| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः । एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ १ ।
कस्य हेतोः परित्यक्ताः आचार्येण आत्मनः सुराः । एतत् आचक्ष्व भगवन् शिष्याणाम् अक्रमम् गुरौ ।
kasya hetoḥ parityaktāḥ ācāryeṇa ātmanaḥ surāḥ . etat ācakṣva bhagavan śiṣyāṇām akramam gurau .
श्रीबादरायणिरुवाच ।
इन्द्र स्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः । मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप २ ।
इन्द्रः त्रिभुवन-ऐश्वर्य मद-उल्लङ्घित-सत्-पथः । मरुद्भिः वसुभिः रुद्रैः आदित्यैः ऋभुभिः नृप ।
indraḥ tribhuvana-aiśvarya mada-ullaṅghita-sat-pathaḥ . marudbhiḥ vasubhiḥ rudraiḥ ādityaiḥ ṛbhubhiḥ nṛpa .
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ३ ।
विश्वेदेवैः च साध्यैः च नासत्याभ्याम् परिश्रितः । सिद्ध-चारण-गन्धर्वैः मुनिभिः ब्रह्म-वादिभिः ।
viśvedevaiḥ ca sādhyaiḥ ca nāsatyābhyām pariśritaḥ . siddha-cāraṇa-gandharvaiḥ munibhiḥ brahma-vādibhiḥ .
विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः । निषेव्यमाणो मघवान्स्तूयमानश्च भारत ४ ।
विद्याधर-अप्सरोभिः च किन्नरैः पतग-उरगैः । निषेव्यमाणः मघवान् स्तूयमानः च भारत ।
vidyādhara-apsarobhiḥ ca kinnaraiḥ pataga-uragaiḥ . niṣevyamāṇaḥ maghavān stūyamānaḥ ca bhārata .
उपगीयमानो ललितमास्थानाध्यासनाश्रितः । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ५ ।
उपगीयमानः ललितम् आस्थान-अध्यासन-आश्रितः । पाण्डुरेण आतपत्रेण चन्द्र-मण्डल-चारुणा ।
upagīyamānaḥ lalitam āsthāna-adhyāsana-āśritaḥ . pāṇḍureṇa ātapatreṇa candra-maṇḍala-cāruṇā .
युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः । विराजमानः पौलोम्या सहार्धासनया भृशम् ६ ।
युक्तः च अन्यैः पारमेष्ठ्यैः चामर-व्यजन-आदिभिः । विराजमानः पौलोम्या सह अर्धासनया भृशम् ।
yuktaḥ ca anyaiḥ pārameṣṭhyaiḥ cāmara-vyajana-ādibhiḥ . virājamānaḥ paulomyā saha ardhāsanayā bhṛśam .
स यदा परमाचार्यं देवानामात्मनश्च ह । नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ७ ।
स यदा परम-आचार्यम् देवानाम् आत्मनः च ह । न अभ्यनन्दत सम्प्राप्तम् प्रत्युत्थान-आसन-आदिभिः ।
sa yadā parama-ācāryam devānām ātmanaḥ ca ha . na abhyanandata samprāptam pratyutthāna-āsana-ādibhiḥ .
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ८ ।
वाचस्पतिम् मुनि-वरम् सुर-असुर-नमस्कृतम् । न उच्चचाल आसनात् इन्द्रः पश्यन् अपि सभा-गतम् ।
vācaspatim muni-varam sura-asura-namaskṛtam . na uccacāla āsanāt indraḥ paśyan api sabhā-gatam .
ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः । आययौ स्वगृहं तूष्णीं विद्वान्श्रीमदविक्रियाम् ९ ।
ततस् निर्गत्य सहसा कविः आङ्गिरसः प्रभुः । आययौ स्व-गृहम् तूष्णीम् विद्वान् श्री-मद-विक्रियाम् ।
tatas nirgatya sahasā kaviḥ āṅgirasaḥ prabhuḥ . āyayau sva-gṛham tūṣṇīm vidvān śrī-mada-vikriyām .
तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः । गर्हयामास सदसि स्वयमात्मानमात्मना १० ।
तर्हि एव प्रतिबुध्य इन्द्रः गुरु-हेलनम् आत्मनः । गर्हयामास सदसि स्वयम् आत्मानम् आत्मना ।
tarhi eva pratibudhya indraḥ guru-helanam ātmanaḥ . garhayāmāsa sadasi svayam ātmānam ātmanā .
अहो बत मयासाधु कृतं वै दभ्रबुद्धिना । यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ११ ।
अहो बत मया असाधु कृतम् वै दभ्र-बुद्धिना । यत् मया ऐश्वर्य-मत्तेन गुरुः सदसि कात्कृतः ।
aho bata mayā asādhu kṛtam vai dabhra-buddhinā . yat mayā aiśvarya-mattena guruḥ sadasi kātkṛtaḥ .
को गृध्येत्पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि । ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः १२ ।
कः गृध्येत् पण्डितः लक्ष्मीम् त्रिपिष्टप-पतेः अपि । यया अहम् आसुरम् भावम् नीतः अद्य विबुध-ईश्वरः ।
kaḥ gṛdhyet paṇḍitaḥ lakṣmīm tripiṣṭapa-pateḥ api . yayā aham āsuram bhāvam nītaḥ adya vibudha-īśvaraḥ .
यः पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन । प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः १३ ।
यः पारमेष्ठ्यम् धिषणम् अधितिष्ठन् न कञ्चन । प्रत्युत्तिष्ठेत् इति ब्रूयुः धर्मम् ते न परम् विदुः ।
yaḥ pārameṣṭhyam dhiṣaṇam adhitiṣṭhan na kañcana . pratyuttiṣṭhet iti brūyuḥ dharmam te na param viduḥ .
तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः । ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव १४ ।
तेषाम् कुपथ-देष्टॄणाम् पतताम् तमसि हि अधस् । ये श्रद्दध्युः वचः ते वै मज्जन्ति अश्म-प्लवाः इव ।
teṣām kupatha-deṣṭṝṇām patatām tamasi hi adhas . ye śraddadhyuḥ vacaḥ te vai majjanti aśma-plavāḥ iva .
अथाहममराचार्यमगाधधिषणं द्विजम् । प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् १५ ।
अथ अहम् अमर-आचार्यम् अगाध-धिषणम् द्विजम् । प्रसादयिष्ये निशठः शीर्ष्णा तद्-चरणम् स्पृशन् ।
atha aham amara-ācāryam agādha-dhiṣaṇam dvijam . prasādayiṣye niśaṭhaḥ śīrṣṇā tad-caraṇam spṛśan .
एवं चिन्तयतस्तस्य मघोनो भगवान्गृहात् । बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया १६ ।
एवम् चिन्तयतः तस्य मघोनः भगवान् गृहात् । बृहस्पतिः गतः अदृष्टाम् गतिम् अध्यात्म-मायया ।
evam cintayataḥ tasya maghonaḥ bhagavān gṛhāt . bṛhaspatiḥ gataḥ adṛṣṭām gatim adhyātma-māyayā .
गुरोर्नाधिगतः संज्ञां परीक्षन्भगवान्स्वराट् । ध्यायन्धिया सुरैर्युक्तः शर्म नालभतात्मनः १७ ।
गुरोः न अधिगतः संज्ञाम् परीक्षन् भगवान् स्वराज् । ध्यायन् धिया सुरैः युक्तः शर्म न अलभत आत्मनः ।
guroḥ na adhigataḥ saṃjñām parīkṣan bhagavān svarāj . dhyāyan dhiyā suraiḥ yuktaḥ śarma na alabhata ātmanaḥ .
तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् । देवान्प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः १८ ।
तत् श्रुत्वा एव असुराः सर्वे आश्रित्य औशनसम् मतम् । देवान् प्रत्युद्यमम् चक्रुः दुर्मदाः आततायिनः ।
tat śrutvā eva asurāḥ sarve āśritya auśanasam matam . devān pratyudyamam cakruḥ durmadāḥ ātatāyinaḥ .
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः । ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः १९ ।
तैः विसृष्ट-इषुभिः तीक्ष्णैः निर्भिन्न-अङ्ग-ऊरु-बाहवः । ब्रह्माणम् शरणम् जग्मुः सह इन्द्राः नत-कन्धराः ।
taiḥ visṛṣṭa-iṣubhiḥ tīkṣṇaiḥ nirbhinna-aṅga-ūru-bāhavaḥ . brahmāṇam śaraṇam jagmuḥ saha indrāḥ nata-kandharāḥ .
तांस्तथाभ्यर्दितान्वीक्ष्य भगवानात्मभूरजः । कृपया परया देव उवाच परिसान्त्वयन् २० ।
तान् तथा अभ्यर्दितान् वीक्ष्य भगवान् आत्मभूः अजः । कृपया परया देवः उवाच परिसान्त्वयन् ।
tān tathā abhyarditān vīkṣya bhagavān ātmabhūḥ ajaḥ . kṛpayā parayā devaḥ uvāca parisāntvayan .
श्रीब्रह्मोवाच ।
अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् । ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत २१ ।
अहो बत सुर-श्रेष्ठाः हि अभद्रम् वः कृतम् महत् । ब्रह्मिष्ठम् ब्राह्मणम् दान्तम् ऐश्वर्यात् न अभ्यनन्दत ।
aho bata sura-śreṣṭhāḥ hi abhadram vaḥ kṛtam mahat . brahmiṣṭham brāhmaṇam dāntam aiśvaryāt na abhyanandata .
तस्यायमनयस्यासीत्परेभ्यो वः पराभवः । प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत्सुराः २२ ।
तस्य अयम् अनयस्य आसीत् परेभ्यः वः पराभवः । प्रक्षीणेभ्यः स्व-वैरिभ्यः समृद्धानाम् च यत् सुराः ।
tasya ayam anayasya āsīt parebhyaḥ vaḥ parābhavaḥ . prakṣīṇebhyaḥ sva-vairibhyaḥ samṛddhānām ca yat surāḥ .
मघवन्द्विषतः पश्य प्रक्षीणान्गुर्वतिक्रमात् । सम्प्रत्युपचितान्भूयः काव्यमाराध्य भक्तितः । आददीरन्निलयनं ममापि भृगुदेवताः २३ ।
मघवन् द्विषतः पश्य प्रक्षीणान् गुरु-अतिक्रमात् । सम्प्रत्युपचितान् भूयस् काव्यम् आराध्य भक्तितः । आददीरन् निलयनम् मम अपि भृगु-देवताः ।
maghavan dviṣataḥ paśya prakṣīṇān guru-atikramāt . sampratyupacitān bhūyas kāvyam ārādhya bhaktitaḥ . ādadīran nilayanam mama api bhṛgu-devatāḥ .
त्रिपिष्टपं किं गणयन्त्यभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः । न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम् २४ ।
त्रिपिष्टपम् किम् गणयन्ति अ भेद्य मन्त्राः भृगूणाम् अनुशिक्षित-अर्थाः । न विप्र-गोविन्द-गवीश्वराणाम् भवन्ति अभद्राणि नर-ईश्वराणाम् ।
tripiṣṭapam kim gaṇayanti a bhedya mantrāḥ bhṛgūṇām anuśikṣita-arthāḥ . na vipra-govinda-gavīśvarāṇām bhavanti abhadrāṇi nara-īśvarāṇām .
तद्विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम् । सभाजितोऽर्थान्स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म २५ ।
तत् विश्वरूपम् भजत आशु विप्रम् तपस्विनम् त्वाष्ट्रम् अथ आत्मवन्तम् । सभाजितः अर्थान् स विधास्यते वः यदि क्षमिष्यध्वम् उत अस्य कर्म ।
tat viśvarūpam bhajata āśu vipram tapasvinam tvāṣṭram atha ātmavantam . sabhājitaḥ arthān sa vidhāsyate vaḥ yadi kṣamiṣyadhvam uta asya karma .
श्रीशुक उवाच ।
त एवमुदिता राजन्ब्रह्मणा विगतज्वराः । ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् २६ ।
ते एवम् उदिताः राजन् ब्रह्मणा विगत-ज्वराः । ऋषिम् त्वाष्ट्रम् उपव्रज्य परिष्वज्य इदम् अब्रुवन् ।
te evam uditāḥ rājan brahmaṇā vigata-jvarāḥ . ṛṣim tvāṣṭram upavrajya pariṣvajya idam abruvan .
श्रीदेवा ऊचुः ।
वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते । कामः सम्पाद्यतां तात पितॄणां समयोचितः २७ ।
वयम् ते अतिथयः प्राप्ताः आश्रमम् भद्रम् अस्तु ते । कामः सम्पाद्यताम् तात पितॄणाम् समय-उचितः ।
vayam te atithayaḥ prāptāḥ āśramam bhadram astu te . kāmaḥ sampādyatām tāta pitṝṇām samaya-ucitaḥ .
पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् । अपि पुत्रवतां ब्रह्मन्किमुत ब्रह्मचारिणाम् २८ ।
पुत्राणाम् हि परः धर्मः पितृ-शुश्रूषणम् सताम् । अपि पुत्रवताम् ब्रह्मन् किम् उत ब्रह्मचारिणाम् ।
putrāṇām hi paraḥ dharmaḥ pitṛ-śuśrūṣaṇam satām . api putravatām brahman kim uta brahmacāriṇām .
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात्क्षितेस्तनुः २९ ।
आचार्यः ब्रह्मणः मूर्तिः पिता मूर्तिः प्रजापतेः । भ्राता मरुत्पतेः मूर्तिः माता साक्षात् क्षितेः तनुः ।
ācāryaḥ brahmaṇaḥ mūrtiḥ pitā mūrtiḥ prajāpateḥ . bhrātā marutpateḥ mūrtiḥ mātā sākṣāt kṣiteḥ tanuḥ .
दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् । अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ३० ।
दयायाः भगिनी मूर्तिः धर्मस्य आत्मा अतिथिः स्वयम् । अग्नेः अभ्यागतः मूर्तिः सर्व-भूतानि च आत्मनः ।
dayāyāḥ bhaginī mūrtiḥ dharmasya ātmā atithiḥ svayam . agneḥ abhyāgataḥ mūrtiḥ sarva-bhūtāni ca ātmanaḥ .
तस्मात्पितॄणामार्तानामार्तिं परपराभवम् । तपसापनयंस्तात सन्देशं कर्तुमर्हसि ३१ ।
तस्मात् पितॄणाम् आर्तानाम् आर्तिम् पर-पराभवम् । तपसा अपनयन् तात सन्देशम् कर्तुम् अर्हसि ।
tasmāt pitṝṇām ārtānām ārtim para-parābhavam . tapasā apanayan tāta sandeśam kartum arhasi .
वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् । यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ३२ ।
वृणीमहे त्वा उपाध्यायम् ब्रह्मिष्ठम् ब्राह्मणम् गुरुम् । यथा अञ्जसा विजेष्यामः सपत्नान् तव तेजसा ।
vṛṇīmahe tvā upādhyāyam brahmiṣṭham brāhmaṇam gurum . yathā añjasā vijeṣyāmaḥ sapatnān tava tejasā .
न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम् । छन्दोभ्योऽन्यत्र न ब्रह्मन्वयो ज्यैष्ठ्यस्य कारणम् ३३ ।
न गर्हयन्ति हि अर्थेषु यविष्ठ-अङ्घ्रि-अभिवादनम् । छन्दोभ्यः अन्यत्र न ब्रह्मन् वयः ज्यैष्ठ्यस्य कारणम् ।
na garhayanti hi artheṣu yaviṣṭha-aṅghri-abhivādanam . chandobhyaḥ anyatra na brahman vayaḥ jyaiṣṭhyasya kāraṇam .
श्रीऋषिरुवाच ।
अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः । स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ३४ ।
अभ्यर्थितः सुर-गणैः पौर-हित्ये महा-तपाः । स विश्वरूपः तान् आह प्रसन्नः श्लक्ष्णया गिरा ।
abhyarthitaḥ sura-gaṇaiḥ paura-hitye mahā-tapāḥ . sa viśvarūpaḥ tān āha prasannaḥ ślakṣṇayā girā .
श्रीविश्वरूप उवाच ।
विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम् । कथं नु मद्विधो नाथा लोकेशैरभियाचितम् । प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ३५ ।
विगर्हितम् धर्म-शीलैः ब्रह्मवर्चौपव्ययम् । कथम् नु मद्विधः नाथाः लोकेशैः अभियाचितम् । प्रत्याख्यास्यति तद्-शिष्यः सः एव स्वार्थः उच्यते ।
vigarhitam dharma-śīlaiḥ brahmavarcaupavyayam . katham nu madvidhaḥ nāthāḥ lokeśaiḥ abhiyācitam . pratyākhyāsyati tad-śiṣyaḥ saḥ eva svārthaḥ ucyate .
अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः । कथं विगर्ह्यं नु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ३६ ।
अकिञ्चनानाम् हि धनम् शिल-उञ्छनम् तेन इह निर्वर्तित-साधु-सत्क्रियः । कथम् विगर्ह्यम् नु करोमि अधीश्वराः पौरोधसम् हृष्यति येन दुर्मतिः ।
akiñcanānām hi dhanam śila-uñchanam tena iha nirvartita-sādhu-satkriyaḥ . katham vigarhyam nu karomi adhīśvarāḥ paurodhasam hṛṣyati yena durmatiḥ .
तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् । भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ३७ ।
तथा अपि न प्रतिब्रूयाम् गुरुभिः प्रार्थितम् कियत् । भवताम् प्रार्थितम् सर्वम् प्राणैः अर्थैः च साधये ।
tathā api na pratibrūyām gurubhiḥ prārthitam kiyat . bhavatām prārthitam sarvam prāṇaiḥ arthaiḥ ca sādhaye .
श्रीबादरायणिरुवाच ।
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरोहित्यं वृतश्चक्रे परमेण समाधिना ३८ ।
तेभ्यः एवम् प्रतिश्रुत्य विश्वरूपः महा-तपाः । पौरोहित्यम् वृतः चक्रे परमेण समाधिना ।
tebhyaḥ evam pratiśrutya viśvarūpaḥ mahā-tapāḥ . paurohityam vṛtaḥ cakre parameṇa samādhinā .
सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया । आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ३९ ।
सुरद्विषाम् श्रियम् गुप्ताम् औशनस्य अपि विद्यया । आच्छिद्य अदात् महा-इन्द्राय वैष्णव्या विद्यया विभुः ।
suradviṣām śriyam guptām auśanasya api vidyayā . ācchidya adāt mahā-indrāya vaiṣṇavyā vidyayā vibhuḥ .
यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः । तां प्राह स महेन्द्राय विश्वरूप उदारधीः ४० ।
यया गुप्तः सहस्राक्षः जिग्ये असुर-चमूः विभुः । ताम् प्राह स महा-इन्द्राय विश्वरूपः उदार-धीः ।
yayā guptaḥ sahasrākṣaḥ jigye asura-camūḥ vibhuḥ . tām prāha sa mahā-indrāya viśvarūpaḥ udāra-dhīḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे सप्तमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe saptamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In