्यम् आशिषः पुरुषस्य याः । भवन्ति एव हि तद्-काले यथा अनिच्छोः विपर्ययाः ॥ १३ ॥
āyuḥ śrīḥ kīrtiḥ aiśvaryam āśiṣaḥ puruṣasya yāḥ . bhavanti eva hi tad-kāle yathā anicchoḥ viparyayāḥ .. 13 ..
तस्मादकीर्तियशसोः जयापजययोरपि । समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥
तस्मात् अकीर्ति-यशसोः जय-अपजययोः अपि । समः स्यात् सुख-दुःखाभ्याम् मृत्यु-जीवितयोः तथा ॥ १४ ॥
tasmāt akīrti-yaśasoḥ jaya-apajayayoḥ api . samaḥ syāt sukha-duḥkhābhyām mṛtyu-jīvitayoḥ tathā .. 14 ..
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥
सत्त्वम् रजः तमः इति प्रकृतेः न आत्मनः गुणाः । तत्र साक्षिणम् आत्मानम् यः वेद स न बध्यते ॥ १५ ॥
sattvam rajaḥ tamaḥ iti prakṛteḥ na ātmanaḥ guṇāḥ . tatra sākṣiṇam ātmānam yaḥ veda sa na badhyate .. 15 ..
पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥
पश्य माम् निर्जितम् शत्रु वृक्ण-आयुध-भुजम् मृधे । घटमानम् यथाशक्ति तव प्राण-जिहीर्षया ॥ १६ ॥
paśya mām nirjitam śatru vṛkṇa-āyudha-bhujam mṛdhe . ghaṭamānam yathāśakti tava prāṇa-jihīrṣayā .. 16 ..
प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः । अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७ ॥
प्राण-ग्लहः अयम् समरे इषु-अक्षः वाहन-आसनः । अत्र न ज्ञायते अमुष्य जयः अमुष्य पराजयः ॥ १७ ॥
prāṇa-glahaḥ ayam samare iṣu-akṣaḥ vāhana-āsanaḥ . atra na jñāyate amuṣya jayaḥ amuṣya parājayaḥ .. 17 ..
श्रीशुक उवाच -
इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । गृहीतवज्रः प्रहसन् तमाह गतविस्मयः ॥ १८ ॥
इन्द्रः वृत्र-वचः श्रुत्वा गत-अलीकम् अपूजयत् । गृहीत-वज्रः प्रहसन् तम् आह गत-विस्मयः ॥ १८ ॥
indraḥ vṛtra-vacaḥ śrutvā gata-alīkam apūjayat . gṛhīta-vajraḥ prahasan tam āha gata-vismayaḥ .. 18 ..
इन्द्र उवाच -
अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी । भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥
अहो दानव सिद्धः असि यस्य ते मतिः ईदृशी । भक्तः सर्व-आत्मना आत्मानम् सुहृदम् जगत्-ईश्वरम् ॥ १९ ॥
aho dānava siddhaḥ asi yasya te matiḥ īdṛśī . bhaktaḥ sarva-ātmanā ātmānam suhṛdam jagat-īśvaram .. 19 ..
भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् । यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥
भवान् अतार्षीत् मायाम् वै वैष्णवीम् जन-मोहिनीम् । यत् विहाय असुरम् भावम् महापुरुष-ताम् गतः ॥ २० ॥
bhavān atārṣīt māyām vai vaiṣṇavīm jana-mohinīm . yat vihāya asuram bhāvam mahāpuruṣa-tām gataḥ .. 20 ..
खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१ ॥
खलु इदम् महत् आश्चर्यम् यत् रजः-प्रकृतेः तव । वासुदेवे भगवति सत्त्व-आत्मनि दृढा मतिः ॥ २१ ॥
khalu idam mahat āścaryam yat rajaḥ-prakṛteḥ tava . vāsudeve bhagavati sattva-ātmani dṛḍhā matiḥ .. 21 ..
यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२ ॥
यस्य भक्तिः भगवति हरौ निःश्रेयस-ईश्वरे । विक्रीडतः अमृत-अम्भोधौ किम् क्षुद्रैः खातक-उदकैः ॥ २२ ॥
yasya bhaktiḥ bhagavati harau niḥśreyasa-īśvare . vikrīḍataḥ amṛta-ambhodhau kim kṣudraiḥ khātaka-udakaiḥ .. 22 ..
श्रीशुक उवाच -
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्यौ इन्द्रवृत्रौ युधाम्पती ॥ २३ ॥
इति ब्रुवाणौ अन्योन्यम् धर्म-जिज्ञासया नृप । युयुधाते महा-वीर्यौ इन्द्र-वृत्रौ युधाम्पती ॥ २३ ॥
iti bruvāṇau anyonyam dharma-jijñāsayā nṛpa . yuyudhāte mahā-vīryau indra-vṛtrau yudhāmpatī .. 23 ..
आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः । इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥
आविध्य परिघम् वृत्रः कार्ष्णायसम् अरिन्दमः । इन्द्राय प्राहिणोत् घोरम् वाम-हस्तेन मारिष ॥ २४ ॥
āvidhya parigham vṛtraḥ kārṣṇāyasam arindamaḥ . indrāya prāhiṇot ghoram vāma-hastena māriṣa .. 24 ..
स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ॥ २५ ॥
स तु वृत्रस्य परिघम् करम् च करभ-उपमम् । चिच्छेद युगपद् देवः वज्रेण शत-पर्वणा ॥ २५ ॥
sa tu vṛtrasya parigham karam ca karabha-upamam . ciccheda yugapad devaḥ vajreṇa śata-parvaṇā .. 25 ..
दोर्भ्यां उत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः । छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥ २६ ॥
दोर्भ्याम् उत्कृत्त-मूलाभ्याम् बभौ रक्त-स्रवः असुरः । छिन्नपक्षः यथा गोत्रः खात् भ्रष्टः वज्रिणा हतः ॥ २६ ॥
dorbhyām utkṛtta-mūlābhyām babhau rakta-sravaḥ asuraḥ . chinnapakṣaḥ yathā gotraḥ khāt bhraṣṭaḥ vajriṇā hataḥ .. 26 ..
कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥
कृत्वा अधराम् हनुम् भूमौ दैत्यः दिवि उत्तराम् हनुम् नभः-गम्भीर-वक्त्रेण लेलिह-उल्बण-जिह्वया ॥ २७ ॥
kṛtvā adharām hanum bhūmau daityaḥ divi uttarām hanum nabhaḥ-gambhīra-vaktreṇa leliha-ulbaṇa-jihvayā .. 27 ..
दंष्ट्राभिः कालकल्पाभिः ग्रसन्निव जगत्त्रयम् । अतिमात्रमहाकाय आक्षिपन् तरसा गिरीन् ॥ २८ ॥
दंष्ट्राभिः काल-कल्पाभिः ग्रसन् इव जगत्त्रयम् । अतिमात्र-महा-कायः आक्षिपन् तरसा गिरीन् ॥ २८ ॥
daṃṣṭrābhiḥ kāla-kalpābhiḥ grasan iva jagattrayam . atimātra-mahā-kāyaḥ ākṣipan tarasā girīn .. 28 ..
गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् । जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥
गिरि-राज् पाद-चारी इव पद्भ्याम् निर्जरयन् महीम् । जग्रास स समासाद्य वज्रिणम् सह वाहनम् ॥ २९ ॥
giri-rāj pāda-cārī iva padbhyām nirjarayan mahīm . jagrāsa sa samāsādya vajriṇam saha vāhanam .. 29 ..
वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः । महाप्राणो महावीर्यो महासर्प एव द्विपम् । हा कष्टमिति निर्विण्णाः चुक्रुशुः समहर्षयः ॥ ३० ॥
वृत्र-ग्रस्तम् तम् आलोक्य स प्रजापतयः सुराः । महा-प्राणः महा-वीर्यः महा-सर्पः एव द्विपम् । हा कष्टम् इति निर्विण्णाः चुक्रुशुः स महा-ऋषयः ॥ ३० ॥
vṛtra-grastam tam ālokya sa prajāpatayaḥ surāḥ . mahā-prāṇaḥ mahā-vīryaḥ mahā-sarpaḥ eva dvipam . hā kaṣṭam iti nirviṇṇāḥ cukruśuḥ sa mahā-ṛṣayaḥ .. 30 ..
निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः । महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥
निगीर्णः अपि असुर-इन्द्रेण न ममार उदरम् गतः । महापुरुष-सन्नद्धः योग-माया-बलेन च ॥ ३१ ॥
nigīrṇaḥ api asura-indreṇa na mamāra udaram gataḥ . mahāpuruṣa-sannaddhaḥ yoga-māyā-balena ca .. 31 ..
भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः । उच्चकर्त शिरः शत्रोः गिरिश्रृङ्गमिवौजसा ॥ ३२ ॥
भित्त्वा वज्रेण तद्-कुक्षिम् निष्क्रम्य बलभिद् विभुः । उच्चकर्त शिरः शत्रोः गिरि-श्रृङ्गम् इव ओजसा ॥ ३२ ॥
bhittvā vajreṇa tad-kukṣim niṣkramya balabhid vibhuḥ . uccakarta śiraḥ śatroḥ giri-śrṛṅgam iva ojasā .. 32 ..
वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥
वज्रः तु तद्-कन्धरम् आशु-वेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावत् अहर्गणेन यः ज्योतिषाम् अयने वार्त्रहत्ये ॥ ३३ ॥
vajraḥ tu tad-kandharam āśu-vegaḥ kṛntan samantāt parivartamānaḥ . nyapātayat tāvat ahargaṇena yaḥ jyotiṣām ayane vārtrahatye .. 33 ..
तदा च खे दुन्दुभयो विनेदुः गन्धर्वसिद्धाः समहर्षिसङ्घाः । वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥
तदा च खे दुन्दुभयः विनेदुः गन्धर्व-सिद्धाः स महा-ऋषि-सङ्घाः । वार्त्रघ्न-लिङ्गैः तम् अभिष्टुवानाः मन्त्रैः मुदा कुसुमैः अभ्यवर्षन् ॥ ३४ ॥
tadā ca khe dundubhayaḥ vineduḥ gandharva-siddhāḥ sa mahā-ṛṣi-saṅghāḥ . vārtraghna-liṅgaiḥ tam abhiṣṭuvānāḥ mantraiḥ mudā kusumaiḥ abhyavarṣan .. 34 ..
वृत्रस्य देहान् निष्क्रान्तं आत्मज्योतिररिन्दम । पश्यतां सर्वदेवानां अलोकं समपद्यत ॥ ३५ ॥
वृत्रस्य देहात् निष्क्रान्तम् आत्म-ज्योतिः अरिन्दम । पश्यताम् सर्व-देवानाम् अलोकम् समपद्यत ॥ ३५ ॥
vṛtrasya dehāt niṣkrāntam ātma-jyotiḥ arindama . paśyatām sarva-devānām alokam samapadyata .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रोवधो नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे वृत्रोवधः नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe vṛtrovadhaḥ nāma dvādaśaḥ adhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In