| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे १ ।
देव-असुर-नृणाम् सर्गः नागानाम् मृग-पक्षिणाम् । सामासिकः त्वया प्रोक्तः यः तु स्वायम्भुवे अन्तरे ।
deva-asura-nṛṇām sargaḥ nāgānām mṛga-pakṣiṇām . sāmāsikaḥ tvayā proktaḥ yaḥ tu svāyambhuve antare .
तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान्परः २ ।
तस्य एव व्यासम् इच्छामि ज्ञातुम् ते भगवन् यथा । अनुसर्गम् यया शक्त्या ससर्ज भगवान् परः ।
tasya eva vyāsam icchāmi jñātum te bhagavan yathā . anusargam yayā śaktyā sasarja bhagavān paraḥ .
श्रीसूत उवाच ।
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ३ ।
इति सम्प्रश्नम् आकर्ण्य राजर्षेः बादरायणिः । प्रतिनन्द्य महा-योगी जगाद मुनि-सत्तमाः ।
iti sampraśnam ākarṇya rājarṣeḥ bādarāyaṇiḥ . pratinandya mahā-yogī jagāda muni-sattamāḥ .
श्रीशुक उवाच ।
यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः । अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ४ ।
यदा प्रचेतसः पुत्राः दश प्राचीनबर्हिषः । अन्तर् समुद्रात् उन्मग्नाः ददृशुः गाम् द्रुमैः वृताम् ।
yadā pracetasaḥ putrāḥ daśa prācīnabarhiṣaḥ . antar samudrāt unmagnāḥ dadṛśuḥ gām drumaiḥ vṛtām .
द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ५ ।
द्रुमेभ्यः क्रुध्यमानाः ते तपः-दीपित-मन्यवः । मुखतः वायुम् अग्निम् च ससृजुः तद्-दिधक्षया ।
drumebhyaḥ krudhyamānāḥ te tapaḥ-dīpita-manyavaḥ . mukhataḥ vāyum agnim ca sasṛjuḥ tad-didhakṣayā .
ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह । राजोवाच महान्सोमो मन्युं प्रशमयन्निव ६ ।
ताभ्याम् निर्दह्यमानान् तान् उपलभ्य कुरु-उद्वह । राजा उवाच महान् सोमः मन्युम् प्रशमयन् इव ।
tābhyām nirdahyamānān tān upalabhya kuru-udvaha . rājā uvāca mahān somaḥ manyum praśamayan iva .
न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ७ ।
न द्रुमेभ्यः महाभागाः दीनेभ्यः द्रोग्धुम् अर्हथ । विवर्धयिषवः यूयम् प्रजानाम् पतयः स्मृताः ।
na drumebhyaḥ mahābhāgāḥ dīnebhyaḥ drogdhum arhatha . vivardhayiṣavaḥ yūyam prajānām patayaḥ smṛtāḥ .
अहो प्रजापतिपतिर्भगवान्हरिरव्ययः । वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ८ ।
अहो प्रजापति-पतिः भगवान् हरिः अव्ययः । वनस्पतीन् ओषधीः च ससर्ज ऊर्जम् इषम् विभुः ।
aho prajāpati-patiḥ bhagavān hariḥ avyayaḥ . vanaspatīn oṣadhīḥ ca sasarja ūrjam iṣam vibhuḥ .
अन्नं चराणामचरा ह्यपदः पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ९ ।
अन्नम् चराणाम् अचराः हि अ पदः पाद-चारिणाम् । अहस्ताः हस्त-युक्तानाम् द्विपदाम् च चतुष्पदः ।
annam carāṇām acarāḥ hi a padaḥ pāda-cāriṇām . ahastāḥ hasta-yuktānām dvipadām ca catuṣpadaḥ .
यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः । प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ १० ।
यूयम् च पित्रा अन्वादिष्टाः देवदेवेन च अनघाः । प्रजा-सर्गाय हि कथम् वृक्षान् निर्दग्धुम् अर्हथ ।
yūyam ca pitrā anvādiṣṭāḥ devadevena ca anaghāḥ . prajā-sargāya hi katham vṛkṣān nirdagdhum arhatha .
आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ११ ।
आतिष्ठत सताम् मार्गम् कोपम् यच्छत दीपितम् । पित्रा पितामहेन अपि जुष्टम् वः प्रपितामहैः ।
ātiṣṭhata satām mārgam kopam yacchata dīpitam . pitrā pitāmahena api juṣṭam vaḥ prapitāmahaiḥ .
तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः । पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् १२ ।
तोकानाम् पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः । पतिः प्रजानाम् भिक्षूणाम् गृह्य-ज्ञानाम् बुधः सुहृद् ।
tokānām pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ . patiḥ prajānām bhikṣūṇām gṛhya-jñānām budhaḥ suhṛd .
अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ १३ ।
अन्तर् देहेषु भूतानाम् आत्मा आस्ते हरिः ईश्वरः । सर्वम् तत् धिष्ण्यम् ईक्षध्वम् एवम् वः तोषितः हि असौ ।
antar deheṣu bhūtānām ātmā āste hariḥ īśvaraḥ . sarvam tat dhiṣṇyam īkṣadhvam evam vaḥ toṣitaḥ hi asau .
यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते १४ ।
यः समुत्पतितम् देहे आकाशात् मन्युम् उल्बणम् । आत्म-जिज्ञासया यच्छेत् स गुणान् अतिवर्तते ।
yaḥ samutpatitam dehe ākāśāt manyum ulbaṇam . ātma-jijñāsayā yacchet sa guṇān ativartate .
अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः । वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् १५ ।
अलम् दग्धैः द्रुमैः दीनैः खिलानाम् शिवम् अस्तु वः । वार्क्षी हि एषा वरा कन्या पत्नी-त्वे प्रतिगृह्यताम् ।
alam dagdhaiḥ drumaiḥ dīnaiḥ khilānām śivam astu vaḥ . vārkṣī hi eṣā varā kanyā patnī-tve pratigṛhyatām .
इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे १६ ।
इति आमन्त्र्य वरारोहाम् कन्याम् आप्सरसीम् नृप । सोमः राजा ययौ दत्त्वा ते धर्मेण उपयेमिरे ।
iti āmantrya varārohām kanyām āpsarasīm nṛpa . somaḥ rājā yayau dattvā te dharmeṇa upayemire .
तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः १७ ।
तेभ्यः तस्याम् समभवत् दक्षः प्राचेतसः किल । यस्य प्रजा-विसर्गेण लोकाः आपूरिताः त्रयः ।
tebhyaḥ tasyām samabhavat dakṣaḥ prācetasaḥ kila . yasya prajā-visargeṇa lokāḥ āpūritāḥ trayaḥ .
यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः । रेतसा मनसा चैव तन्ममावहितः शृणु १८ ।
यथा ससर्ज भूतानि दक्षः दुहितृ-वत्सलः । रेतसा मनसा च एव तत् मम अवहितः शृणु ।
yathā sasarja bhūtāni dakṣaḥ duhitṛ-vatsalaḥ . retasā manasā ca eva tat mama avahitaḥ śṛṇu .
मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः । देवासुरमनुष्यादीन्नभःस्थलजलौकसः १९ ।
मनसा एव असृजत् पूर्वम् प्रजापतिः इमाः प्रजाः । देव-असुर-मनुष्य-आदीन् नभः-स्थल-जल-ओकसः ।
manasā eva asṛjat pūrvam prajāpatiḥ imāḥ prajāḥ . deva-asura-manuṣya-ādīn nabhaḥ-sthala-jala-okasaḥ .
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः २० ।
तम् अ बृंहितम् आलोक्य प्रजा-सर्गम् प्रजापतिः । विन्ध्य-पादान् उपव्रज्य सः अचरत् दुष्करम् तपः ।
tam a bṛṃhitam ālokya prajā-sargam prajāpatiḥ . vindhya-pādān upavrajya saḥ acarat duṣkaram tapaḥ .
तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसातोषयद्धरिम् २१ ।
तत्र अघमर्षणम् नाम तीर्थम् पाप-हरम् परम् । उपस्पृश्य अनुसवनम् तपसा अतोषयत् हरिम् ।
tatra aghamarṣaṇam nāma tīrtham pāpa-haram param . upaspṛśya anusavanam tapasā atoṣayat harim .
अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः २२ ।
अस्तौषीत् हंस-गुह्येन भगवन्तम् अधोक्षजम् । तुभ्यम् तत् अभिधास्यामि कस्य अतुष्यत् यथा हरिः ।
astauṣīt haṃsa-guhyena bhagavantam adhokṣajam . tubhyam tat abhidhāsyāmi kasya atuṣyat yathā hariḥ .
श्रीप्रजापतिरुवाच ।
नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानाय दधे स्वयम्भुवे २३ ।
नमः परस्मै अवितथ-अनुभूतये गुणत्रय-आभास-निमित्त-बन्धवे । अदृष्ट-धाम्ने गुण-तत्त्व-बुद्धिभिः निवृत्त-मानाय दधे स्वयम्भुवे ।
namaḥ parasmai avitatha-anubhūtaye guṇatraya-ābhāsa-nimitta-bandhave . adṛṣṭa-dhāmne guṇa-tattva-buddhibhiḥ nivṛtta-mānāya dadhe svayambhuve .
न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन्संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि २४ ।
न यस्य सख्यम् पुरुषः अवैति सख्युः सखा वसन् संवसतः पुरे अस्मिन् । गुणः यथा गुणिनः व्यक्त-दृष्टेः तस्मै महेशाय नमस्करोमि ।
na yasya sakhyam puruṣaḥ avaiti sakhyuḥ sakhā vasan saṃvasataḥ pure asmin . guṇaḥ yathā guṇinaḥ vyakta-dṛṣṭeḥ tasmai maheśāya namaskaromi .
देहोऽसवोऽक्षा मनवो भूतमात्रामात्मानमन्यं च विदुः परं यत् । सर्वं पुमान्वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे २५ ।
देहः असवः अक्षाः मनवः भूतमात्राम् आत्मानम् अन्यम् च विदुः परम् यत् । सर्वम् पुमान् वेद गुणान् च तद्-ज्ञः न वेद सर्वज्ञम् अनन्तम् ईडे ।
dehaḥ asavaḥ akṣāḥ manavaḥ bhūtamātrām ātmānam anyam ca viduḥ param yat . sarvam pumān veda guṇān ca tad-jñaḥ na veda sarvajñam anantam īḍe .
यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः २६ ।
यदा उपरामः मनसः रूपस्य दृष्ट-स्मृति-सम्प्रमोषात् । यः ईयते केवलया स्व-संस्थया हंसाय तस्मै शुचि-सद्मने नमः ।
yadā uparāmaḥ manasaḥ rūpasya dṛṣṭa-smṛti-sampramoṣāt . yaḥ īyate kevalayā sva-saṃsthayā haṃsāya tasmai śuci-sadmane namaḥ .
मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् २७ ।
मनीषिणः अन्तर् हृदि सन्निवेशितम् स्व-शक्तिभिः नवभिः च त्रिवृद्भिः । वह्निम् यथा दारुणि पाञ्चदश्यम् मनीषया निष्कर्षन्ति गूढम् ।
manīṣiṇaḥ antar hṛdi sanniveśitam sva-śaktibhiḥ navabhiḥ ca trivṛdbhiḥ . vahnim yathā dāruṇi pāñcadaśyam manīṣayā niṣkarṣanti gūḍham .
स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः २८ ।
स वै मम अशेष-विशेष-माया निषेध-निर्वाण-सुख-अनुभूतिः । स सर्व-नामा स च विश्व-रूपः प्रसीदताम् अनिरुक्त-आत्म-शक्तिः ।
sa vai mama aśeṣa-viśeṣa-māyā niṣedha-nirvāṇa-sukha-anubhūtiḥ . sa sarva-nāmā sa ca viśva-rūpaḥ prasīdatām anirukta-ātma-śaktiḥ .
यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसा वोत यस्य । मा भूत्स्वरूपं गुणरूपं हि तत्तत्स वै गुणापायविसर्गलक्षणः २९ ।
यत् यत् निरुक्तम् वचसा निरूपितम् धिया अक्षभिः वा मनसा वा उत यस्य । मा भूत् स्व-रूपम् गुण-रूपम् हि तत् तत् स वै गुण-अपाय-विसर्ग-लक्षणः ।
yat yat niruktam vacasā nirūpitam dhiyā akṣabhiḥ vā manasā vā uta yasya . mā bhūt sva-rūpam guṇa-rūpam hi tat tat sa vai guṇa-apāya-visarga-lakṣaṇaḥ .
यस्मिन्यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक्प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ३० ।
यस्मिन् यतस् येन च यस्य यस्मै यत् यः यथा कुरुते कार्यते च । परावरेषाम् परमम् प्राक् प्रसिद्धम् तत् ब्रह्म तद्-हेतुः अनन्यत् एकम् ।
yasmin yatas yena ca yasya yasmai yat yaḥ yathā kurute kāryate ca . parāvareṣām paramam prāk prasiddham tat brahma tad-hetuḥ ananyat ekam .
यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ३१ ।
यत् शक्तयः वदताम् वादिनाम् वै विवाद-संवाद-भुवः भवन्ति । कुर्वन्ति च एषाम् मुहुर् आत्म-मोहम् तस्मै नमः अनन्त-गुणाय भूम्ने ।
yat śaktayaḥ vadatām vādinām vai vivāda-saṃvāda-bhuvaḥ bhavanti . kurvanti ca eṣām muhur ātma-moham tasmai namaḥ ananta-guṇāya bhūmne .
अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मणोः । अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् ३२ ।
अस्ति इति न अस्ति इति च वस्तु-निष्ठयोः एकस्थयोः भिन्न-विरुद्ध-धर्मणोः । अवेक्षितम् किञ्चन योग-साङ्ख्ययोः समम् परम् हि अनुकूलम् बृहत् तत् ।
asti iti na asti iti ca vastu-niṣṭhayoḥ ekasthayoḥ bhinna-viruddha-dharmaṇoḥ . avekṣitam kiñcana yoga-sāṅkhyayoḥ samam param hi anukūlam bṛhat tat .
योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ३३ ।
यः अनुग्रह-अर्थम् भजताम् पाद-मूलम् अ नाम-रूपः भगवान् अनन्तः । नामानि रूपाणि च जन्म-कर्मभिः भेजे स मह्यम् परमः प्रसीदतु ।
yaḥ anugraha-artham bhajatām pāda-mūlam a nāma-rūpaḥ bhagavān anantaḥ . nāmāni rūpāṇi ca janma-karmabhiḥ bheje sa mahyam paramaḥ prasīdatu .
यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् ३४ ।
यः प्राकृतैः ज्ञान-पथैः जनानाम् यथाशयम् देह-गतः विभाति । यथा अनिलः पार्थिवम् आश्रितः गुणम् सः ईश्वरः मे कुरुताम् मनोरथम् ।
yaḥ prākṛtaiḥ jñāna-pathaiḥ janānām yathāśayam deha-gataḥ vibhāti . yathā anilaḥ pārthivam āśritaḥ guṇam saḥ īśvaraḥ me kurutām manoratham .
श्रीशुक उवाच ।
इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे । प्रादुरासीत्कुरुश्रेष्ठ भगवान्भक्तवत्सलः ३५ ।
इति स्तुतः संस्तुवतः स तस्मिन् अघमर्षणे । प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्त-वत्सलः ।
iti stutaḥ saṃstuvataḥ sa tasmin aghamarṣaṇe . prādurāsīt kuruśreṣṭha bhagavān bhakta-vatsalaḥ .
कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः । चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ३६ ।
कृत-पादः सुपर्ण-अंसे प्रलम्ब-अष्ट-महा-भुजः । चक्र-शङ्ख-असि-चर्मेषु धनुः-पाश-गदा-धरः ।
kṛta-pādaḥ suparṇa-aṃse pralamba-aṣṭa-mahā-bhujaḥ . cakra-śaṅkha-asi-carmeṣu dhanuḥ-pāśa-gadā-dharaḥ .
पीतवासा घनश्यामः प्रसन्नवदनेक्षणः । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ३७ ।
पीत-वासाः घन-श्यामः प्रसन्न-वदन-ईक्षणः । वनमाला-निवीत-अङ्गः लसत्-श्रीवत्स-कौस्तुभः ।
pīta-vāsāḥ ghana-śyāmaḥ prasanna-vadana-īkṣaṇaḥ . vanamālā-nivīta-aṅgaḥ lasat-śrīvatsa-kaustubhaḥ .
महाकिरीटकटकः स्फुरन्मकरकुण्डलः । काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः ३८ ।
। काञ्चि-अङ्गुलीय-वलय-नूपुर-अङ्गद-भूषितः ।
. kāñci-aṅgulīya-valaya-nūpura-aṅgada-bhūṣitaḥ .
त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः । वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ३९ ।
त्रैलोक्य-मोहनम् रूपम् बिभ्रत् त्रिभुवन-ईश्वरः । वृतः नारद-नन्द-आद्यैः पार्षदैः सुर-यूथपैः ।
trailokya-mohanam rūpam bibhrat tribhuvana-īśvaraḥ . vṛtaḥ nārada-nanda-ādyaiḥ pārṣadaiḥ sura-yūthapaiḥ .
स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः । रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ४० ।
स्तूयमानः अनुगायद्भिः सिद्ध-गन्धर्व-चारणैः । रूपम् तत् महत् आश्चर्यम् विचक्ष्य आगत-साध्वसः ।
stūyamānaḥ anugāyadbhiḥ siddha-gandharva-cāraṇaiḥ . rūpam tat mahat āścaryam vicakṣya āgata-sādhvasaḥ .
ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः । न किञ्चनोदीरयितुमशकत्तीव्रया मुदा । आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ४१ ।
ननाम दण्ड-वत् भूमौ प्रहृष्ट-आत्मा प्रजापतिः । न किञ्चन उदीरयितुम् अशकत् तीव्रया मुदा । आपूरित-मनः-द्वारैः ह्रदिन्यः इव निर्झरैः ।
nanāma daṇḍa-vat bhūmau prahṛṣṭa-ātmā prajāpatiḥ . na kiñcana udīrayitum aśakat tīvrayā mudā . āpūrita-manaḥ-dvāraiḥ hradinyaḥ iva nirjharaiḥ .
तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ४२ ।
तम् तथा अवनतम् भक्तम् प्रजा-कामम् प्रजापतिम् । चित्त-ज्ञः सर्व-भूतानाम् इदम् आह जनार्दनः ।
tam tathā avanatam bhaktam prajā-kāmam prajāpatim . citta-jñaḥ sarva-bhūtānām idam āha janārdanaḥ .
श्रीभगवानुवाच ।
प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच्छ्रद्धया मत्परया मयि भावं परं गतः ४३ ।
प्राचेतस महाभाग संसिद्धः तपसा भवान् । यद्-श्रद्धया मद्-परया मयि भावम् परम् गतः ।
prācetasa mahābhāga saṃsiddhaḥ tapasā bhavān . yad-śraddhayā mad-parayā mayi bhāvam param gataḥ .
प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद्भूयासुर्विभूतयः ४४ ।
प्रीतः अहम् ते प्रजानाथ यत् ते अस्य उद्बृंहणम् तपः । मम एष कामः भूतानाम् यत् भूयासुः विभूतयः ।
prītaḥ aham te prajānātha yat te asya udbṛṃhaṇam tapaḥ . mama eṣa kāmaḥ bhūtānām yat bhūyāsuḥ vibhūtayaḥ .
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्येता भूतानां भूतिहेतवः ४५ ।
ब्रह्मा भवः भवन्तः च मनवः विबुध-ईश्वराः । विभूतयः मम हि एताः भूतानाम् भूति-हेतवः ।
brahmā bhavaḥ bhavantaḥ ca manavaḥ vibudha-īśvarāḥ . vibhūtayaḥ mama hi etāḥ bhūtānām bhūti-hetavaḥ .
तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः । अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ४६ ।
तपः मे हृदयम् ब्रह्मन् तनुः विद्या क्रिया आकृतिः । अङ्गानि क्रतवः जाताः धर्मः आत्मा असवः सुराः ।
tapaḥ me hṛdayam brahman tanuḥ vidyā kriyā ākṛtiḥ . aṅgāni kratavaḥ jātāḥ dharmaḥ ātmā asavaḥ surāḥ .
अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ४७ ।
अहम् एव आसम् एव अग्रे न अन्यत् किञ्च अन्तरम् बहिस् । संज्ञान-मात्रम् अव्यक्तम् प्रसुप्तम् इव विश्वतस् ।
aham eva āsam eva agre na anyat kiñca antaram bahis . saṃjñāna-mātram avyaktam prasuptam iva viśvatas .
मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः । यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ४८ ।
मयि अनन्त-गुणे अनन्ते गुणतः गुण-विग्रहः । यदा आसीत् ततस् एव आद्यः स्वयम्भूः समभूत् अजः ।
mayi ananta-guṇe anante guṇataḥ guṇa-vigrahaḥ . yadā āsīt tatas eva ādyaḥ svayambhūḥ samabhūt ajaḥ .
स वै यदा महादेवो मम वीर्योपबृंहितः । मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि ४९ ।
स वै यदा महादेवः मम वीर्य-उपबृंहितः । मेने खिलम् इव आत्मानम् उद्यतः स्वर्ग-कर्मणि ।
sa vai yadā mahādevaḥ mama vīrya-upabṛṃhitaḥ . mene khilam iva ātmānam udyataḥ svarga-karmaṇi .
अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् । नव विश्वसृजो युष्मान्येनादावसृजद्विभुः ५० ।
अथ मे अभिहितः देवः तपः अतप्यत दारुणम् । नव विश्वसृजः युष्मान् येन आदौ असृजत् विभुः ।
atha me abhihitaḥ devaḥ tapaḥ atapyata dāruṇam . nava viśvasṛjaḥ yuṣmān yena ādau asṛjat vibhuḥ .
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ५१ ।
एषा पञ्चजनस्य अङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नी-त्वे प्रजा ईश प्रतिगृह्यताम् ।
eṣā pañcajanasya aṅga duhitā vai prajāpateḥ . asiknī nāma patnī-tve prajā īśa pratigṛhyatām .
मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ५२ ।
मिथुन-व्यवाय-धर्मः त्वम् प्रजा-सर्गम् इमम् पुनर् । मिथुन-व्यवाय-धर्मिण्याम् भूरिशस् भावयिष्यसि ।
mithuna-vyavāya-dharmaḥ tvam prajā-sargam imam punar . mithuna-vyavāya-dharmiṇyām bhūriśas bhāvayiṣyasi .
त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ५३ ।
त्वत्तः अधस्तात् प्रजाः सर्वाः मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ।
tvattaḥ adhastāt prajāḥ sarvāḥ mithunībhūya māyayā . madīyayā bhaviṣyanti hariṣyanti ca me balim .
श्रीशुक उवाच ।
इत्युक्त्वा मिषतस्तस्य भगवान्विश्वभावनः । स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ५४ ।
इति उक्त्वा मिषतः तस्य भगवान् विश्वभावनः । स्वप्न-उपलब्ध-अर्थः इव तत्र एव अन्तर्दधे हरिः ।
iti uktvā miṣataḥ tasya bhagavān viśvabhāvanaḥ . svapna-upalabdha-arthaḥ iva tatra eva antardadhe hariḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे चतुर्थः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe caturthaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In