| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् १ ।
यया गुप्तः सहस्राक्षः स वाहान् रिपु-सैनिकान् । क्रीडन् इव विनिर्जित्य त्रिलोक्याः बुभुजे श्रियम् ।
yayā guptaḥ sahasrākṣaḥ sa vāhān ripu-sainikān . krīḍan iva vinirjitya trilokyāḥ bubhuje śriyam .
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून्येन गुप्तोऽजयन्मृधे २ ।
भगवन् तत् मम आख्याहि वर्म नारायण-आत्मकम् । यथा आततायिनः शत्रून् येन गुप्तः अजयत् मृधे ।
bhagavan tat mama ākhyāhi varma nārāyaṇa-ātmakam . yathā ātatāyinaḥ śatrūn yena guptaḥ ajayat mṛdhe .
श्रीबादरायणिरुवाच ।
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ३ ।
वृतः पुरोहितः त्वाष्ट्रः महा-इन्द्राय अनुपृच्छते । नारायण-आख्यम् वर्म आह तत् इह एकमनाः शृणु ।
vṛtaḥ purohitaḥ tvāṣṭraḥ mahā-indrāya anupṛcchate . nārāyaṇa-ākhyam varma āha tat iha ekamanāḥ śṛṇu .
श्रीविश्वरूप उवाच ।
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ४ ।
धौत-अङ्घ्रि-पाणिः आचम्य स पवित्रः उदक्-मुखः । कृत-स्व-अङ्ग-करन्यासः मन्त्राभ्याम् वाग्यतः शुचिः ।
dhauta-aṅghri-pāṇiḥ ācamya sa pavitraḥ udak-mukhaḥ . kṛta-sva-aṅga-karanyāsaḥ mantrābhyām vāgyataḥ śuciḥ .
नारायणपरं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ५ ।
नारायण-परम् वर्म सन् अह्येत् भये आगते । पादयोः जानुनोः ऊर्वोः उदरे हृदि यथा उरसि ।
nārāyaṇa-param varma san ahyet bhaye āgate . pādayoḥ jānunoḥ ūrvoḥ udare hṛdi yathā urasi .
मुखे शिरस्यानुपूर्व्यादॐकारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ६ ।
मुखे शिरसि आनुपूर्व्यात् अओंकार-आदीनि विन्यसेत् । ओम् नमः नारायणाय इति विपर्ययम् अथ अपि वा ।
mukhe śirasi ānupūrvyāt aoṃkāra-ādīni vinyaset . om namaḥ nārāyaṇāya iti viparyayam atha api vā .
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ७ ।
कर-न्यासम् ततस् कुर्यात् द्वादश-अक्षर-विद्यया । प्रणव-आदि-यकार-अन्तम् अङ्गुलि-अङ्गुष्ठ-पर्वसु ।
kara-nyāsam tatas kuryāt dvādaśa-akṣara-vidyayā . praṇava-ādi-yakāra-antam aṅguli-aṅguṣṭha-parvasu .
न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ८ ।
न्यसेत् हृदये ओंकारम् विकारम् अनु मूर्धनि । षकारम् तु भ्रुवोः मध्ये णकारम् शिखया न्यसेत् ।
nyaset hṛdaye oṃkāram vikāram anu mūrdhani . ṣakāram tu bhruvoḥ madhye ṇakāram śikhayā nyaset .
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ९ ।
वेकारम् नेत्रयोः युञ्ज्यात् नकारम् सर्व-सन्धिषु । मकारम् अस्त्रम् उद्दिश्य मन्त्र-मूर्तिः भवेत् बुधः ।
vekāram netrayoḥ yuñjyāt nakāram sarva-sandhiṣu . makāram astram uddiśya mantra-mūrtiḥ bhavet budhaḥ .
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् । ॐ विष्णवे नम इति १० ।
स विसर्गम् फट् अन्तम् तत् सर्व-दिक्षु विनिर्दिशेत् । ओम् विष्णवे नमः इति ।
sa visargam phaṭ antam tat sarva-dikṣu vinirdiśet . om viṣṇave namaḥ iti .
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ११ ।
आत्मानम् परमम् ध्यायेत् ध्येयम् षष्-शक्तिभिः युतम् । विद्या-तेजः-तपः-मूर्तिम् इमम् मन्त्रम् उदाहरेत् ।
ātmānam paramam dhyāyet dhyeyam ṣaṣ-śaktibhiḥ yutam . vidyā-tejaḥ-tapaḥ-mūrtim imam mantram udāharet .
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्र पृष्ठे । दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहुः १२ ।
ओम् हरिः विदध्यात् मम सर्व-रक्षाम् न्यस्त-अङ्घ्रि-पद्मः पतग-इन्द्र पृष्ठे । दर-अरि-चर्म-असि-गदा-इषु-चाप पाशान् दधानः अष्टगुणः अष्ट-बाहुः ।
om hariḥ vidadhyāt mama sarva-rakṣām nyasta-aṅghri-padmaḥ pataga-indra pṛṣṭhe . dara-ari-carma-asi-gadā-iṣu-cāpa pāśān dadhānaḥ aṣṭaguṇaḥ aṣṭa-bāhuḥ .
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः १३ ।
जलेषु माम् रक्षतु मत्स्य-मूर्तिः यादः-गणेभ्यः वरुणस्य पाशात् । स्थलेषु माया-अवटु-वामनः अव्यात् त्रिविक्रमः खे अवतु विश्वरूपः ।
jaleṣu mām rakṣatu matsya-mūrtiḥ yādaḥ-gaṇebhyaḥ varuṇasya pāśāt . sthaleṣu māyā-avaṭu-vāmanaḥ avyāt trivikramaḥ khe avatu viśvarūpaḥ .
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः १४ ।
दुर्गेषु अटवी-आजि-मुख-आदिषु प्रभुः पायात् नृसिंहः असुर-यूथप-अरिः । विमुञ्चतः यस्य महा-अट्टहासम् दिशः विनेदुः न्यपतन् च गर्भाः ।
durgeṣu aṭavī-āji-mukha-ādiṣu prabhuḥ pāyāt nṛsiṃhaḥ asura-yūthapa-ariḥ . vimuñcataḥ yasya mahā-aṭṭahāsam diśaḥ vineduḥ nyapatan ca garbhāḥ .
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् १५ ।
रक्षतु असौ मा अध्वनि यज्ञ-कल्पः स्व-दंष्ट्रया उन्नीत-धरः वराहः । रामः अद्रि-कूटेषु अथ विप्रवासे स लक्ष्मणः अव्यात् भरताग्रजः अस्मान् ।
rakṣatu asau mā adhvani yajña-kalpaḥ sva-daṃṣṭrayā unnīta-dharaḥ varāhaḥ . rāmaḥ adri-kūṭeṣu atha vipravāse sa lakṣmaṇaḥ avyāt bharatāgrajaḥ asmān .
मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् १६ ।
माम् उग्र-धर्मात् अखिलात् प्रमादात् नारायणः पातु नरः च हासात् । दत्तः तु अयोगात् अथ योग-नाथः पायात् गुणेशः कपिलः कर्म-बन्धात् ।
mām ugra-dharmāt akhilāt pramādāt nārāyaṇaḥ pātu naraḥ ca hāsāt . dattaḥ tu ayogāt atha yoga-nāthaḥ pāyāt guṇeśaḥ kapilaḥ karma-bandhāt .
सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् १७ ।
सनत्कुमारः अवतु कामदेवात् हयशीर्षा माम् पथि देव-हेलनात् । देव-ऋषि-वर्यः पुरुष-अर्चन-अन्तरात् कूर्मः हरिः माम् निरयात् अशेषात् ।
sanatkumāraḥ avatu kāmadevāt hayaśīrṣā mām pathi deva-helanāt . deva-ṛṣi-varyaḥ puruṣa-arcana-antarāt kūrmaḥ hariḥ mām nirayāt aśeṣāt .
धन्वन्तरिर्भगवान्पात्वपथ्याद्द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनान्ताद्बलो गणात्क्रोधवशादहीन्द्रः १८ ।
धन्वन्तरिः भगवान् पातु अपथ्यात् द्वन्द्वात् भयात् ऋषभः निर्जित-आत्मा । यज्ञः च लोकात् अवतात् जन-अन्तात् बलः गणात् क्रोध-वशात् अहि-इन्द्रः ।
dhanvantariḥ bhagavān pātu apathyāt dvandvāt bhayāt ṛṣabhaḥ nirjita-ātmā . yajñaḥ ca lokāt avatāt jana-antāt balaḥ gaṇāt krodha-vaśāt ahi-indraḥ .
द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणप्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः १९ ।
द्वैपायनः भगवान् अप्रबोधात् बुद्धः तु पाषण्ड-गण-प्रमादात् । कल्किः कलेः काल-मलात् प्रपातु धर्म-अवनाय उरु-कृत-अवतारः ।
dvaipāyanaḥ bhagavān aprabodhāt buddhaḥ tu pāṣaṇḍa-gaṇa-pramādāt . kalkiḥ kaleḥ kāla-malāt prapātu dharma-avanāya uru-kṛta-avatāraḥ .
मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्र पाणिः २० ।
माम् केशवः गदया प्रातर् अव्यात् गोविन्दः आसङ्ग-वमात् त-वेणुः । नारायणः प्राह्णे उदात्त-शक्तिः मध्यन्दिने विष्णुः अरि-इन्द्र पाणिः ।
mām keśavaḥ gadayā prātar avyāt govindaḥ āsaṅga-vamāt ta-veṇuḥ . nārāyaṇaḥ prāhṇe udātta-śaktiḥ madhyandine viṣṇuḥ ari-indra pāṇiḥ .
देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः २१ ।
देवः अपराह्णे मधु-हा उग्र-धन्वा सायम् त्रिधामा अवतु माधवः माम् । दोषे हृषीकेशः उत अर्धरात्रे निशीथे एकः अवतु पद्मनाभः ।
devaḥ aparāhṇe madhu-hā ugra-dhanvā sāyam tridhāmā avatu mādhavaḥ mām . doṣe hṛṣīkeśaḥ uta ardharātre niśīthe ekaḥ avatu padmanābhaḥ .
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः २२ ।
श्रीवत्स-धामा अपररात्रः ईशः प्रत्यूषे ईशः असि-धरः जनार्दनः । दामोदरः अव्यात् अनुसन्ध्यम् प्रभाते विश्वेश्वरः भगवान् कालमूर्तिः ।
śrīvatsa-dhāmā apararātraḥ īśaḥ pratyūṣe īśaḥ asi-dharaḥ janārdanaḥ . dāmodaraḥ avyāt anusandhyam prabhāte viśveśvaraḥ bhagavān kālamūrtiḥ .
चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः २३ ।
चक्रम् युगान्त-अनल-तिग्म-नेमि भ्रमत् समन्तात् भगवत्-प्रयुक्तम् । दन्दग्धि दन्दग्धि अरि-सैन्यम् आशु कक्षम् यथा वातसखः हुताशः ।
cakram yugānta-anala-tigma-nemi bhramat samantāt bhagavat-prayuktam . dandagdhi dandagdhi ari-sainyam āśu kakṣam yathā vātasakhaḥ hutāśaḥ .
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् २४ ।
गदे अशनि-स्पर्शन-विस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढि अजित-प्रिया असि । कुष्माण्ड-वैनायक-यक्ष-रक्षः भूत-ग्रहान् चूर्णय चूर्णय अरीन् ।
gade aśani-sparśana-visphuliṅge niṣpiṇḍhi niṣpiṇḍhi ajita-priyā asi . kuṣmāṇḍa-vaināyaka-yakṣa-rakṣaḥ bhūta-grahān cūrṇaya cūrṇaya arīn .
त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् २५ ।
त्वम् यातुधान-प्रमथ-प्रेत-मातृ पिशाच-विप्र-ग्रह-घोर-दृष्टीन् । दर-इन्द्र विद्रावय कृष्ण-पूरितः भीम-स्वनः अरेः हृदयानि कम्पयन् ।
tvam yātudhāna-pramatha-preta-mātṛ piśāca-vipra-graha-ghora-dṛṣṭīn . dara-indra vidrāvaya kṛṣṇa-pūritaḥ bhīma-svanaḥ areḥ hṛdayāni kampayan .
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् २६ ।
त्वम् तिग्म-धारा-असि-वर-अरि-सैन्यम् ईश-प्रयुक्तः मम छिन्धि छिन्धि । चक्षूंषि चर्मन् शत-चन्द्र छादय द्विषाम् अघोनाम् हर पाप-चक्षुषाम् ।
tvam tigma-dhārā-asi-vara-ari-sainyam īśa-prayuktaḥ mama chindhi chindhi . cakṣūṃṣi carman śata-candra chādaya dviṣām aghonām hara pāpa-cakṣuṣām .
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च २७ ।
यत् नः भयम् ग्रहेभ्यः अभूत् केतुभ्यः नृभ्यः एव च । सरीसृपेभ्यः दंष्ट्रिभ्यः भूतेभ्यः ॐ अहोभ्यः एव च ।
yat naḥ bhayam grahebhyaḥ abhūt ketubhyaḥ nṛbhyaḥ eva ca . sarīsṛpebhyaḥ daṃṣṭribhyaḥ bhūtebhyaḥ oṃ ahobhyaḥ eva ca .
सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः २८ ।
सर्वाणि एतानि भगवत्-नाम-रूप-अनुकीर्तनात् । प्रयान्तु सङ्क्षयम् सद्यस् ये नः श्रेयः-प्रतीपकाः ।
sarvāṇi etāni bhagavat-nāma-rūpa-anukīrtanāt . prayāntu saṅkṣayam sadyas ye naḥ śreyaḥ-pratīpakāḥ .
गरुडो भगवान्स्तोत्र स्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः २९ ।
गरुडः भगवान् स्तोत्र स्तोभः छन्दः-मयः प्रभुः । रक्षतु अशेष-कृच्छ्रेभ्यः विष्वक्सेनः स्व-नामभिः ।
garuḍaḥ bhagavān stotra stobhaḥ chandaḥ-mayaḥ prabhuḥ . rakṣatu aśeṣa-kṛcchrebhyaḥ viṣvaksenaḥ sva-nāmabhiḥ .
सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः । बुद्धीन्द्रि यमनःप्राणान्पान्तु पार्षदभूषणाः ३० ।
सर्व-आपद्भ्यः हरेः नाम रूपयान-आयुधानि नः । बुद्धीन्द्रि-य-मनः-प्राणान् पान्तु पार्षद-भूषणाः ।
sarva-āpadbhyaḥ hareḥ nāma rūpayāna-āyudhāni naḥ . buddhīndri-ya-manaḥ-prāṇān pāntu pārṣada-bhūṣaṇāḥ .
यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ३१ ।
यथा हि भगवान् एव वस्तुतस् सत्-असत् च यत् । सत्येन अनेन नः सर्वे यान्तु नाशम् उपद्रवाः ।
yathā hi bhagavān eva vastutas sat-asat ca yat . satyena anena naḥ sarve yāntu nāśam upadravāḥ .
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ३२ ।
यथा ऐकात्म्य-अनुभावानाम् विकल्प-रहितः स्वयम् । भूषण-आयुध-लिङ्ग-आख्याः धत्ते शक्तीः स्व-मायया ।
yathā aikātmya-anubhāvānām vikalpa-rahitaḥ svayam . bhūṣaṇa-āyudha-liṅga-ākhyāḥ dhatte śaktīḥ sva-māyayā .
तेनैव सत्यमानेन सर्वज्ञो भगवान्हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ३३ ।
तेन एव सत्य-मानेन सर्वज्ञः भगवान् हरिः । पातु सर्वैः स्व-रूपैः नः सदा सर्वत्र सर्व-गः ।
tena eva satya-mānena sarvajñaḥ bhagavān hariḥ . pātu sarvaiḥ sva-rūpaiḥ naḥ sadā sarvatra sarva-gaḥ .
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः । प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ३४ ।
विदिक्षु दिक्षु ऊर्ध्वम् अधस् समन्तात् अन्तर् बहिस् भगवान् नारसिंहः । प्रहापय लोक-भयम् स्वनेन स्व-तेजसा ग्रस्त-समस्त-तेजाः ।
vidikṣu dikṣu ūrdhvam adhas samantāt antar bahis bhagavān nārasiṃhaḥ . prahāpaya loka-bhayam svanena sva-tejasā grasta-samasta-tejāḥ .
मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् ३५ ।
मघवन् इदम् आख्यातम् वर्म नारायण-आत्मकम् । विजेष्यसे अञ्जसा येन दंशितः असुर-यूथपान् ।
maghavan idam ākhyātam varma nārāyaṇa-ātmakam . vijeṣyase añjasā yena daṃśitaḥ asura-yūthapān .
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ३६ ।
एतत् धारयमाणः तु यम् यम् पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यस् साध्वसात् स विमुच्यते ।
etat dhārayamāṇaḥ tu yam yam paśyati cakṣuṣā . padā vā saṃspṛśet sadyas sādhvasāt sa vimucyate .
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ३७ ।
न कुतश्चिद् भयम् तस्य विद्याम् धारयतः भवेत् । राज-दस्यु-ग्रह-आदिभ्यः व्याधि-आदिभ्यः च कर्हिचित् ।
na kutaścid bhayam tasya vidyām dhārayataḥ bhavet . rāja-dasyu-graha-ādibhyaḥ vyādhi-ādibhyaḥ ca karhicit .
इमां विद्यां पुरा कश्चित्कौशिको धारयन्द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ३८ ।
इमाम् विद्याम् पुरा कश्चिद् कौशिकः धारयन् द्विजः । योग-धारणया स्व-अङ्गम् जहौ स मरु-धन्वनि ।
imām vidyām purā kaścid kauśikaḥ dhārayan dvijaḥ . yoga-dhāraṇayā sva-aṅgam jahau sa maru-dhanvani .
तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ३९ ।
तस्य उपरि विमानेन गन्धर्व-पतिः एकदा । ययौ चित्ररथः स्त्रीभिः वृतः यत्र द्विज-क्षयः ।
tasya upari vimānena gandharva-patiḥ ekadā . yayau citrarathaḥ strībhiḥ vṛtaḥ yatra dvija-kṣayaḥ .
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ४० ।
गगनात् न्यपतत् सद्यस् स विमानः हि अवाक्शिराः । स वालखिल्य-वचनात् अस्थीनि आदाय विस्मितः । प्रास्य प्राचीसरस्वत्याम् स्नात्वा धाम स्वम् अन्वगात् ।
gaganāt nyapatat sadyas sa vimānaḥ hi avākśirāḥ . sa vālakhilya-vacanāt asthīni ādāya vismitaḥ . prāsya prācīsarasvatyām snātvā dhāma svam anvagāt .
श्रीशुक उवाच ।
य इदं शृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ४१ ।
यः इदम् शृणुयात् काले यः धारयति च आदृतः । तम् नमस्यन्ति भूतानि मुच्यते सर्वतस् भयात् ।
yaḥ idam śṛṇuyāt kāle yaḥ dhārayati ca ādṛtaḥ . tam namasyanti bhūtāni mucyate sarvatas bhayāt .
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ४२ ।
एताम् विद्याम् अधिगतः विश्वरूपात् शतक्रतुः । त्रैलोक्य-लक्ष्मीम् बुभुजे विनिर्जित्य मृधे असुरान् ।
etām vidyām adhigataḥ viśvarūpāt śatakratuḥ . trailokya-lakṣmīm bubhuje vinirjitya mṛdhe asurān .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे नारायणवर्मकथनम् नाम अष्टमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe nārāyaṇavarmakathanam nāma aṣṭamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In