| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच -
अन्तर्हिते भगवति ब्रह्मा लोकपितामहः । प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १ ॥
अन्तर्हिते भगवति ब्रह्मा लोकपितामहः । प्रजाः ससर्ज कतिधा दैहिकीः मानसीः विभुः ॥ १ ॥
antarhite bhagavati brahmā lokapitāmahaḥ . prajāḥ sasarja katidhā daihikīḥ mānasīḥ vibhuḥ .. 1 ..
(अनुष्टुप्)
ये च मे भगवन्पृष्टाः त्वय्यर्था बहुवित्तम । तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २ ॥
ये च मे भगवन् पृष्टाः त्वयि अर्थाः बहु-वित्तम । तान् वदस्व आनुपूर्व्येण छिन्धि नः सर्व-संशयान् ॥ २ ॥
ye ca me bhagavan pṛṣṭāḥ tvayi arthāḥ bahu-vittama . tān vadasva ānupūrvyeṇa chindhi naḥ sarva-saṃśayān .. 2 ..
सूत उवाच -
एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः । प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥
एवम् सञ्चोदितः तेन क्षत्त्रा कौषारवः मुनिः । प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थान् अथ भार्गव ॥ ३ ॥
evam sañcoditaḥ tena kṣattrā kauṣāravaḥ muniḥ . prītaḥ pratyāha tān praśnān hṛdisthān atha bhārgava .. 3 ..
मैत्रेय उवाच -
विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः । आत्मनि आत्मानमावेश्य यथाह भगवान् अजः ॥ ४ ॥
विरिञ्चः अपि तथा चक्रे दिव्यम् वर्ष-शतम् तपः । आत्मनि आत्मानम् आवेश्य यथा आह भगवान् अजः ॥ ४ ॥
viriñcaḥ api tathā cakre divyam varṣa-śatam tapaḥ . ātmani ātmānam āveśya yathā āha bhagavān ajaḥ .. 4 ..
तद् विलोक्याब्जसंभूतो वायुना यदधिष्ठितः । पद्मं अम्भश्च तत्काल कृतवीर्येण कम्पितम् ॥ ५ ॥
तत् विलोक्य अब्ज-संभूतः वायुना यद्-अधिष्ठितः । पद्मम् अम्भः च तद्-काल कृतवीर्येण कम्पितम् ॥ ५ ॥
tat vilokya abja-saṃbhūtaḥ vāyunā yad-adhiṣṭhitaḥ . padmam ambhaḥ ca tad-kāla kṛtavīryeṇa kampitam .. 5 ..
तपसा हि एधमानेन विद्यया चात्मसंस्थया । विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥
तपसा हि एधमानेन विद्यया च आत्म-संस्थया । विवृद्ध-विज्ञान-बलः न्यपात् वायुम् सह अम्भसा ॥ ६ ॥
tapasā hi edhamānena vidyayā ca ātma-saṃsthayā . vivṛddha-vijñāna-balaḥ nyapāt vāyum saha ambhasā .. 6 ..
तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् । अनेन लोकान्प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥
तत् विलोक्य वियत्-व्यापि पुष्करम् यत् अधिष्ठितम् । अनेन लोकान् प्राक् लीनान् कल्पिता अस्मि इति अचिन्तयत् ॥ ७ ॥
tat vilokya viyat-vyāpi puṣkaram yat adhiṣṭhitam . anena lokān prāk līnān kalpitā asmi iti acintayat .. 7 ..
पद्मकोशं तदाविश्य भगवत्कर्मचोदितः । एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥
पद्मकोशम् तदा आविश्य भगवत्-कर्म-चोदितः । एकम् व्यभाङ्क्षीत् उरुधा त्रिधा भाव्यम् द्वि-सप्तधा ॥ ८ ॥
padmakośam tadā āviśya bhagavat-karma-coditaḥ . ekam vyabhāṅkṣīt urudhā tridhā bhāvyam dvi-saptadhā .. 8 ..
एतावान् जीवलोकस्य संस्थाभेदः समाहृतः । धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ॥ ९ ॥
एतावान् जीव-लोकस्य संस्था-भेदः समाहृतः । धर्मस्य हि अनिमित्तस्य विपाकः परमेष्ठी असौ ॥ ९ ॥
etāvān jīva-lokasya saṃsthā-bhedaḥ samāhṛtaḥ . dharmasya hi animittasya vipākaḥ parameṣṭhī asau .. 9 ..
विदुर उवाच -
यथात्थ बहुरूपस्य हरेरद्भुतकर्मणः । कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥
यथा आत्थ बहु-रूपस्य हरेः अद्भुत-कर्मणः । काल-आख्यम् लक्षणम् ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥
yathā āttha bahu-rūpasya hareḥ adbhuta-karmaṇaḥ . kāla-ākhyam lakṣaṇam brahman yathā varṇaya naḥ prabho .. 10 ..
मैत्रेय उवाच -
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः । पुरुषः तदुपादानं आत्मानं लीलयासृजत् ॥ ११ ॥
गुण-व्यतिकर-आकारः निर्विशेषः अप्रतिष्ठितः । पुरुषः तद्-उपादानम् आत्मानम् लीलया असृजत् ॥ ११ ॥
guṇa-vyatikara-ākāraḥ nirviśeṣaḥ apratiṣṭhitaḥ . puruṣaḥ tad-upādānam ātmānam līlayā asṛjat .. 11 ..
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
विश्वम् वै ब्रह्म-तन्मात्रम् संस्थितम् विष्णु-मायया । ईश्वरेण परिच्छिन्नम् कालेन अव्यक्त-मूर्तिना ॥ १२ ॥
viśvam vai brahma-tanmātram saṃsthitam viṣṇu-māyayā . īśvareṇa paricchinnam kālena avyakta-mūrtinā .. 12 ..
यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् । सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ॥ १३ ॥
यथा इदानीम् तथा अग्रे च पश्चात् अपि एतत् ईदृशम् । सर्गः नवविधः तस्य प्राकृतः वैकृतः तु यः ॥ १३ ॥
yathā idānīm tathā agre ca paścāt api etat īdṛśam . sargaḥ navavidhaḥ tasya prākṛtaḥ vaikṛtaḥ tu yaḥ .. 13 ..
कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः । आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४ ॥
काल-द्रव्य-गुणैः अस्य त्रिविधः प्रतिसङ्क्रमः । आद्यः तु महतः सर्गः गुण-वैषम्यम् आत्मनः ॥ १४ ॥
kāla-dravya-guṇaiḥ asya trividhaḥ pratisaṅkramaḥ . ādyaḥ tu mahataḥ sargaḥ guṇa-vaiṣamyam ātmanaḥ .. 14 ..
द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः । भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ॥ १५ ॥
द्वितीयः तु अहमः यत्र द्रव्य-ज्ञान-क्रिया-उदयः । भूत-सर्गः तृतीयः तु तन्मात्रः द्रव्य-शक्तिमान् ॥ १५ ॥
dvitīyaḥ tu ahamaḥ yatra dravya-jñāna-kriyā-udayaḥ . bhūta-sargaḥ tṛtīyaḥ tu tanmātraḥ dravya-śaktimān .. 15 ..
चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६ ॥
चतुर्थः ऐन्द्रियः सर्गः यः तु ज्ञान-क्रिया-आत्मकः । वैकारिकः देव-सर्गः पञ्चमः यद्-मयम् मनः ॥ १६ ॥
caturthaḥ aindriyaḥ sargaḥ yaḥ tu jñāna-kriyā-ātmakaḥ . vaikārikaḥ deva-sargaḥ pañcamaḥ yad-mayam manaḥ .. 16 ..
षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः । षडिमे प्राकृताः सर्गा वैकृतानपि मे श्रृणु ॥ १७ ॥
षष्ठः तु तमसः सर्गः यः तु अ बुद्धि-कृतः प्रभोः । षट् इमे प्राकृताः सर्गाः वैकृतान् अपि मे श्रृणु ॥ १७ ॥
ṣaṣṭhaḥ tu tamasaḥ sargaḥ yaḥ tu a buddhi-kṛtaḥ prabhoḥ . ṣaṭ ime prākṛtāḥ sargāḥ vaikṛtān api me śrṛṇu .. 17 ..
रजोभाजो भगवतो लीलेयं हरिमेधसः । सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥
रजः-भाजः भगवतः लीला इयम् हरिमेधसः । सप्तमः मुख्य-सर्गः तु षड्विधः तस्थुषाम् च यः ॥ १८ ॥
rajaḥ-bhājaḥ bhagavataḥ līlā iyam harimedhasaḥ . saptamaḥ mukhya-sargaḥ tu ṣaḍvidhaḥ tasthuṣām ca yaḥ .. 18 ..
वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥ १९ ॥
वनस्पति-ओषधि-लता त्वच्-साराः वीरुधः द्रुमाः । उत्स्रोतसः तमः-प्रायाः अन्तर् स्पर्शाः विशेषिणः ॥ १९ ॥
vanaspati-oṣadhi-latā tvac-sārāḥ vīrudhaḥ drumāḥ . utsrotasaḥ tamaḥ-prāyāḥ antar sparśāḥ viśeṣiṇaḥ .. 19 ..
तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः । अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥
तिरश्चाम् अष्टमः सर्गः सः अष्टाविंशद्विधः मतः । अविदः भूरि-तमसः घ्राण-ज्ञाः हृद्य-वेदिनः ॥ २० ॥
tiraścām aṣṭamaḥ sargaḥ saḥ aṣṭāviṃśadvidhaḥ mataḥ . avidaḥ bhūri-tamasaḥ ghrāṇa-jñāḥ hṛdya-vedinaḥ .. 20 ..
गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥
गौः अजः महिषः कृष्णः सूकरः गवयः रुरुः । द्विशफाः पशवः च इमे अविः उष्ट्रः च सत्तम ॥ २१ ॥
gauḥ ajaḥ mahiṣaḥ kṛṣṇaḥ sūkaraḥ gavayaḥ ruruḥ . dviśaphāḥ paśavaḥ ca ime aviḥ uṣṭraḥ ca sattama .. 21 ..
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते चैकशफाः क्षत्तः श्रृणु पञ्चनखान् पशून् ॥ २२ ॥
खरः अश्वः अश्वतरः गौरः शरभः चमरी तथा । एते च एक-शफाः क्षत्तर् श्रृणु पञ्चनखान् पशून् ॥ २२ ॥
kharaḥ aśvaḥ aśvataraḥ gauraḥ śarabhaḥ camarī tathā . ete ca eka-śaphāḥ kṣattar śrṛṇu pañcanakhān paśūn .. 22 ..
श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ । सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥
श्वा सृगालः वृकः व्याघ्रः मार्जारः शश-शल्लकौ । सिंहः कपिः गजः कूर्मः गोधा च मकर-आदयः ॥ २३ ॥
śvā sṛgālaḥ vṛkaḥ vyāghraḥ mārjāraḥ śaśa-śallakau . siṃhaḥ kapiḥ gajaḥ kūrmaḥ godhā ca makara-ādayaḥ .. 23 ..
कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः । हंससारसचक्राह्व काकोलूकादयः खगाः ॥ २४ ॥
कङ्क-गृध्र-बक-श्येन-भास-भल्लूक-बर्हिणः । ॥ २४ ॥
kaṅka-gṛdhra-baka-śyena-bhāsa-bhallūka-barhiṇaḥ . .. 24 ..
अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥
अर्वाक्स्रोतः तु नवमः क्षत्तर् एकविधः नृणाम् । रजः-अधिकाः कर्म-पराः दुःखे च सुख-मानिनः ॥ २५ ॥
arvāksrotaḥ tu navamaḥ kṣattar ekavidhaḥ nṛṇām . rajaḥ-adhikāḥ karma-parāḥ duḥkhe ca sukha-māninaḥ .. 25 ..
वैकृतास्त्रय एवैते देवसर्गश्च सत्तम । वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥
वैकृताः त्रयः एव एते देव-सर्गः च सत्तम । वैकारिकः तु यः प्रोक्तः कौमारः तु उभय-आत्मकः ॥ २६ ॥
vaikṛtāḥ trayaḥ eva ete deva-sargaḥ ca sattama . vaikārikaḥ tu yaḥ proktaḥ kaumāraḥ tu ubhaya-ātmakaḥ .. 26 ..
देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः । गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥
देव-सर्गः च अष्टविधः विबुधाः पितरः असुराः । गन्धर्व-अप्सरसः सिद्धाः यक्ष-रक्षांसि चारणाः ॥ २७ ॥
deva-sargaḥ ca aṣṭavidhaḥ vibudhāḥ pitaraḥ asurāḥ . gandharva-apsarasaḥ siddhāḥ yakṣa-rakṣāṃsi cāraṇāḥ .. 27 ..
भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः । दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥
भूत-प्रेत-पिशाचाः च विद्याध्राः किन्नर-आदयः । दशा एते विदुर-आख्याताः सर्गाः ते विश्वसृक्कृताः ॥ २८ ॥
bhūta-preta-piśācāḥ ca vidyādhrāḥ kinnara-ādayaḥ . daśā ete vidura-ākhyātāḥ sargāḥ te viśvasṛkkṛtāḥ .. 28 ..
अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च । एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९ ॥
अतस् परम् प्रवक्ष्यामि वंशान् मन्वन्तराणि च । एवम् रजः-प्लुतः स्रष्टा कल्प-आदिषु आत्मभूः हरिः । सृजति अमोघ-सङ्कल्पः आत्मा एव आत्मानम् आत्मना ॥ २९ ॥
atas param pravakṣyāmi vaṃśān manvantarāṇi ca . evam rajaḥ-plutaḥ sraṣṭā kalpa-ādiṣu ātmabhūḥ hariḥ . sṛjati amogha-saṅkalpaḥ ātmā eva ātmānam ātmanā .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In