| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - चतुर्दशोऽध्यायः वृत्रासुरस्य पूर्वजन्मवृत्तान्ते चित्रकेतु उपाख्यानम्, अङ्गिरःप्रसादेन लब्धे स्वसुते विनष्टे, चित्रकेतोरत्यन्त शोकः, कृतद्युतेर्विलापश्च -
श्रीमत्-भागवत-महापुराण-षष्ठः स्कन्धः -अध्यायः वृत्रासुरस्य पूर्व-जन्म-वृत्तान्ते चित्रकेतु उपाख्यानम्, अङ्गिरः-प्रसादेन लब्धे स्व-सुते विनष्टे, चित्रकेतोः अत्यन्त-शोकः, कृतद्युतेः विलापः च
śrīmat-bhāgavata-mahāpurāṇa-ṣaṣṭhaḥ skandhaḥ -adhyāyaḥ vṛtrāsurasya pūrva-janma-vṛttānte citraketu upākhyānam, aṅgiraḥ-prasādena labdhe sva-sute vinaṣṭe, citraketoḥ atyanta-śokaḥ, kṛtadyuteḥ vilāpaḥ ca
श्रीपरीक्षिदुवाच -
रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । नारायणे भगवति कथमासीद् दृढा मतिः ॥ १ ॥
रजः-तमः-स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । नारायणे भगवति कथम् आसीत् दृढा मतिः ॥ १ ॥
rajaḥ-tamaḥ-svabhāvasya brahman vṛtrasya pāpmanaḥ . nārāyaṇe bhagavati katham āsīt dṛḍhā matiḥ .. 1 ..
देवानां शुद्धसत्त्वानांऋषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥
देवानाम् शुद्ध-सत्त्वानाम् ऋषीणाम् च अमल-आत्मनाम् । भक्तिः मुकुन्द-चरणे न प्रायेण उपजायते ॥ २ ॥
devānām śuddha-sattvānām ṛṣīṇām ca amala-ātmanām . bhaktiḥ mukunda-caraṇe na prāyeṇa upajāyate .. 2 ..
रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३ ॥
रजोभिः सम-सङ्ख्याताः पार्थिवैः इह जन्तवः । तेषाम् ये केचन ईहन्ते श्रेयः वै मनुज-आदयः ॥ ३ ॥
rajobhiḥ sama-saṅkhyātāḥ pārthivaiḥ iha jantavaḥ . teṣām ye kecana īhante śreyaḥ vai manuja-ādayaḥ .. 3 ..
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ ४ ॥
प्रायस् मुमुक्षवः तेषाम् केचन एव द्विजोत्तम । मुमुक्षूणाम् सहस्रेषु कश्चिद् मुच्येत सिध्यति ॥ ४ ॥
prāyas mumukṣavaḥ teṣām kecana eva dvijottama . mumukṣūṇām sahasreṣu kaścid mucyeta sidhyati .. 4 ..
मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥
मुक्तानाम् अपि सिद्धानाम् नारायण-परायणः । सु दुर्लभः प्रशान्त-आत्मा कोटिषु अपि महा-मुने ॥ ५ ॥
muktānām api siddhānām nārāyaṇa-parāyaṇaḥ . su durlabhaḥ praśānta-ātmā koṭiṣu api mahā-mune .. 5 ..
वृत्रस्तु स कथं पापः सर्वलोकोपतापनः । इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे ॥ ६ ॥
वृत्रः तु स कथम् पापः सर्व-लोक-उपतापनः । इत्थम् दृढ-मतिः कृष्णः आसीत् संग्रामे उल्बणे ॥ ६ ॥
vṛtraḥ tu sa katham pāpaḥ sarva-loka-upatāpanaḥ . ittham dṛḍha-matiḥ kṛṣṇaḥ āsīt saṃgrāme ulbaṇe .. 6 ..
अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो । यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥
अत्र नः संशयः भूयान् श्रोतुम् कौतूहलम् प्रभो । यः पौरुषेण समरे सहस्राक्षम् अतोषयत् ॥ ७ ॥
atra naḥ saṃśayaḥ bhūyān śrotum kautūhalam prabho . yaḥ pauruṣeṇa samare sahasrākṣam atoṣayat .. 7 ..
श्रीसूत उवाच -
परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः । निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥
परीक्षितः अथ संप्रश्नम् भगवान् बादरायणिः । निशम्य श्रद्दधानस्य प्रतिनन्द्य वचः अब्रवीत् ॥ ८ ॥
parīkṣitaḥ atha saṃpraśnam bhagavān bādarāyaṇiḥ . niśamya śraddadhānasya pratinandya vacaḥ abravīt .. 8 ..
श्रीशुक उवाच -
श्रृणुषु अवहितो राजन् इतिहासं इमं यथा । श्रुतं द्वैपायनमुखात् नारदाद् देवलादपि ॥ ९ ॥
श्रृणुषु अवहितः राजन् इतिहासम् इमम् यथा । श्रुतम् द्वैपायन-मुखात् नारदात् देवलात् अपि ॥ ९ ॥
śrṛṇuṣu avahitaḥ rājan itihāsam imam yathā . śrutam dvaipāyana-mukhāt nāradāt devalāt api .. 9 ..
आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप । चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्मही ॥ १० ॥
आसीत् राजा सार्वभौमः शूरसेनेषु वै नृप । चित्रकेतुः इति ख्यातः यस्य आसीत् कामधुक् मही ॥ १० ॥
āsīt rājā sārvabhaumaḥ śūraseneṣu vai nṛpa . citraketuḥ iti khyātaḥ yasya āsīt kāmadhuk mahī .. 10 ..
तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥
तस्य भार्या-सहस्राणाम् सहस्राणि दश अभवन् । सान्तानिकः च अपि नृपः न लेभे तासु सन्ततिम् ॥ ११ ॥
tasya bhāryā-sahasrāṇām sahasrāṇi daśa abhavan . sāntānikaḥ ca api nṛpaḥ na lebhe tāsu santatim .. 11 ..
रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः । सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्यापतेरभूत् ॥ १२ ॥
रूप-औदार्य-वयः-जन्म विद्या-ऐश्वर्य-श्रिया आदिभिः । सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्या-पतेः अभूत् ॥ १२ ॥
rūpa-audārya-vayaḥ-janma vidyā-aiśvarya-śriyā ādibhiḥ . sampannasya guṇaiḥ sarvaiḥ cintā vandhyā-pateḥ abhūt .. 12 ..
न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः । सार्वभौमस्य भूश्चेयं अभवन् प्रीतिहेतवः ॥ १३ ॥
न तस्य सम्पदः सर्वाः महिष्यः वाम-लोचनाः । सार्वभौमस्य भूः च इयम् अभवन् प्रीति-हेतवः ॥ १३ ॥
na tasya sampadaḥ sarvāḥ mahiṣyaḥ vāma-locanāḥ . sārvabhaumasya bhūḥ ca iyam abhavan prīti-hetavaḥ .. 13 ..
तस्यैकदा तु भवनं अङ्गिरा भगवान् ऋषिः । लोकान् अनुचरन् एतान् उपागच्छद् यदृच्छया ॥ १४ ॥
तस्य एकदा तु भवनम् अङ्गिराः भगवान् ऋषिः । लोकान् अनुचरन् एतान् उपागच्छत् यदृच्छया ॥ १४ ॥
tasya ekadā tu bhavanam aṅgirāḥ bhagavān ṛṣiḥ . lokān anucaran etān upāgacchat yadṛcchayā .. 14 ..
तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः । कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ १५ ॥
तम् पूजयित्वा विधिवत् प्रत्युत्थान-अर्हण-आदिभिः । कृत-आतिथ्यम् उपासीदत् सुख-आसीनम् समाहितः ॥ १५ ॥
tam pūjayitvā vidhivat pratyutthāna-arhaṇa-ādibhiḥ . kṛta-ātithyam upāsīdat sukha-āsīnam samāhitaḥ .. 15 ..
महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥
महा-ऋषिः तम् उपासीनम् प्रश्रय-अवनतम् क्षितौ । प्रतिपूज्य महा-राज समाभाष्य इदम् अब्रवीत् ॥ १६ ॥
mahā-ṛṣiḥ tam upāsīnam praśraya-avanatam kṣitau . pratipūjya mahā-rāja samābhāṣya idam abravīt .. 16 ..
अङ्‌गिरा उवाच -
अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः । यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ १७ ॥
अपि ते अनामयम् स्वस्ति प्रकृतीनाम् तथा आत्मनः । यथा प्रकृतिभिः गुप्तः पुमान् राजा च सप्तभिः ॥ १७ ॥
api te anāmayam svasti prakṛtīnām tathā ātmanaḥ . yathā prakṛtibhiḥ guptaḥ pumān rājā ca saptabhiḥ .. 17 ..
आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ १८ ॥
आत्मानम् प्रकृतिषु अद्धा निधाय श्रेयः आप्नुयात् । राज्ञा तथा प्रकृतयः नरदेव-आहित-आधयः ॥ १८ ॥
ātmānam prakṛtiṣu addhā nidhāya śreyaḥ āpnuyāt . rājñā tathā prakṛtayaḥ naradeva-āhita-ādhayaḥ .. 18 ..
अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः । पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ १९ ॥
अपि दाराः प्रजा-अमात्याः भृत्याः श्रेण्यः अथ मन्त्रिणः । पौराः जानपदाः भूपाः आत्मजाः वशवर्तिनः ॥ १९ ॥
api dārāḥ prajā-amātyāḥ bhṛtyāḥ śreṇyaḥ atha mantriṇaḥ . paurāḥ jānapadāḥ bhūpāḥ ātmajāḥ vaśavartinaḥ .. 19 ..
यस्यात्मानुवशश्चेत्स्यात् सर्वे तद्वशगा इमे । लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २० ॥
यस्य आत्मा अनुवशः चेद् स्यात् सर्वे तद्-वश-गाः इमे । लोकाः स पालाः यच्छन्ति सर्वे बलिम् अतन्द्रिताः ॥ २० ॥
yasya ātmā anuvaśaḥ ced syāt sarve tad-vaśa-gāḥ ime . lokāḥ sa pālāḥ yacchanti sarve balim atandritāḥ .. 20 ..
आत्मनः प्रीयते नात्मा परतः स्वत एव वा । लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥
आत्मनः प्रीयते न आत्मा परतस् स्वतस् एव वा । लक्षये अलब्ध-कामम् त्वाम् चिन्तया शबलम् मुखम् ॥ २१ ॥
ātmanaḥ prīyate na ātmā paratas svatas eva vā . lakṣaye alabdha-kāmam tvām cintayā śabalam mukham .. 21 ..
एवं विकल्पितो राजन्विदुषा मुनिनापि सः । प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥
एवम् विकल्पितः राजन् विदुषा मुनिना अपि सः । प्रश्रय-अवनतः अभ्याह प्रजा-कामः ततस् मुनिम् ॥ २२ ॥
evam vikalpitaḥ rājan viduṣā muninā api saḥ . praśraya-avanataḥ abhyāha prajā-kāmaḥ tatas munim .. 22 ..
चित्रकेतुरुवाच -
भगवन् किं न विदितं तपोज्ञानसमाधिभिः । योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३ ॥
भगवन् किम् न विदितम् तपः-ज्ञान-समाधिभिः । योगिनाम् ध्वस्त-पापानाम् बहिस् अन्तर् शरीरिषु ॥ २३ ॥
bhagavan kim na viditam tapaḥ-jñāna-samādhibhiḥ . yoginām dhvasta-pāpānām bahis antar śarīriṣu .. 23 ..
तथापि पृच्छतो ब्रूयां ब्रह्मन् आत्मनि चिन्तितम् । भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥
तथा अपि पृच्छतः ब्रूयाम् ब्रह्मन् आत्मनि चिन्तितम् । भवतः विदुषः च अपि चोदितः त्वद्-अनुज्ञया ॥ २४ ॥
tathā api pṛcchataḥ brūyām brahman ātmani cintitam . bhavataḥ viduṣaḥ ca api coditaḥ tvad-anujñayā .. 24 ..
लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः । न नन्दयन्त्यप्रजं मां क्षुत्तृट्कामं इवापरे ॥ २५ ॥
लोकपालैः अपि प्रार्थ्याः साम्राज्य-ऐश्वर्य-सम्पदः । न नन्दयन्ति अप्रजम् माम् क्षुध्-तृष्-कामम् इव अपरे ॥ २५ ॥
lokapālaiḥ api prārthyāḥ sāmrājya-aiśvarya-sampadaḥ . na nandayanti aprajam mām kṣudh-tṛṣ-kāmam iva apare .. 25 ..
ततः पाहि महाभाग पूर्वैः सह गतं तमः । यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ २६ ॥
ततस् पाहि महाभाग पूर्वैः सह गतम् तमः । यथा तरेम दुष्पारम् प्रजया तत् विधेहि नः ॥ २६ ॥
tatas pāhi mahābhāga pūrvaiḥ saha gatam tamaḥ . yathā tarema duṣpāram prajayā tat vidhehi naḥ .. 26 ..
श्रीशुक उवाच -
इत्यर्थितः स भगवान्कृपालुर्ब्रह्मणः सुतः । श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः ॥ २७ ॥
इति अर्थितः स भगवान् कृपालुः ब्रह्मणः सुतः । श्रपयित्वा चरुम् त्वाष्ट्रम् त्वष्टारम् अयजत् विभुः ॥ २७ ॥
iti arthitaḥ sa bhagavān kṛpāluḥ brahmaṇaḥ sutaḥ . śrapayitvā carum tvāṣṭram tvaṣṭāram ayajat vibhuḥ .. 27 ..
ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत । नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः ॥ २८ ॥
ज्येष्ठा श्रेष्ठा च या राज्ञः महिषीणाम् च भारत । नाम्ना कृतद्युतिः तस्यै यज्ञ-उच्छिष्टम् अदात् द्विजः ॥ २८ ॥
jyeṣṭhā śreṣṭhā ca yā rājñaḥ mahiṣīṇām ca bhārata . nāmnā kṛtadyutiḥ tasyai yajña-ucchiṣṭam adāt dvijaḥ .. 28 ..
अथाह नृपतिं राजन् भवितैकस्तवात्मजः । हर्षशोकप्रदस्तुभ्यं इति ब्रह्मसुतो ययौ ॥ २९ ॥
अथा आह नृपतिम् राजन् भविता एकः तव आत्मजः । हर्ष-शोक-प्रदः तुभ्यम् इति ब्रह्म-सुतः ययौ ॥ २९ ॥
athā āha nṛpatim rājan bhavitā ekaḥ tava ātmajaḥ . harṣa-śoka-pradaḥ tubhyam iti brahma-sutaḥ yayau .. 29 ..
सापि तत्प्राशनादेव चित्रकेतोरधारयत् । गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥
सा अपि तद्-प्राशनात् एव चित्रकेतोः अधारयत् । गर्भम् कृत-द्युतिः देवी कृत्तिका अग्नेः इव आत्मजम् ॥ ३० ॥
sā api tad-prāśanāt eva citraketoḥ adhārayat . garbham kṛta-dyutiḥ devī kṛttikā agneḥ iva ātmajam .. 30 ..
तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः । ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ ३१ ॥
तस्याः अनुदिनम् गर्भः शुक्लपक्षे इव उडुपः । ववृधे शूरसेन-ईश तेजसा शनकैस् नृप ॥ ३१ ॥
tasyāḥ anudinam garbhaḥ śuklapakṣe iva uḍupaḥ . vavṛdhe śūrasena-īśa tejasā śanakais nṛpa .. 31 ..
अथ काल उपावृत्ते कुमारः समजायत । जनयन् शूरसेनानां श्रृण्वतां परमां मुदम् ॥ ३२ ॥
अथ काले उपावृत्ते कुमारः समजायत । जनयन् शूरसेनानाम् श्रृण्वताम् परमाम् मुदम् ॥ ३२ ॥
atha kāle upāvṛtte kumāraḥ samajāyata . janayan śūrasenānām śrṛṇvatām paramām mudam .. 32 ..
हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः । वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ ३३ ॥
हृष्टः राजा कुमारस्य स्नातः शुचिः अलङ्कृतः । वाचयित्वा आशिषः विप्रैः कारयामास जातकम् ॥ ३३ ॥
hṛṣṭaḥ rājā kumārasya snātaḥ śuciḥ alaṅkṛtaḥ . vācayitvā āśiṣaḥ vipraiḥ kārayāmāsa jātakam .. 33 ..
तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च । ग्रामान् हयान् गजान् प्रादाद् धेनूनां अर्बुदानि षट् ॥ ३४ ॥
तेभ्यः हिरण्यम् रजतम् वासांसि आभरणानि च । ग्रामान् हयान् गजान् प्रादात् धेनूनाम् अर्बुदानि षड् ॥ ३४ ॥
tebhyaḥ hiraṇyam rajatam vāsāṃsi ābharaṇāni ca . grāmān hayān gajān prādāt dhenūnām arbudāni ṣaḍ .. 34 ..
ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् । धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ ३५ ॥
ववर्ष कामान् अन्येषाम् पर्जन्यः इव देहिनाम् । धन्यम् यशस्यम् आयुष्यम् कुमारस्य महामनाः ॥ ३५ ॥
vavarṣa kāmān anyeṣām parjanyaḥ iva dehinām . dhanyam yaśasyam āyuṣyam kumārasya mahāmanāḥ .. 35 ..
कृच्छ्रलब्धेऽथ राजर्षेः तनयेऽनुदिनं पितुः । यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६ ॥
कृच्छ्र-लब्धे अथ राजर्षेः तनये अनुदिनम् पितुः । यथा निःस्वस्य कृच्छ्र-आप्ते धने स्नेहः अन्ववर्धत ॥ ३६ ॥
kṛcchra-labdhe atha rājarṣeḥ tanaye anudinam pituḥ . yathā niḥsvasya kṛcchra-āpte dhane snehaḥ anvavardhata .. 36 ..
मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः । कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥
मातुः तु अतितराम् पुत्रे स्नेहः मोह-समुद्भवः । कृतद्युतेः सपत्नीनाम् प्रजा-काम-ज्वरः अभवत् ॥ ३७ ॥
mātuḥ tu atitarām putre snehaḥ moha-samudbhavaḥ . kṛtadyuteḥ sapatnīnām prajā-kāma-jvaraḥ abhavat .. 37 ..
चित्रकेतोः अतिप्रीतिः यथा दारे प्रजावति । न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥
चित्रकेतोः अतिप्रीतिः यथा दारे प्रजावति । न तथा अन्येषु सञ्जज्ञे बालम् लालयतः अन्वहम् ॥ ३८ ॥
citraketoḥ atiprītiḥ yathā dāre prajāvati . na tathā anyeṣu sañjajñe bālam lālayataḥ anvaham .. 38 ..
ताः पर्यतप्यन् आत्मानं गर्हयन्त्योऽभ्यसूयया । आनपत्येन दुःखेन राज्ञोऽनादरणेन च ॥ ३९ ॥
ताः पर्यतप्यन् आत्मानम् गर्हयन्त्यः अभ्यसूयया । आनपत्येन दुःखेन राज्ञः अनादरणेन च ॥ ३९ ॥
tāḥ paryatapyan ātmānam garhayantyaḥ abhyasūyayā . ānapatyena duḥkhena rājñaḥ anādaraṇena ca .. 39 ..
धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् । सुप्रजाभिः सपत्नीभिः दासीमिव तिरस्कृताम् ॥ ४० ॥
धिक् अप्रजाम् स्त्रियम् पापाम् पत्युः च अ गृह-सम्मताम् । सु प्रजाभिः सपत्नीभिः दासीम् इव तिरस्कृताम् ॥ ४० ॥
dhik aprajām striyam pāpām patyuḥ ca a gṛha-sammatām . su prajābhiḥ sapatnībhiḥ dāsīm iva tiraskṛtām .. 40 ..
दासीनां को नु सन्तापः स्वामिनः परिचर्यया । अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१ ॥
दासीनाम् कः नु सन्तापः स्वामिनः परिचर्यया । अभीक्ष्णम् लब्ध-मानानाम् दास्याः दासी इव दुर्भगाः ॥ ४१ ॥
dāsīnām kaḥ nu santāpaḥ svāminaḥ paricaryayā . abhīkṣṇam labdha-mānānām dāsyāḥ dāsī iva durbhagāḥ .. 41 ..
एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा । राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥
एवम् सन्दह्यमानानाम् सपत्न्याः पुत्र-सम्पदा । राज्ञः असम्मत-वृत्तीनाम् विद्वेषः बलवान् अभूत् ॥ ४२ ॥
evam sandahyamānānām sapatnyāḥ putra-sampadā . rājñaḥ asammata-vṛttīnām vidveṣaḥ balavān abhūt .. 42 ..
विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥
विद्वेष-नष्ट-मतयः स्त्रियः दारुण-चेतसः । गरम् ददुः कुमाराय दुर्मर्षाः नृपतिम् प्रति ॥ ४३ ॥
vidveṣa-naṣṭa-matayaḥ striyaḥ dāruṇa-cetasaḥ . garam daduḥ kumārāya durmarṣāḥ nṛpatim prati .. 43 ..
कृतद्युतिरजानन्ती सपत्नीनामघं महत् । सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ ४४ ॥
कृतद्युतिः अ जानन्ती सपत्नीनाम् अघम् महत् । सुप्तः एवा इति सञ्चिन्त्य निरीक्ष्य व्यचरत् गृहे ॥ ४४ ॥
kṛtadyutiḥ a jānantī sapatnīnām agham mahat . suptaḥ evā iti sañcintya nirīkṣya vyacarat gṛhe .. 44 ..
शयानं सुचिरं बालं उपधार्य मनीषिणी । पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥
शयानम् सु चिरम् बालम् उपधार्य मनीषिणी । पुत्रम् आनय मे भद्रे इति धात्रीम् अचोदयत् ॥ ४५ ॥
śayānam su ciram bālam upadhārya manīṣiṇī . putram ānaya me bhadre iti dhātrīm acodayat .. 45 ..
सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् । प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि ॥ ४६ ॥
सा शयानम् उपव्रज्य दृष्ट्वा च उत्तार-लोचनम् । प्राण-इन्द्रिय-आत्मभिः त्यक्तम् हता अस्मि इति अपतत् भुवि ॥ ४६ ॥
sā śayānam upavrajya dṛṣṭvā ca uttāra-locanam . prāṇa-indriya-ātmabhiḥ tyaktam hatā asmi iti apatat bhuvi .. 46 ..
तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि । प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥
तस्याः तत् आकर्ण्य भृश-आतुरम् स्वरम् घ्नन्त्याः कराभ्याम् उरः उच्चकैस् अपि । प्रविश्य राज्ञी त्वरया आत्मज-अन्तिकम् ददर्श बालम् सहसा मृतम् सुतम् ॥ ४७ ॥
tasyāḥ tat ākarṇya bhṛśa-āturam svaram ghnantyāḥ karābhyām uraḥ uccakais api . praviśya rājñī tvarayā ātmaja-antikam dadarśa bālam sahasā mṛtam sutam .. 47 ..
पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥
पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्ट-शिरोरुहा अम्बरा ॥ ४८ ॥
papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭa-śiroruhā ambarā .. 48 ..
ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसनाः सुदुःखिताः ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४९ ॥
ततस् नृप-अन्तःपुर-वर्तिनः जनाः नराः च नार्यः च निशम्य रोदनम् । आगत्य तुल्य-व्यसनाः सु दुःखिताः ताः च व्यलीकम् रुरुदुः कृत-आगसः ॥ ४९ ॥
tatas nṛpa-antaḥpura-vartinaḥ janāḥ narāḥ ca nāryaḥ ca niśamya rodanam . āgatya tulya-vyasanāḥ su duḥkhitāḥ tāḥ ca vyalīkam ruruduḥ kṛta-āgasaḥ .. 49 ..
श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतम् स्खलन्पथि । स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ५० ॥
श्रुत्वा मृतम् पुत्रम् अलक्षित-अन्तकम् विनष्ट-दृष्टिः प्रपतम् स्खलन् पथि । स्नेह-अनुबन्ध-एधितया शुचा भृशम् विमूर्च्छितः अनुप्रकृतिः द्विजैः वृतः ॥ ५० ॥
śrutvā mṛtam putram alakṣita-antakam vinaṣṭa-dṛṣṭiḥ prapatam skhalan pathi . sneha-anubandha-edhitayā śucā bhṛśam vimūrcchitaḥ anuprakṛtiḥ dvijaiḥ vṛtaḥ .. 50 ..
पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः । दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥
पपात बालस्य स पाद-मूले मृतस्य विस्रस्त-शिरोरुह-अम्बरः । दीर्घम् श्वसन् बाष्प-कला-उपरोधतः निरुद्ध-कण्ठः न शशाक भाषितुम् ॥ ५१ ॥
papāta bālasya sa pāda-mūle mṛtasya visrasta-śiroruha-ambaraḥ . dīrgham śvasan bāṣpa-kalā-uparodhataḥ niruddha-kaṇṭhaḥ na śaśāka bhāṣitum .. 51 ..
पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् । जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥ ५२ ॥
पतिम् निरीक्ष्य ऊरु-शुचा अर्पितम् तदा मृतम् च बालम् सुतम् एक-सन्ततिम् । जनस्य राज्ञी प्रकृतेः च हृद्रुजम् सती दधाना विललाप चित्रधा ॥ ५२ ॥
patim nirīkṣya ūru-śucā arpitam tadā mṛtam ca bālam sutam eka-santatim . janasya rājñī prakṛteḥ ca hṛdrujam satī dadhānā vilalāpa citradhā .. 52 ..
स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः । विकीर्य केशान्विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥
स्तन-द्वयम् कुङ्कुम-पङ्क-मण्डितम् निषिञ्चती स अञ्जन-बाष्प-बिन्दुभिः । विकीर्य केशान् विगलत्-स्रजः सुतम् शुशोच चित्रम् कुररी इव सुस्वरम् ॥ ५३ ॥
stana-dvayam kuṅkuma-paṅka-maṇḍitam niṣiñcatī sa añjana-bāṣpa-bindubhiḥ . vikīrya keśān vigalat-srajaḥ sutam śuśoca citram kurarī iva susvaram .. 53 ..
अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परे नु जीवत्यपरस्य या मृतिः विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४ ॥
अहो विधातर् त्वम् अतीव बालिशः यः तु आत्म-सृष्टि-अप्रतिरूपम् ईहसे । परे नु जीवति अपरस्य या मृतिः विपर्ययः चेद् त्वम् असि ध्रुवः परः ॥ ५४ ॥
aho vidhātar tvam atīva bāliśaḥ yaḥ tu ātma-sṛṣṭi-apratirūpam īhase . pare nu jīvati aparasya yā mṛtiḥ viparyayaḥ ced tvam asi dhruvaḥ paraḥ .. 54 ..
न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः । यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥
न हि क्रमः चेद् इह मृत्यु-जन्मनोः शरीरिणाम् अस्तु तद्-आत्म-कर्मभिः । यः स्नेह-पाशः निज-सर्ग-वृद्धये स्वयम् कृतः ते तम् इमम् विवृश्चसि ॥ ५५ ॥
na hi kramaḥ ced iha mṛtyu-janmanoḥ śarīriṇām astu tad-ātma-karmabhiḥ . yaḥ sneha-pāśaḥ nija-sarga-vṛddhaye svayam kṛtaḥ te tam imam vivṛścasi .. 55 ..
त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । अञ्जस्तरेम भवताप्रजदुस्तरं यद् ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥
त्वम् तात ना अर्हसि च माम् कृपणाम् अनाथाम् त्यक्तुम् विचक्ष्व पितरम् तव शोक-तप्तम् । अञ्जस् तरेम भवता अप्रज-दुस्तरम् यत् ध्वान्तम् न याहि अकरुणेन यमेन दूरम् ॥ ५६ ॥
tvam tāta nā arhasi ca mām kṛpaṇām anāthām tyaktum vicakṣva pitaram tava śoka-taptam . añjas tarema bhavatā apraja-dustaram yat dhvāntam na yāhi akaruṇena yamena dūram .. 56 ..
उत्तिष्ठ तात त इमे शिशवो वयस्याः त्वां आह्वयन्ति नृपनन्दन संविहर्तुम् । सुप्तश्चिरं ह्यशनया च भवान् परीतो भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५७ ॥
उत्तिष्ठ तात ते इमे शिशवः वयस्याः त्वाम् आह्वयन्ति नृप-नन्दन संविहर्तुम् । सुप्तः चिरम् हि अशनया च भवान् परीतः भुङ्क्ष्व स्तनम् पिब शुचः हर नः स्वकानाम् ॥ ५७ ॥
uttiṣṭha tāta te ime śiśavaḥ vayasyāḥ tvām āhvayanti nṛpa-nandana saṃvihartum . suptaḥ ciram hi aśanayā ca bhavān parītaḥ bhuṅkṣva stanam piba śucaḥ hara naḥ svakānām .. 57 ..
नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥ ५८ ॥
न अहम् तनूज ददृशे हत-मङ्गला ते मुग्ध-स्मितम् मुदित-वीक्षणम् आनन-अब्जम् । किम् वा गतः असि अपुनर् अनु अयम् अन्य-लोकम् नीतः अघृणेन न श्रृणोमि कलाः गिरः ते ॥ ५८ ॥
na aham tanūja dadṛśe hata-maṅgalā te mugdha-smitam mudita-vīkṣaṇam ānana-abjam . kim vā gataḥ asi apunar anu ayam anya-lokam nītaḥ aghṛṇena na śrṛṇomi kalāḥ giraḥ te .. 58 ..
श्रीशुक उवाच -
विलपन्त्या मृतं पुत्रं इति चित्रविलापनैः । चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥
विलपन्त्याः मृतम् पुत्रम् इति चित्र-विलापनैः । चित्रकेतुः भृशम् तप्तः मुक्त-कण्ठः रुरोद ह ॥ ५९ ॥
vilapantyāḥ mṛtam putram iti citra-vilāpanaiḥ . citraketuḥ bhṛśam taptaḥ mukta-kaṇṭhaḥ ruroda ha .. 59 ..
तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः । रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६० ॥
तयोः विलपतोः सर्वे दम्पत्योः तद्-अनुव्रताः । रुरुदुः स्म नराः नार्यः सर्वम् आसीत् अचेतनम् ॥ ६० ॥
tayoḥ vilapatoḥ sarve dampatyoḥ tad-anuvratāḥ . ruruduḥ sma narāḥ nāryaḥ sarvam āsīt acetanam .. 60 ..
एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् । ज्ञात्वाङ्गिरा नाम मुनिः आजगाम सनारदः ॥ ६१ ॥
एवम् कश्मलम् आपन्नम् नष्ट-संज्ञम् अनायकम् । ज्ञात्वा अङ्गिराः नाम मुनिः आजगाम स नारदः ॥ ६१ ॥
evam kaśmalam āpannam naṣṭa-saṃjñam anāyakam . jñātvā aṅgirāḥ nāma muniḥ ājagāma sa nāradaḥ .. 61 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्शोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे चित्रकेतुविलापः नाम चतुर्शः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe citraketuvilāpaḥ nāma caturśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In