| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पुंसवनव्रतविधिः - श्रीराजोवाच -
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥
व्रतम् पुंसवनम् ब्रह्मन् भवता यत् उदीरितम् । तस्य वेदितुम् इच्छामि येन विष्णुः प्रसीदति ॥ १ ॥
vratam puṃsavanam brahman bhavatā yat udīritam . tasya veditum icchāmi yena viṣṇuḥ prasīdati .. 1 ..
श्रीशुक उवाच -
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥
शुक्ले मार्गशिरे पक्षे योषित्-भर्तुः अनुज्ञया । आरभेत व्रतम् इदम् सार्वकामिकम् आदितस् ॥ २ ॥
śukle mārgaśire pakṣe yoṣit-bhartuḥ anujñayā . ārabheta vratam idam sārvakāmikam āditas .. 2 ..
निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥
निशम्य मरुताम् जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीत अलङ्कृत-अम्बरे । पूजयेत् प्रातराशात् प्राक् भगवन्तम् श्रिया सह ॥ ३ ॥
niśamya marutām janma brāhmaṇān anumantrya ca . snātvā śukladatī śukle vasīta alaṅkṛta-ambare . pūjayet prātarāśāt prāk bhagavantam śriyā saha .. 3 ..
अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥
अलम् ते निरपेक्षाय पूर्ण-काम नमः अस्तु ते । महा-विभूति-पतये नमः सकल-सिद्धये ॥ ४ ॥
alam te nirapekṣāya pūrṇa-kāma namaḥ astu te . mahā-vibhūti-pataye namaḥ sakala-siddhaye .. 4 ..
यथा त्वं कृपया भूत्या तेजसा महिमौजसा । जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥
यथा त्वम् कृपया भूत्या तेजसा महिमा ओजसा । जुष्ट-ईश-गुणैः सर्वैः ततस् असि भगवान् प्रभुः ॥ ५ ॥
yathā tvam kṛpayā bhūtyā tejasā mahimā ojasā . juṣṭa-īśa-guṇaiḥ sarvaiḥ tatas asi bhagavān prabhuḥ .. 5 ..
विष्णुपत्नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥
विष्णु-पत्नि महामाये महापुरुष-लक्षणे । प्रीयेथाः मे महाभागे लोकमातर् नमः अस्तु ते ॥ ६ ॥
viṣṇu-patni mahāmāye mahāpuruṣa-lakṣaṇe . prīyethāḥ me mahābhāge lokamātar namaḥ astu te .. 6 ..
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिः बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान वासउपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि उपचारान् सुसमाहित उपाहरेत् ॥ ७ ॥
ओम् नमः भगवन्ते महापुरुषाय महा-अनुभावाय महाविभूति-पतये सह महाविभूतिभिः बलिम् उपहरामि इति । अनेन अहरहर् मन्त्रेण विष्णोः आवाहन-अर्घ्य-पाद्य-उपस्पर्शन-स्नान-वास-उपवीत-विभूषण-गन्ध-पुष्प-धूप-दीप-उपहार-आदि उपाहरेत् ॥ ७ ॥
om namaḥ bhagavante mahāpuruṣāya mahā-anubhāvāya mahāvibhūti-pataye saha mahāvibhūtibhiḥ balim upaharāmi iti . anena aharahar mantreṇa viṣṇoḥ āvāhana-arghya-pādya-upasparśana-snāna-vāsa-upavīta-vibhūṣaṇa-gandha-puṣpa-dhūpa-dīpa-upahāra-ādi upāharet .. 7 ..
हविःशेषं च जुहुयादनले द्वादशाहुतीः । ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥
हविः-शेषम् च जुहुयात् अनले द्वादश आहुतीः । ओम् नमः भगवते महापुरुषाय महा-विभूति-पतये स्वाहा इति ॥ ८ ॥
haviḥ-śeṣam ca juhuyāt anale dvādaśa āhutīḥ . om namaḥ bhagavate mahāpuruṣāya mahā-vibhūti-pataye svāhā iti .. 8 ..
श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥
श्रियम् विष्णुम् च वर-दौ आशिषाम् प्रभवौ उभौ । भक्त्या सम्पूजयेत् नित्यम् यदि इच्छेत् सर्व-सम्पदः ॥ ९ ॥
śriyam viṣṇum ca vara-dau āśiṣām prabhavau ubhau . bhaktyā sampūjayet nityam yadi icchet sarva-sampadaḥ .. 9 ..
प्रणमेद् दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा । दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥
प्रणमेत् दण्ड-वत् भूमौ भक्ति-प्रह्वेण चेतसा । दश-वारम् जपेत् मन्त्रम् ततस् स्तोत्रम् उदीरयेत् ॥ १० ॥
praṇamet daṇḍa-vat bhūmau bhakti-prahveṇa cetasā . daśa-vāram japet mantram tatas stotram udīrayet .. 10 ..
युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥
युवाम् तु विश्वस्य विभू जगतः कारणम् परम् । इयम् हि प्रकृतिः सूक्ष्मा माया-शक्तिः दुरत्यया ॥ ११ ॥
yuvām tu viśvasya vibhū jagataḥ kāraṇam param . iyam hi prakṛtiḥ sūkṣmā māyā-śaktiḥ duratyayā .. 11 ..
तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥
तस्याः अधीश्वरः साक्षात् त्वम् एव पुरुषः परः । त्वम् सर्व-यज्ञः इज्येयम् क्रियेयम् फल-भुज् भवान् ॥ १२ ॥
tasyāḥ adhīśvaraḥ sākṣāt tvam eva puruṣaḥ paraḥ . tvam sarva-yajñaḥ ijyeyam kriyeyam phala-bhuj bhavān .. 12 ..
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् । त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः । नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः ॥ १३ ॥
गुण-व्यक्तिः इयम् देवी व्यञ्जकः गुणभुज् भवान् । त्वम् हि सर्व-शरीर्य-आत्मा श्रीः शरीर-इन्द्रिय-आशयाः । नाम-रूपे भगवती प्रत्ययः त्वम् अपाश्रयः ॥ १३ ॥
guṇa-vyaktiḥ iyam devī vyañjakaḥ guṇabhuj bhavān . tvam hi sarva-śarīrya-ātmā śrīḥ śarīra-indriya-āśayāḥ . nāma-rūpe bhagavatī pratyayaḥ tvam apāśrayaḥ .. 13 ..
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४ ॥
यथा युवाम् त्रिलोकस्य वर-दौ परमेष्ठिनौ । तथा मे उत्तमश्लोक सन्तु सत्याः महा-आशिषः ॥ १४ ॥
yathā yuvām trilokasya vara-dau parameṣṭhinau . tathā me uttamaśloka santu satyāḥ mahā-āśiṣaḥ .. 14 ..
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह । तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५ ॥
इति अभिष्टूय वर-दम् श्रीनिवासम् श्रिया सह । तत् निःसार्य उपहरणम् दत्त्वा आचमनम् अर्चयेत् ॥ १५ ॥
iti abhiṣṭūya vara-dam śrīnivāsam śriyā saha . tat niḥsārya upaharaṇam dattvā ācamanam arcayet .. 15 ..
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् ॥ १६ ॥
ततस् स्तुवीत स्तोत्रेण भक्ति-प्रह्वेण चेतसा । यज्ञ-उच्छिष्टम् अवघ्राय पुनर् अभ्यर्चयेत् हरिम् ॥ १६ ॥
tatas stuvīta stotreṇa bhakti-prahveṇa cetasā . yajña-ucchiṣṭam avaghrāya punar abhyarcayet harim .. 16 ..
पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ १७ ॥
पतिम् च परया भक्त्या महापुरुष-चेतसा । प्रियैः तैः तैः उपनमेत् प्रेम-शीलः स्वयम् पतिः । बिभृयात् सर्व-कर्माणि पत्न्याः उच्चावचानि च ॥ १७ ॥
patim ca parayā bhaktyā mahāpuruṣa-cetasā . priyaiḥ taiḥ taiḥ upanamet prema-śīlaḥ svayam patiḥ . bibhṛyāt sarva-karmāṇi patnyāḥ uccāvacāni ca .. 17 ..
कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥
कृतम् एकतरेण अपि दम्पत्योः उभयोः अपि । पत्न्याम् कुर्यात् अनर्हायाम् पतिः एतत् समाहितः ॥ १८ ॥
kṛtam ekatareṇa api dampatyoḥ ubhayoḥ api . patnyām kuryāt anarhāyām patiḥ etat samāhitaḥ .. 18 ..
विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ १९ ॥
विष्णोः व्रतम् इदम् बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियः वीरवतीः स्रज्-गन्ध-बलि-मण्डनैः । अर्चेत् अहरहर् भक्त्या देवम् नियमम् आस्थितः ॥ १९ ॥
viṣṇoḥ vratam idam bibhran na vihanyāt kathañcana . viprān striyaḥ vīravatīḥ sraj-gandha-bali-maṇḍanaiḥ . arcet aharahar bhaktyā devam niyamam āsthitaḥ .. 19 ..
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥
उद्वास्य देवम् स्वे धाम्नि तत् निवेदितम् अग्रतस् । अद्यात् आत्म-विशुद्धि-अर्थम् सर्व-काम-ऋद्धये तथा ॥ २० ॥
udvāsya devam sve dhāmni tat niveditam agratas . adyāt ātma-viśuddhi-artham sarva-kāma-ṛddhaye tathā .. 20 ..
एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥
एतेन पूजा-विधिना मासान् द्वादश हायनम् । नीत्वा अथ उपचरेत् साध्वी कार्तिके चरमे अहनि ॥ २१ ॥
etena pūjā-vidhinā māsān dvādaśa hāyanam . nītvā atha upacaret sādhvī kārtike carame ahani .. 21 ..
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥
श्वोभूते अपः उपस्पृश्य कृष्णम् अभ्यर्च्य पूर्ववत् । पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा । पाकयज्ञ-विधानेन द्वादश एव आहुतीः पतिः ॥ २२ ॥
śvobhūte apaḥ upaspṛśya kṛṣṇam abhyarcya pūrvavat . payaḥśrṛtena juhuyāt caruṇā saha sarpiṣā . pākayajña-vidhānena dvādaśa eva āhutīḥ patiḥ .. 22 ..
आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥
आशिषः शिरसा आदाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तद्-अनुज्ञया ॥ २३ ॥
āśiṣaḥ śirasā ādāya dvijaiḥ prītaiḥ samīritāḥ . praṇamya śirasā bhaktyā bhuñjīta tad-anujñayā .. 23 ..
आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात्पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥
आचार्यम् अग्रतस् कृत्वा वाग्यतः सह बन्धुभिः । दद्यात् पत्न्यै चरोः शेषम् सुप्रजास्त्वम् सु सौभगम् ॥ २४ ॥
ācāryam agratas kṛtvā vāgyataḥ saha bandhubhiḥ . dadyāt patnyai caroḥ śeṣam suprajāstvam su saubhagam .. 24 ..
एतच्चरित्वा विधिवद्व्रतं विभोः अभीप्सितार्थं लभते पुमानिह । स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥
एतत् चरित्वा विधिवत् व्रतम् विभोः अभीप्सित-अर्थम् लभते पुमान् इह । स्त्री तु एतत् आस्थाय लभेत सौभगम् श्रियम् प्रजाम् जीवपतिम् यशः गृहम् ॥ २५ ॥
etat caritvā vidhivat vratam vibhoḥ abhīpsita-artham labhate pumān iha . strī tu etat āsthāya labheta saubhagam śriyam prajām jīvapatim yaśaḥ gṛham .. 25 ..
कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषां गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥
कन्या च विन्देत समग्र-लक्षणम् वरम् तु अवीरा हत-किल्बिषाम् गतिम् । मृत-प्रजा जीव-सुता धन-ईश्वरी सु दुर्भगा सुभगा रूपम् अग्र्यम् ॥ २६ ॥
kanyā ca vindeta samagra-lakṣaṇam varam tu avīrā hata-kilbiṣām gatim . mṛta-prajā jīva-sutā dhana-īśvarī su durbhagā subhagā rūpam agryam .. 26 ..
विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत्पठन्नभ्युदये च कर्मणि अनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥
विन्देत् विरूपा विरुजा विमुच्यते यः आमयावी इन्द्रिय-कल्य-देहम् । एतत् पठन् अभ्युदये च कर्मणि अनन्त-तृप्तिः पितृ-देवतानाम् ॥ २७ ॥
vindet virūpā virujā vimucyate yaḥ āmayāvī indriya-kalya-deham . etat paṭhan abhyudaye ca karmaṇi ananta-tṛptiḥ pitṛ-devatānām .. 27 ..
तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीः हरिश्च । राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥
तुष्टाः प्रयच्छन्ति समस्त-कामान् होम-अवसाने हुतभुज् श्रीः हरिः च । राजन् महत् मरुताम् जन्म पुण्यम् दितेः व्रतम् च अभिहितम् महत् ते ॥ २८ ॥
tuṣṭāḥ prayacchanti samasta-kāmān homa-avasāne hutabhuj śrīḥ hariḥ ca . rājan mahat marutām janma puṇyam diteḥ vratam ca abhihitam mahat te .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे पुंसवनव्रतकथनम् नाम एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe puṃsavanavratakathanam nāma ekonaviṃśaḥ adhyāyaḥ .. 19 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In