| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः १ ।
तस्याम् स पाञ्चजन्याम् वै विष्णु-माया-उपबृंहितः । हर्यश्व-संज्ञान-युतम् पुत्रान् अजनयत् विभुः ।
tasyām sa pāñcajanyām vai viṣṇu-māyā-upabṛṃhitaḥ . haryaśva-saṃjñāna-yutam putrān ajanayat vibhuḥ .
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् २ ।
अपृथक् धर्म-शीलाः ते सर्वे दाक्षायणाः नृप । पित्रा प्रोक्ताः प्रजा-सर्गे प्रतीचीम् प्रययुः दिशम् ।
apṛthak dharma-śīlāḥ te sarve dākṣāyaṇāḥ nṛpa . pitrā proktāḥ prajā-sarge pratīcīm prayayuḥ diśam .
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ३ ।
तत्र नारायणसरः तीर्थम् सिन्धु-समुद्रयोः । सङ्गमः यत्र सु महत् मुनि-सिद्ध-निषेवितम् ।
tatra nārāyaṇasaraḥ tīrtham sindhu-samudrayoḥ . saṅgamaḥ yatra su mahat muni-siddha-niṣevitam .
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ४ ।
तद्-उपस्पर्शनात् एव विनिर्धूत-मल-आशयाः । धर्मे पारमहंस्ये च प्रोत्पन्न-मतयः अपि उत ।
tad-upasparśanāt eva vinirdhūta-mala-āśayāḥ . dharme pāramahaṃsye ca protpanna-matayaḥ api uta .
तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः । प्रजाविवृद्धये यत्तान्देवर्षिस्तान्ददर्श ह ५ ।
तेपिरे तपः एव उग्रम् पितृ-आदेशेन यन्त्रिताः । प्रजा-विवृद्धये यत् तान् देवर्षिः तान् ददर्श ह ।
tepire tapaḥ eva ugram pitṛ-ādeśena yantritāḥ . prajā-vivṛddhaye yat tān devarṣiḥ tān dadarśa ha .
उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः । अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ६ ।
उवाच च अथ हर्यश्वाः कथम् स्रक्ष्यथ वै प्रजाः । अ दृष्ट्वा अन्तम् भुवः यूयम् बालिशाः बत पालकाः ।
uvāca ca atha haryaśvāḥ katham srakṣyatha vai prajāḥ . a dṛṣṭvā antam bhuvaḥ yūyam bāliśāḥ bata pālakāḥ .
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ७ ।
तथा एक-पुरुषम् राष्ट्रम् बिलम् च अदृष्ट-निर्गमम् । बहु-रूपाम् स्त्रियम् च अपि पुमांसम् पुंश्चली-पतिम् ।
tathā eka-puruṣam rāṣṭram bilam ca adṛṣṭa-nirgamam . bahu-rūpām striyam ca api pumāṃsam puṃścalī-patim .
नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् । क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम् ८ ।
नदीम् उभयतस् पञ्च-पञ्च-अद्भुतम् गृहम् । क्वचिद् हंसम् चित्रकथम् क्षौर-पव्यम् स्वयम् भ्रमिम् ।
nadīm ubhayatas pañca-pañca-adbhutam gṛham . kvacid haṃsam citrakatham kṣaura-pavyam svayam bhramim .
कथं स्वपितुरादेशमविद्वांसो विपश्चितः । अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ९ ।
कथम् स्व-पितुः आदेशम् अ विद्वांसः विपश्चितः । अनुरूपम् अ विज्ञाय अहो सर्गम् करिष्यथ ।
katham sva-pituḥ ādeśam a vidvāṃsaḥ vipaścitaḥ . anurūpam a vijñāya aho sargam kariṣyatha .
श्रीशुक उवाच ।
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया १० ।
तत् निशम्य अथ हर्यश्वाः औत्पत्तिक-मनीषया । वाचः कूटम् तु देवर्षेः स्वयम् विममृशुः धिया ।
tat niśamya atha haryaśvāḥ autpattika-manīṣayā . vācaḥ kūṭam tu devarṣeḥ svayam vimamṛśuḥ dhiyā .
भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ११ ।
भूः क्षेत्रम् जीव-संज्ञम् यत् अनादि निज-बन्धनम् । अ दृष्ट्वा तस्य निर्वाणम् किम् असत्-कर्मभिः भवेत् ।
bhūḥ kṣetram jīva-saṃjñam yat anādi nija-bandhanam . a dṛṣṭvā tasya nirvāṇam kim asat-karmabhiḥ bhavet .
एक एवेश्वरस्तुर्यो भगवान्स्वाश्रयः परः । तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् १२ ।
एकः एव ईश्वरः तुर्यः भगवान् स्वाश्रयः परः । तम् अ दृष्ट्वा अभवम् पुंसः किम् असत्-कर्मभिः भवेत् ।
ekaḥ eva īśvaraḥ turyaḥ bhagavān svāśrayaḥ paraḥ . tam a dṛṣṭvā abhavam puṃsaḥ kim asat-karmabhiḥ bhavet .
पुमान्नैवैति यद्गत्वा बिलस्वर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् १३ ।
पुमान् ना एव एति यत् गत्वा बिल-स्वर्गम् गतः यथा । प्रत्यग्धामा विदः इह किम् असत्-कर्मभिः भवेत् ।
pumān nā eva eti yat gatvā bila-svargam gataḥ yathā . pratyagdhāmā vidaḥ iha kim asat-karmabhiḥ bhavet .
नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् १४ ।
नाना रूप-आत्मनः बुद्धिः स्वैरिणी इव गुण-अन्विता । तद्-निष्ठाम् अगतस्य इह किम् असत्-कर्मभिः भवेत् ।
nānā rūpa-ātmanaḥ buddhiḥ svairiṇī iva guṇa-anvitā . tad-niṣṭhām agatasya iha kim asat-karmabhiḥ bhavet .
तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् १५ ।
तद्-सङ्ग-भ्रंशित-ऐश्वर्यम् संसरन्तम् कु भार्या-वत् । तद्-गतीः अबुधस्य इह किम् असत्-कर्मभिः भवेत् ।
tad-saṅga-bhraṃśita-aiśvaryam saṃsarantam ku bhāryā-vat . tad-gatīḥ abudhasya iha kim asat-karmabhiḥ bhavet .
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् १६ ।
सृष्टि-अप्यय-करीम् मायाम् वेला-कूल-अन्त-वेगिताम् । मत्तस्य ताम् अविज्ञस्य किम् असत्-कर्मभिः भवेत् ।
sṛṣṭi-apyaya-karīm māyām velā-kūla-anta-vegitām . mattasya tām avijñasya kim asat-karmabhiḥ bhavet .
पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणः । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् १७ ।
पञ्चविंशति-तत्त्वानाम् पुरुषः अद्भुत-दर्पणः । अध्यात्मम् अबुधस्य इह किम् असत्-कर्मभिः भवेत् ।
pañcaviṃśati-tattvānām puruṣaḥ adbhuta-darpaṇaḥ . adhyātmam abudhasya iha kim asat-karmabhiḥ bhavet .
ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् १८ ।
ऐश्वरम् शास्त्रम् उत्सृज्य बन्ध-मोक्ष-अनुदर्शनम् । विविक्त-पदम् अ ज्ञाय किम् असत्-कर्मभिः भवेत् ।
aiśvaram śāstram utsṛjya bandha-mokṣa-anudarśanam . vivikta-padam a jñāya kim asat-karmabhiḥ bhavet .
कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत् । स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् १९ ।
कालचक्रम् भ्रमिः तीक्ष्णम् सर्वम् निष्कर्षयत् जगत् । स्वतन्त्रम् अबुधस्य इह किम् असत्-कर्मभिः भवेत् ।
kālacakram bhramiḥ tīkṣṇam sarvam niṣkarṣayat jagat . svatantram abudhasya iha kim asat-karmabhiḥ bhavet .
शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् २० ।
शास्त्रस्य पितुः आदेशम् यः न वेद निवर्तकम् । कथम् तद्-अनुरूपाय गुण-विस्रम्भी उपक्रमेत् ।
śāstrasya pituḥ ādeśam yaḥ na veda nivartakam . katham tad-anurūpāya guṇa-visrambhī upakramet .
इति व्यवसिता राजन्हर्यश्वा एकचेतसः । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् २१ ।
इति व्यवसिताः राजन् हर्यश्वाः एकचेतसः । प्रययुः तम् परिक्रम्य पन्थानम् अनिवर्तनम् ।
iti vyavasitāḥ rājan haryaśvāḥ ekacetasaḥ . prayayuḥ tam parikramya panthānam anivartanam .
स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः २२ ।
स्वरब्रह्मणि निर्भात हृषीकेश-पद-अम्बुजे । अखण्डम् चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ।
svarabrahmaṇi nirbhāta hṛṣīkeśa-pada-ambuje . akhaṇḍam cittam āveśya lokān anucaran muniḥ .
नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् । अन्वतप्यत कः शोचन्सुप्रजस्त्वं शुचां पदम् २३ ।
नाशम् निशम्य पुत्राणाम् नारदात् शील-शालिनाम् । अन्वतप्यत कः शोचन् सुप्रजः-त्वम् शुचाम् पदम् ।
nāśam niśamya putrāṇām nāradāt śīla-śālinām . anvatapyata kaḥ śocan suprajaḥ-tvam śucām padam .
स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः । पुत्रानजनयद्दक्षः सवलाश्वान्सहस्रिणः २४ ।
स भूयस् पाञ्चजन्यायाम् अजेन परिसान्त्वितः । पुत्रान् अजनयत् दक्षः स वलाश्वान् सहस्रिणः ।
sa bhūyas pāñcajanyāyām ajena parisāntvitaḥ . putrān ajanayat dakṣaḥ sa valāśvān sahasriṇaḥ .
ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः । नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः २५ ।
ते च पित्रा समादिष्टाः प्रजा-सर्गे धृत-व्रताः । नारायण-सरः जग्मुः यत्र सिद्धाः स्व-पूर्वजाः ।
te ca pitrā samādiṣṭāḥ prajā-sarge dhṛta-vratāḥ . nārāyaṇa-saraḥ jagmuḥ yatra siddhāḥ sva-pūrvajāḥ .
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । जपन्तो ब्रह्म परमं तेपुस्तत्र महत्तपः २६ ।
तद्-उपस्पर्शनात् एव विनिर्धूत-मल-आशयाः । जपन्तः ब्रह्म परमम् तेपुः तत्र महत् तपः ।
tad-upasparśanāt eva vinirdhūta-mala-āśayāḥ . japantaḥ brahma paramam tepuḥ tatra mahat tapaḥ .
अब्भक्षाः कतिचिन्मासान्कतिचिद्वायुभोजनाः । आराधयन्मन्त्रमिममभ्यस्यन्त इडस्पतिम् २७ ।
अब्भक्षाः कतिचिद् मासान् कतिचिद् वायुभोजनाः । आराधयत् मन्त्रम् इमम् अभ्यस्यन्तः इडस्पतिम् ।
abbhakṣāḥ katicid māsān katicid vāyubhojanāḥ . ārādhayat mantram imam abhyasyantaḥ iḍaspatim .
ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि २८ ।
ओम् नमः नारायणाय पुरुषाय महात्मने । विशुद्ध-सत्त्व-धिष्ण्याय महाहंसाय धीमहि ।
om namaḥ nārāyaṇāya puruṣāya mahātmane . viśuddha-sattva-dhiṣṇyāya mahāhaṃsāya dhīmahi .
इति तानपि राजेन्द्र प्रजासर्गधियो मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् २९ ।
इति तान् अपि राज-इन्द्र प्रजा-सर्ग-धियः मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ।
iti tān api rāja-indra prajā-sarga-dhiyaḥ muniḥ . upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat .
दाक्षायणाः संशृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ३० ।
दाक्षायणाः संशृणुत गदतः निगमम् मम । अन्विच्छत अनु पदवीम् भ्रातॄणाम् भ्रातृ-वत्सलाः ।
dākṣāyaṇāḥ saṃśṛṇuta gadataḥ nigamam mama . anvicchata anu padavīm bhrātṝṇām bhrātṛ-vatsalāḥ .
भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ३१ ।
भ्रातॄणाम् प्रायणम् भ्राता यः अनुतिष्ठति धर्म-विद् । स पुण्य-बन्धुः पुरुषः मरुद्भिः सह मोदते ।
bhrātṝṇām prāyaṇam bhrātā yaḥ anutiṣṭhati dharma-vid . sa puṇya-bandhuḥ puruṣaḥ marudbhiḥ saha modate .
एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः । तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष ३२ ।
एतावत् उक्त्वा प्रययौ नारदः अमोघ-दर्शनः । ते अपि च अन्वगमत् मार्गम् भ्रातॄणाम् एव मारिष ।
etāvat uktvā prayayau nāradaḥ amogha-darśanaḥ . te api ca anvagamat mārgam bhrātṝṇām eva māriṣa .
सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ३३ ।
सध्रीचीनम् प्रतीचीनम् परस्य अनुपथम् गताः । न अद्य अपि ते निवर्तन्ते पश्चिमाः यामिनीः इव ।
sadhrīcīnam pratīcīnam parasya anupatham gatāḥ . na adya api te nivartante paścimāḥ yāminīḥ iva .
एतस्मिन्काल उत्पातान्बहून्पश्यन्प्रजापतिः । पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् ३४ ।
एतस्मिन् काले उत्पातान् बहून् पश्यन् प्रजापतिः । पूर्ववत् नारद-कृतम् पुत्र-नाशम् उपाशृणोत् ।
etasmin kāle utpātān bahūn paśyan prajāpatiḥ . pūrvavat nārada-kṛtam putra-nāśam upāśṛṇot .
चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः । देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ३५ ।
चुक्रोध नारदाय असौ पुत्र-शोक-विमूर्च्छितः । देवर्षिम् उपलभ्य आह रोषात् विस्फुरित-अधरः ।
cukrodha nāradāya asau putra-śoka-vimūrcchitaḥ . devarṣim upalabhya āha roṣāt visphurita-adharaḥ .
श्रीदक्ष उवाच ।
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ३६ ।
अहो असाधो साधूनाम् साधु-लिङ्गेन नः त्वया । असाधु-अकारि-अर्भकाणाम् भिक्षोः मार्गः प्रदर्शितः ।
aho asādho sādhūnām sādhu-liṅgena naḥ tvayā . asādhu-akāri-arbhakāṇām bhikṣoḥ mārgaḥ pradarśitaḥ .
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ३७ ।
ऋणैः त्रिभिः अमुक्तानाम् अमीमांसित-कर्मणाम् । विघातः श्रेयसः पाप लोकयोः उभयोः कृतः ।
ṛṇaiḥ tribhiḥ amuktānām amīmāṃsita-karmaṇām . vighātaḥ śreyasaḥ pāpa lokayoḥ ubhayoḥ kṛtaḥ .
एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः । पार्षदमध्ये चरसि यशोहा निरपत्रपः ३८ ।
एवम् त्वम् निरनुक्रोशः बालानाम् मति-भिद् हरेः । पार्षद-मध्ये चरसि यशः-हा निरपत्रपः ।
evam tvam niranukrośaḥ bālānām mati-bhid hareḥ . pārṣada-madhye carasi yaśaḥ-hā nirapatrapaḥ .
ननु भागवता नित्यं भूतानुग्रहकातराः । ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ३९ ।
ननु भागवताः नित्यम् भूत-अनुग्रह-कातराः । ऋते त्वाम् सौहृद-घ्नम् वै वैरङ्करम् अवैरिणाम् ।
nanu bhāgavatāḥ nityam bhūta-anugraha-kātarāḥ . ṛte tvām sauhṛda-ghnam vai vairaṅkaram avairiṇām .
नेत्थं पुंसां विरागः स्यात्त्वया केवलिना मृषा । मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ४० ।
न इत्थम् पुंसाम् विरागः स्यात् त्वया केवलिना मृषा । मन्यसे यदि उपशमम् स्नेह-पाश-निकृन्तनम् ।
na ittham puṃsām virāgaḥ syāt tvayā kevalinā mṛṣā . manyase yadi upaśamam sneha-pāśa-nikṛntanam .
नानुभूय न जानाति पुमान्विषयतीक्ष्णताम् । निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ४१ ।
न अनुभूय न जानाति पुमान् विषय-तीक्ष्ण-ताम् । निर्विद्यते स्वयम् तस्मात् न तथा भिन्न-धीः परैः ।
na anubhūya na jānāti pumān viṣaya-tīkṣṇa-tām . nirvidyate svayam tasmāt na tathā bhinna-dhīḥ paraiḥ .
यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ४२ ।
यत् नः त्वम् कर्म-सन्धानाम् साधूनाम् गृहमेधिनाम् । कृतवान् असि दुर्मर्षम् विप्रियम् तव मर्षितम् ।
yat naḥ tvam karma-sandhānām sādhūnām gṛhamedhinām . kṛtavān asi durmarṣam vipriyam tava marṣitam .
तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः । तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ४३ ।
तन्तुकृन्तन यत् नः त्वम् अभद्रम् अचरः पुनर् । तस्मात् लोकेषु ते मूढ न भवेत् भ्रमतः पदम् ।
tantukṛntana yat naḥ tvam abhadram acaraḥ punar . tasmāt lokeṣu te mūḍha na bhavet bhramataḥ padam .
श्रीशुक उवाच ।
प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः । एतावान्साधुवादो हि तितिक्षेतेश्वरः स्वयम् ४४ ।
प्रतिजग्राह तत् बाढम् नारदः साधु-सम्मतः । एतावान् साधुवादः हि तितिक्षेत ईश्वरः स्वयम् ।
pratijagrāha tat bāḍham nāradaḥ sādhu-sammataḥ . etāvān sādhuvādaḥ hi titikṣeta īśvaraḥ svayam .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे नारदशापः नाम पञ्चमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe nāradaśāpaḥ nāma pañcamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In