| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृह ऋद्धिमत् ॥ १ ॥
एवम् एतत् पुरा पृष्टः मैत्रेयः भगवान् किल । क्षत्त्रा वनम् प्रविष्टेन त्यक्त्वा स्व-गृहे ऋद्धिमत् ॥ १ ॥
evam etat purā pṛṣṭaḥ maitreyaḥ bhagavān kila . kṣattrā vanam praviṣṭena tyaktvā sva-gṛhe ṛddhimat .. 1 ..
यद्वा अयं मंत्रकृद्वो भगवान् अखिलेश्वरः । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥
यत् वै अयम् मंत्र-कृत् वः भगवान् अखिल-ईश्वरः । पौरव-इन्द्र-गृहम् हित्वा प्रविवेश आत्मसात् कृतम् ॥ २ ॥
yat vai ayam maṃtra-kṛt vaḥ bhagavān akhila-īśvaraḥ . paurava-indra-gṛham hitvā praviveśa ātmasāt kṛtam .. 2 ..
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः । कदा वा सहसंवाद एतद् वर्णय नः प्रभो ॥ ३ ॥
कुत्र क्षत्तुः भगवता मैत्रेयेण आस सङ्गमः । कदा वा सहसंवादः एतत् वर्णय नः प्रभो ॥ ३ ॥
kutra kṣattuḥ bhagavatā maitreyeṇa āsa saṅgamaḥ . kadā vā sahasaṃvādaḥ etat varṇaya naḥ prabho .. 3 ..
न ह्यल्पार्थोदयस्तस्य विदुरस्य अमलात्मनः । तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ ४ ॥
न हि अल्प-अर्थ-उदयः तस्य विदुरस्य अमल-आत्मनः । तस्मिन् वरीयसि प्रश्नः साधुवाद-उपबृंहितः ॥ ४ ॥
na hi alpa-artha-udayaḥ tasya vidurasya amala-ātmanaḥ . tasmin varīyasi praśnaḥ sādhuvāda-upabṛṃhitaḥ .. 4 ..
सूत उवाच ।
स एवं ऋषिवर्योऽयं पृष्टो राज्ञा परीक्षिता । प्रत्याह तं सुबहुवित् प्रीतात्मा श्रूयतामिति ॥ ५ ॥
सः एवम् ऋषि-वर्यः अयम् पृष्टः राज्ञा परीक्षिता । प्रत्याह तम् सु बहु-विद् प्रीत-आत्मा श्रूयताम् इति ॥ ५ ॥
saḥ evam ṛṣi-varyaḥ ayam pṛṣṭaḥ rājñā parīkṣitā . pratyāha tam su bahu-vid prīta-ātmā śrūyatām iti .. 5 ..
श्रीशुक उवाच ।
यदा तु राजा स्वसुतानसाधून् पुष्णन् न धर्मेण विनष्टदृष्टिः । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥
यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः । भ्रातुः यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा-भवने ददाह ॥ ६ ॥
yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ . bhrātuḥ yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha .. 6 ..
यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥
यदा सभायाम् कुरु-देव-देव्याः केश-अभिमर्शम् सुत-कर्म गर्ह्यम् । न वारयामास नृपः स्नुषायाः स्व-अस्रैः हरन्त्याः कुच-कुङ्कुमानि ॥ ७ ॥
yadā sabhāyām kuru-deva-devyāḥ keśa-abhimarśam suta-karma garhyam . na vārayāmāsa nṛpaḥ snuṣāyāḥ sva-asraiḥ harantyāḥ kuca-kuṅkumāni .. 7 ..
द्यूते त्वधर्मेण जितस्य साधोः सत्यावलंबस्य वनं गतस्य । न याचतोऽदात् समयेन दायं तमोजुषाणो यदजातशत्रोः ॥ ८ ॥
द्यूते तु अधर्मेण जितस्य साधोः सत्य-अवलंबस्य वनम् गतस्य । न याचतः अदात् समयेन दायम् यत् अजातशत्रोः ॥ ८ ॥
dyūte tu adharmeṇa jitasya sādhoḥ satya-avalaṃbasya vanam gatasya . na yācataḥ adāt samayena dāyam yat ajātaśatroḥ .. 8 ..
यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः । न तानि पुंसां अमृतायनानि राजोरु मेने क्षतपुण्यलेशः ॥ ९ ॥
यदा च पार्थ-प्रहितः सभायाम् जगद्गुरुः यानि जगाद कृष्णः । न तानि पुंसाम् अमृतायनानि राजा उरु मेने क्षत-पुण्य-लेशः ॥ ९ ॥
yadā ca pārtha-prahitaḥ sabhāyām jagadguruḥ yāni jagāda kṛṣṇaḥ . na tāni puṃsām amṛtāyanāni rājā uru mene kṣata-puṇya-leśaḥ .. 9 ..
यदोपहूतो भवनं प्रविष्टो मंत्राय पृष्टः किल पूर्वजेन । अथाह तन्मंत्रदृशां वरीयान् यन्मंत्रिणो वैदुरिकं वदन्ति ॥ १० ॥
यदा उपहूतः भवनम् प्रविष्टः मंत्राय पृष्टः किल पूर्वजेन । अथ आह तत् मंत्र-दृशाम् वरीयान् यत् मंत्रिणः वैदुरिकम् वदन्ति ॥ १० ॥
yadā upahūtaḥ bhavanam praviṣṭaḥ maṃtrāya pṛṣṭaḥ kila pūrvajena . atha āha tat maṃtra-dṛśām varīyān yat maṃtriṇaḥ vaidurikam vadanti .. 10 ..
अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः । सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥
अजातशत्रोः प्रतियच्छ दायम् तितिक्षतः दुर्विषहम् तव आगः । सहानुजः यत्र वृकोदर अहिः श्वसन् रुषा यत् त्वम् अलम् बिभेषि ॥ ११ ॥
ajātaśatroḥ pratiyaccha dāyam titikṣataḥ durviṣaham tava āgaḥ . sahānujaḥ yatra vṛkodara ahiḥ śvasan ruṣā yat tvam alam bibheṣi .. 11 ..
पार्थांस्तु देवो भगवान् मुकुन्दो गृहीतवान् स क्षितिदेवदेवः । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेष नृदेवदेवः ॥ १२ ॥
पार्थान् तु देवः भगवान् मुकुन्दः गृहीतवान् स क्षितिदेव-देवः । आस्ते स्व-पुर्याम् यदु-देवदेवः विनिर्जित-अशेष नृदेव-देवः ॥ १२ ॥
pārthān tu devaḥ bhagavān mukundaḥ gṛhītavān sa kṣitideva-devaḥ . āste sva-puryām yadu-devadevaḥ vinirjita-aśeṣa nṛdeva-devaḥ .. 12 ..
स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या । पुष्णासि कृष्णाद्विमुखो गतश्रीः त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥
सः एष दोषः पुरुष-द्विष् आस्ते गृहान् प्रविष्टः यम् अपत्य-मत्या । पुष्णासि कृष्णात् विमुखः गत-श्रीः त्यज अश्व-शैवम् कुल-कौशलाय ॥ १३ ॥
saḥ eṣa doṣaḥ puruṣa-dviṣ āste gṛhān praviṣṭaḥ yam apatya-matyā . puṣṇāsi kṛṣṇāt vimukhaḥ gata-śrīḥ tyaja aśva-śaivam kula-kauśalāya .. 13 ..
इति ऊचिवान् तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥
इति ऊचिवान् तत्र सुयोधनेन प्रवृद्ध-कोप-स्फुरित-अधरेण । असत्कृतः सत्-स्पृहणीय-शीलः क्षत्ता स कर्णानुज-सौबलेन ॥ १४ ॥
iti ūcivān tatra suyodhanena pravṛddha-kopa-sphurita-adhareṇa . asatkṛtaḥ sat-spṛhaṇīya-śīlaḥ kṣattā sa karṇānuja-saubalena .. 14 ..
क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः ॥ १५ ॥
कः एनम् अत्रा उपजुहाव जिह्मम् दास्याः सुतम् यद्-बलिना एव पुष्टः । तस्मिन् प्रतीपः परकृत्यः आस्ते निर्वास्यताम् आशु पुरात् श्वसानः ॥ १५ ॥
kaḥ enam atrā upajuhāva jihmam dāsyāḥ sutam yad-balinā eva puṣṭaḥ . tasmin pratīpaḥ parakṛtyaḥ āste nirvāsyatām āśu purāt śvasānaḥ .. 15 ..
स इत्थमत्युल्बणकर्णबाणैः भ्रातुः पुरो मर्मसु ताडितोऽपि । स्वयं धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः ॥ १६ ॥
सः इत्थम् अत्युल्बण-कर्ण-बाणैः भ्रातुः पुरस् मर्मसु ताडितः अपि । स्वयम् धनुः-द्वारि निधाय मायाम् गत-व्यथः अयात् उरु मानयानः ॥ १६ ॥
saḥ ittham atyulbaṇa-karṇa-bāṇaiḥ bhrātuḥ puras marmasu tāḍitaḥ api . svayam dhanuḥ-dvāri nidhāya māyām gata-vyathaḥ ayāt uru mānayānaḥ .. 16 ..
स निर्गतः कौरवपुण्यलब्धो गजाह्वयात् तीर्थपदः पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां स्वधिष्ठितो यानि सहस्रमूर्तिः ॥ १७ ॥
स निर्गतः कौरव-पुण्य-लब्धः गज-आह्वयात् तीर्थ-पदः पदानि । अन्वाक्रमत् पुण्य-चिकीर्षया उर्व्याम् सु अधिष्ठितः यानि सहस्रमूर्तिः ॥ १७ ॥
sa nirgataḥ kaurava-puṇya-labdhaḥ gaja-āhvayāt tīrtha-padaḥ padāni . anvākramat puṇya-cikīrṣayā urvyām su adhiṣṭhitaḥ yāni sahasramūrtiḥ .. 17 ..
पुरेषु पुण्योपवनाद्रिकुञ्जे ष्वपङ्कतोयेषु सरित्सरःसु । अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः ॥ १८ ॥
पुरेषु पुण्य-उपवन-अद्रि-कुञ्जे सु अपङ्क-तोयेषु सरित्-सरःसु । अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थ-आयतनेषु अनन्यः ॥ १८ ॥
pureṣu puṇya-upavana-adri-kuñje su apaṅka-toyeṣu sarit-saraḥsu . ananta-liṅgaiḥ samalaṅkṛteṣu cacāra tīrtha-āyataneṣu ananyaḥ .. 18 ..
गां पर्यटन् मेध्यविविक्तवृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः । अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥
गाम् पर्यटन् मेध्य-विविक्त-वृत्तिः सदा आप्लुतः अधस् शयनः अवधूतः । अलक्षितः स्वैः अवधूत-वेषः व्रतानि चेरे हरि-तोषणानि ॥ १९ ॥
gām paryaṭan medhya-vivikta-vṛttiḥ sadā āplutaḥ adhas śayanaḥ avadhūtaḥ . alakṣitaḥ svaiḥ avadhūta-veṣaḥ vratāni cere hari-toṣaṇāni .. 19 ..
इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्गतवान् प्रभासम् । तावच्छशास क्षितिमेक चक्रां एकातपत्रामजितेन पार्थः ॥ २० ॥
इत्थम् व्रजन् भारतम् एव वर्षम् कालेन यावत् गतवान् प्रभासम् । तावत् शशास क्षितिम् एक-चक्राम् एक-आतपत्राम् अजितेन पार्थः ॥ २० ॥
ittham vrajan bhāratam eva varṣam kālena yāvat gatavān prabhāsam . tāvat śaśāsa kṣitim eka-cakrām eka-ātapatrām ajitena pārthaḥ .. 20 ..
तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुज वह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥
तत्र अथ शुश्राव सुहृद्-विनष्टिम् वनम् यथा वेणु-ज वह्नि-संश्रयम् । संस्पर्धया दग्धम् अथ अनुशोचन् सरस्वतीम् प्रत्यक् इयाय तूष्णीम् ॥ २१ ॥
tatra atha śuśrāva suhṛd-vinaṣṭim vanam yathā veṇu-ja vahni-saṃśrayam . saṃspardhayā dagdham atha anuśocan sarasvatīm pratyak iyāya tūṣṇīm .. 21 ..
तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः । तीर्थं सुदासस्य गवां गुहस्य यत् श्राद्धदेवस्य स आसिषेवे ॥ २२ ॥
तस्याम् त्रितस्य उशनसः मनोः च पृथोः अथ अग्नेः असितस्य वायोः । तीर्थम् सुदासस्य गवाम् गुहस्य यत् श्राद्धदेवस्य सः आसिषेवे ॥ २२ ॥
tasyām tritasya uśanasaḥ manoḥ ca pṛthoḥ atha agneḥ asitasya vāyoḥ . tīrtham sudāsasya gavām guhasya yat śrāddhadevasya saḥ āsiṣeve .. 22 ..
अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्ग मुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥ २३ ॥
अन्यानि च इह द्विजदेव-देवैः कृतानि नाना आयतनानि विष्णोः । प्रत्यङ्ग मुख्य-अङ्कित-मन्दिराणि यद्-दर्शनात् कृष्णम् अनुस्मरन्ति ॥ २३ ॥
anyāni ca iha dvijadeva-devaiḥ kṛtāni nānā āyatanāni viṣṇoḥ . pratyaṅga mukhya-aṅkita-mandirāṇi yad-darśanāt kṛṣṇam anusmaranti .. 23 ..
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥
ततस् तु अतिव्रज्य सुराष्ट्रम् ऋद्धम् सौवीर-मत्स्यान् कुरुजाङ्गलान् च । कालेन तावत् यमुनाम् उपेत्य तत्र उद्धवम् भागवतम् ददर्श ॥ २४ ॥
tatas tu ativrajya surāṣṭram ṛddham sauvīra-matsyān kurujāṅgalān ca . kālena tāvat yamunām upetya tatra uddhavam bhāgavatam dadarśa .. 24 ..
स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम् । आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानां अपृच्छद् भागवत्प्रजानाम् ॥ २५ ॥
स वासुदेव-अनुचरम् प्रशान्तम् बृहस्पतेः प्राच्-तनयम् प्रतीतम् । आलिङ्ग्य गाढम् प्रणयेन भद्रम् स्वानाम् अपृच्छत् भागवत्-प्रजानाम् ॥ २५ ॥
sa vāsudeva-anucaram praśāntam bṛhaspateḥ prāc-tanayam pratītam . āliṅgya gāḍham praṇayena bhadram svānām apṛcchat bhāgavat-prajānām .. 25 ..
कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥
कच्चित् पुराणौ पुरुषौ पाद्म-अनुवृत्त्या इह किल अवतीर्णौ । आसातः उर्व्याः कुशलम् विधाय कृतक्षणौ कुशलम् शूर-गेहे ॥ २६ ॥
kaccit purāṇau puruṣau pādma-anuvṛttyā iha kila avatīrṇau . āsātaḥ urvyāḥ kuśalam vidhāya kṛtakṣaṇau kuśalam śūra-gehe .. 26 ..
कच्चित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः । यो वै स्वसॄणां पितृवद् ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥
कच्चित् कुरूणाम् परमः सुहृद् नः भामः सः आस्ते सुखम् अङ्ग शौरिः । यः वै स्वसॄणाम् पितृ-वत् ददाति वरान् वदान्यः वर-तर्पणेन ॥ २७ ॥
kaccit kurūṇām paramaḥ suhṛd naḥ bhāmaḥ saḥ āste sukham aṅga śauriḥ . yaḥ vai svasṝṇām pitṛ-vat dadāti varān vadānyaḥ vara-tarpaṇena .. 27 ..
कच्चिद् वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः । यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥
कच्चित् वरूथ-अधिपतिः यदूनाम् प्रद्युम्नः आस्ते सुखम् अङ्ग वीरः । यम् रुक्मिणी भगवतः अभिलेभे आराध्य विप्रान् स्मरम् आदिसर्गे ॥ २८ ॥
kaccit varūtha-adhipatiḥ yadūnām pradyumnaḥ āste sukham aṅga vīraḥ . yam rukmiṇī bhagavataḥ abhilebhe ārādhya viprān smaram ādisarge .. 28 ..
कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते । यमभ्यषिञ्चत् शतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥
कच्चित् सुखम् सात्वत-वृष्णि-भोज दाशार्हकाणाम् अधिपः सः आस्ते । यम् अभ्यषिञ्चत् शतपत्र-नेत्रः नृपासन-आशाम् परिहृत्य दूरात् ॥ २९ ॥
kaccit sukham sātvata-vṛṣṇi-bhoja dāśārhakāṇām adhipaḥ saḥ āste . yam abhyaṣiñcat śatapatra-netraḥ nṛpāsana-āśām parihṛtya dūrāt .. 29 ..
कच्चिद् हरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥
कच्चित् हरेः सौम्य सुतः सदृक्षः आस्ते अग्रणी रथिनाम् साधु साम्बः । असूत यम् जाम्बवती व्रत-आढ्या देवम् गुहम् यः अम्बिकया धृतः अग्रे ॥ ३० ॥
kaccit hareḥ saumya sutaḥ sadṛkṣaḥ āste agraṇī rathinām sādhu sāmbaḥ . asūta yam jāmbavatī vrata-āḍhyā devam guham yaḥ ambikayā dhṛtaḥ agre .. 30 ..
क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनात् लब्धधनूरहस्यः । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥
क्षेमम् स कच्चित् युयुधानः आस्ते यः फाल्गुनात् लब्ध-धनू-रहस्यः । लेभे अञ्जसा अधोक्षज-सेवया एव गतिम् तदीयाम् यतिभिः दुरापाम् ॥ ३१ ॥
kṣemam sa kaccit yuyudhānaḥ āste yaḥ phālgunāt labdha-dhanū-rahasyaḥ . lebhe añjasā adhokṣaja-sevayā eva gatim tadīyām yatibhiḥ durāpām .. 31 ..
कच्चिद् बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः । यः कृष्णपादाङ्कितमार्गपांसु ष्वचेष्टत प्रेमविभिन्नधैर्यः ॥ ३२ ॥
कच्चित् बुधः स्वस्ति-अनमीवः आस्ते श्वफल्क-पुत्रः भगवत्-प्रपन्नः । यः कृष्ण-पाद-अङ्कित-मार्ग-पांसु प्रेम-विभिन्न-धैर्यः ॥ ३२ ॥
kaccit budhaḥ svasti-anamīvaḥ āste śvaphalka-putraḥ bhagavat-prapannaḥ . yaḥ kṛṣṇa-pāda-aṅkita-mārga-pāṃsu prema-vibhinna-dhairyaḥ .. 32 ..
कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥
कच्चित् शिवम् देवकभोजपुत्र्याः विष्णु-प्रजायाः इव देवमातुः । या वै स्व-गर्भेण दधार देवम् त्रयी यथा यज्ञ-वितानम् अर्थम् ॥ ३३ ॥
kaccit śivam devakabhojaputryāḥ viṣṇu-prajāyāḥ iva devamātuḥ . yā vai sva-garbheṇa dadhāra devam trayī yathā yajña-vitānam artham .. 33 ..
अपिस्विदास्ते भगवान् सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥
अपि स्विद् आस्ते भगवान् सुखम् वः यः सात्वताम् कामदुघः अनिरुद्धः । यम् आमनन्ति स्म हि शब्दयोनिम् मनः-मयम् सत्त्व-तुरीय-तत्त्वम् ॥ ३४ ॥
api svid āste bhagavān sukham vaḥ yaḥ sātvatām kāmadughaḥ aniruddhaḥ . yam āmananti sma hi śabdayonim manaḥ-mayam sattva-turīya-tattvam .. 34 ..
अपिस्विदन्ये च निजात्मदैवं अनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मज चारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य ॥ ३५ ॥
अपि स्विद् अन्ये च निज-आत्म-दैवम् अनन्यवृत्त्या समनुव्रताः ये । हृदीक-सत्य-आत्मज चारुदेष्ण गद-आदयः स्वस्ति चरन्ति सौम्य ॥ ३५ ॥
api svid anye ca nija-ātma-daivam ananyavṛttyā samanuvratāḥ ye . hṛdīka-satya-ātmaja cārudeṣṇa gada-ādayaḥ svasti caranti saumya .. 35 ..
अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् । दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥
अपि स्व-दोर्भ्याम् विजय-अच्युताभ्याम् धर्मेण धर्मः परिपाति सेतुम् । दुर्योधनः अतप्यत यत् सभायाम् साम्राज्य-लक्ष्म्या विजय-अनुवृत्त्या ॥ ३६ ॥
api sva-dorbhyām vijaya-acyutābhyām dharmeṇa dharmaḥ paripāti setum . duryodhanaḥ atapyata yat sabhāyām sāmrājya-lakṣmyā vijaya-anuvṛttyā .. 36 ..
किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् । यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥
किम् वा कृत-अघेषु अघम् अति अमर्षी भीमः अहि-वत् दीर्घतमम् व्यमुञ्चत् । यस्य अङ्घ्रि-पातम् रणभूः न सेहे मार्गम् गदायाः चरतः विचित्रम् ॥ ३७ ॥
kim vā kṛta-agheṣu agham ati amarṣī bhīmaḥ ahi-vat dīrghatamam vyamuñcat . yasya aṅghri-pātam raṇabhūḥ na sehe mārgam gadāyāḥ carataḥ vicitram .. 37 ..
कच्चिद् यशोधा रथयूथपानां गाण्डीव धन्वोपरतारिरास्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥
कच्चित् रथ-यूथपानाम् गाण्डीव धन्व उपरतारिः आस्ते । अलक्षितः यत् शर-कूट-गूढः माया-किरातः गिरिशः तुतोष ॥ ३८ ॥
kaccit ratha-yūthapānām gāṇḍīva dhanva uparatāriḥ āste . alakṣitaḥ yat śara-kūṭa-gūḍhaḥ māyā-kirātaḥ giriśaḥ tutoṣa .. 38 ..
यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥
यमौ उत स्विद् तनयौ पृथायाः पार्थैः वृतौ पक्ष्म-अभिरक्षिणी इव । उद्दाय मृधे स्व-रिक्थम् परात् सुपर्णौ इव वज्रि-वक्त्रात् ॥ ३९ ॥
yamau uta svid tanayau pṛthāyāḥ pārthaiḥ vṛtau pakṣma-abhirakṣiṇī iva . uddāya mṛdhe sva-riktham parāt suparṇau iva vajri-vaktrāt .. 39 ..
अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः ॥ ४० ॥
अहो पृथा अपि ध्रियते अर्भक-अर्थे राजर्षि-वर्येण विना अपि तेन । यः तु एकवीरः अधिरथः विजिग्ये धनुः द्वितीयः ककुभः चतस्रः ॥ ४० ॥
aho pṛthā api dhriyate arbhaka-arthe rājarṣi-varyeṇa vinā api tena . yaḥ tu ekavīraḥ adhirathaḥ vijigye dhanuḥ dvitīyaḥ kakubhaḥ catasraḥ .. 40 ..
सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः । निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥
सौम्य अनुशोचे तम् अधस् पतन्तम् भ्रात्रे परेताय विदुद्रुहे यः । निर्यापितः येन सुहृद्-स्व-पुर्याः अहम् स्व-पुत्रान् समनुव्रतेन ॥ ४१ ॥
saumya anuśoce tam adhas patantam bhrātre paretāya vidudruhe yaḥ . niryāpitaḥ yena suhṛd-sva-puryāḥ aham sva-putrān samanuvratena .. 41 ..
सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः । नान्योपलक्ष्यः पदवीं प्रसादात् चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥
सः अहम् हरेः मर्त्य-विडम्बनेन दृशः नृणाम् चालयतः विधातुः । न अन्य-उपलक्ष्यः पदवीम् प्रसादात् चरामि पश्यन् गत-विस्मयः अत्र ॥ ४२ ॥
saḥ aham hareḥ martya-viḍambanena dṛśaḥ nṛṇām cālayataḥ vidhātuḥ . na anya-upalakṣyaḥ padavīm prasādāt carāmi paśyan gata-vismayaḥ atra .. 42 ..
नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः । वधात्प्रपन्नार्तिजिहीर्षयेशोऽपि उपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥
नूनम् नृपाणाम् त्रिमद-उत्पथानाम् महीम् मुहुर् चालयताम् चमूभिः । वधात् प्रपन्न-आर्ति-जिहीर्षया ईशः अपि उपैक्षत अघम् भगवान् कुरूणाम् ॥ ४३ ॥
nūnam nṛpāṇām trimada-utpathānām mahīm muhur cālayatām camūbhiḥ . vadhāt prapanna-ārti-jihīrṣayā īśaḥ api upaikṣata agham bhagavān kurūṇām .. 43 ..
अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतंत्रम् ॥ ४४ ॥
अजस्य जन्म-उत्पथ-नाशनाय कर्माणि अकर्तुः ग्रहणाय पुंसाम् । ननु अन्यथा कः अर्हति देह-योगम् परस् गुणानाम् उत कर्मतंत्रम् ॥ ४४ ॥
ajasya janma-utpatha-nāśanāya karmāṇi akartuḥ grahaṇāya puṃsām . nanu anyathā kaḥ arhati deha-yogam paras guṇānām uta karmataṃtram .. 44 ..
तस्य प्रपन्नाखिललोकपानां अवस्थितानां अनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ ४५ ॥
तस्य प्रपन्न-अखिल-लोकपानाम् अवस्थितानाम् अनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्ताम् सखे कीर्तय तीर्थ-कीर्तेः ॥ ४५ ॥
tasya prapanna-akhila-lokapānām avasthitānām anuśāsane sve . arthāya jātasya yaduṣvajasya vārtām sakhe kīrtaya tīrtha-kīrteḥ .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे विदुर-उद्धव-संवादे प्रथमः अध्यायः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe vidura-uddhava-saṃvāde prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In