| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - पञ्चदशोऽध्यायः चित्रकेतवेऽङ्गिरोनारदयोरुपदेशः -
श्रीमत्-भागवत-महापुराण-षष्ठः स्कन्धः पञ्चदशः अध्यायः चित्रकेतवे अङ्गिरः-नारदयोः उपदेशः
śrīmat-bhāgavata-mahāpurāṇa-ṣaṣṭhaḥ skandhaḥ pañcadaśaḥ adhyāyaḥ citraketave aṅgiraḥ-nāradayoḥ upadeśaḥ
श्रीशुक उवाच -
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥
ऊचतुः मृतक-उपान्ते पतितम् मृतक-उपमम् । शोक-अभिभूतम् राजानम् बोधयन्तौ सत्-उक्तिभिः ॥ १ ॥
ūcatuḥ mṛtaka-upānte patitam mṛtaka-upamam . śoka-abhibhūtam rājānam bodhayantau sat-uktibhiḥ .. 1 ..
कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥
कः अयम् स्यात् तव राज-इन्द्र भवान् यम् अनुशोचति । त्वम् च अस्य कतमः सृष्टौ पुरा इदानीम् अतस् परम् ॥ २ ॥
kaḥ ayam syāt tava rāja-indra bhavān yam anuśocati . tvam ca asya katamaḥ sṛṣṭau purā idānīm atas param .. 2 ..
यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥
यथा प्रयान्ति संयान्ति स्रोतः-वेगेन वालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥
yathā prayānti saṃyānti srotaḥ-vegena vālukāḥ . saṃyujyante viyujyante tathā kālena dehinaḥ .. 3 ..
यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतेषु भूतानि चोदितान् ईशमायया ॥ ४ ॥
यथा धानासु वै धानाः भवन्ति न भवन्ति च । एवम् भूतेषु भूतानि चोदितान् ईश-मायया ॥ ४ ॥
yathā dhānāsu vai dhānāḥ bhavanti na bhavanti ca . evam bhūteṣu bhūtāni coditān īśa-māyayā .. 4 ..
वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भोः ॥ ५ ॥
वयम् च त्वम् च ये च इमे तुल्य-कालाः चर-अचराः । जन्म-मृत्योः यथा पश्चात् प्राक् ना एवम् अधुना अपि भोः ॥ ५ ॥
vayam ca tvam ca ye ca ime tulya-kālāḥ cara-acarāḥ . janma-mṛtyoḥ yathā paścāt prāk nā evam adhunā api bhoḥ .. 5 ..
भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः । आत्मसृष्टैरस्वतन्त्रैः अनपेक्षोऽपि बालवत् ॥ ६ ॥
भूतैः भूतानि भूतेशः सृजति अवति हन्ति अजः । आत्म-सृष्टैः अस्वतन्त्रैः अनपेक्षः अपि बाल-वत् ॥ ६ ॥
bhūtaiḥ bhūtāni bhūteśaḥ sṛjati avati hanti ajaḥ . ātma-sṛṣṭaiḥ asvatantraiḥ anapekṣaḥ api bāla-vat .. 6 ..
देहेन देहिनो राजन् देहाद् देहोऽभिजायते । बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥
देहेन देहिनः राजन् देहात् देहः अभिजायते । बीजात् एव यथा बीजम् देहि-अर्थः इव शाश्वतः ॥ ७ ॥
dehena dehinaḥ rājan dehāt dehaḥ abhijāyate . bījāt eva yathā bījam dehi-arthaḥ iva śāśvataḥ .. 7 ..
देहदेहिविभागोऽयं अविवेककृतः पुरा । जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥
देह-देहि-विभागः अयम् अविवेक-कृतः पुरा । जाति-व्यक्ति-विभागः अयम् यथा वस्तुनि कल्पितः ॥ ८ ॥
deha-dehi-vibhāgaḥ ayam aviveka-kṛtaḥ purā . jāti-vyakti-vibhāgaḥ ayam yathā vastuni kalpitaḥ .. 8 ..
श्रीशुक उवाच -
एवं आश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । विमृज्य पाणिना वक्त्रं आधिम्लानमभाषत ॥ ९ ॥
एवम् आश्वासितः राजा चित्रकेतुः द्विज-उक्तिभिः । विमृज्य पाणिना वक्त्रम् आधिम्लानम् अभाषत ॥ ९ ॥
evam āśvāsitaḥ rājā citraketuḥ dvija-uktibhiḥ . vimṛjya pāṇinā vaktram ādhimlānam abhāṣata .. 9 ..
श्रीराजोवाच -
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥
कौ युवाम् ज्ञान-सम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥
kau yuvām jñāna-sampannau mahiṣṭhau ca mahīyasām . avadhūtena veṣeṇa gūḍhau iha samāgatau .. 10 ..
चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ ११ ॥
चरन्ति हि अवनौ कामम् ब्राह्मणाः भगवत्-प्रियाः । मादृशाम् ग्राम्य-बुद्धीनाम् बोधाय उन्मत्त-लिङ्गिनः ॥ ११ ॥
caranti hi avanau kāmam brāhmaṇāḥ bhagavat-priyāḥ . mādṛśām grāmya-buddhīnām bodhāya unmatta-liṅginaḥ .. 11 ..
कुमारो नारद ऋभुः अङ्गिरा देवलोऽसितः । अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥
कुमारः नारदः ऋभुः अङ्गिराः देवलः असितः । अपान्तरतमः व्यासः मार्कण्डेयः अथ गौतमः ॥ १२ ॥
kumāraḥ nāradaḥ ṛbhuḥ aṅgirāḥ devalaḥ asitaḥ . apāntaratamaḥ vyāsaḥ mārkaṇḍeyaḥ atha gautamaḥ .. 12 ..
वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथाऽऽरुणिः ॥ १३ ॥
वसिष्ठः भगवान् रामः कपिलः बादरायणिः । दुर्वासाः याज्ञवल्क्यः च जातुकर्णः तथा आरुणिः ॥ १३ ॥
vasiṣṭhaḥ bhagavān rāmaḥ kapilaḥ bādarāyaṇiḥ . durvāsāḥ yājñavalkyaḥ ca jātukarṇaḥ tathā āruṇiḥ .. 13 ..
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १४ ॥
रोमशः च्यवनः दत्तः आसुरिः सपतञ्जलिः । ऋषिः वेदशिराः बोध्यः मुनिः पञ्चशिखः तथा ॥ १४ ॥
romaśaḥ cyavanaḥ dattaḥ āsuriḥ sapatañjaliḥ . ṛṣiḥ vedaśirāḥ bodhyaḥ muniḥ pañcaśikhaḥ tathā .. 14 ..
हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाः चरन्ति ज्ञानहेतवः ॥ १५ ॥
हिरण्यनाभः कौसल्यः श्रुतदेवः ऋतध्वजः । एते परे च सिद्धेशाः चरन्ति ज्ञान-हेतवः ॥ १५ ॥
hiraṇyanābhaḥ kausalyaḥ śrutadevaḥ ṛtadhvajaḥ . ete pare ca siddheśāḥ caranti jñāna-hetavaḥ .. 15 ..
तस्माद् युवां ग्राम्यपशोः मम मूढधियः प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥
तस्मात् युवाम् ग्राम्य-पशोः मम मूढ-धियः प्रभू । अन्धे तमसि मग्नस्य ज्ञान-दीपः उदीर्यताम् ॥ १६ ॥
tasmāt yuvām grāmya-paśoḥ mama mūḍha-dhiyaḥ prabhū . andhe tamasi magnasya jñāna-dīpaḥ udīryatām .. 16 ..
श्रीअङ्‌गिरा उवाच -
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप । एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः ॥ १७ ॥
अहम् ते पुत्र-कामस्य पुत्र-दः अस्मि अङ्गिराः नृप । एष ब्रह्म-सुतः साक्षात् नारदः भगवान् ऋषिः ॥ १७ ॥
aham te putra-kāmasya putra-daḥ asmi aṅgirāḥ nṛpa . eṣa brahma-sutaḥ sākṣāt nāradaḥ bhagavān ṛṣiḥ .. 17 ..
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥
इत्थम् त्वाम् पुत्र-शोकेन मग्नम् तमसि दुस्तरे । अ तद्-अर्हम् अनुस्मृत्य महापुरुष-गोचरम् ॥ १८ ॥
ittham tvām putra-śokena magnam tamasi dustare . a tad-arham anusmṛtya mahāpuruṣa-gocaram .. 18 ..
अनुग्रहाय भवतः प्राप्तौ आवां इह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हसि ॥ १९ ॥
अनुग्रहाय भवतः प्राप्तौ आवाम् इह प्रभो । ब्रह्मण्यः भगवत्-भक्तः न अवसीदितुम् अर्हसि ॥ १९ ॥
anugrahāya bhavataḥ prāptau āvām iha prabho . brahmaṇyaḥ bhagavat-bhaktaḥ na avasīditum arhasi .. 19 ..
तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २० ॥
तदा एव ते परम् ज्ञानम् ददामि गृहम् आगतः । ज्ञात्वा अन्य-अभिनिवेशम् ते पुत्रम् एव ददौ अहम् ॥ २० ॥
tadā eva te param jñānam dadāmi gṛham āgataḥ . jñātvā anya-abhiniveśam te putram eva dadau aham .. 20 ..
अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥
अधुना पुत्रिणाम् तापः भवता एवा अनुभूयते । एवम् दाराः गृहाः रायः विविध-ऐश्वर्य-सम्पदः ॥ २१ ॥
adhunā putriṇām tāpaḥ bhavatā evā anubhūyate . evam dārāḥ gṛhāḥ rāyaḥ vividha-aiśvarya-sampadaḥ .. 21 ..
शब्दादयश्च विषयाः चला राज्यविभूतयः । मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥ २२ ॥
शब्द-आदयः च विषयाः चलाः राज्य-विभूतयः । मही राज्यम् बलम् कोशः भृत्य-अमात्याः सुहृद्-जनाः ॥ २२ ॥
śabda-ādayaḥ ca viṣayāḥ calāḥ rājya-vibhūtayaḥ . mahī rājyam balam kośaḥ bhṛtya-amātyāḥ suhṛd-janāḥ .. 22 ..
सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥
सर्वे अपि शूरसेन इमे शोक-मोह-भय-आर्ति-दाः । गन्धर्वनगर-प्रख्याः स्वप्न-माया-मनोरथाः ॥ २३ ॥
sarve api śūrasena ime śoka-moha-bhaya-ārti-dāḥ . gandharvanagara-prakhyāḥ svapna-māyā-manorathāḥ .. 23 ..
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २४ ॥
दृश्यमानाः विना अर्थेन न दृश्यन्ते मनोभवाः । कर्मभिः ध्यायतः नाना कर्माणि मनसः अभवन् ॥ २४ ॥
dṛśyamānāḥ vinā arthena na dṛśyante manobhavāḥ . karmabhiḥ dhyāyataḥ nānā karmāṇi manasaḥ abhavan .. 24 ..
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ २५ ॥
अयम् हि देहिनः देहः द्रव्य-ज्ञान-क्रिया-आत्मकः । देहिनः विविध-क्लेश सन्ताप-कृत् उदाहृतः ॥ २५ ॥
ayam hi dehinaḥ dehaḥ dravya-jñāna-kriyā-ātmakaḥ . dehinaḥ vividha-kleśa santāpa-kṛt udāhṛtaḥ .. 25 ..
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥
तस्मात् स्वस्थेन मनसा विमृश्य गतिम् आत्मनः । द्वैते ध्रुव-अर्थ-विश्रम्भम् त्यज उपशमम् आविश ॥ २६ ॥
tasmāt svasthena manasā vimṛśya gatim ātmanaḥ . dvaite dhruva-artha-viśrambham tyaja upaśamam āviśa .. 26 ..
श्रीनारद उवाच -
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं प्रभुम् ॥ २७ ॥
एताम् मन्त्र-उपनिषदम् प्रतीच्छ प्रयतः मम । याम् धारयन् सप्त-रात्रात् द्रष्टा सङ्कर्षणम् प्रभुम् ॥ २७ ॥
etām mantra-upaniṣadam pratīccha prayataḥ mama . yām dhārayan sapta-rātrāt draṣṭā saṅkarṣaṇam prabhum .. 27 ..
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥
यद्-पाद-मूलम् उपसृत्य नरेन्द्र पूर्वे शर्व-आदयः भ्रमम् इमम् द्वितयम् विसृज्य । सद्यस् तदीयम् अतुल-अनधिकम् महित्वम् प्रापुः भवान् अपि परम् न चिरात् उपैति ॥ २८ ॥
yad-pāda-mūlam upasṛtya narendra pūrve śarva-ādayaḥ bhramam imam dvitayam visṛjya . sadyas tadīyam atula-anadhikam mahitvam prāpuḥ bhavān api param na cirāt upaiti .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे चित्रकेतुसान्त्वनम् नाम पञ्चदशः अध्यायः ॥ १५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe citraketusāntvanam nāma pañcadaśaḥ adhyāyaḥ .. 15 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In