| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - शप्तदशोऽध्यायः कैलासे पार्वतीसहितस्य शिवस्योपहासकरणात् पार्वतीशापेन चित्रकेतोर्वृत्रजन्म प्राप्तिश्च -
श्रीमत्-भागवत-महापुराण-षष्ठः स्कन्धः शप्तदशः अध्यायः कैलासे पार्वती-सहितस्य शिवस्य उपहास-करणात् पार्वती-शापेन चित्रकेतोः वृत्र-जन्म प्राप्तिः च
śrīmat-bhāgavata-mahāpurāṇa-ṣaṣṭhaḥ skandhaḥ śaptadaśaḥ adhyāyaḥ kailāse pārvatī-sahitasya śivasya upahāsa-karaṇāt pārvatī-śāpena citraketoḥ vṛtra-janma prāptiḥ ca
श्रीशुक उवाच -
यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुः चचार गगने चरः ॥ १ ॥
यतस् च अन्तर्हितः अनन्तः तस्यै कृत्वा दिशे नमः । विद्याधरः चित्रकेतुः चचार गगने चरः ॥ १ ॥
yatas ca antarhitaḥ anantaḥ tasyai kṛtvā diśe namaḥ . vidyādharaḥ citraketuḥ cacāra gagane caraḥ .. 1 ..
स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥
स लक्षम् वर्ष-लक्षाणाम् अव्याहत-बल-इन्द्रियः । स्तूयमानः महा-योगी मुनिभिः सिद्ध-चारणैः ॥ २ ॥
sa lakṣam varṣa-lakṣāṇām avyāhata-bala-indriyaḥ . stūyamānaḥ mahā-yogī munibhiḥ siddha-cāraṇaiḥ .. 2 ..
कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम् ॥ ३ ॥
कुल-अचल-इन्द्र-द्रोणीषु नाना सङ्कल्प-सिद्धिषु । रेमे विद्याधर-स्त्रीभिः गापयन् हरिम् ईश्वरम् ॥ ३ ॥
kula-acala-indra-droṇīṣu nānā saṅkalpa-siddhiṣu . reme vidyādhara-strībhiḥ gāpayan harim īśvaram .. 3 ..
एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥
एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशम् ददृशे गच्छन् परीतम् सिद्ध-चारणैः ॥ ४ ॥
ekadā sa vimānena viṣṇudattena bhāsvatā . giriśam dadṛśe gacchan parītam siddha-cāraṇaiḥ .. 4 ..
आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥
आलिङ्ग्य अङ्कीकृताम् देवीम् बाहुना मुनि-संसदि । उवाच देव्याः श्रृण्वन्त्याः जहास उच्चैस् तत् अन्तिके ॥ ५ ॥
āliṅgya aṅkīkṛtām devīm bāhunā muni-saṃsadi . uvāca devyāḥ śrṛṇvantyāḥ jahāsa uccais tat antike .. 5 ..
चित्रकेतुरुवाच -
एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् । आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥
एष लोक-गुरुः साक्षात् धर्मम् वक्ता शरीरिणाम् । आस्ते मुख्यः सभायाम् वै मिथुनीभूय भार्यया ॥ ६ ॥
eṣa loka-guruḥ sākṣāt dharmam vaktā śarīriṇām . āste mukhyaḥ sabhāyām vai mithunībhūya bhāryayā .. 6 ..
जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥
जटाधरः तीव्र-तपाः ब्रह्म-वादि-सभा-पतिः । अङ्कीकृत्य स्त्रियम् च आस्ते गत-ह्रीः प्राकृतः यथा ॥ ७ ॥
jaṭādharaḥ tīvra-tapāḥ brahma-vādi-sabhā-patiḥ . aṅkīkṛtya striyam ca āste gata-hrīḥ prākṛtaḥ yathā .. 7 ..
प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
प्रायशस् प्राकृताः च अपि स्त्रियम् रहसि बिभ्रति । अयम् महा-व्रत-धरः बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
prāyaśas prākṛtāḥ ca api striyam rahasi bibhrati . ayam mahā-vrata-dharaḥ bibharti sadasi striyam .. 8 ..
श्रीशुक उवाच -
भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥
भगवान् अपि तत् श्रुत्वा प्रहस्य अगाध-धीः नृप । तूष्णीम् बभूव सदसि सभ्याः च तद्-अनुव्रताः ॥ ९ ॥
bhagavān api tat śrutvā prahasya agādha-dhīḥ nṛpa . tūṣṇīm babhūva sadasi sabhyāḥ ca tad-anuvratāḥ .. 9 ..
इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥
इति अ तद्-वीर्य-विदुषि ब्रुवाणे बहु अशोभनम् । रुषा आह देवी धृष्टाय निर्जित-आत्म-अभिमानिने ॥ १० ॥
iti a tad-vīrya-viduṣi bruvāṇe bahu aśobhanam . ruṣā āha devī dhṛṣṭāya nirjita-ātma-abhimānine .. 10 ..
श्रीपार्वति उवाच -
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥
अयम् किम् अधुना लोके शास्ता दण्ड-धरः प्रभुः । अस्मद्विधानाम् दुष्टानाम् निर्लज्जानाम् च विप्रकृत् ॥ ११ ॥
ayam kim adhunā loke śāstā daṇḍa-dharaḥ prabhuḥ . asmadvidhānām duṣṭānām nirlajjānām ca viprakṛt .. 11 ..
न वेद धर्मं किल पद्मयोनिः न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥
न वेद धर्मम् किल पद्मयोनिः न ब्रह्म-पुत्राः भृगु-नारद-आद्याः । न वै कुमारः कपिलः मनुः च ये नः निषेधन्ति अतिवर्तिनम् हरम् ॥ १२ ॥
na veda dharmam kila padmayoniḥ na brahma-putrāḥ bhṛgu-nārada-ādyāḥ . na vai kumāraḥ kapilaḥ manuḥ ca ye naḥ niṣedhanti ativartinam haram .. 12 ..
एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥
एषाम् अनुध्येय-पद-अब्ज-युग्मम् जगद्गुरुम् मङ्गल-मङ्गलम् स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टः तत् अयम् हि दण्ड्यः ॥ १३ ॥
eṣām anudhyeya-pada-abja-yugmam jagadgurum maṅgala-maṅgalam svayam . yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭaḥ tat ayam hi daṇḍyaḥ .. 13 ..
नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥
न अयम् अर्हति वैकुण्ठ पाद-मूल-उपसर्पणम् । सम्भावित-मतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥
na ayam arhati vaikuṇṭha pāda-mūla-upasarpaṇam . sambhāvita-matiḥ stabdhaḥ sādhubhiḥ paryupāsitam .. 14 ..
अतः पापीयसीं योनिं आसुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
अतस् पापीयसीम् योनिम् आसुरीम् याहि दुर्मते । यथा इह भूयस् महताम् न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
atas pāpīyasīm yonim āsurīm yāhi durmate . yathā iha bhūyas mahatām na kartā putra kilbiṣam .. 15 ..
श्रीशुक उवाच -
एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥
एवम् शप्तः चित्रकेतुः विमानात् अवरुह्य सः । प्रसादयामास सतीम् मूर्ध्ना नम्रेण भारत ॥ १६ ॥
evam śaptaḥ citraketuḥ vimānāt avaruhya saḥ . prasādayāmāsa satīm mūrdhnā namreṇa bhārata .. 16 ..
चित्रकेतुरुवाच -
प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥
प्रतिगृह्णामि ते शापम् आत्मनः अञ्जलिना अम्बिके । देवैः मर्त्याय यत् प्रोक्तम् पूर्व-दिष्टम् हि तस्य तत् ॥ १७ ॥
pratigṛhṇāmi te śāpam ātmanaḥ añjalinā ambike . devaiḥ martyāya yat proktam pūrva-diṣṭam hi tasya tat .. 17 ..
संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥
संसार-चक्रे एतस्मिन् जन्तुः अज्ञान-मोहितः । भ्राम्यन् सुखम् च दुःखम् च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥
saṃsāra-cakre etasmin jantuḥ ajñāna-mohitaḥ . bhrāmyan sukham ca duḥkham ca bhuṅkte sarvatra sarvadā .. 18 ..
नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥ १९ ॥
न एव आत्मा न परः च अपि कर्ता स्यात् सुख-दुःखयोः । कर्तारम् मन्यते अप्राज्ञः आत्मानम् परम् एव च ॥ १९ ॥
na eva ātmā na paraḥ ca api kartā syāt sukha-duḥkhayoḥ . kartāram manyate aprājñaḥ ātmānam param eva ca .. 19 ..
गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २० ॥
गुण-प्रवाहे एतस्मिन् कः शापः कः नु अनुग्रहः । कः स्वर्गः नरकः कः वा किम् सुखम् दुःखम् एव वा ॥ २० ॥
guṇa-pravāhe etasmin kaḥ śāpaḥ kaḥ nu anugrahaḥ . kaḥ svargaḥ narakaḥ kaḥ vā kim sukham duḥkham eva vā .. 20 ..
एकः सृजति भूतानि भगवान् आत्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥
एकः सृजति भूतानि भगवान् आत्म-मायया । एषाम् बन्धम् च मोक्षम् च सुखम् दुःखम् च निष्कलः ॥ २१ ॥
ekaḥ sṛjati bhūtāni bhagavān ātma-māyayā . eṣām bandham ca mokṣam ca sukham duḥkham ca niṣkalaḥ .. 21 ..
न तस्य कश्चिद् दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥ २२ ॥
न तस्य कश्चिद् दयितः प्रतीपः न ज्ञाति-बन्धुः न परः न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुतस् एव रोषः ॥ २२ ॥
na tasya kaścid dayitaḥ pratīpaḥ na jñāti-bandhuḥ na paraḥ na ca svaḥ . samasya sarvatra nirañjanasya sukhe na rāgaḥ kutas eva roṣaḥ .. 22 ..
तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥
तथा अपि तद्-शक्ति-विसर्गः एषाम् सुखाय दुःखाय हित-अहिताय । बन्धाय मोक्षाय च मृत्यु-जन्मनोः शरीरिणाम् संसृतये अवकल्पते ॥ २३ ॥
tathā api tad-śakti-visargaḥ eṣām sukhāya duḥkhāya hita-ahitāya . bandhāya mokṣāya ca mṛtyu-janmanoḥ śarīriṇām saṃsṛtaye avakalpate .. 23 ..
अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥
अथ प्रसादये न त्वाम् शाप-मोक्षाय भामिनि । यत् मन्यसे हि असाधु उक्तम् मम तत् क्षम्यताम् सति ॥ २४ ॥
atha prasādaye na tvām śāpa-mokṣāya bhāmini . yat manyase hi asādhu uktam mama tat kṣamyatām sati .. 24 ..
श्रीशुक उवाच -
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥
इति प्रसाद्य गिरिशौ चित्रकेतुः अरिन्दम । जगाम स्व-विमानेन पश्यतोः स्मयतोः तयोः ॥ २५ ॥
iti prasādya giriśau citraketuḥ arindama . jagāma sva-vimānena paśyatoḥ smayatoḥ tayoḥ .. 25 ..
ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम् ॥ २६ ॥
ततस् तु भगवान् रुद्रः रुद्राणीम् इदम् अब्रवीत् । देव-ऋषि-दैत्य-सिद्धानाम् पार्षदानाम् च श्रृण्वताम् ॥ २६ ॥
tatas tu bhagavān rudraḥ rudrāṇīm idam abravīt . deva-ṛṣi-daitya-siddhānām pārṣadānām ca śrṛṇvatām .. 26 ..
श्रीरुद्र उवाच -
दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥
दृष्टवती असि सुश्रोणि हरेः अद्भुत-कर्मणः । माहात्म्यम् भृत्य-भृत्यानाम् निःस्पृहाणाम् महात्मनाम् ॥ २७ ॥
dṛṣṭavatī asi suśroṇi hareḥ adbhuta-karmaṇaḥ . māhātmyam bhṛtya-bhṛtyānām niḥspṛhāṇām mahātmanām .. 27 ..
नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः ॥ २८ ॥
नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्ग-अपवर्ग-नरकेषु अपि तुल्य-अर्थ-दर्शिनः ॥ २८ ॥
nārāyaṇa-parāḥ sarve na kutaścana bibhyati . svarga-apavarga-narakeṣu api tulya-artha-darśinaḥ .. 28 ..
देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥
देहिनाम् देह-संयोगात् द्वन्द्वान् ईश्वर-लीलया । सुखम् दुःखम् मृतिः जन्म शापः अनुग्रहः एव च ॥ २९ ॥
dehinām deha-saṃyogāt dvandvān īśvara-līlayā . sukham duḥkham mṛtiḥ janma śāpaḥ anugrahaḥ eva ca .. 29 ..
अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३० ॥
अविवेक-कृतः पुंसः हि अर्थ-भेदः इव आत्मनि । गुण-दोष-विकल्पः च भिदा इव स्रजि-वत् कृतः ॥ ३० ॥
aviveka-kṛtaḥ puṃsaḥ hi artha-bhedaḥ iva ātmani . guṇa-doṣa-vikalpaḥ ca bhidā iva sraji-vat kṛtaḥ .. 30 ..
वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ ३१ ॥
वासुदेवे भगवति भक्तिम् उद्वहताम् नृणाम् । ज्ञान-वैराग्य-वीर्याणाम् न हि कश्चिद् व्यपाश्रयः ॥ ३१ ॥
vāsudeve bhagavati bhaktim udvahatām nṛṇām . jñāna-vairāgya-vīryāṇām na hi kaścid vyapāśrayaḥ .. 31 ..
नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥
न अहम् विरिञ्चः न कुमार-नारदौ न ब्रह्म-पुत्राः मुनयः सुर-ईशाः । विदाम यस्य ईहितम् अंशक-अंशकाः न तत् स्वरूपम् पृथक् ईश-मानिनः ॥ ३२ ॥
na aham viriñcaḥ na kumāra-nāradau na brahma-putrāḥ munayaḥ sura-īśāḥ . vidāma yasya īhitam aṃśaka-aṃśakāḥ na tat svarūpam pṛthak īśa-māninaḥ .. 32 ..
न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥
न हि अस्य अस्ति प्रियः कश्चिद् न अप्रियः स्वः परः अपि वा । आत्म-त्वात् सर्व-भूतानाम् सर्व-भूत-प्रियः हरिः ॥ ३३ ॥
na hi asya asti priyaḥ kaścid na apriyaḥ svaḥ paraḥ api vā . ātma-tvāt sarva-bhūtānām sarva-bhūta-priyaḥ hariḥ .. 33 ..
तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः । सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥
तस्य च अयम् महाभागः चित्रकेतुः प्रियः अनुगः । सर्वत्र समदृश् शान्तः हि अहम् च एव अच्युत-प्रियः ॥ ३४ ॥
tasya ca ayam mahābhāgaḥ citraketuḥ priyaḥ anugaḥ . sarvatra samadṛś śāntaḥ hi aham ca eva acyuta-priyaḥ .. 34 ..
तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥
तस्मात् न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुष-भक्तेषु शान्तेषु सम-दर्शिषु ॥ ३५ ॥
tasmāt na vismayaḥ kāryaḥ puruṣeṣu mahātmasu . mahāpuruṣa-bhakteṣu śānteṣu sama-darśiṣu .. 35 ..
श्रीशुक उवाच -
इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥
इति श्रुत्वा भगवतः शिवस्य उमा-अभिभाषितम् । बभूव शान्त-धी राजन् देवी विगत-विस्मया ॥ ३६ ॥
iti śrutvā bhagavataḥ śivasya umā-abhibhāṣitam . babhūva śānta-dhī rājan devī vigata-vismayā .. 36 ..
इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम् ॥ ३७ ॥
इति भागवतः देव्याः प्रतिशप्तुम् अलन्तमः । मूर्ध्ना स जगृहे शापम् एतावत् साधु-लक्षणम् ॥ ३७ ॥
iti bhāgavataḥ devyāḥ pratiśaptum alantamaḥ . mūrdhnā sa jagṛhe śāpam etāvat sādhu-lakṣaṇam .. 37 ..
जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥
जज्ञे त्वष्टुः दक्षिण-अग्नौ दानवीम् योनिम् आश्रितः । वृत्रः इति अभिविख्यातः ज्ञान-विज्ञान-संयुतः ॥ ३८ ॥
jajñe tvaṣṭuḥ dakṣiṇa-agnau dānavīm yonim āśritaḥ . vṛtraḥ iti abhivikhyātaḥ jñāna-vijñāna-saṃyutaḥ .. 38 ..
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥
एतत् ते सर्वम् आख्यातम् यत् माम् त्वम् परिपृच्छसि । वृत्रस्य असुर-जातेः च कारणम् भगवत्-मतेः ॥ ३९ ॥
etat te sarvam ākhyātam yat mām tvam paripṛcchasi . vṛtrasya asura-jāteḥ ca kāraṇam bhagavat-mateḥ .. 39 ..
इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥
इतिहासम् इमम् पुण्यम् चित्रकेतोः महात्मनः । माहात्म्यम् विष्णु-भक्तानाम् श्रुत्वा बन्धात् विमुच्यते ॥ ४० ॥
itihāsam imam puṇyam citraketoḥ mahātmanaḥ . māhātmyam viṣṇu-bhaktānām śrutvā bandhāt vimucyate .. 40 ..
य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥
यः एतत् प्रातर् उत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासम् हरिम् स्मृत्वा स याति परमाम् गतिम् ॥ ४१ ॥
yaḥ etat prātar utthāya śraddhayā vāgyataḥ paṭhet . itihāsam harim smṛtvā sa yāti paramām gatim .. 41 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे चित्रकेतुशापः नाम सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe citraketuśāpaḥ nāma saptadaśaḥ adhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In