| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच ।
चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥
चरमः सत्-विशेषाणाम् अनेकः असंयुतः सदा । परमाणुः स विज्ञेयः नृणाम् ऐक्य-भ्रमः यतस् ॥ १ ॥
caramaḥ sat-viśeṣāṇām anekaḥ asaṃyutaḥ sadā . paramāṇuḥ sa vijñeyaḥ nṛṇām aikya-bhramaḥ yatas .. 1 ..
सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहान् अविशेषो निरन्तरः ॥ २ ॥
सतः एव पदार्थस्य स्व-रूप-अवस्थितस्य यत् । कैवल्यम् परम-महान् अविशेषः निरन्तरः ॥ २ ॥
sataḥ eva padārthasya sva-rūpa-avasthitasya yat . kaivalyam parama-mahān aviśeṣaḥ nirantaraḥ .. 2 ..
एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग्विभुः ॥ ३ ॥
एवम् कालः अपि अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थान-भुक्त्या भगवान् अव्यक्तः व्यक्त-भुज् विभुः ॥ ३ ॥
evam kālaḥ api anumitaḥ saukṣmye sthaulye ca sattama . saṃsthāna-bhuktyā bhagavān avyaktaḥ vyakta-bhuj vibhuḥ .. 3 ..
स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४ ॥
स कालः परमाणुः वै यः भुङ्क्ते परम-अणु-ताम् । सतः अविशेष-भुज् यः तु स कालः परमः महान् ॥ ४ ॥
sa kālaḥ paramāṇuḥ vai yaḥ bhuṅkte parama-aṇu-tām . sataḥ aviśeṣa-bhuj yaḥ tu sa kālaḥ paramaḥ mahān .. 4 ..
अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥
अणुः द्वौ परमाणू स्यात् त्रसरेणुः त्रयः स्मृतः । जाल-अर्क-रश्मि-अवगतः खम् एव अनुपतन् नगात् ॥ ५ ॥
aṇuḥ dvau paramāṇū syāt trasareṇuḥ trayaḥ smṛtaḥ . jāla-arka-raśmi-avagataḥ kham eva anupatan nagāt .. 5 ..
त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः ॥ ६ ॥
भुङ्क्ते । शत-भागः तु वेधः स्यात् तैः त्रिभिः तु लवः स्मृतः ॥ ६ ॥
bhuṅkte . śata-bhāgaḥ tu vedhaḥ syāt taiḥ tribhiḥ tu lavaḥ smṛtaḥ .. 6 ..
निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७ ॥
निमेषः त्रि-लवः ज्ञेयः आम्नातः ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठाम् लघु ताः दश पञ्च च ॥ ७ ॥
nimeṣaḥ tri-lavaḥ jñeyaḥ āmnātaḥ te trayaḥ kṣaṇaḥ . kṣaṇān pañca viduḥ kāṣṭhām laghu tāḥ daśa pañca ca .. 7 ..
लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८ ॥
लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षष्-यामः सप्त वा नृणाम् ॥ ८ ॥
laghūni vai samāmnātā daśa pañca ca nāḍikā . te dve muhūrtaḥ praharaḥ ṣaṣ-yāmaḥ sapta vā nṛṇām .. 8 ..
द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः । स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम् ॥ ९ ॥
द्वादश-अर्ध-पल-उन्मानम् चतुर्भिः चतुर्-अङ्गुलैः । स्वर्ण-माषैः कृत-छिद्रम् यावत् प्रस्थ-जल-प्लुतम् ॥ ९ ॥
dvādaśa-ardha-pala-unmānam caturbhiḥ catur-aṅgulaiḥ . svarṇa-māṣaiḥ kṛta-chidram yāvat prastha-jala-plutam .. 9 ..
यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे । पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥
यामाः चत्वारः चत्वारः मर्त्यानाम् अहनी उभे । पक्षः पञ्चदश अहानि शुक्लः कृष्णः च मानद ॥ १० ॥
yāmāḥ catvāraḥ catvāraḥ martyānām ahanī ubhe . pakṣaḥ pañcadaśa ahāni śuklaḥ kṛṣṇaḥ ca mānada .. 10 ..
तयोः समुच्चयो मासः पितॄणां तदहर्निशम् । द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥
तयोः समुच्चयः मासः पितॄणाम् तत् अहर्निशम् । द्वौ तौ ऋतुः षष्-अयनम् दक्षिणम् च उत्तरम् दिवि ॥ ११ ॥
tayoḥ samuccayaḥ māsaḥ pitṝṇām tat aharniśam . dvau tau ṛtuḥ ṣaṣ-ayanam dakṣiṇam ca uttaram divi .. 11 ..
अयने चाहनी प्राहुः वत्सरो द्वादश स्मृतः । संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२ ॥
अयने च अहनी प्राहुः वत्सरः द्वादश स्मृतः । संवत्सर-शतम् नॄणाम् परम-आयुः निरूपितम् ॥ १२ ॥
ayane ca ahanī prāhuḥ vatsaraḥ dvādaśa smṛtaḥ . saṃvatsara-śatam nṝṇām parama-āyuḥ nirūpitam .. 12 ..
ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् । संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥
ग्रह-ऋक्ष-तारा-चक्र-स्थः परमाणु-आदिना जगत् । संवत्सर-अवसानेन पर्येति अनिमिषः विभुः ॥ १३ ॥
graha-ṛkṣa-tārā-cakra-sthaḥ paramāṇu-ādinā jagat . saṃvatsara-avasānena paryeti animiṣaḥ vibhuḥ .. 13 ..
संवत्सरः परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥
संवत्सरः परिवत्सरः इडा-वत्सरः एव च । अनुवत्सरः वत्सरः च विदुर एवम् प्रभाष्यते ॥ १४ ॥
saṃvatsaraḥ parivatsaraḥ iḍā-vatsaraḥ eva ca . anuvatsaraḥ vatsaraḥ ca vidura evam prabhāṣyate .. 14 ..
यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या । पुंसोऽभ्रमाय दिवि धावति भूतभेदः । कालाख्यया गुणमयं क्रतुभिर्वितन्वन् । तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥
यः सृज्य-शक्तिम् उरुधा उच्छ्वसयन् स्व-शक्त्या । पुंसः अभ्रमाय दिवि धावति भूत-भेदः । काल-आख्यया गुणम् अयम् क्रतुभिः वितन्वन् । तस्मै बलिम् हरत वत्सर-पञ्चकाय ॥ १५ ॥
yaḥ sṛjya-śaktim urudhā ucchvasayan sva-śaktyā . puṃsaḥ abhramāya divi dhāvati bhūta-bhedaḥ . kāla-ākhyayā guṇam ayam kratubhiḥ vitanvan . tasmai balim harata vatsara-pañcakāya .. 15 ..
विदुर उवाच ।
पितृदेवमनुष्याणां आयुः परमिदं स्मृतम् । परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः ॥ १६ ॥
पितृ-देव-मनुष्याणाम् आयुः परम् इदम् स्मृतम् । परेषाम् गतिम् आचक्ष्व ये स्युः कल्पात् बहिस् विदः ॥ १६ ॥
pitṛ-deva-manuṣyāṇām āyuḥ param idam smṛtam . pareṣām gatim ācakṣva ye syuḥ kalpāt bahis vidaḥ .. 16 ..
मैत्रेय उवाच ।
भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥
भगवान् वेद कालस्य गतिम् भगवतः ननु । विश्वम् विचक्षते धीराः योग-राद्धेन चक्षुषा ॥ १७ ॥
bhagavān veda kālasya gatim bhagavataḥ nanu . viśvam vicakṣate dhīrāḥ yoga-rāddhena cakṣuṣā .. 17 ..
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८ ॥
कृतम् त्रेता द्वापरम् च कलिः च इति चतुर्युगम् । दिव्यैः द्वादशभिः वर्षैः सावधानम् निरूपितम् ॥ १८ ॥
kṛtam tretā dvāparam ca kaliḥ ca iti caturyugam . divyaiḥ dvādaśabhiḥ varṣaiḥ sāvadhānam nirūpitam .. 18 ..
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥
चत्वारि त्रीणि द्वे च एकम् कृत-आदिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥
catvāri trīṇi dve ca ekam kṛta-ādiṣu yathākramam . saṅkhyātāni sahasrāṇi dviguṇāni śatāni ca .. 19 ..
संध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः । तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥
संध्यांशयोः अन्तरेण यः कालः शत-सङ्ख्ययोः । तम् एव आहुः युगम् तज्ज्ञाः यत्र धर्मः विधीयते ॥ २० ॥
saṃdhyāṃśayoḥ antareṇa yaḥ kālaḥ śata-saṅkhyayoḥ . tam eva āhuḥ yugam tajjñāḥ yatra dharmaḥ vidhīyate .. 20 ..
धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते । स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥
धर्मः चतुष्पाद् मनुजान् कृते समनुवर्तते । सः एव अन्येषु अधर्मेण व्येति पादेन वर्धता ॥ २१ ॥
dharmaḥ catuṣpād manujān kṛte samanuvartate . saḥ eva anyeṣu adharmeṇa vyeti pādena vardhatā .. 21 ..
त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् । तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥
त्रिलोक्याः युग-साहस्रम् बहिस् आब्रह्मणः दिनम् । तावती एव निशा तात यत् निमीलति विश्वसृज् ॥ २२ ॥
trilokyāḥ yuga-sāhasram bahis ābrahmaṇaḥ dinam . tāvatī eva niśā tāta yat nimīlati viśvasṛj .. 22 ..
निशावसान आरब्धो लोककल्पोऽनुवर्तते । यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥
निशा-अवसाने आरब्धः लोककल्पः अनुवर्तते । यावद्दिनम् भगवतः मनून् भुञ्जन् चतुर्दश ॥ २३ ॥
niśā-avasāne ārabdhaḥ lokakalpaḥ anuvartate . yāvaddinam bhagavataḥ manūn bhuñjan caturdaśa .. 23 ..
स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् । मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
स्वम् स्वम् कालम् मनुः भुङ्क्ते साधिकाम् हि एकसप्ततिम् । मन्वन्तरेषु मनवः तद्-वंश्या ऋषयः सुराः । भवन्ति च एव युगपद् सुरेशाः च अनु ये च तान् ॥ २४ ॥
svam svam kālam manuḥ bhuṅkte sādhikām hi ekasaptatim . manvantareṣu manavaḥ tad-vaṃśyā ṛṣayaḥ surāḥ . bhavanti ca eva yugapad sureśāḥ ca anu ye ca tān .. 24 ..
एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः । तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ २५ ॥
एष सर्गः ब्राह्मः त्रैलोक्य-वर्तनः । तिर्यक्-नृ-पितृ-देवानाम् सम्भवः यत्र कर्मभिः ॥ २५ ॥
eṣa sargaḥ brāhmaḥ trailokya-vartanaḥ . tiryak-nṛ-pitṛ-devānām sambhavaḥ yatra karmabhiḥ .. 25 ..
मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः । मन्वादिभिरिदं विश्वं अवत्युदितपौरुषः ॥ २६ ॥
मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वम् स्व-मूर्तिभिः । मनु-आदिभिः इदम् विश्वम् अवति उदित-पौरुषः ॥ २६ ॥
manvantareṣu bhagavān bibhrat sattvam sva-mūrtibhiḥ . manu-ādibhiḥ idam viśvam avati udita-pauruṣaḥ .. 26 ..
तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥
तमः-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः । कालेन अनुगत-अशेषः आस्ते तूष्णीम् दिन-अत्यये ॥ २७ ॥
tamaḥ-mātrām upādāya pratisaṃruddha-vikramaḥ . kālena anugata-aśeṣaḥ āste tūṣṇīm dina-atyaye .. 27 ..
तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः । निशायां अनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८ ॥
तम् एव अनु अपि धीयन्ते लोकाः भूः आदयः त्रयः । निशायाम् अनुवृत्तायाम् निर्मुक्त-शशि-भास्करम् ॥ २८ ॥
tam eva anu api dhīyante lokāḥ bhūḥ ādayaḥ trayaḥ . niśāyām anuvṛttāyām nirmukta-śaśi-bhāskaram .. 28 ..
त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्यूष्मणा महर्लोकात् जनं भृग्वादयोऽर्दिताः ॥ २९ ॥
त्रिलोक्याम् दह्यमानायाम् शक्त्या सङ्कर्षण-अग्निना । यान्ति ऊष्मणा महर् लोकात् जनम् भृगु-आदयः अर्दिताः ॥ २९ ॥
trilokyām dahyamānāyām śaktyā saṅkarṣaṇa-agninā . yānti ūṣmaṇā mahar lokāt janam bhṛgu-ādayaḥ arditāḥ .. 29 ..
तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः । प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः ॥ ३० ॥
तावत् त्रिभुवनम् सद्यस् कल्पान्त-एधित-सिन्धवः । प्लावयन्ति उत्कट-आटोप चण्ड-वात-ईरित-ऊर्मयः ॥ ३० ॥
tāvat tribhuvanam sadyas kalpānta-edhita-sindhavaḥ . plāvayanti utkaṭa-āṭopa caṇḍa-vāta-īrita-ūrmayaḥ .. 30 ..
अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः । योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१ ॥
अन्तर् स तस्मिन् सलिले आस्ते अनन्त-आसनः हरिः । योगनिद्रा-निमीला-अक्षः स्तूयमानः जनालयैः ॥ ३१ ॥
antar sa tasmin salile āste ananta-āsanaḥ hariḥ . yoganidrā-nimīlā-akṣaḥ stūyamānaḥ janālayaiḥ .. 31 ..
एवंविधैरहोरात्रैः कालगत्योपलक्षितैः । अपक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥
एवंविधैः अहोरात्रैः काल-गत्या उपलक्षितैः । अपक्षितम् इव अस्य अपि परम-आयुः-वयः-शतम् ॥ ३२ ॥
evaṃvidhaiḥ ahorātraiḥ kāla-gatyā upalakṣitaiḥ . apakṣitam iva asya api parama-āyuḥ-vayaḥ-śatam .. 32 ..
यदर्धमायुषस्तस्य परार्धमभिधीयते । पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३ ॥
यत् अर्धम् आयुषः तस्य परार्धम् अभिधीयते । पूर्वः परार्धः अपक्रान्तः हि अपरः अद्य प्रवर्तते ॥ ३३ ॥
yat ardham āyuṣaḥ tasya parārdham abhidhīyate . pūrvaḥ parārdhaḥ apakrāntaḥ hi aparaḥ adya pravartate .. 33 ..
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४ ॥
पूर्वस्य आदौ परार्धस्य ब्राह्मः नाम महान् अभूत् । कल्पः यत्र अभवत् ब्रह्मा शब्दब्रह्म इति यम् विदुः ॥ ३४ ॥
pūrvasya ādau parārdhasya brāhmaḥ nāma mahān abhūt . kalpaḥ yatra abhavat brahmā śabdabrahma iti yam viduḥ .. 34 ..
तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसीत् लोकसरोरुहम् ॥ ३५ ॥
तस्य एव च अन्ते कल्पः अभूत् यम् पाद्मम् अभिचक्षते । यत् हरेः नाभि-सरसे आसीत् लोक-सरोरुहम् ॥ ३५ ॥
tasya eva ca ante kalpaḥ abhūt yam pādmam abhicakṣate . yat hareḥ nābhi-sarase āsīt loka-saroruham .. 35 ..
अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥ ३६ ॥
अयम् तु कथितः कल्पः द्वितीयस्य अपि भारत । वाराहः इति विख्यातः यत्र आसीत् शूकरः हरिः ॥ ३६ ॥
ayam tu kathitaḥ kalpaḥ dvitīyasya api bhārata . vārāhaḥ iti vikhyātaḥ yatra āsīt śūkaraḥ hariḥ .. 36 ..
कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः ॥ ३७ ॥
कालः अयम् द्वि-परार्ध-आख्यः निमेषः उपचर्यते । अव्याकृतस्य अनन्तस्य अनादेः जगदात्मनः ॥ ३७ ॥
kālaḥ ayam dvi-parārdha-ākhyaḥ nimeṣaḥ upacaryate . avyākṛtasya anantasya anādeḥ jagadātmanaḥ .. 37 ..
कालोऽयं परमाण्वादिः द्विपरार्धान्त ईश्वरः । नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥
कालः अयम् परमाणु-आदिः द्वि-परार्ध-अन्तः ईश्वरः । न एव ईशितुम् प्रभुः भूम्नः ईश्वरः धाम-मानिनाम् ॥ ३८ ॥
kālaḥ ayam paramāṇu-ādiḥ dvi-parārdha-antaḥ īśvaraḥ . na eva īśitum prabhuḥ bhūmnaḥ īśvaraḥ dhāma-māninām .. 38 ..
विकारैः सहितो युक्तैः विशेषादिभिरावृतः । आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥
विकारैः सहितः युक्तैः विशेष-आदिभिः आवृतः । आण्डकोशः बहिस् अयम् पञ्चाशत्-कोटि-विस्तृतः ॥ ३९ ॥
vikāraiḥ sahitaḥ yuktaiḥ viśeṣa-ādibhiḥ āvṛtaḥ . āṇḍakośaḥ bahis ayam pañcāśat-koṭi-vistṛtaḥ .. 39 ..
दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् । लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥
दश-उत्तर-अधिकैः यत्र प्रविष्टः परमाणु-वत् । लक्ष्यते अन्तर्गताः च अन्ये कोटिशस् हि अण्ड-राशयः ॥ ४० ॥
daśa-uttara-adhikaiḥ yatra praviṣṭaḥ paramāṇu-vat . lakṣyate antargatāḥ ca anye koṭiśas hi aṇḍa-rāśayaḥ .. 40 ..
तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥
तत् आहुः अक्षरम् ब्रह्म सर्व-कारण-कारणम् । विष्णोः धाम परम् साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥
tat āhuḥ akṣaram brahma sarva-kāraṇa-kāraṇam . viṣṇoḥ dhāma param sākṣāt puruṣasya mahātmanaḥ .. 41 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ekādaśaḥ adhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In