| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - शप्तदशोऽध्यायः कैलासे पार्वतीसहितस्य शिवस्योपहासकरणात् पार्वतीशापेन चित्रकेतोर्वृत्रजन्म प्राप्तिश्च -
śrīmadbhāgavata mahāpurāṇa ṣaṣṭhaḥ skandhaḥ - śaptadaśo'dhyāyaḥ kailāse pārvatīsahitasya śivasyopahāsakaraṇāt pārvatīśāpena citraketorvṛtrajanma prāptiśca -
श्रीशुक उवाच -
यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुः चचार गगने चरः ॥ १ ॥
yataścāntarhito'nantaḥ tasyai kṛtvā diśe namaḥ . vidyādharaścitraketuḥ cacāra gagane caraḥ .. 1 ..
स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥
sa lakṣaṃ varṣalakṣāṇāṃ avyāhatabalendriyaḥ . stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ .. 2 ..
कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम् ॥ ३ ॥
kulācalendradroṇīṣu nānāsaṅkalpasiddhiṣu . reme vidyādharastrībhiḥ gāpayan harimīśvaram .. 3 ..
एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥
ekadā sa vimānena viṣṇudattena bhāsvatā . giriśaṃ dadṛśe gacchan parītaṃ siddhacāraṇaiḥ .. 4 ..
आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥
āliṅgyāṅkīkṛtāṃ devīṃ bāhunā munisaṃsadi . uvāca devyāḥ śrṛṇvantyā jahāsoccaistadantike .. 5 ..
चित्रकेतुरुवाच -
एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् । आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥
eṣa lokaguruḥ sākṣāt dharmaṃ vaktā śarīriṇām . āste mukhyaḥ sabhāyāṃ vai mithunībhūya bhāryayā .. 6 ..
जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥
jaṭādharastīvratapā brahmavādisabhāpatiḥ . aṅkīkṛtya striyaṃ cāste gatahrīḥ prākṛto yathā .. 7 ..
प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
prāyaśaḥ prākṛtāścāpi striyaṃ rahasi bibhrati . ayaṃ mahāvratadharo bibharti sadasi striyam .. 8 ..
श्रीशुक उवाच -
भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥
bhagavānapi tacchrutvā prahasyāgādhadhīrnṛpa . tūṣṇīṃ babhūva sadasi sabhyāśca tadanuvratāḥ .. 9 ..
इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥
ityatadvīryaviduṣi bruvāṇe bahvaśobhanam . ruṣā''ha devī dhṛṣṭāya nirjitātmābhimānine .. 10 ..
श्रीपार्वति उवाच -
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥
ayaṃ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ . asmadvidhānāṃ duṣṭānāṃ nirlajjānāṃ ca viprakṛt .. 11 ..
न वेद धर्मं किल पद्मयोनिः न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥
na veda dharmaṃ kila padmayoniḥ na brahmaputrā bhṛgunāradādyāḥ . na vai kumāraḥ kapilo manuśca ye no niṣedhantyativartinaṃ haram .. 12 ..
एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥
eṣāmanudhyeyapadābjayugmaṃ jagadguruṃ maṅgalamaṅgalaṃ svayam . yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭastadayaṃ hi daṇḍyaḥ .. 13 ..
नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥
nāyamarhati vaikuṇṭha pādamūlopasarpaṇam . sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam .. 14 ..
अतः पापीयसीं योनिं आसुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
ataḥ pāpīyasīṃ yoniṃ āsurīṃ yāhi durmate . yatheha bhūyo mahatāṃ na kartā putra kilbiṣam .. 15 ..
श्रीशुक उवाच -
एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥
evaṃ śaptaścitraketuḥ vimānād avaruhya saḥ . prasādayāmāsa satīṃ mūrdhnā namreṇa bhārata .. 16 ..
चित्रकेतुरुवाच -
प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥
pratigṛhṇāmi te śāpaṃ ātmano'ñjalināmbike . devairmartyāya yatproktaṃ pūrvadiṣṭaṃ hi tasya tat .. 17 ..
संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥
saṃsāracakra etasmin janturajñānamohitaḥ . bhrāmyan sukhaṃ ca duḥkhaṃ ca bhuṅkte sarvatra sarvadā .. 18 ..
नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥ १९ ॥
naivātmā na paraścāpi kartā syāt sukhaduḥkhayoḥ . kartāraṃ manyate'prājña ātmānaṃ parameva ca .. 19 ..
गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २० ॥
guṇapravāha etasminkaḥ śāpaḥ ko nvanugrahaḥ . kaḥ svargo narakaḥ ko vā kiṃ sukhaṃ duḥkhameva vā .. 20 ..
एकः सृजति भूतानि भगवान् आत्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥
ekaḥ sṛjati bhūtāni bhagavān ātmamāyayā . eṣāṃ bandhaṃ ca mokṣaṃ ca sukhaṃ duḥkhaṃ ca niṣkalaḥ .. 21 ..
न तस्य कश्चिद् दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥ २२ ॥
na tasya kaścid dayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ . samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ .. 22 ..
तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥
tathāpi tacchaktivisarga eṣāṃ sukhāya duḥkhāya hitāhitāya . bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṃ saṃsṛtaye'vakalpate .. 23 ..
अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥
atha prasādaye na tvāṃ śāpamokṣāya bhāmini . yanmanyase hyasādhūktaṃ mama tatkṣamyatāṃ sati .. 24 ..
श्रीशुक उवाच -
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥
iti prasādya giriśau citraketurarindama . jagāma svavimānena paśyatoḥ smayatostayoḥ .. 25 ..
ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम् ॥ २६ ॥
tatastu bhagavānrudro rudrāṇīṃ idamabravīt . devarṣidaityasiddhānāṃ pārṣadānāṃ ca śrṛṇvatām .. 26 ..
श्रीरुद्र उवाच -
दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥
dṛṣṭavatyasi suśroṇi hareradbhutakarmaṇaḥ . māhātmyaṃ bhṛtyabhṛtyānāṃ niḥspṛhāṇāṃ mahātmanām .. 27 ..
नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः ॥ २८ ॥
nārāyaṇaparāḥ sarve na kutaścana bibhyati . svargāpavarganarakeṣu api tulyārthadarśinaḥ .. 28 ..
देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥
dehināṃ dehasaṃyogād dvandvān īśvaralīlayā . sukhaṃ duḥkhaṃ mṛtirjanma śāpo'nugraha eva ca .. 29 ..
अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३० ॥
avivekakṛtaḥ puṃso hyarthabheda ivātmani . guṇadoṣavikalpaśca bhideva srajivatkṛtaḥ .. 30 ..
वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ ३१ ॥
vāsudeve bhagavati bhaktiṃ udvahatāṃ nṛṇām . jñānavairāgyavīryāṇāṃ na hi kaścidvyapāśrayaḥ .. 31 ..
नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥
nāhaṃ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ . vidāma yasyehitamaṃśakāṃśakā na tatsvarūpaṃ pṛthagīśamāninaḥ .. 32 ..
न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥
na hyasyāsti priyaḥ kaścit nāpriyaḥ svaḥ paro'pi vā . ātmatvāt sarvabhūtānāṃ sarvabhūtapriyo hariḥ .. 33 ..
तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः । सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥
tasya cāyaṃ mahābhāgaḥ citraketuḥ priyo'nugaḥ . sarvatra samadṛk śānto hyahaṃ caivācyutapriyaḥ .. 34 ..
तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥
tasmānna vismayaḥ kāryaḥ puruṣeṣu mahātmasu . mahāpuruṣabhakteṣu śānteṣu samadarśiṣu .. 35 ..
श्रीशुक उवाच -
इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥
iti śrutvā bhagavataḥ śivasyomābhibhāṣitam . babhūva śāntadhī rājan devī vigatavismayā .. 36 ..
इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम् ॥ ३७ ॥
iti bhāgavato devyāḥ pratiśaptumalantamaḥ . mūrdhnā sa jagṛhe śāpaṃ etāvat sādhulakṣaṇam .. 37 ..
जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥
jajñe tvaṣṭurdakṣiṇāgnau dānavīṃ yonimāśritaḥ . vṛtra ityabhivikhyāto jñānavijñānasaṃyutaḥ .. 38 ..
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi . vṛtrasyāsurajāteśca kāraṇaṃ bhagavanmateḥ .. 39 ..
इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥
itihāsaṃ imaṃ puṇyaṃ citraketormahātmanaḥ . māhātmyaṃ viṣṇubhaktānāṃ śrutvā bandhād vimucyate .. 40 ..
य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥
ya etat prātarutthāya śraddhayā vāgyataḥ paṭhet . itihāsaṃ hariṃ smṛtvā sa yāti paramāṃ gatim .. 41 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe citraketuśāpo nāma saptadaśo'dhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In