| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा १ ।
ततस् प्राचेतसः असिक्न्याम् अनुनीतः स्वयम्भुवा ।
tatas prācetasaḥ asiknyām anunītaḥ svayambhuvā .
षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः । दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवान् २ ।
षष्टिम् सञ्जनयामास दुहितॄः पितृ-वत्सलाः । दश धर्माय काय-इन्दोः द्वि-षष्-त्रिणव दत्तवान् ।
ṣaṣṭim sañjanayāmāsa duhitṝḥ pitṛ-vatsalāḥ . daśa dharmāya kāya-indoḥ dvi-ṣaṣ-triṇava dattavān .
भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः । नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ३ ।
भूताङ्गिरः कृशाश्वेभ्यः द्वे द्वे तार्क्ष्याय च अपराः । नामधेयानि अमूषाम् त्वम् स अपत्यानाम् च मे शृणु ।
bhūtāṅgiraḥ kṛśāśvebhyaḥ dve dve tārkṣyāya ca aparāḥ . nāmadheyāni amūṣām tvam sa apatyānām ca me śṛṇu .
यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः । भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ४ ।
यासाम् प्रसूति-प्रसवैः लोकाः आपूरिताः त्रयः । भानुः लम्बा ककुद् यामिः विश्वा साध्या मरुत्वती ।
yāsām prasūti-prasavaiḥ lokāḥ āpūritāḥ trayaḥ . bhānuḥ lambā kakud yāmiḥ viśvā sādhyā marutvatī .
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्शृणु । भानोस्तु देवऋषभ इन्द्र सेनस्ततो नृप ५ ।
वसुः मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुतान् शृणु । भानोः तु देवऋषभः इन्द्र सेनः ततस् नृप ।
vasuḥ muhūrtā saṅkalpā dharmapatnyaḥ sutān śṛṇu . bhānoḥ tu devaṛṣabhaḥ indra senaḥ tatas nṛpa .
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः । ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ६ ।
विद्योतः आसीत् लम्बायाः ततस् च स्तनयित्नवः । ककुदः सङ्कटः तस्य कीकटः तनयः यतस् ।
vidyotaḥ āsīt lambāyāḥ tatas ca stanayitnavaḥ . kakudaḥ saṅkaṭaḥ tasya kīkaṭaḥ tanayaḥ yatas .
भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत् । विश्वेदेवास्तु विश्वाया अप्रजांस्तान्प्रचक्षते ७ ।
भुवः दुर्गाणि यामेयः स्वर्गः नन्दिः ततस् अभवत् । विश्वेदेवाः तु विश्वायाः अप्रजान् तान् प्रचक्षते ।
bhuvaḥ durgāṇi yāmeyaḥ svargaḥ nandiḥ tatas abhavat . viśvedevāḥ tu viśvāyāḥ aprajān tān pracakṣate .
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः । मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः ८ ।
साध्योगणः च साध्यायाः अर्थसिद्धिः तु तद्-सुतः । मरुत्वान् च जयन्तः च मरुत्वत्याः बभूवतुः ।
sādhyogaṇaḥ ca sādhyāyāḥ arthasiddhiḥ tu tad-sutaḥ . marutvān ca jayantaḥ ca marutvatyāḥ babhūvatuḥ .
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः । मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ९ ।
जयन्तः वासुदेव-अंशः उपेन्द्रः इति यम् विदुः । मौहूर्तिकाः देव-गणाः मुहूर्तायाः च जज्ञिरे ।
jayantaḥ vāsudeva-aṃśaḥ upendraḥ iti yam viduḥ . mauhūrtikāḥ deva-gaṇāḥ muhūrtāyāḥ ca jajñire .
ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् । सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः १० ।
ये वै फलम् प्रयच्छन्ति भूतानाम् स्व-स्व-काल-जम् । सङ्कल्पायाः तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।
ye vai phalam prayacchanti bhūtānām sva-sva-kāla-jam . saṅkalpāyāḥ tu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ .
वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसुः ११ ।
वसवः अष्टौ वसोः पुत्राः तेषाम् नामानि मे शृणु । द्रोणः प्राणः ध्रुवः अर्कः अग्निः दोषः वास्तुः विभावसुः ।
vasavaḥ aṣṭau vasoḥ putrāḥ teṣām nāmāni me śṛṇu . droṇaḥ prāṇaḥ dhruvaḥ arkaḥ agniḥ doṣaḥ vāstuḥ vibhāvasuḥ .
द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः । प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः १२ ।
द्रोणस्य अभिमतेः पत्न्याः हर्ष-शोक-भय-आदयः । प्राणस्य ऊर्जस्वती भार्या सहः आयुः पुरोजवः ।
droṇasya abhimateḥ patnyāḥ harṣa-śoka-bhaya-ādayaḥ . prāṇasya ūrjasvatī bhāryā sahaḥ āyuḥ purojavaḥ .
ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः । अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः १३ ।
ध्रुवस्य भार्या धरणिः असूत विविधाः पुरः । अर्कस्य वासना भार्या पुत्राः तर्ष-आदयः स्मृताः ।
dhruvasya bhāryā dharaṇiḥ asūta vividhāḥ puraḥ . arkasya vāsanā bhāryā putrāḥ tarṣa-ādayaḥ smṛtāḥ .
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः । स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः १४ ।
अग्नेः भार्या वसोः धारा पुत्राः द्रविणक-आदयः । स्कन्दः च कृत्तिका-पुत्रः ये विशाख-आदयः ततस् ।
agneḥ bhāryā vasoḥ dhārā putrāḥ draviṇaka-ādayaḥ . skandaḥ ca kṛttikā-putraḥ ye viśākha-ādayaḥ tatas .
दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला । वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः १५ ।
दोषस्य शर्वरीपुत्रः शिशुमारः हरेः कला । वास्तोः आङ्गिरसी-पुत्रः विश्वकर्मा आकृतीपतिः ।
doṣasya śarvarīputraḥ śiśumāraḥ hareḥ kalā . vāstoḥ āṅgirasī-putraḥ viśvakarmā ākṛtīpatiḥ .
ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः । विभावसोरसूतोषा व्युष्टं रोचिषमातपम् १६ ।
ततस् मनुः चाक्षुषः अभूत् विश्वे साध्याः मनोः सुताः । विभावसोः असूता उषाः व्युष्टम् रोचिषम् आतपम् ।
tatas manuḥ cākṣuṣaḥ abhūt viśve sādhyāḥ manoḥ sutāḥ . vibhāvasoḥ asūtā uṣāḥ vyuṣṭam rociṣam ātapam .
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु । सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः १७ ।
पञ्चयामः अथ भूतानि येन जाग्रति कर्मसु । सरूपा असूत भूतस्य भार्याः रुद्रान् च कोटिशस् ।
pañcayāmaḥ atha bhūtāni yena jāgrati karmasu . sarūpā asūta bhūtasya bhāryāḥ rudrān ca koṭiśas .
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः । अजैकपादहिर्बुध्न्यो बहुरूपो महानिति १८ ।
रैवतः अजः भवः भीमः वामः उग्रः वृषाकपिः । अज-एक-पाद् अहिर्बुध्न्यः बहु-रूपः महान् इति ।
raivataḥ ajaḥ bhavaḥ bhīmaḥ vāmaḥ ugraḥ vṛṣākapiḥ . aja-eka-pād ahirbudhnyaḥ bahu-rūpaḥ mahān iti .
रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः । प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ १९ ।
रुद्रस्य पार्षदाः च अन्ये घोराः प्रेत-विनायकाः । प्रजापतेः अङ्गिरसः स्वधा पत्नी पितॄन् अथ ।
rudrasya pārṣadāḥ ca anye ghorāḥ preta-vināyakāḥ . prajāpateḥ aṅgirasaḥ svadhā patnī pitṝn atha .
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती । कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् २० ।
अथर्व-अङ्गिरसम् वेदम् पुत्र-त्वे च अकरोत् सती । कृशाश्वः अर्चिषि भार्यायाम् धूमकेतुम् अजीजनत् ।
atharva-aṅgirasam vedam putra-tve ca akarot satī . kṛśāśvaḥ arciṣi bhāryāyām dhūmaketum ajījanat .
धिषणायां वेदशिरो देवलं वयुनं मनुम् । तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च २१ ।
धिषणायाम् वेदशिरः देवलम् वयुनम् मनुम् । तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनी इति च ।
dhiṣaṇāyām vedaśiraḥ devalam vayunam manum . tārkṣyasya vinatā kadrūḥ pataṅgī yāminī iti ca .
पतङ्ग्यसूत पतगान्यामिनी शलभानथ । सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः २२ ।
पतङ्गी असूत पतगान् यामिनी शलभान् अथ । सुपर्णा असूत गरुडम् साक्षात् यज्ञेश-वाहनम् । सूर्यसूतम् अनूरुम् च कद्रूः नागान् अनेकशस् ।
pataṅgī asūta patagān yāminī śalabhān atha . suparṇā asūta garuḍam sākṣāt yajñeśa-vāhanam . sūryasūtam anūrum ca kadrūḥ nāgān anekaśas .
कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत । दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः २३ ।
कृत्तिका-आदीनि नक्षत्राणि इन्दोः पत्न्यः तु भारत । दक्ष-शापात् सः अनपत्यः तासु यक्ष्म-ग्रह-अर्दितः ।
kṛttikā-ādīni nakṣatrāṇi indoḥ patnyaḥ tu bhārata . dakṣa-śāpāt saḥ anapatyaḥ tāsu yakṣma-graha-arditaḥ .
पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः । शृणु नामानि लोकानां मातॄणां शङ्कराणि च २४ ।
पुनर् प्रसाद्य तम् सोमः कलाः लेभे क्षये दिताः । शृणु नामानि लोकानाम् मातॄणाम् शङ्कराणि च ।
punar prasādya tam somaḥ kalāḥ lebhe kṣaye ditāḥ . śṛṇu nāmāni lokānām mātṝṇām śaṅkarāṇi ca .
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला २५ ।
अथ कश्यप-पत्नीनाम् यत् प्रसूतम् इदम् जगत् । अदितिः दितिः दनुः काष्ठाः अरिष्टा सु रसा इला ।
atha kaśyapa-patnīnām yat prasūtam idam jagat . aditiḥ ditiḥ danuḥ kāṣṭhāḥ ariṣṭā su rasā ilā .
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः । तिमेर्यादोगणा आसन्श्वापदाः सरमासुताः २६ ।
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः । तिमेरी-आदः-गणाः आसन् श्वापदाः सरमासुताः ।
muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ . timerī-ādaḥ-gaṇāḥ āsan śvāpadāḥ saramāsutāḥ .
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः २७ ।
सुरभेः महिषाः गावः ये च अन्ये द्विशफाः नृप । ताम्रायाः श्येन-गृध्र-आद्याः मुनेः अप्सरसाम् गणाः ।
surabheḥ mahiṣāḥ gāvaḥ ye ca anye dviśaphāḥ nṛpa . tāmrāyāḥ śyena-gṛdhra-ādyāḥ muneḥ apsarasām gaṇāḥ .
दन्दशूकादयः सर्पा राजन्क्रोधवशात्मजाः । इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः २८ ।
दन्दशूक-आदयः सर्पाः राजन् क्रोध-वश-आत्मजाः । इलायाः भूरुहाः सर्वे यातुधानाः च सौरसाः ।
dandaśūka-ādayaḥ sarpāḥ rājan krodha-vaśa-ātmajāḥ . ilāyāḥ bhūruhāḥ sarve yātudhānāḥ ca saurasāḥ .
अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः । सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्शृणु २९ ।
अरिष्टायाः तु गन्धर्वाः काष्ठायाः द्विशफ-इतराः । सुताः दनोः एकषष्टिः तेषाम् प्राधानिकान् शृणु ।
ariṣṭāyāḥ tu gandharvāḥ kāṣṭhāyāḥ dviśapha-itarāḥ . sutāḥ danoḥ ekaṣaṣṭiḥ teṣām prādhānikān śṛṇu .
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ३० ।
द्विमूर्धा शम्बरः अरिष्टः हयग्रीवः विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलः अरुणः ।
dvimūrdhā śambaraḥ ariṣṭaḥ hayagrīvaḥ vibhāvasuḥ . ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilaḥ aruṇaḥ .
पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ३१ ।
पुलोमा वृषपर्वा च एकचक्रः अनुतापनः । धूम्रकेशः विरूपाक्षः विप्रचित्तिः च दुर्जयः ।
pulomā vṛṣaparvā ca ekacakraḥ anutāpanaḥ . dhūmrakeśaḥ virūpākṣaḥ vipracittiḥ ca durjayaḥ .
स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ३२ ।
स्वर्भानोः सुप्रभाम् कन्याम् उवाह नमुचिः किल । वृषपर्वणः तु शर्मिष्ठाम् ययातिः नाहुषः बली ।
svarbhānoḥ suprabhām kanyām uvāha namuciḥ kila . vṛṣaparvaṇaḥ tu śarmiṣṭhām yayātiḥ nāhuṣaḥ balī .
वैश्वानरसुतायाश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ३३ ।
वैश्वानर-सुतायाः च चतस्रः चारु-दर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ।
vaiśvānara-sutāyāḥ ca catasraḥ cāru-darśanāḥ . upadānavī hayaśirā pulomā kālakā tathā .
उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ३४ ।
उपदानवीम् हिरण्याक्षः क्रतुः हयशिराम् नृप । पुलोमाम् कालकाम् च द्वे वैश्वानर-सुते तु कः ।
upadānavīm hiraṇyākṣaḥ kratuḥ hayaśirām nṛpa . pulomām kālakām ca dve vaiśvānara-sute tu kaḥ .
उपयेमेऽथ भगवान्कश्यपो ब्रह्मचोदितः । पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ३५ ।
उपयेमे अथ भगवान् कश्यपः ब्रह्म-चोदितः । पौलोमाः कालकेयाः च दानवाः युद्ध-शालिनः ।
upayeme atha bhagavān kaśyapaḥ brahma-coditaḥ . paulomāḥ kālakeyāḥ ca dānavāḥ yuddha-śālinaḥ .
तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता । जघान स्वर्गतो राजन्नेक इन्द्र प्रियङ्करः ३६ ।
तयोः षष्टि-सहस्राणि यज्ञ-घ्नान् ते पितुः पिता । जघान स्वर्गतः राजन् एकः इन्द्र प्रियङ्करः ।
tayoḥ ṣaṣṭi-sahasrāṇi yajña-ghnān te pituḥ pitā . jaghāna svargataḥ rājan ekaḥ indra priyaṅkaraḥ .
विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ३७ ।
विप्रचित्तिः सिंहिकायाम् शतम् च एकम् अजीजनत् । राहु-ज्येष्ठम् केतु-शतम् ग्रह-त्वम् ये उपागताः ।
vipracittiḥ siṃhikāyām śatam ca ekam ajījanat . rāhu-jyeṣṭham ketu-śatam graha-tvam ye upāgatāḥ .
अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः । यत्र नारायणो देवः स्वांशेनावातरद्विभुः ३८ ।
अथ अतस् श्रूयताम् वंशः यः अदितेः अनुपूर्वशस् । यत्र नारायणः देवः स्व-अंशेन अवातरत् विभुः ।
atha atas śrūyatām vaṃśaḥ yaḥ aditeḥ anupūrvaśas . yatra nārāyaṇaḥ devaḥ sva-aṃśena avātarat vibhuḥ .
विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ३९ ।
विवस्वान् अर्यमा पूषा त्वष्टा अथ सविता भगः । धाता विधाता वरुणः मित्रः शत्रुः उरु-क्रमः ।
vivasvān aryamā pūṣā tvaṣṭā atha savitā bhagaḥ . dhātā vidhātā varuṇaḥ mitraḥ śatruḥ uru-kramaḥ .
विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ४० ।
विवस्वतः श्राद्धदेवम् संज्ञा असूयत वै मनुम् । मिथुनम् च महाभागाः यमम् देवम् यमीम् तथा । सा एव भूत्वा अथ वडवा नासत्यौ सुषुवे भुवि ।
vivasvataḥ śrāddhadevam saṃjñā asūyata vai manum . mithunam ca mahābhāgāḥ yamam devam yamīm tathā . sā eva bhūtvā atha vaḍavā nāsatyau suṣuve bhuvi .
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ४१ ।
छाया शनैश्चरम् लेभे सावर्णिम् च मनुम् ततस् । कन्याम् च तपतीम् या वै वव्रे संवरणम् पतिम् ।
chāyā śanaiścaram lebhe sāvarṇim ca manum tatas . kanyām ca tapatīm yā vai vavre saṃvaraṇam patim .
अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ४२ ।
अर्यम्णः मातृका पत्नी तयोः चर्षणयः सुताः । यत्र वै मानुषी जातिः ब्रह्मणा च उपकल्पिता ।
aryamṇaḥ mātṛkā patnī tayoḥ carṣaṇayaḥ sutāḥ . yatra vai mānuṣī jātiḥ brahmaṇā ca upakalpitā .
पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ४३ ।
पूषा अनपत्यः पिष्ट-आदः भग्न-दन्तः अभवत् पुरा । यः असौ दक्षाय कुपितम् जहास विवृत-द्विजः ।
pūṣā anapatyaḥ piṣṭa-ādaḥ bhagna-dantaḥ abhavat purā . yaḥ asau dakṣāya kupitam jahāsa vivṛta-dvijaḥ .
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ४४ ।
त्वष्टुः दैत्य-आत्मजा भार्या रचना नाम कन्यका । सन्निवेशः तयोः जज्ञे विश्वरूपः च वीर्यवान् ।
tvaṣṭuḥ daitya-ātmajā bhāryā racanā nāma kanyakā . sanniveśaḥ tayoḥ jajñe viśvarūpaḥ ca vīryavān .
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ४५ ।
तम् वव्रिरे सुर-गणा स्वस्रीयम् द्विषताम् अपि । विमतेन परित्यक्ता गुरुणा आङ्गिरसेन यत् ।
tam vavrire sura-gaṇā svasrīyam dviṣatām api . vimatena parityaktā guruṇā āṅgirasena yat .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे षष्ठः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe ṣaṣṭhaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In