| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः १ ।
tasyāṃ sa pāñcajanyāṃ vai viṣṇumāyopabṛṃhitaḥ . haryaśvasaṃjñānayutaṃ putrānajanayadvibhuḥ 1 .
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् २ ।
apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa . pitrā proktāḥ prajāsarge pratīcīṃ prayayurdiśam 2 .
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ३ ।
tatra nārāyaṇasarastīrthaṃ sindhusamudrayoḥ . saṅgamo yatra sumahanmunisiddhaniṣevitam 3 .
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ४ ।
tadupasparśanādeva vinirdhūtamalāśayāḥ . dharme pāramahaṃsye ca protpannamatayo'pyuta 4 .
तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः । प्रजाविवृद्धये यत्तान्देवर्षिस्तान्ददर्श ह ५ ।
tepire tapa evograṃ pitrādeśena yantritāḥ . prajāvivṛddhaye yattāndevarṣistāndadarśa ha 5 .
उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः । अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ६ ।
uvāca cātha haryaśvāḥ kathaṃ srakṣyatha vai prajāḥ . adṛṣṭvāntaṃ bhuvo yūyaṃ bāliśā bata pālakāḥ 6 .
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ७ ।
tathaikapuruṣaṃ rāṣṭraṃ bilaṃ cādṛṣṭanirgamam . bahurūpāṃ striyaṃ cāpi pumāṃsaṃ puṃścalīpatim 7 .
नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् । क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम् ८ ।
nadīmubhayato vāhāṃ pañcapañcādbhutaṃ gṛham . kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhramim 8 .
कथं स्वपितुरादेशमविद्वांसो विपश्चितः । अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ९ ।
kathaṃ svapiturādeśamavidvāṃso vipaścitaḥ . anurūpamavijñāya aho sargaṃ kariṣyatha 9 .
श्रीशुक उवाच ।
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया १० ।
tanniśamyātha haryaśvā autpattikamanīṣayā . vācaḥ kūṭaṃ tu devarṣeḥ svayaṃ vimamṛśurdhiyā 10 .
भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ११ ।
bhūḥ kṣetraṃ jīvasaṃjñaṃ yadanādi nijabandhanam . adṛṣṭvā tasya nirvāṇaṃ kimasatkarmabhirbhavet 11 .
एक एवेश्वरस्तुर्यो भगवान्स्वाश्रयः परः । तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् १२ ।
eka eveśvarasturyo bhagavānsvāśrayaḥ paraḥ . tamadṛṣṭvābhavaṃ puṃsaḥ kimasatkarmabhirbhavet 12 .
पुमान्नैवैति यद्गत्वा बिलस्वर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् १३ ।
pumānnaivaiti yadgatvā bilasvargaṃ gato yathā . pratyagdhāmāvida iha kimasatkarmabhirbhavet 13 .
नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् १४ ।
nānārūpātmano buddhiḥ svairiṇīva guṇānvitā . tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet 14 .
तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् १५ ।
tatsaṅgabhraṃśitaiśvaryaṃ saṃsarantaṃ kubhāryavat . tadgatīrabudhasyeha kimasatkarmabhirbhavet 15 .
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् १६ ।
sṛṣṭyapyayakarīṃ māyāṃ velākūlāntavegitām . mattasya tāmavijñasya kimasatkarmabhirbhavet 16 .
पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणः । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् १७ ।
pañcaviṃśatitattvānāṃ puruṣo'dbhutadarpaṇaḥ . adhyātmamabudhasyeha kimasatkarmabhirbhavet 17 .
ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् १८ ।
aiśvaraṃ śāstramutsṛjya bandhamokṣānudarśanam . viviktapadamajñāya kimasatkarmabhirbhavet 18 .
कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत् । स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् १९ ।
kālacakraṃ bhramistīkṣṇaṃ sarvaṃ niṣkarṣayajjagat . svatantramabudhasyeha kimasatkarmabhirbhavet 19 .
शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् २० ।
śāstrasya piturādeśaṃ yo na veda nivartakam . kathaṃ tadanurūpāya guṇavisrambhyupakramet 20 .
इति व्यवसिता राजन्हर्यश्वा एकचेतसः । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् २१ ।
iti vyavasitā rājanharyaśvā ekacetasaḥ . prayayustaṃ parikramya panthānamanivartanam 21 .
स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः २२ ।
svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje . akhaṇḍaṃ cittamāveśya lokānanucaranmuniḥ 22 .
नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् । अन्वतप्यत कः शोचन्सुप्रजस्त्वं शुचां पदम् २३ ।
nāśaṃ niśamya putrāṇāṃ nāradācchīlaśālinām . anvatapyata kaḥ śocansuprajastvaṃ śucāṃ padam 23 .
स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः । पुत्रानजनयद्दक्षः सवलाश्वान्सहस्रिणः २४ ।
sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ . putrānajanayaddakṣaḥ savalāśvānsahasriṇaḥ 24 .
ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः । नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः २५ ।
te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ . nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ 25 .
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । जपन्तो ब्रह्म परमं तेपुस्तत्र महत्तपः २६ ।
tadupasparśanādeva vinirdhūtamalāśayāḥ . japanto brahma paramaṃ tepustatra mahattapaḥ 26 .
अब्भक्षाः कतिचिन्मासान्कतिचिद्वायुभोजनाः । आराधयन्मन्त्रमिममभ्यस्यन्त इडस्पतिम् २७ ।
abbhakṣāḥ katicinmāsānkaticidvāyubhojanāḥ . ārādhayanmantramimamabhyasyanta iḍaspatim 27 .
ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि २८ ।
oṃ namo nārāyaṇāya puruṣāya mahātmane . viśuddhasattvadhiṣṇyāya mahāhaṃsāya dhīmahi 28 .
इति तानपि राजेन्द्र प्रजासर्गधियो मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् २९ ।
iti tānapi rājendra prajāsargadhiyo muniḥ . upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat 29 .
दाक्षायणाः संशृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ३० ।
dākṣāyaṇāḥ saṃśṛṇuta gadato nigamaṃ mama . anvicchatānupadavīṃ bhrātṝṇāṃ bhrātṛvatsalāḥ 30 .
भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ३१ ।
bhrātṝṇāṃ prāyaṇaṃ bhrātā yo'nutiṣṭhati dharmavit . sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate 31 .
एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः । तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष ३२ ।
etāvaduktvā prayayau nārado'moghadarśanaḥ . te'pi cānvagamanmārgaṃ bhrātṝṇāmeva māriṣa 32 .
सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ३३ ।
sadhrīcīnaṃ pratīcīnaṃ parasyānupathaṃ gatāḥ . nādyāpi te nivartante paścimā yāminīriva 33 .
एतस्मिन्काल उत्पातान्बहून्पश्यन्प्रजापतिः । पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् ३४ ।
etasminkāla utpātānbahūnpaśyanprajāpatiḥ . pūrvavannāradakṛtaṃ putranāśamupāśṛṇot 34 .
चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः । देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ३५ ।
cukrodha nāradāyāsau putraśokavimūrcchitaḥ . devarṣimupalabhyāha roṣādvisphuritādharaḥ 35 .
श्रीदक्ष उवाच ।
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ३६ ।
aho asādho sādhūnāṃ sādhuliṅgena nastvayā . asādhvakāryarbhakāṇāṃ bhikṣormārgaḥ pradarśitaḥ 36 .
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ३७ ।
ṛṇaistribhiramuktānāmamīmāṃsitakarmaṇām . vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ 37 .
एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः । पार्षदमध्ये चरसि यशोहा निरपत्रपः ३८ ।
evaṃ tvaṃ niranukrośo bālānāṃ matibhiddhareḥ . pārṣadamadhye carasi yaśohā nirapatrapaḥ 38 .
ननु भागवता नित्यं भूतानुग्रहकातराः । ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ३९ ।
nanu bhāgavatā nityaṃ bhūtānugrahakātarāḥ . ṛte tvāṃ sauhṛdaghnaṃ vai vairaṅkaramavairiṇām 39 .
नेत्थं पुंसां विरागः स्यात्त्वया केवलिना मृषा । मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ४० ।
netthaṃ puṃsāṃ virāgaḥ syāttvayā kevalinā mṛṣā . manyase yadyupaśamaṃ snehapāśanikṛntanam 40 .
नानुभूय न जानाति पुमान्विषयतीक्ष्णताम् । निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ४१ ।
nānubhūya na jānāti pumānviṣayatīkṣṇatām . nirvidyate svayaṃ tasmānna tathā bhinnadhīḥ paraiḥ 41 .
यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ४२ ।
yannastvaṃ karmasandhānāṃ sādhūnāṃ gṛhamedhinām . kṛtavānasi durmarṣaṃ vipriyaṃ tava marṣitam 42 .
तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः । तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ४३ ।
tantukṛntana yannastvamabhadramacaraḥ punaḥ . tasmāllokeṣu te mūḍha na bhavedbhramataḥ padam 43 .
श्रीशुक उवाच ।
प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः । एतावान्साधुवादो हि तितिक्षेतेश्वरः स्वयम् ४४ ।
pratijagrāha tadbāḍhaṃ nāradaḥ sādhusammataḥ . etāvānsādhuvādo hi titikṣeteśvaraḥ svayam 44 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe nāradaśāpo nāma pañcamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In