| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १ ॥
तस्य आसन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोम-पीथम् सुरा-पीथम् अन्न-आदम् इति शुश्रुम ॥ १ ॥
tasya āsan viśvarūpasya śirāṃsi trīṇi bhārata . soma-pītham surā-pītham anna-ādam iti śuśruma .. 1 ..
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥
स वै बर्हिषि देवेभ्यः भागम् प्रत्यक्षम् उच्चकैस् । अददत् यस्य पितरः देवाः स प्रश्रयम् नृप ॥ २ ॥
sa vai barhiṣi devebhyaḥ bhāgam pratyakṣam uccakais . adadat yasya pitaraḥ devāḥ sa praśrayam nṛpa .. 2 ..
स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥ ३ ॥
सः एव हि ददौ भागम् परोक्षम् असुरान् प्रति । यजमानः अवहत् भागम् मातृ-स्नेह-वश-अनुगः ॥ ३ ॥
saḥ eva hi dadau bhāgam parokṣam asurān prati . yajamānaḥ avahat bhāgam mātṛ-sneha-vaśa-anugaḥ .. 3 ..
तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा ॥ ४ ॥
तत् देव-हेलनम् तस्य धर्म-अलीकम् सुरेश्वरः । आलक्ष्य तरसा भीतः तद्-शीर्षाणि अच्छिनत् रुषा ॥ ४ ॥
tat deva-helanam tasya dharma-alīkam sureśvaraḥ . ālakṣya tarasā bhītaḥ tad-śīrṣāṇi acchinat ruṣā .. 4 ..
सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः । कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः ॥ ५ ॥
सोम-पीथम् तु यत् तस्य शिरः आसीत् कपिञ्जलः । कलविङ्कः सुरा-पीथम् अन्न-आदम् यत् स तित्तिरिः ॥ ५ ॥
soma-pītham tu yat tasya śiraḥ āsīt kapiñjalaḥ . kalaviṅkaḥ surā-pītham anna-ādam yat sa tittiriḥ .. 5 ..
ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः । संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६ ॥
ब्रह्महत्याम् अञ्जलिना जग्राह यत् अपि ईश्वरः । संवत्सर-अन्ते तत् अघम् भूतानाम् स विशुद्धये ॥ ६ ॥
brahmahatyām añjalinā jagrāha yat api īśvaraḥ . saṃvatsara-ante tat agham bhūtānām sa viśuddhaye .. 6 ..
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः । भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ ७ ॥
भूमि-अम्बु-द्रुम-योषिद्भ्यः चतुर्धा व्यभजत् हरिः । भूमिः तुरीयम् जग्राह खातपूर-वरेण वै ॥ ७ ॥
bhūmi-ambu-druma-yoṣidbhyaḥ caturdhā vyabhajat hariḥ . bhūmiḥ turīyam jagrāha khātapūra-vareṇa vai .. 7 ..
ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते । तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ ८ ॥
ईरिणम् ब्रह्महत्यायाः रूपम् भूमौ प्रदृश्यते । तुर्यम् छेद-विरोहेण वरेण जगृहुः द्रुमाः ॥ ८ ॥
īriṇam brahmahatyāyāḥ rūpam bhūmau pradṛśyate . turyam cheda-viroheṇa vareṇa jagṛhuḥ drumāḥ .. 8 ..
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः । । ९ ॥
तेषाम् निर्यास-रूपेण ब्रह्महत्या प्रदृश्यते । शश्वत् काम-वरेण अंहः तुरीयम् जगृहुः स्त्रियः । । ९ ॥
teṣām niryāsa-rūpeṇa brahmahatyā pradṛśyate . śaśvat kāma-vareṇa aṃhaḥ turīyam jagṛhuḥ striyaḥ . . 9 ..
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते । द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ १० ॥
रजः-रूपेण तासु अंहः मासि मासि प्रदृश्यते । द्रव्य-भूयः-वरेण अपः तुरीयम् जगृहुः मलम् ॥ १० ॥
rajaḥ-rūpeṇa tāsu aṃhaḥ māsi māsi pradṛśyate . dravya-bhūyaḥ-vareṇa apaḥ turīyam jagṛhuḥ malam .. 10 ..
तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् । हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ ११ ॥
तासु बुद्बुद-फेनाभ्याम् दृष्टम् तत् हरति क्षिपन् । हत-पुत्रः ततस् त्वष्टा जुहाव इन्द्राय शत्रवे ॥ ११ ॥
tāsu budbuda-phenābhyām dṛṣṭam tat harati kṣipan . hata-putraḥ tatas tvaṣṭā juhāva indrāya śatrave .. 11 ..
इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् । अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ १२ ॥
इन्द्र-शत्रो विवर्धस्व मा चिरम् जहि विद्विषम् । अथ अन्वाहार्यपचनात् उत्थितः घोर-दर्शनः ॥ १२ ॥
indra-śatro vivardhasva mā ciram jahi vidviṣam . atha anvāhāryapacanāt utthitaḥ ghora-darśanaḥ .. 12 ..
कृतान्त इव लोकानां युगान्तसमये यथा । विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ॥ १३ ॥
कृतान्तः इव लोकानाम् युग-अन्त-समये यथा । विष्वक् विवर्धमानम् तम् इषु-मात्रम् दिने दिने ॥ १३ ॥
kṛtāntaḥ iva lokānām yuga-anta-samaye yathā . viṣvak vivardhamānam tam iṣu-mātram dine dine .. 13 ..
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् । तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥
दग्ध-शैल-प्रतीकाशम् सन्ध्या-अभ्र-अनीक-वर्चसम् । तप्त-ताम्र-शिखा-श्मश्रुम् मध्याह्न-अर्क-उग्र-लोचनम् ॥ १४ ॥
dagdha-śaila-pratīkāśam sandhyā-abhra-anīka-varcasam . tapta-tāmra-śikhā-śmaśrum madhyāhna-arka-ugra-locanam .. 14 ..
देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी । नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥
देदीप्यमाने त्रि-शिखे शूले आरोप्य रोदसी । नृत्यन्तम् उन्नदन्तम् च चालयन्तम् पदा महीम् ॥ १५ ॥
dedīpyamāne tri-śikhe śūle āropya rodasī . nṛtyantam unnadantam ca cālayantam padā mahīm .. 15 ..
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
दरी-गम्भीर-वक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वया ऋक्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
darī-gambhīra-vaktreṇa pibatā ca nabhastalam . lihatā jihvayā ṛkṣāṇi grasatā bhuvanatrayam .. 16 ..
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः । वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥
महता रौद्र-दंष्ट्रेण जृम्भमाणम् मुहुर् मुहुर् । वित्रस्ताः दुद्रुवुः लोकाः वीक्ष्य सर्वे दिशः दश ॥ १७ ॥
mahatā raudra-daṃṣṭreṇa jṛmbhamāṇam muhur muhur . vitrastāḥ dudruvuḥ lokāḥ vīkṣya sarve diśaḥ daśa .. 17 ..
येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८ ॥
येन आवृताः इमे लोकाः तपसा त्वाष्ट्र-मूर्तिना । स वै वृत्रः इति प्रोक्तः पापः परम-दारुणः ॥ १८ ॥
yena āvṛtāḥ ime lokāḥ tapasā tvāṣṭra-mūrtinā . sa vai vṛtraḥ iti proktaḥ pāpaḥ parama-dāruṇaḥ .. 18 ..
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः । स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः ॥ १९ ॥
तम् निजघ्नुः अभिद्रुत्य स गणाः विबुध-ऋषभाः । स्वैः स्वैः दिव्य-अस्त्र-शस्त्र-ओघैः सः अग्रसत् तानि कृत्स्नशस् ॥ १९ ॥
tam nijaghnuḥ abhidrutya sa gaṇāḥ vibudha-ṛṣabhāḥ . svaiḥ svaiḥ divya-astra-śastra-oghaiḥ saḥ agrasat tāni kṛtsnaśas .. 19 ..
ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः । प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ २० ॥
ततस् ते विस्मिताः सर्वे विषण्णाः ग्रस्त-तेजसः । प्रत्यञ्चम् आदि-पुरुषम् उपतस्थुः समाहिताः ॥ २० ॥
tatas te vismitāḥ sarve viṣaṇṇāḥ grasta-tejasaḥ . pratyañcam ādi-puruṣam upatasthuḥ samāhitāḥ .. 20 ..
श्रीदेवा ऊचुः
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः । हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥ २१ ॥
वायु-अम्बर-अग्नि-अप्-क्षितयः त्रि-लोकाः ब्रह्म-आदयः ये वयम् उद्विजन्तः । हराम यस्मै बलिम् अन्तकः असौ बिभेति यस्मात् अरणम् ततस् नः ॥ २१ ॥
vāyu-ambara-agni-ap-kṣitayaḥ tri-lokāḥ brahma-ādayaḥ ye vayam udvijantaḥ . harāma yasmai balim antakaḥ asau bibheti yasmāt araṇam tatas naḥ .. 21 ..
अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् । विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥
अ विस्मितम् तम् परिपूर्ण-कामम् स्वेन एव लाभेन समम् प्रशान्तम् । विना उपसर्पति अपरम् हि बालिशः श्वलाङ्गुलेन अतितितर्ति सिन्धुम् ॥ २२ ॥
a vismitam tam paripūrṇa-kāmam svena eva lābhena samam praśāntam . vinā upasarpati aparam hi bāliśaḥ śvalāṅgulena atititarti sindhum .. 22 ..
यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् । स एव नस्त्वाष्ट्रभयाद्दुरन्तात्त्राताश्रितान् वारिचरोऽपि नूनम् ॥ २३ ॥
यस्य ऊरु-शृङ्गे जगतीम् स्व-नावम् मनुः यथा आबध्य ततार दुर्गम् । सः एव नः त्वाष्ट्र-भयात् दुरन्तात् त्रात-आश्रितान् वारिचरः अपि नूनम् ॥ २३ ॥
yasya ūru-śṛṅge jagatīm sva-nāvam manuḥ yathā ābadhya tatāra durgam . saḥ eva naḥ tvāṣṭra-bhayāt durantāt trāta-āśritān vāricaraḥ api nūnam .. 23 ..
पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोर्मिरवैः कराले । एकोऽरविन्दात्पतितस्ततार तस्माद्भयाद्येन स नोऽस्तु पारः ॥ २४ ॥
पुरा स्वयम्भूः अपि संयम-अम्भसि उदीर्ण-वात-ऊर्मि-रवैः कराले । एकः अरविन्दात् पतितः ततार तस्मात् भयात् येन स नः अस्तु पारः ॥ २४ ॥
purā svayambhūḥ api saṃyama-ambhasi udīrṇa-vāta-ūrmi-ravaiḥ karāle . ekaḥ aravindāt patitaḥ tatāra tasmāt bhayāt yena sa naḥ astu pāraḥ .. 24 ..
य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः ॥ २५ ॥
यः एकः ईशः निज-मायया नः ससर्ज येन अनुसृजाम विश्वम् । वयम् न यस्य अपि पुरस् समीहतः पश्याम लिङ्गम् पृथक् ईश-मानिनः ॥ २५ ॥
yaḥ ekaḥ īśaḥ nija-māyayā naḥ sasarja yena anusṛjāma viśvam . vayam na yasya api puras samīhataḥ paśyāma liṅgam pṛthak īśa-māninaḥ .. 25 ..
यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव । कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात्पाति युगे युगे च ॥ २६ ॥
यः नः सपत्नैः भृश-मर्द्यमानान् देव-ऋषि-तिर्यक् नृषु नित्यः एव । कृत-अवतारः तनुभिः स्व-मायया कृत्वा आत्मसात् पाति युगे युगे च ॥ २६ ॥
yaḥ naḥ sapatnaiḥ bhṛśa-mardyamānān deva-ṛṣi-tiryak nṛṣu nityaḥ eva . kṛta-avatāraḥ tanubhiḥ sva-māyayā kṛtvā ātmasāt pāti yuge yuge ca .. 26 ..
तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् । व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥
तम् एव देवम् वयम् आत्म-दैवतम् परम् प्रधानम् पुरुषम् विश्वम् अन्यम् । व्रजाम सर्वे शरणम् शरण्यम् स्वानाम् स नः धास्यति शम् महात्मा ॥ २७ ॥
tam eva devam vayam ātma-daivatam param pradhānam puruṣam viśvam anyam . vrajāma sarve śaraṇam śaraṇyam svānām sa naḥ dhāsyati śam mahātmā .. 27 ..
श्रीशुक उवाच
इति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८ ॥
इति तेषाम् महा-राज सुराणाम् उपतिष्ठताम् । प्रतीच्याम् दिशि अभूत् आविस् शङ्ख-चक्र-गदा-धरः ॥ २८ ॥
iti teṣām mahā-rāja surāṇām upatiṣṭhatām . pratīcyām diśi abhūt āvis śaṅkha-cakra-gadā-dharaḥ .. 28 ..
आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ २९ ॥
आत्म-तुल्यैः षोडशभिः विना श्रीवत्स-कौस्तुभौ । पर्युपासितम् उन्निद्र शरद्-अम्बुरुह-ईक्षणम् ॥ २९ ॥
ātma-tulyaiḥ ṣoḍaśabhiḥ vinā śrīvatsa-kaustubhau . paryupāsitam unnidra śarad-amburuha-īkṣaṇam .. 29 ..
दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥ ३० ॥
दृष्ट्वा तम् अवनौ सर्वे ईक्षण-आह्लाद-विक्लवाः । दण्ड-वत् पतिताः राजन् शनैस् उत्थाय तुष्टुवुः ॥ ३० ॥
dṛṣṭvā tam avanau sarve īkṣaṇa-āhlāda-viklavāḥ . daṇḍa-vat patitāḥ rājan śanais utthāya tuṣṭuvuḥ .. 30 ..
श्रीदेवा ऊचुः
नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१ ॥
नमः ते यज्ञ-वीर्याय वयसे उत ते नमः । नमः ते ह्यस्त-चक्राय नमः सु पुरुहूतये ॥ ३१ ॥
namaḥ te yajña-vīryāya vayase uta te namaḥ . namaḥ te hyasta-cakrāya namaḥ su puruhūtaye .. 31 ..
यत्ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥
यत् ते गतीनाम् तिसृणाम् ईशितुः परमम् पदम् । न अर्वाचीनः विसर्गस्य धातर् वेदितुम् अर्हति ॥ ३२ ॥
yat te gatīnām tisṛṇām īśituḥ paramam padam . na arvācīnaḥ visargasya dhātar veditum arhati .. 32 ..
ओं नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥_*
ओम् नमः ते अस्तु भगवन् नारायण वासुदेव-आदि-पुरुष महापुरुष महा-अनुभाव परम-मङ्गल परम-कल्याण परम-कारुणिक केवल जगत्-आधार लोक-एकनाथ सर्वेश्वर परमहंस-परिव्राजकैः परमेण आत्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-धर्मेण उद्घाटित-तमः-कपाट-द्वारे चित्ते अपावृते आत्म-लोके स्वयम् उपलब्ध-निज-सुख-अनुभवः ॥ ३३ ॥
om namaḥ te astu bhagavan nārāyaṇa vāsudeva-ādi-puruṣa mahāpuruṣa mahā-anubhāva parama-maṅgala parama-kalyāṇa parama-kāruṇika kevala jagat-ādhāra loka-ekanātha sarveśvara paramahaṃsa-parivrājakaiḥ parameṇa ātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṃsya-dharmeṇa udghāṭita-tamaḥ-kapāṭa-dvāre citte apāvṛte ātma-loke svayam upalabdha-nija-sukha-anubhavaḥ .. 33 ..
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ ३४ ॥_*
दुरवबोधः इव तव अयम् विहार-योगः यत् अशरणः अशरीरः इदम्-अनवेक्षित-अस्मद्-समवायः आत्मना एव अ विक्रियमाणेन स गुणम् अगुणः सृजसि पासि हरसि ॥ ३४ ॥
duravabodhaḥ iva tava ayam vihāra-yogaḥ yat aśaraṇaḥ aśarīraḥ idam-anavekṣita-asmad-samavāyaḥ ātmanā eva a vikriyamāṇena sa guṇam aguṇaḥ sṛjasi pāsi harasi .. 34 ..
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥_*
अथ तत्र भवान् किम् देवदत्त-वत् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्व-कृत-कुशल-अकुशलम् फलम् उपाददाति आहोस्वित् आत्म-आरामः उपशम-शीलः समञ्जस-दर्शनः उदास्ते इति ह वाव न विदामः ॥ ३५ ॥
atha tatra bhavān kim devadatta-vat iha guṇa-visarga-patitaḥ pāratantryeṇa sva-kṛta-kuśala-akuśalam phalam upādadāti āhosvit ātma-ārāmaḥ upaśama-śīlaḥ samañjasa-darśanaḥ udāste iti ha vāva na vidāmaḥ .. 35 ..
न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥_*
न हि विरोधे उभयम् भगवति अपरिमित-गुण-गणे ईश्वरे अन् अवगाह्य-माहात्म्ये अर्वाचीन-विकल्प-वितर्क-विचार-प्रमाण-आभास-कुतर्क-शास्त्र-कलिल-अन्तःकरण-आश्रय-दुरवग्रह-वादिनाम् विवाद-अनवसरे उपरत-समस्त-माया-मये केवले एव आत्म-मायाम् अन्तर्धाय कः नु अर्थः दुर्घटः इव भवति स्व-रूप-द्वय-अभावात् ॥ ३६ ॥
na hi virodhe ubhayam bhagavati aparimita-guṇa-gaṇe īśvare an avagāhya-māhātmye arvācīna-vikalpa-vitarka-vicāra-pramāṇa-ābhāsa-kutarka-śāstra-kalila-antaḥkaraṇa-āśraya-duravagraha-vādinām vivāda-anavasare uparata-samasta-māyā-maye kevale eva ātma-māyām antardhāya kaḥ nu arthaḥ durghaṭaḥ iva bhavati sva-rūpa-dvaya-abhāvāt .. 36 ..
समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ ३७ ॥_*
सम-विषम-मतीनाम् मतम् अनुसरसि यथा रज्जु-खण्डः सर्प-आदि-धियाम् ॥ ३७ ॥
sama-viṣama-matīnām matam anusarasi yathā rajju-khaṇḍaḥ sarpa-ādi-dhiyām .. 37 ..
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥_*
सः एव हि पुनर् सर्व-वस्तुनि वस्तु-स्वरूपः सर्व-ईश्वरः सकल-जगत्-कारण-कारण-भूतः सर्व-प्रत्यगात्म-त्वात् सर्व-गुण-आभास-उपलक्षितः एकः एव पर्यवशेषितः ॥ ३८ ॥
saḥ eva hi punar sarva-vastuni vastu-svarūpaḥ sarva-īśvaraḥ sakala-jagat-kāraṇa-kāraṇa-bhūtaḥ sarva-pratyagātma-tvāt sarva-guṇa-ābhāsa-upalakṣitaḥ ekaḥ eva paryavaśeṣitaḥ .. 38 ..
अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ ३९ ॥_*
अथ ह वाव तव महिम-अमृत-रस-समुद्र-विप्रुषा सकृत् अवलीढया स्व-मनसि निस्यन्दमाना अनवरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-लेश-आभासाः परम-भागवताः एकान्तिनः भगवति सर्व-भूत-प्रिय-सुहृदि सर्व-आत्मनि नितराम् निरन्तरम् निर्वृत-मनसः कथम् उ ह वै एते मधुमथन पुनर् स्व-अर्थ-कुशला हि आत्म-प्रिय-सुहृदः साधवः त्वद्-चरण-अम्बुज-आनु-सेवाम् विसृजन्ति न यत्र पुनर् अयम् संसार-पर्यावर्तः ॥ ३९ ॥
atha ha vāva tava mahima-amṛta-rasa-samudra-vipruṣā sakṛt avalīḍhayā sva-manasi nisyandamānā anavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha-leśa-ābhāsāḥ parama-bhāgavatāḥ ekāntinaḥ bhagavati sarva-bhūta-priya-suhṛdi sarva-ātmani nitarām nirantaram nirvṛta-manasaḥ katham u ha vai ete madhumathana punar sva-artha-kuśalā hi ātma-priya-suhṛdaḥ sādhavaḥ tvad-caraṇa-ambuja-ānu-sevām visṛjanti na yatra punar ayam saṃsāra-paryāvartaḥ .. 39 ..
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥_*
त्रिभुवन-आत्म-भवन त्रिविक्रम त्रिनयन त्रिलोक-मनोहर-अनुभाव तव एव विभूतयः दितिज-दनुज-आदयः च अपि तेषाम् उपक्रम-समयः अयम् इति स्व-आत्म-मायया सुर-नर-मृग-मिश्रित-जलचर-आकृतिभिः यथापराधम् दण्डम् दण्डधर दधर्थ एवम् एनम् अपि भगवन् जहि त्वाष्ट्रम् उत यदि मन्यसे ॥ ४० ॥
tribhuvana-ātma-bhavana trivikrama trinayana triloka-manohara-anubhāva tava eva vibhūtayaḥ ditija-danuja-ādayaḥ ca api teṣām upakrama-samayaḥ ayam iti sva-ātma-māyayā sura-nara-mṛga-miśrita-jalacara-ākṛtibhiḥ yathāparādham daṇḍam daṇḍadhara dadhartha evam enam api bhagavan jahi tvāṣṭram uta yadi manyase .. 40 ..
अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥_*
अस्माकम् तावकानाम् तततत नतानाम् हरे तव चरण-नलिन-युगल-ध्यान-अनुबद्ध-हृदय-निगडानाम् स्व-लिङ्ग-विवरणेन आत्मसात् कृतानाम् अनुकम्पा-अनुरञ्जित-विशद-रुचिर-शिशिर-स्मित-अवलोकेन विगलित-मधुर-मुख-रस-अमृत-कलया च अन्तर् तापम् अनघ अर्हसि शमयितुम् ॥ ४१ ॥
asmākam tāvakānām tatatata natānām hare tava caraṇa-nalina-yugala-dhyāna-anubaddha-hṛdaya-nigaḍānām sva-liṅga-vivaraṇena ātmasāt kṛtānām anukampā-anurañjita-viśada-rucira-śiśira-smita-avalokena vigalita-madhura-mukha-rasa-amṛta-kalayā ca antar tāpam anagha arhasi śamayitum .. 41 ..
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ ४२ ॥_*
अथ भगवन् तव अस्माभिः अखिल-जगत्-उत्पत्ति-स्थिति-लय-निमित्तायमान-दिव्य-माया-विनोदस्य सकल-जीवनिकायानाम् अन्तर् हृदयेषु बहिस् अपि च ब्रह्म-प्रत्यगात्म-स्व-रूपेण प्रधान-रूपेण च यथा देश-काल-देह-अवस्थान-विशेषम् तद्-उपादान-उपलम्भक-तया अनुभवतः सर्व-प्रत्यय-साक्षिणः आकाश-शरीरस्य साक्षात् पर-ब्रह्मणः परमात्मनः कियान् इह वा अर्थ-विशेषः विज्ञापनीयः स्यात् विस्फुलिङ्ग-आदिभिः इव हिरण्यरेतसः ॥ ४२ ॥
atha bhagavan tava asmābhiḥ akhila-jagat-utpatti-sthiti-laya-nimittāyamāna-divya-māyā-vinodasya sakala-jīvanikāyānām antar hṛdayeṣu bahis api ca brahma-pratyagātma-sva-rūpeṇa pradhāna-rūpeṇa ca yathā deśa-kāla-deha-avasthāna-viśeṣam tad-upādāna-upalambhaka-tayā anubhavataḥ sarva-pratyaya-sākṣiṇaḥ ākāśa-śarīrasya sākṣāt para-brahmaṇaḥ paramātmanaḥ kiyān iha vā artha-viśeṣaḥ vijñāpanīyaḥ syāt visphuliṅga-ādibhiḥ iva hiraṇyaretasaḥ .. 42 ..
अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३ ॥_*
अतस् एव स्वयम् तत् उपकल्पय अस्माकम् भगवतः परम-गुरोः तव चरण-शत-पलाश-छायाम् विविध-वृजिन-संसार-परिश्रम-उपशमनीम् उपसृतानाम् वयम् यद्-कामेन उपसादिताः ॥ ४३ ॥
atas eva svayam tat upakalpaya asmākam bhagavataḥ parama-guroḥ tava caraṇa-śata-palāśa-chāyām vividha-vṛjina-saṃsāra-pariśrama-upaśamanīm upasṛtānām vayam yad-kāmena upasāditāḥ .. 43 ..
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥
अथ उ ईश जहि त्वाष्ट्रम् ग्रसन्तम् भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांसि अस्त्र-आयुधानि च ॥ ४४ ॥
atha u īśa jahi tvāṣṭram grasantam bhuvanatrayam . grastāni yena naḥ kṛṣṇa tejāṃsi astra-āyudhāni ca .. 44 ..
हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्तावन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥
हंसाय दह्र-निलयाय निरीक्षकाय कृष्णाय मृष्ट-यशसे निरुपक्रमाय । सत्-सङ्ग्रहाय भव-पान्थ-निज-आश्रम-आप्तौ अन्ते परीष्ट-गतये हरये नमः ते ॥ ४५ ॥
haṃsāya dahra-nilayāya nirīkṣakāya kṛṣṇāya mṛṣṭa-yaśase nirupakramāya . sat-saṅgrahāya bhava-pāntha-nija-āśrama-āptau ante parīṣṭa-gataye haraye namaḥ te .. 45 ..
श्रीशुक उवाच
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः । स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६ ॥
अथा एवम् ईडितः राजन् स आदरम् त्रिदशैः हरिः । स्वम् उपस्थानम् आकर्ण्य प्राह तान् अभिनन्दितः ॥ ४६ ॥
athā evam īḍitaḥ rājan sa ādaram tridaśaiḥ hariḥ . svam upasthānam ākarṇya prāha tān abhinanditaḥ .. 46 ..
श्रीभगवानुवाच
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया । आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥
प्रीतः अहम् वः सुर-श्रेष्ठाः मद्-उपस्थान-विद्यया । आत्म-ऐश्वर्य-स्मृतिः पुंसाम् भक्तिः च एव यया मयि ॥ ४७ ॥
prītaḥ aham vaḥ sura-śreṣṭhāḥ mad-upasthāna-vidyayā . ātma-aiśvarya-smṛtiḥ puṃsām bhaktiḥ ca eva yayā mayi .. 47 ..
किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥
किम् दुरापम् मयि प्रीते तथा अपि विबुध-ऋषभाः । मयि एकान्त-मतिः न अन्यत् मत्तः वाञ्छति तत्त्व-विद् ॥ ४८ ॥
kim durāpam mayi prīte tathā api vibudha-ṛṣabhāḥ . mayi ekānta-matiḥ na anyat mattaḥ vāñchati tattva-vid .. 48 ..
न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९ ॥
न वेद कृपणः श्रेयः आत्मनः गुण-वस्तु-दृश् । तस्य तान् इच्छतः यच्छेत् यदि सः अपि तथाविधः ॥ ४९ ॥
na veda kṛpaṇaḥ śreyaḥ ātmanaḥ guṇa-vastu-dṛś . tasya tān icchataḥ yacchet yadi saḥ api tathāvidhaḥ .. 49 ..
स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ ५० ॥
स्वयम् निःश्रेयसम् विद्वान् न वक्ति अज्ञाय कर्म हि । न राति रोगिणः अपथ्यम् वाञ्छतः अपि भिषक्तमः ॥ ५० ॥
svayam niḥśreyasam vidvān na vakti ajñāya karma hi . na rāti rogiṇaḥ apathyam vāñchataḥ api bhiṣaktamaḥ .. 50 ..
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१ ॥
मघवन् यात भद्रम् वः दध्यञ्चम् ऋषि-सत्तमम् । विद्या-व्रत-तपः-सारम् गात्रम् याचत मा चिरम् ॥ ५१ ॥
maghavan yāta bhadram vaḥ dadhyañcam ṛṣi-sattamam . vidyā-vrata-tapaḥ-sāram gātram yācata mā ciram .. 51 ..
स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् । यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥
स वै अधिगतः दध्यङ् अश्विभ्याम् ब्रह्म निष्कलम् । यत् वै अश्वशिरः नाम तयोः अमर-ताम् व्यधात् ॥ ५२ ॥
sa vai adhigataḥ dadhyaṅ aśvibhyām brahma niṣkalam . yat vai aśvaśiraḥ nāma tayoḥ amara-tām vyadhāt .. 52 ..
दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् । विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥ ५३ ॥
दध्यङ् आथर्वणः त्वष्ट्रे वर्म अभेद्यम् मद्-आत्मकम् । विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वम् अधाः ततस् ॥ ५३ ॥
dadhyaṅ ātharvaṇaḥ tvaṣṭre varma abhedyam mad-ātmakam . viśvarūpāya yat prādāt tvaṣṭā yat tvam adhāḥ tatas .. 53 ..
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः । येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ ५४ ॥
युष्मभ्यम् याचितः अश्विभ्याम् धर्म-ज्ञः अङ्गानि दास्यति । ततस् तैः आयुध-श्रेष्ठः विश्वकर्म-विनिर्मितः । येन वृत्र-शिरः हर्ता मद्-तेजः-उपबृंहितः ॥ ५४ ॥
yuṣmabhyam yācitaḥ aśvibhyām dharma-jñaḥ aṅgāni dāsyati . tatas taiḥ āyudha-śreṣṭhaḥ viśvakarma-vinirmitaḥ . yena vṛtra-śiraḥ hartā mad-tejaḥ-upabṛṃhitaḥ .. 54 ..
तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः । भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥
तस्मिन् विनिहते यूयम् तेजः-अस्त्र-आयुध-सम्पदः । भूयस् प्राप्स्यथ भद्रम् वः न हिंसन्ति च मद्-परान् ॥ ५५ ॥
tasmin vinihate yūyam tejaḥ-astra-āyudha-sampadaḥ . bhūyas prāpsyatha bhadram vaḥ na hiṃsanti ca mad-parān .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe navamaḥ adhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In