| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -
एवं ते भगवद्दूता यमदूताभिभाषितम् । उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १ ॥
एवम् ते भगवत्-दूताः यम-दूत-अभिभाषितम् । उपधार्य अथ तान् राजन् प्रत्याहुः नय-कोविदाः ॥ १ ॥
evam te bhagavat-dūtāḥ yama-dūta-abhibhāṣitam . upadhārya atha tān rājan pratyāhuḥ naya-kovidāḥ .. 1 ..
श्रीविष्णुदूता ऊचुः -
अहो कष्टं धर्मदृशां अधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥
अहो कष्टम् धर्म-दृशाम् अधर्मः स्पृशते सभाम् । यत्र अ दण्ड्येषु अपापेषु दण्डः यैः ध्रियते वृथा ॥ २ ॥
aho kaṣṭam dharma-dṛśām adharmaḥ spṛśate sabhām . yatra a daṇḍyeṣu apāpeṣu daṇḍaḥ yaiḥ dhriyate vṛthā .. 2 ..
प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥
प्रजानाम् पितरः ये च शास्तारः साधवः समाः । यदि स्यात् तेषु वैषम्यम् कम् यान्ति शरणम् प्रजाः ॥ ३ ॥
prajānām pitaraḥ ye ca śāstāraḥ sādhavaḥ samāḥ . yadi syāt teṣu vaiṣamyam kam yānti śaraṇam prajāḥ .. 3 ..
यद् यद् आचरति श्रेयान् इतरः तत् तदीहते । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥
यत् यत् आचरति श्रेयान् इतरः तत् तत् ईहते । स यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥ ४ ॥
yat yat ācarati śreyān itaraḥ tat tat īhate . sa yat pramāṇam kurute lokaḥ tat anuvartate .. 4 ..
यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः । स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥
यस्य अङ्के शिरः आधाय लोकः स्वपिति निर्वृतः । स्वयम् धर्मम् अधर्मम् वा न हि वेद यथा पशुः ॥ ५ ॥
yasya aṅke śiraḥ ādhāya lokaḥ svapiti nirvṛtaḥ . svayam dharmam adharmam vā na hi veda yathā paśuḥ .. 5 ..
स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् । विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥
स कथम् न्यर्पित-आत्मानम् कृत-मैत्रम् अचेतनम् । विस्रम्भणीयः भूतानाम् स घृणः द्रोग्धुम् अर्हति ॥ ६ ॥
sa katham nyarpita-ātmānam kṛta-maitram acetanam . visrambhaṇīyaḥ bhūtānām sa ghṛṇaḥ drogdhum arhati .. 6 ..
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७ ॥
अयम् हि कृत-निर्वेशः जन्म-कोटि-अंहसाम् अपि । यत् व्याजहार विवशः नाम स्वस्त्ययनम् हरेः ॥ ७ ॥
ayam hi kṛta-nirveśaḥ janma-koṭi-aṃhasām api . yat vyājahāra vivaśaḥ nāma svastyayanam hareḥ .. 7 ..
एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८ ॥
एतेन एव हि अघोनः अस्य कृतम् स्यात् अघ-निष्कृतम् । यदा नारायणाय इति जगाद चतुर्-अक्षरम् ॥ ८ ॥
etena eva hi aghonaḥ asya kṛtam syāt agha-niṣkṛtam . yadā nārāyaṇāya iti jagāda catur-akṣaram .. 8 ..
स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥
स्तेनः सुरा-पः मित्र-द्रुह् ब्रह्म-हा गुरुतल्प-गः । स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनः अपरे ॥ ९ ॥
stenaḥ surā-paḥ mitra-druh brahma-hā gurutalpa-gaḥ . strī-rāja-pitṛ-go-hantā ye ca pātakinaḥ apare .. 9 ..
सर्वेषां अप्यघवतां इदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोः यतस्तद् विषया मतिः ॥ १० ॥
सर्वेषाम् अपि अघवताम् इदम् एव सु निष्कृतम् । नाम-व्याहरणम् विष्णोः यतस् तत् विषया मतिः ॥ १० ॥
sarveṣām api aghavatām idam eva su niṣkṛtam . nāma-vyāharaṇam viṣṇoḥ yatas tat viṣayā matiḥ .. 10 ..
न निष्कृतैरुदितैर्ब्रह्मवादिभिः तथा विशुद्ध्यत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैः तदुत्तमश्लोक गुणोपलम्भकम् ॥ ११ ॥
न निष्कृतैः उदितैः ब्रह्म-वादिभिः तथा विशुद्धि-अति अघवान् व्रत-आदिभिः । यथा हरेः नाम-पदैः उदाहृतैः तत् उत्तमश्लोक गुण-उपलम्भकम् ॥ ११ ॥
na niṣkṛtaiḥ uditaiḥ brahma-vādibhiḥ tathā viśuddhi-ati aghavān vrata-ādibhiḥ . yathā hareḥ nāma-padaiḥ udāhṛtaiḥ tat uttamaśloka guṇa-upalambhakam .. 11 ..
नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे । तत्कर्मनिर्हारमभीप्सतां हरेः गुणानुवादः खलु सत्त्वभावनः ॥ १२ ॥
न ऐकान्तिकम् तत् हि कृते अपि निष्कृते मनः पुनर् धावति चेद् असत्-पथे । तद्-कर्म-निर्हारम् अभीप्सताम् हरेः गुण-अनुवादः खलु सत्त्व-भावनः ॥ १२ ॥
na aikāntikam tat hi kṛte api niṣkṛte manaḥ punar dhāvati ced asat-pathe . tad-karma-nirhāram abhīpsatām hareḥ guṇa-anuvādaḥ khalu sattva-bhāvanaḥ .. 12 ..
अथैनं मापनयत कृताशेषाघनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३ ॥
अथ एनम् मा अपनयत कृत-अशेष-अघ-निष्कृतम् । यत् असौ भगवत्-नाम म्रियमाणः समग्रहीत् ॥ १३ ॥
atha enam mā apanayata kṛta-aśeṣa-agha-niṣkṛtam . yat asau bhagavat-nāma mriyamāṇaḥ samagrahīt .. 13 ..
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणं अशेषाघहरं विदुः ॥ १४ ॥
साङ्केत्यम् पारिहास्यम् वा स्तोभम् हेलनम् एव वा । विदुः ॥ १४ ॥
sāṅketyam pārihāsyam vā stobham helanam eva vā . viduḥ .. 14 ..
पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्यवशेनाह पुमान्नार्हति यातनाम् ॥ १५ ॥
पतितः स्खलितः भग्नः सन्दष्टः तप्तः आहतः । हरिः इति अवशेन आह पुमान् न अर्हति यातनाम् ॥ १५ ॥
patitaḥ skhalitaḥ bhagnaḥ sandaṣṭaḥ taptaḥ āhataḥ . hariḥ iti avaśena āha pumān na arhati yātanām .. 15 ..
गुरूणां च लघूनां च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥
गुरूणाम् च लघूनाम् च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानाम् ज्ञात्वा उक्तानि महा-ऋषिभिः ॥ १६ ॥
gurūṇām ca laghūnām ca gurūṇi ca laghūni ca . prāyaścittāni pāpānām jñātvā uktāni mahā-ṛṣibhiḥ .. 16 ..
तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः । नाधर्मजं तद् हृदयं तदपीशाङ्घ्रिसेवया ॥ १७ ॥
तैः तानि अघानि पूयन्ते तपः-दान-जप-आदिभिः । न अधर्म-जम् तत् हृदयम् तत् अपि ईश-अङ्घ्रि-सेवया ॥ १७ ॥
taiḥ tāni aghāni pūyante tapaḥ-dāna-japa-ādibhiḥ . na adharma-jam tat hṛdayam tat api īśa-aṅghri-sevayā .. 17 ..
अज्ञानादथवा ज्ञानात् उत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८ ॥
अज्ञानात् अथवा ज्ञानात् उत्तमश्लोक-नाम यत् । सङ्कीर्तितम् अघम् पुंसः दहेत् एधः यथा अनलः ॥ १८ ॥
ajñānāt athavā jñānāt uttamaśloka-nāma yat . saṅkīrtitam agham puṃsaḥ dahet edhaḥ yathā analaḥ .. 18 ..
यथागदं वीर्यतमं उपयुक्तं यदृच्छया । अजानतोऽप्यात्मगुणं कुर्यान् मंत्रोऽप्युदाहृतः ॥ १९ ॥
यथागदम् वीर्यतमम् उपयुक्तम् यदृच्छया । अ जानतः अपि आत्म-गुणम् कुर्यात् मंत्रः अपि उदाहृतः ॥ १९ ॥
yathāgadam vīryatamam upayuktam yadṛcchayā . a jānataḥ api ātma-guṇam kuryāt maṃtraḥ api udāhṛtaḥ .. 19 ..
श्रीशुक उवाच -
ते एवं सुविनिर्णीय धर्मं भागवतं नृप । तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २० ॥
ते एवम् सु विनिर्णीय धर्मम् भागवतम् नृप । तम् याम्य-पाशात् निर्मुच्य विप्रम् मृत्योः अमूमुचन् ॥ २० ॥
te evam su vinirṇīya dharmam bhāgavatam nṛpa . tam yāmya-pāśāt nirmucya vipram mṛtyoḥ amūmucan .. 20 ..
इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके । यमराज्ञे यथा सर्वं आचचक्षुररिन्दम ॥ २१ ॥
इति प्रत्युदिता याम्या दूताः यात्वा यम-अन्तिके । यम-राज्ञे यथा सर्वम् आचचक्षुः अरिन्दम ॥ २१ ॥
iti pratyuditā yāmyā dūtāḥ yātvā yama-antike . yama-rājñe yathā sarvam ācacakṣuḥ arindama .. 21 ..
द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः । ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ २२ ॥
द्विजः पाशात् विनिर्मुक्तः गत-भीः प्रकृतिम् गतः । ववन्दे शिरसा विष्णोः किङ्करान् दर्शन-उत्सवः ॥ २२ ॥
dvijaḥ pāśāt vinirmuktaḥ gata-bhīḥ prakṛtim gataḥ . vavande śirasā viṣṇoḥ kiṅkarān darśana-utsavaḥ .. 22 ..
तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः । सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥
तम् विवक्षुम् अभिप्रेत्य महापुरुष-किङ्कराः । सहसा पश्यतः तस्य तत्र अन्तर्दधिरे अनघ ॥ २३ ॥
tam vivakṣum abhipretya mahāpuruṣa-kiṅkarāḥ . sahasā paśyataḥ tasya tatra antardadhire anagha .. 23 ..
अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः । धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ २४ ॥
अजामिलः अपि अथ आकर्ण्य दूतानाम् यम-कृष्णयोः । धर्मम् भागवतम् शुद्धम् त्रैवेद्यम् च गुण-आश्रयम् ॥ २४ ॥
ajāmilaḥ api atha ākarṇya dūtānām yama-kṛṣṇayoḥ . dharmam bhāgavatam śuddham traivedyam ca guṇa-āśrayam .. 24 ..
भक्तिमान्भगवत्याशु माहात्म्यश्रवणाद्धरेः । अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥ २५ ॥
भक्तिमान् भगवति आशु माहात्म्य-श्रवणात् हरेः । अनुतापः महान् आसीत् स्मरतः अशुभम् आत्मनः ॥ २५ ॥
bhaktimān bhagavati āśu māhātmya-śravaṇāt hareḥ . anutāpaḥ mahān āsīt smarataḥ aśubham ātmanaḥ .. 25 ..
अहो मे परमं कष्टं अभूद् अविजितात्मनः । येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ २६ ॥
अहो मे परमम् कष्टम् अभूत् अविजित-आत्मनः । येन विप्लावितम् ब्रह्म वृषल्याम् जायत-आत्मना ॥ २६ ॥
aho me paramam kaṣṭam abhūt avijita-ātmanaḥ . yena viplāvitam brahma vṛṣalyām jāyata-ātmanā .. 26 ..
धिङ्मां विगर्हितं सद्भिः दुष्कृतं कुलकज्जलम् । हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् ॥ २७ ॥
धिक् माम् विगर्हितम् सद्भिः दुष्कृतम् कुल-कज्जलम् । हित्वा बालाम् सतीम् यः अहम् सुरापीम् असतीम् अगाम् ॥ २७ ॥
dhik mām vigarhitam sadbhiḥ duṣkṛtam kula-kajjalam . hitvā bālām satīm yaḥ aham surāpīm asatīm agām .. 27 ..
वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ । अहो मयाधुना त्यक्तौ अकृतज्ञेन नीचवत् ॥ २८ ॥
वृद्धौ अनाथौ पितरौ न अन्य-बन्धू तपस्विनौ । अहो मया अधुना त्यक्तौ अकृतज्ञेन नीच-वत् ॥ २८ ॥
vṛddhau anāthau pitarau na anya-bandhū tapasvinau . aho mayā adhunā tyaktau akṛtajñena nīca-vat .. 28 ..
सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे । धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ २९ ॥
सः अहम् व्यक्तम् पतिष्यामि नरके भृश-दारुणे । धर्म-घ्नाः कामिनः यत्र विन्दन्ति यम-यातनाः ॥ २९ ॥
saḥ aham vyaktam patiṣyāmi narake bhṛśa-dāruṇe . dharma-ghnāḥ kāminaḥ yatra vindanti yama-yātanāḥ .. 29 ..
किमिदं स्वप्न आहो स्वित् साक्षाद् दृष्टमिहाद्भुतम् । क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३० ॥
किम् इदम् स्वप्ने आहो स्विद् साक्षात् दृष्टम् इह अद्भुतम् । क्व याताः अद्य ते ये माम् व्यकर्षन् पाश-पाणयः ॥ ३० ॥
kim idam svapne āho svid sākṣāt dṛṣṭam iha adbhutam . kva yātāḥ adya te ye mām vyakarṣan pāśa-pāṇayaḥ .. 30 ..
अथ ते क्व गताः सिद्धाः चत्वारश्चारुदर्शनाः । व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ ३१ ॥
अथ ते क्व गताः सिद्धाः चत्वारः चारु-दर्शनाः । व्यामोचयत् नीयमानम् बद्ध्वा पाशैः अधस् भुवः ॥ ३१ ॥
atha te kva gatāḥ siddhāḥ catvāraḥ cāru-darśanāḥ . vyāmocayat nīyamānam baddhvā pāśaiḥ adhas bhuvaḥ .. 31 ..
अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ ३२ ॥
अथा अपि मे दुर्भगस्य विबुध-उत्तम-दर्शने । भवितव्यम् मङ्गलेन येन आत्मा मे प्रसीदति ॥ ३२ ॥
athā api me durbhagasya vibudha-uttama-darśane . bhavitavyam maṅgalena yena ātmā me prasīdati .. 32 ..
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३ ॥
अन्यथा म्रियमाणस्य ना अशुचेः वृषली-पतेः । वैकुण्ठ-नाम-ग्रहणम् जिह्वा वक्तुम् इह अर्हति ॥ ३३ ॥
anyathā mriyamāṇasya nā aśuceḥ vṛṣalī-pateḥ . vaikuṇṭha-nāma-grahaṇam jihvā vaktum iha arhati .. 33 ..
क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः । क्व च नारायणेत्येतद् भगवन्नाम मङ्गलम् ॥ ३४ ॥
क्व च अहम् कितवः पापः ब्रह्म-घ्नः निरपत्रपः । क्व च नारायण-इति एतत् भगवत्-नाम मङ्गलम् ॥ ३४ ॥
kva ca aham kitavaḥ pāpaḥ brahma-ghnaḥ nirapatrapaḥ . kva ca nārāyaṇa-iti etat bhagavat-nāma maṅgalam .. 34 ..
सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः । यथा न भूय आत्मानं अन्धे तमसि मज्जये ॥ ३५ ॥
सः अहम् तथा यतिष्यामि यत-चित्त-इन्द्रिय-अनिलः । यथा न भूयस् आत्मानम् अन्धे तमसि मज्जये ॥ ३५ ॥
saḥ aham tathā yatiṣyāmi yata-citta-indriya-anilaḥ . yathā na bhūyas ātmānam andhe tamasi majjaye .. 35 ..
विमुच्य तमिमं बन्धं अविद्या कामकर्मजम् । सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ ३६ ॥
विमुच्य तम् इमम् बन्धम् अविद्या काम-कर्म-जम् । सर्व-भूत-सुहृद् शान्तः मैत्रः करुणः आत्मवान् ॥ ३६ ॥
vimucya tam imam bandham avidyā kāma-karma-jam . sarva-bhūta-suhṛd śāntaḥ maitraḥ karuṇaḥ ātmavān .. 36 ..
मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया । विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ ३७ ॥
मोचये ग्रस्तम् आत्मानम् योषित्-मय्या आत्म-मायया । विक्रीडितः यया एव अहम् क्रीडामृगः इव अधमः ॥ ३७ ॥
mocaye grastam ātmānam yoṣit-mayyā ātma-māyayā . vikrīḍitaḥ yayā eva aham krīḍāmṛgaḥ iva adhamaḥ .. 37 ..
ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् । धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८ ॥
मम अहम् इति देह-आदौ हित्वा अ मिथ्या अर्थ-धीः मतिम् । धास्ये मनः भगवति शुद्धम् तद्-कीर्तन-आदिभिः ॥ ३८ ॥
mama aham iti deha-ādau hitvā a mithyā artha-dhīḥ matim . dhāsye manaḥ bhagavati śuddham tad-kīrtana-ādibhiḥ .. 38 ..
श्रीशुक उवाच -
इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु । गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९ ॥
इति जात-सु निर्वेदः क्षण-सङ्गेन साधुषु । गङ्गाद्वारम् उपेयाय मुक्त-सर्व-अनुबन्धनः ॥ ३९ ॥
iti jāta-su nirvedaḥ kṣaṇa-saṅgena sādhuṣu . gaṅgādvāram upeyāya mukta-sarva-anubandhanaḥ .. 39 ..
स तस्मिन् देवसदन आसीनो योगमास्थितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४० ॥
स तस्मिन् देव-सदने आसीनः योगम् आस्थितः । प्रत्याहृत-इन्द्रिय-ग्रामः युयोज मनः आत्मनि ॥ ४० ॥
sa tasmin deva-sadane āsīnaḥ yogam āsthitaḥ . pratyāhṛta-indriya-grāmaḥ yuyoja manaḥ ātmani .. 40 ..
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद् धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१ ॥
ततस् गुणेभ्यः आत्मानम् वियुज्य आत्म-समाधिना । युयुजे भगवत् धाम्नि ब्रह्मणि अनुभव-आत्मनि ॥ ४१ ॥
tatas guṇebhyaḥ ātmānam viyujya ātma-samādhinā . yuyuje bhagavat dhāmni brahmaṇi anubhava-ātmani .. 41 ..
यर्ह्युपारतधीस्तस्मिन् अद्राक्षीत् पुरुषान्पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४२ ॥
यर्हि उपारत-धीः तस्मिन् अद्राक्षीत् पुरुषान् पुरस् । उपलभ्य उपलब्धान् प्राक् ववन्दे शिरसा द्विजः ॥ ४२ ॥
yarhi upārata-dhīḥ tasmin adrākṣīt puruṣān puras . upalabhya upalabdhān prāk vavande śirasā dvijaḥ .. 42 ..
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवन् पार्श्ववर्तिनाम् ॥ ४३ ॥
हित्वा कलेवरम् तीर्थे गङ्गायाम् दर्शनात् अनु । सद्यस् स्व-रूपम् जगृहे भगवन् पार्श्ववर्तिनाम् ॥ ४३ ॥
hitvā kalevaram tīrthe gaṅgāyām darśanāt anu . sadyas sva-rūpam jagṛhe bhagavan pārśvavartinām .. 43 ..
साकं विहायसा विप्रो महापुरुषकिङ्करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥
साकम् विहायसा विप्रः महापुरुष-किङ्करैः । हैमम् विमानम् आरुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥
sākam vihāyasā vipraḥ mahāpuruṣa-kiṅkaraiḥ . haimam vimānam āruhya yayau yatra śriyaḥ patiḥ .. 44 ..
एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५ ॥
एवम् स विप्लावित-सर्व-धर्मा दास्याः पतिः पतितः गर्ह्य-कर्मणा । निपात्यमानः निरये हत-व्रतः सद्यस् विमुक्तः भगवत्-नाम गृह्णन् ॥ ४५ ॥
evam sa viplāvita-sarva-dharmā dāsyāḥ patiḥ patitaḥ garhya-karmaṇā . nipātyamānaḥ niraye hata-vrataḥ sadyas vimuktaḥ bhagavat-nāma gṛhṇan .. 45 ..
नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६ ॥
न अतस् परम् कर्म-निबन्ध-कृन्तनम् मुमुक्षताम् तीर्थ-पद-अनुकीर्तनात् । न यत् पुनर् कर्मसु सज्जते मनः रजः-तमोभ्याम् कलिलम् ततस् अन्यथा ॥ ४६ ॥
na atas param karma-nibandha-kṛntanam mumukṣatām tīrtha-pada-anukīrtanāt . na yat punar karmasu sajjate manaḥ rajaḥ-tamobhyām kalilam tatas anyathā .. 46 ..
य एतं परमं गुह्यं इतिहासमघापहम् । श्रृणुयात् श्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७ ॥
यः एतम् परमम् गुह्यम् इतिहासम् अघ-अपहम् । श्रृणुयात् श्रद्धया युक्तः यः च भक्त्या अनुकीर्तयेत् ॥ ४७ ॥
yaḥ etam paramam guhyam itihāsam agha-apaham . śrṛṇuyāt śraddhayā yuktaḥ yaḥ ca bhaktyā anukīrtayet .. 47 ..
न वै स नरकं याति नेक्षितो यमकिङ्करैः । यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ४८ ॥
न वै स नरकम् याति न ईक्षितः यम-किङ्करैः । यदि अपि अमङ्गलः मर्त्यः विष्णु-लोके महीयते ॥ ४८ ॥
na vai sa narakam yāti na īkṣitaḥ yama-kiṅkaraiḥ . yadi api amaṅgalaḥ martyaḥ viṣṇu-loke mahīyate .. 48 ..
म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगात् धाम किमुत श्रद्धया गृणन् ॥ ४९ ॥
म्रियमाणः हरेः नाम गृणन् पुत्र-उपचारितम् । अजामिलः अपि अगात् धाम किम् उत श्रद्धया गृणन् ॥ ४९ ॥
mriyamāṇaḥ hareḥ nāma gṛṇan putra-upacāritam . ajāmilaḥ api agāt dhāma kim uta śraddhayā gṛṇan .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोध्याऽयः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे अजामिल-उपाख्याने द्वितीया उध्या-अयः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe ajāmila-upākhyāne dvitīyā udhyā-ayaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In