| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तानपि धर्मराजः । एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम् १ ।
निशम्य देवः स्व-भट-उपवर्णितम् प्रत्याह किम् तान् अपि धर्मराजः । एवम् हत-अज्ञः विहतात् मुरारेः नैदेशिकैः यस्य वशे जनः अयम् ।
niśamya devaḥ sva-bhaṭa-upavarṇitam pratyāha kim tān api dharmarājaḥ . evam hata-ajñaḥ vihatāt murāreḥ naideśikaiḥ yasya vaśe janaḥ ayam .
यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् । एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् २ ।
यमस्य देवस्य न दण्ड-भङ्गः कुतश्चन ऋषे श्रुत-पूर्वः आसीत् । एतत् मुने वृश्चति लोक-संशयम् न हि त्वद्-अन्यः इति मे विनिश्चितम् ।
yamasya devasya na daṇḍa-bhaṅgaḥ kutaścana ṛṣe śruta-pūrvaḥ āsīt . etat mune vṛścati loka-saṃśayam na hi tvad-anyaḥ iti me viniścitam .
श्रीशुक उवाच ।
भगवत्पुरुषै राजन्याम्याः प्रतिहतोद्यमाः । पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ३ ।
भगवत्-पुरुषैः राजन् याम्याः प्रतिहत-उद्यमाः । पतिम् विज्ञापयामासुः यमम् संयमनी-पतिम् ।
bhagavat-puruṣaiḥ rājan yāmyāḥ pratihata-udyamāḥ . patim vijñāpayāmāsuḥ yamam saṃyamanī-patim .
यमदूता ऊचुः ।
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो । त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ४ ।
कति सन्ति इह शास्तारः जीव-लोकस्य वै प्रभो । त्रैविध्यम् कुर्वतः कर्म फल-अभिव्यक्ति-हेतवः ।
kati santi iha śāstāraḥ jīva-lokasya vai prabho . traividhyam kurvataḥ karma phala-abhivyakti-hetavaḥ .
यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः । कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ५ ।
यदि स्युः बहवः लोके शास्तारः दण्ड-धारिणः । कस्य स्याताम् न वा कस्य मृत्युः च अमृतम् एव वा ।
yadi syuḥ bahavaḥ loke śāstāraḥ daṇḍa-dhāriṇaḥ . kasya syātām na vā kasya mṛtyuḥ ca amṛtam eva vā .
किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् । शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ६ ।
किन्तु शास्तृ-बहुत्वे स्यात् बहूनाम् इह कर्मिणाम् । शास्तृ-त्वम् उपचारः हि यथा मण्डलवर्तिनाम् ।
kintu śāstṛ-bahutve syāt bahūnām iha karmiṇām . śāstṛ-tvam upacāraḥ hi yathā maṇḍalavartinām .
अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः । शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ७ ।
अतस् त्वम् एकः भूतानाम् स ईश्वराणाम् अधीश्वरः । शास्ता दण्ड-धरः नॄणाम् शुभ-अशुभ-विवेचनः ।
atas tvam ekaḥ bhūtānām sa īśvarāṇām adhīśvaraḥ . śāstā daṇḍa-dharaḥ nṝṇām śubha-aśubha-vivecanaḥ .
तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना । चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ८ ।
तस्य ते विहितः दण्डः न लोके वर्तते अधुना । चतुर्भिः अद्भुतैः सिद्धैः आज्ञा ते विप्रलम्भिता ।
tasya te vihitaḥ daṇḍaḥ na loke vartate adhunā . caturbhiḥ adbhutaiḥ siddhaiḥ ājñā te vipralambhitā .
नीयमानं तवादेशादस्माभिर्यातनागृहान् । व्यामोचयन्पातकिनं छित्त्वा पाशान्प्रसह्य ते ९ ।
नीयमानम् तव आदेशात् अस्माभिः यातना-गृहान् । व्यामोचयन् पातकिनम् छित्त्वा पाशान् प्रसह्य ते ।
nīyamānam tava ādeśāt asmābhiḥ yātanā-gṛhān . vyāmocayan pātakinam chittvā pāśān prasahya te .
तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् । नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् १० ।
तान् ते वेदितुम् इच्छामः यदि नः मन्यसे क्षमम् । नारायण-इति अभिहिते मा भैः इति आययुः द्रुतम् ।
tān te veditum icchāmaḥ yadi naḥ manyase kṣamam . nārāyaṇa-iti abhihite mā bhaiḥ iti āyayuḥ drutam .
श्रीबादरायणिरुवाच ।
इति देवः स आपृष्टः प्रजासंयमनो यमः । प्रीतः स्वदूतान्प्रत्याह स्मरन्पादाम्बुजं हरेः ११ ।
इति देवः सः आपृष्टः प्रजा-संयमनः यमः । प्रीतः स्व-दूतान् प्रत्याह स्मरन् पाद-अम्बुजम् हरेः ।
iti devaḥ saḥ āpṛṣṭaḥ prajā-saṃyamanaḥ yamaḥ . prītaḥ sva-dūtān pratyāha smaran pāda-ambujam hareḥ .
यम उवाच ।
परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् । यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद्यस्य वशे च लोकः १२ ।
परस् मत् अन्यः जगतः तस्थुषः च ओतम् प्रोतम् पट-वत् यत्र विश्वम् । यद्-अंशतः अस्य स्थिति-जन्म-नाशाः नस्य-उतवत्-यस्य वशे च लोकः ।
paras mat anyaḥ jagataḥ tasthuṣaḥ ca otam protam paṭa-vat yatra viśvam . yad-aṃśataḥ asya sthiti-janma-nāśāḥ nasya-utavat-yasya vaśe ca lokaḥ .
यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः । यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति १३ ।
यः नामभिः वाचि जनम् निजायाम् बध्नाति तन्त्र्याम् इव दामभिः गाः । यस्मै बलिम् ते इमे नाम-कर्म निबन्ध-बद्धाः चकिताः वहन्ति ।
yaḥ nāmabhiḥ vāci janam nijāyām badhnāti tantryām iva dāmabhiḥ gāḥ . yasmai balim te ime nāma-karma nibandha-baddhāḥ cakitāḥ vahanti .
अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनो विरिञ्चिः । आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः १४ ।
अहम् महा-इन्द्रः निरृतिः प्रचेताः सोमः अग्निः ईशः पवनः विरिञ्चिः । आदित्य-विश्वे वसवः अथ साध्याः मरुत्-गणाः रुद्र-गणाः स सिद्धाः ।
aham mahā-indraḥ nirṛtiḥ pracetāḥ somaḥ agniḥ īśaḥ pavanaḥ viriñciḥ . āditya-viśve vasavaḥ atha sādhyāḥ marut-gaṇāḥ rudra-gaṇāḥ sa siddhāḥ .
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये १५ ।
अन्ये च ये विश्वसृजः अमर-ईशाः भृगु-आदयः अ स्पृष्ट-रजः-तमस्काः । यस्य ईहितम् न विदुः स्पृष्ट-मायाः सत्त्व-प्रधानाः अपि किम् ततस् अन्ये ।
anye ca ye viśvasṛjaḥ amara-īśāḥ bhṛgu-ādayaḥ a spṛṣṭa-rajaḥ-tamaskāḥ . yasya īhitam na viduḥ spṛṣṭa-māyāḥ sattva-pradhānāḥ api kim tatas anye .
यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते । आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् १६ ।
यम् वै न गोभिः मनसा असुभिः वा हृदा गिरा वा असु-भृतः विचक्षते । आत्मानम् अन्तर् हृदि सन्तम् आत्मनाम् चक्षुः यथा एव आकृतयः ततस् परम् ।
yam vai na gobhiḥ manasā asubhiḥ vā hṛdā girā vā asu-bhṛtaḥ vicakṣate . ātmānam antar hṛdi santam ātmanām cakṣuḥ yathā eva ākṛtayaḥ tatas param .
तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः । प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः १७ ।
तस्य आत्मतन्त्रस्य हरेः अधीशितुः परस्य माया-अधिपतेः महात्मनः । प्रायेण दूताः इह वै मनोहराः चरन्ति तद्-रूप-गुण-स्वभावाः ।
tasya ātmatantrasya hareḥ adhīśituḥ parasya māyā-adhipateḥ mahātmanaḥ . prāyeṇa dūtāḥ iha vai manoharāḥ caranti tad-rūpa-guṇa-svabhāvāḥ .
भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि । रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च १८ ।
भूतानि विष्णोः सुर-पूजितानि दुर्दर्श-लिङ्गानि महा-अद्भुतानि । रक्षन्ति तद्-भक्तिमतः परेभ्यः मत्तः च मर्त्यान् अथ सर्वतस् च ।
bhūtāni viṣṇoḥ sura-pūjitāni durdarśa-liṅgāni mahā-adbhutāni . rakṣanti tad-bhaktimataḥ parebhyaḥ mattaḥ ca martyān atha sarvatas ca .
धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः । न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः १९ ।
धर्मम् तु साक्षात् भगवत्-प्रणीतम् न वै विदुः ऋषयः ना अपि देवाः । न सिद्ध-मुख्याः असुराः मनुष्याः कुतस् नु विद्याधर-चारण-आदयः ।
dharmam tu sākṣāt bhagavat-praṇītam na vai viduḥ ṛṣayaḥ nā api devāḥ . na siddha-mukhyāḥ asurāḥ manuṣyāḥ kutas nu vidyādhara-cāraṇa-ādayaḥ .
स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् २० ।
स्वयम्भूः नारदः शम्भुः कुमारः कपिलः मनुः । प्रह्लादः जनकः भीष्मः बलिः वैयासकिः वयम् ।
svayambhūḥ nāradaḥ śambhuḥ kumāraḥ kapilaḥ manuḥ . prahlādaḥ janakaḥ bhīṣmaḥ baliḥ vaiyāsakiḥ vayam .
द्वादशैते विजानीमो धर्मं भागवतं भटाः । गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते २१ ।
द्वादशा एते विजानीमः धर्मम् भागवतम् भटाः । गुह्यम् विशुद्धम् दुर्बोधम् यम् ज्ञात्वा अमृतम् अश्नुते ।
dvādaśā ete vijānīmaḥ dharmam bhāgavatam bhaṭāḥ . guhyam viśuddham durbodham yam jñātvā amṛtam aśnute .
एतावानेव लोकेऽस्मिन्पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः २२ ।
एतावान् एव लोके अस्मिन् पुंसाम् धर्मः परः स्मृतः । ।
etāvān eva loke asmin puṃsām dharmaḥ paraḥ smṛtaḥ . .
नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत २३ ।
नाम-उच्चारण-माहात्म्यम् हरेः पश्यत पुत्रकाः । अजामिलः अपि येन एव मृत्यु-पाशात् अमुच्यत ।
nāma-uccāraṇa-māhātmyam hareḥ paśyata putrakāḥ . ajāmilaḥ api yena eva mṛtyu-pāśāt amucyata .
एतावतालमघनिर्हरणाय पुंसां । सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्रमघवान्यदजामिलोऽपि । नारायणेति म्रियमाण इयाय मुक्तिम् २४ ।
एतावता अलम् अघ-निर्हरणाय पुंसाम् । सङ्कीर्तनम् भगवतः गुण-कर्म-नाम्नाम् । विक्रुश्य पुत्र-मघवान् यत् अजामिलः अपि । नारायण इति म्रियमाणः इयाय मुक्तिम् ।
etāvatā alam agha-nirharaṇāya puṃsām . saṅkīrtanam bhagavataḥ guṇa-karma-nāmnām . vikruśya putra-maghavān yat ajāmilaḥ api . nārāyaṇa iti mriyamāṇaḥ iyāya muktim .
प्रायेण वेद तदिदं न महाजनोऽयं । देव्या विमोहितमतिर्बत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां । वैतानिके महति कर्मणि युज्यमानः २५ ।
प्रायेण वेद तत् इदम् न महाजनः अयम् । देव्याः विमोहित-मतिः बत मायया अलम् । त्रय्याम् जडीकृत-मतिः मधु-पुष्पितायाम् । वैतानिके महति कर्मणि युज्यमानः ।
prāyeṇa veda tat idam na mahājanaḥ ayam . devyāḥ vimohita-matiḥ bata māyayā alam . trayyām jaḍīkṛta-matiḥ madhu-puṣpitāyām . vaitānike mahati karmaṇi yujyamānaḥ .
एवं विमृश्य सुधियो भगवत्यनन्ते । सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्यथ यद्यमीषां । स्यात्पातकं तदपि हन्त्युरुगायवादः २६ ।
एवम् विमृश्य सुधियः भगवति अनन्ते । सर्व-आत्मना विदधते खलु भाव-योगम् । ते मे न दण्डम् अर्हन्ति अथ यदि अमीषाम् । स्यात् पातकम् तत् अपि हन्ति उरुगाय-वादः ।
evam vimṛśya sudhiyaḥ bhagavati anante . sarva-ātmanā vidadhate khalu bhāva-yogam . te me na daṇḍam arhanti atha yadi amīṣām . syāt pātakam tat api hanti urugāya-vādaḥ .
ते देवसिद्धपरिगीतपवित्रगाथा । ये साधवः समदृशो भगवत्प्रपन्नाः । तान्नोपसीदत हरेर्गदयाभिगुप्तान् । नैषां वयं न च वयः प्रभवाम दण्डे २७ ।
ते देव-सिद्ध-परिगीत-पवित्र-गाथा । ये साधवः समदृशः भगवत्-प्रपन्नाः । तान् न उपसीदत हरेः गदया अभिगुप्तान् । न एषाम् वयम् न च वयः प्रभवाम दण्डे ।
te deva-siddha-parigīta-pavitra-gāthā . ye sādhavaḥ samadṛśaḥ bhagavat-prapannāḥ . tān na upasīdata hareḥ gadayā abhiguptān . na eṣām vayam na ca vayaḥ prabhavāma daṇḍe .
तानानयध्वमसतो विमुखान्मुकुन्द । पादारविन्दमकरन्दरसादजस्रम् । निष्किञ्चनैः परमहंसकुलैरसङ्गैर् । जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् २८ ।
तान् आनयध्वम् असतः विमुखान् मुकुन्द । पाद-अरविन्द-मकरन्द-रसात् अजस्रम् । निष्किञ्चनैः परमहंस-कुलैः असङ्गैः । जुष्टात् गृहे निरय-वर्त्मनि बद्ध-तृष्णान् ।
tān ānayadhvam asataḥ vimukhān mukunda . pāda-aravinda-makaranda-rasāt ajasram . niṣkiñcanaiḥ paramahaṃsa-kulaiḥ asaṅgaiḥ . juṣṭāt gṛhe niraya-vartmani baddha-tṛṣṇān .
जिह्वा न वक्ति भगवद्गुणनामधेयं । चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि । तानानयध्वमसतोऽकृतविष्णुकृत्यान् २९ ।
जिह्वा न वक्ति भगवत्-गुण-नामधेयम् । चेतः च न स्मरति तद्-चरण-अरविन्दम् । कृष्णाय नः नमति यत् शिरः एकदा अपि । तान् आनयध्वम् असतः अ कृत-विष्णु-कृत्यान् ।
jihvā na vakti bhagavat-guṇa-nāmadheyam . cetaḥ ca na smarati tad-caraṇa-aravindam . kṛṣṇāya naḥ namati yat śiraḥ ekadā api . tān ānayadhvam asataḥ a kṛta-viṣṇu-kṛtyān .
तत्क्षम्यतां स भगवान्पुरुषः पुराणो । नारायणः स्वपुरुषैर्यदसत्कृतं नः । स्वानामहो न विदुषां रचिताञ्जलीनां । क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ३० ।
तत् क्षम्यताम् स भगवान् पुरुषः पुराणः । नारायणः स्व-पुरुषैः यत् असत्कृतम् नः । स्वानाम् अहर् न विदुषाम् रचित-अञ्जलीनाम् । क्षान्तिः गरीयसि नमः पुरुषाय भूम्ने ।
tat kṣamyatām sa bhagavān puruṣaḥ purāṇaḥ . nārāyaṇaḥ sva-puruṣaiḥ yat asatkṛtam naḥ . svānām ahar na viduṣām racita-añjalīnām . kṣāntiḥ garīyasi namaḥ puruṣāya bhūmne .
तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ३१ ।
तस्मात् सङ्कीर्तनम् विष्णोः जगत्-मङ्गलम् अंहसाम् । महताम् अपि कौरव्य विद्धि ऐकान्तिक-निष्कृतम् ।
tasmāt saṅkīrtanam viṣṇoḥ jagat-maṅgalam aṃhasām . mahatām api kauravya viddhi aikāntika-niṣkṛtam .
शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः । यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ३२ ।
शृण्वताम् गृणताम् वीर्याणि उद्दामानि हरेः मुहुर् । यथा सु जातया भक्त्या शुद्ध्या इद् न आत्मा व्रत-आदिभिः ।
śṛṇvatām gṛṇatām vīryāṇi uddāmāni hareḥ muhur . yathā su jātayā bhaktyā śuddhyā id na ātmā vrata-ādibhiḥ .
कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट । मायागुणेषु रमते वृजिनावहेषु । अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् । ईहेत कर्म यत एव रजः पुनः स्यात् ३३ ।
न पुनर् विसृष्ट । माया-गुणेषु रमते वृजिन-आवहेषु । अन्यः तु काम-हतः आत्म-रजः प्रमार्ष्टुम् । ईहेत कर्म यतस् एव रजः पुनर् स्यात् ।
na punar visṛṣṭa . māyā-guṇeṣu ramate vṛjina-āvaheṣu . anyaḥ tu kāma-hataḥ ātma-rajaḥ pramārṣṭum . īheta karma yatas eva rajaḥ punar syāt .
इत्थं स्वभर्तृगदितं भगवन्महित्वं । संस्मृत्य विस्मितधियो यमकिङ्करास्ते । नैवाच्युताश्रयजनं प्रतिशङ्कमाना । द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ३४ ।
इत्थम् स्व-भर्तृ-गदितम् भगवत्-महित्वम् । संस्मृत्य विस्मित-धियः यम-किङ्कराः ते । न एव अच्युत-आश्रय-जनम् प्रतिशङ्कमाना । द्रष्टुम् च बिभ्यति ततस् प्रभृति स्म राजन् ।
ittham sva-bhartṛ-gaditam bhagavat-mahitvam . saṃsmṛtya vismita-dhiyaḥ yama-kiṅkarāḥ te . na eva acyuta-āśraya-janam pratiśaṅkamānā . draṣṭum ca bibhyati tatas prabhṛti sma rājan .
इतिहासमिमं गुह्यं भगवान्कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन् ३५ ।
इतिहासम् इमम् गुह्यम् भगवान् कुम्भसम्भवः । कथयामास मलये आसीनः हरिम् अर्चयन् ।
itihāsam imam guhyam bhagavān kumbhasambhavaḥ . kathayāmāsa malaye āsīnaḥ harim arcayan .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे यम-पुरुष-संवादे तृतीयः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe yama-puruṣa-saṃvāde tṛtīyaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In