| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच ।
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः । महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥
इति ते वर्णितः क्षत्तर् काल-आख्यः परमात्मनः । महिमा वेदगर्भः अथ यथा अस्राक्षीत् निबोध मे ॥ १ ॥
iti te varṇitaḥ kṣattar kāla-ākhyaḥ paramātmanaḥ . mahimā vedagarbhaḥ atha yathā asrākṣīt nibodha me .. 1 ..
ससर्जाग्रेऽन्धतामिस्रं अथ तामिस्रमादिकृत् । महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥
ससर्ज अग्रे अन्धतामिस्रम् अथ तामिस्रम् आदि-कृत् । महा-मोहम् च मोहम् च तमः च अज्ञान-वृत्तयः ॥ २ ॥
sasarja agre andhatāmisram atha tāmisram ādi-kṛt . mahā-moham ca moham ca tamaḥ ca ajñāna-vṛttayaḥ .. 2 ..
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत । भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३ ॥
दृष्ट्वा पापीयसीम् सृष्टिम् न आत्मानम् बहु अमन्यत । भगवत्-ध्यान-पूतेन मनसा अन्याम् ततस् असृजत् ॥ ३ ॥
dṛṣṭvā pāpīyasīm sṛṣṭim na ātmānam bahu amanyata . bhagavat-dhyāna-pūtena manasā anyām tatas asṛjat .. 3 ..
सनकं च सनन्दं च सनातनमथात्मभूः । सनत्कुमारं च मुनीन् निष्क्रियान् ऊर्ध्वरेतसः ॥ ४ ॥
सनकम् च सनन्दम् च सनातनम् अथ आत्मभूः । सनत्कुमारम् च मुनीन् निष्क्रियान् ऊर्ध्वरेतसः ॥ ४ ॥
sanakam ca sanandam ca sanātanam atha ātmabhūḥ . sanatkumāram ca munīn niṣkriyān ūrdhvaretasaḥ .. 4 ..
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः । तन्नैच्छन् मोक्षधर्माणो वासुदेवपरायणाः ॥ ५ ॥
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः । तत् न ऐच्छत् मोक्ष-धर्माणः वासुदेव-परायणाः ॥ ५ ॥
tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ . tat na aicchat mokṣa-dharmāṇaḥ vāsudeva-parāyaṇāḥ .. 5 ..
सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः । क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६ ॥
सः अवध्यातः सुतैः एवम् प्रत्याख्यात-अनुशासनैः । क्रोधम् दुर्विषहम् जातम् नियन्तुम् उपचक्रमे ॥ ६ ॥
saḥ avadhyātaḥ sutaiḥ evam pratyākhyāta-anuśāsanaiḥ . krodham durviṣaham jātam niyantum upacakrame .. 6 ..
धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः । सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७ ॥
धिया निगृह्यमाणः अपि भ्रुवोः मध्यात् प्रजापतेः । सद्यस् अजायत तद्-मन्युः कुमारः नीललोहितः ॥ ७ ॥
dhiyā nigṛhyamāṇaḥ api bhruvoḥ madhyāt prajāpateḥ . sadyas ajāyata tad-manyuḥ kumāraḥ nīlalohitaḥ .. 7 ..
स वै रुरोद देवानां पूर्वजो भगवान्भवः । नामानि कुरु मे धातः स्थानानि च जगद्गुरो ॥ ८ ॥
स वै रुरोद देवानाम् पूर्वजः भगवान् भवः । नामानि कुरु मे धातर् स्थानानि च जगद्गुरो ॥ ८ ॥
sa vai ruroda devānām pūrvajaḥ bhagavān bhavaḥ . nāmāni kuru me dhātar sthānāni ca jagadguro .. 8 ..
इति तस्य वचः पाद्मो भगवान् परिपालयन् । अभ्यधाद् भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९ ॥
इति तस्य वचः पाद्मः भगवान् परिपालयन् । अभ्यधात् भद्रया वाचा मा रोदीः तत् करोमि ते ॥ ९ ॥
iti tasya vacaḥ pādmaḥ bhagavān paripālayan . abhyadhāt bhadrayā vācā mā rodīḥ tat karomi te .. 9 ..
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः । ततस्त्वां अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ १० ॥
यदा अरोदीः सुरश्रेष्ठ स उद्वेगः इव बालकः । ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्रः इति प्रजाः ॥ १० ॥
yadā arodīḥ suraśreṣṭha sa udvegaḥ iva bālakaḥ . tatas tvām abhidhāsyanti nāmnā rudraḥ iti prajāḥ .. 10 ..
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही । सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे ॥ ११ ॥
हृद्-इन्द्रियाणि असुः व्योम वायुः अग्निः जलम् मही । सूर्यः चन्द्रः तपः च एव स्थानानि अग्रे कृतानि मे ॥ ११ ॥
hṛd-indriyāṇi asuḥ vyoma vāyuḥ agniḥ jalam mahī . sūryaḥ candraḥ tapaḥ ca eva sthānāni agre kṛtāni me .. 11 ..
मन्युर्मनुर्महिनसो महान् शिव ऋतध्वजः । उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ १२ ॥
मन्युः मनुः महिनसः महान् शिवः ऋत-ध्वजः । ॥ १२ ॥
manyuḥ manuḥ mahinasaḥ mahān śivaḥ ṛta-dhvajaḥ . .. 12 ..
धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका । इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ १३ ॥
धीः धृति-रस-लोमा च नियुत् सर्पिः इला-अम्बिका । इरावती सुधा दीक्षा रुद्राण्यः रुद्र ते स्त्रियः ॥ १३ ॥
dhīḥ dhṛti-rasa-lomā ca niyut sarpiḥ ilā-ambikā . irāvatī sudhā dīkṣā rudrāṇyaḥ rudra te striyaḥ .. 13 ..
गृहाणैतानि नामानि स्थानानि च सयोषणः । एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ॥ १४ ॥
गृहाण एतानि नामानि स्थानानि च सयोषणः । एभिः सृज प्रजाः बह्वीः प्रजानामसि यद्-पतिः ॥ १४ ॥
gṛhāṇa etāni nāmāni sthānāni ca sayoṣaṇaḥ . ebhiḥ sṛja prajāḥ bahvīḥ prajānāmasi yad-patiḥ .. 14 ..
इत्यादिष्टः स्वगुरुणा भगवान् नीललोहितः । सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥ १५ ॥
इति आदिष्टः स्व-गुरुणा भगवान् नीललोहितः । सत्त्व-आकृति-स्वभावेन ससर्ज आत्म-समाः प्रजाः ॥ १५ ॥
iti ādiṣṭaḥ sva-guruṇā bhagavān nīlalohitaḥ . sattva-ākṛti-svabhāvena sasarja ātma-samāḥ prajāḥ .. 15 ..
रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत् । निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६ ॥
रुद्राणाम् रुद्र-सृष्टानाम् समन्तात् ग्रसताम् जगत् । निशाम्य असंख्यशस् यूथान् प्रजापतिः अशङ्कत ॥ १६ ॥
rudrāṇām rudra-sṛṣṭānām samantāt grasatām jagat . niśāmya asaṃkhyaśas yūthān prajāpatiḥ aśaṅkata .. 16 ..
अलं प्रजाभिः सृष्टाभिः ईदृशीभिः सुरोत्तम । मया सह दहन्तीभिः दिशश्चक्षुर्भिरुल्बणैः ॥ १७ ॥
अलम् प्रजाभिः सृष्टाभिः ईदृशीभिः सुरोत्तम । मया सह दहन्तीभिः दिशः चक्षुर्भिः उल्बणैः ॥ १७ ॥
alam prajābhiḥ sṛṣṭābhiḥ īdṛśībhiḥ surottama . mayā saha dahantībhiḥ diśaḥ cakṣurbhiḥ ulbaṇaiḥ .. 17 ..
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् । तपसैव यथापूर्वं स्रष्टा विश्वमिदं भवान् ॥ १८ ॥
तपः आतिष्ठ भद्रम् ते सर्व-भूत-सुख-आवहम् । तपसा एव यथापूर्वम् स्रष्टा विश्वम् इदम् भवान् ॥ १८ ॥
tapaḥ ātiṣṭha bhadram te sarva-bhūta-sukha-āvaham . tapasā eva yathāpūrvam sraṣṭā viśvam idam bhavān .. 18 ..
तपसैव परं ज्योतिः भगवन्तमधोक्षजम् । सर्वभूतगुहावासं अञ्जसा विन्दते पुमान् ॥ १९ ॥
तपसा एव परम् ज्योतिः भगवन्तम् अधोक्षजम् । सर्व-भूत-गुहा-वासम् अञ्जसा विन्दते पुमान् ॥ १९ ॥
tapasā eva param jyotiḥ bhagavantam adhokṣajam . sarva-bhūta-guhā-vāsam añjasā vindate pumān .. 19 ..
मैत्रेय उवाच ।
एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम् । बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २० ॥
एवम् आत्मभुवा आदिष्टः परिक्रम्य गिराम् पतिम् । बाढम् इति अमुम् आमन्त्र्य विवेश तपसे वनम् ॥ २० ॥
evam ātmabhuvā ādiṣṭaḥ parikramya girām patim . bāḍham iti amum āmantrya viveśa tapase vanam .. 20 ..
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे । भगवत् शक्तियुक्तस्य लोकसन्तानहेतवः ॥ २१ ॥
अथ अभिध्यायतः सर्गम् दश पुत्राः प्रजज्ञिरे । भगवत् शक्ति-युक्तस्य लोक-सन्तान-हेतवः ॥ २१ ॥
atha abhidhyāyataḥ sargam daśa putrāḥ prajajñire . bhagavat śakti-yuktasya loka-santāna-hetavaḥ .. 21 ..
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः ॥ २२ ॥
मरीचिः अत्रि-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुः वसिष्ठः दक्षः च दशमः तत्र नारदः ॥ २२ ॥
marīciḥ atri-aṅgirasau pulastyaḥ pulahaḥ kratuḥ . bhṛguḥ vasiṣṭhaḥ dakṣaḥ ca daśamaḥ tatra nāradaḥ .. 22 ..
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः । प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः ॥ २३ ॥
उत्सङ्गात् नारदः जज्ञे दक्षः अङ्गुष्ठात् स्वयम्भुवः । प्राणात् वसिष्ठः सञ्जातः भृगुः त्वचि करात् क्रतुः ॥ २३ ॥
utsaṅgāt nāradaḥ jajñe dakṣaḥ aṅguṣṭhāt svayambhuvaḥ . prāṇāt vasiṣṭhaḥ sañjātaḥ bhṛguḥ tvaci karāt kratuḥ .. 23 ..
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोः ऋषिः । अङ्गिरा मुखतोऽक्ष्णोऽत्रिः मरीचिर्मनसोऽभवत् ॥ २४ ॥
पुलहः नाभितः जज्ञे पुलस्त्यः कर्णयोः ऋषिः । अङ्गिराः मुखतः अक्ष्णः अत्रिः मरीचिः मनसः अभवत् ॥ २४ ॥
pulahaḥ nābhitaḥ jajñe pulastyaḥ karṇayoḥ ṛṣiḥ . aṅgirāḥ mukhataḥ akṣṇaḥ atriḥ marīciḥ manasaḥ abhavat .. 24 ..
धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् । अधर्मः पृष्ठतो यस्मात् मृत्युर्लोकभयङ्करः ॥ २५ ॥
धर्मः स्तनात् दक्षिणतस् यत्र नारायणः स्वयम् । अधर्मः पृष्ठतस् यस्मात् मृत्युः लोक-भयङ्करः ॥ २५ ॥
dharmaḥ stanāt dakṣiṇatas yatra nārāyaṇaḥ svayam . adharmaḥ pṛṣṭhatas yasmāt mṛtyuḥ loka-bhayaṅkaraḥ .. 25 ..
हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् । आस्याद् वाक्सिन्धवो मेढ्रान् निर्ऋतिः पायोरघाश्रयः ॥ २६ ॥
हृदि कामः भ्रुवः क्रोधः लोभः च अधर-दच्छदात् । आस्यात् वाच् सिन्धवः मेढ्रात् निरृतिः पायोः अघ-आश्रयः ॥ २६ ॥
hṛdi kāmaḥ bhruvaḥ krodhaḥ lobhaḥ ca adhara-dacchadāt . āsyāt vāc sindhavaḥ meḍhrāt nirṛtiḥ pāyoḥ agha-āśrayaḥ .. 26 ..
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः । मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७ ॥
छायायाः कर्दमः जज्ञे देवहूत्याः पतिः प्रभुः । मनसः देहतः च इदम् जज्ञे विश्वकृतः जगत् ॥ २७ ॥
chāyāyāḥ kardamaḥ jajñe devahūtyāḥ patiḥ prabhuḥ . manasaḥ dehataḥ ca idam jajñe viśvakṛtaḥ jagat .. 27 ..
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः । अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ २८ ॥
वाचम् दुहितरम् तन्वीम् स्वयम्भूः हरतीम् मनः । अकामाम् चकमे क्षत्तर् स कामः इति नः श्रुतम् ॥ २८ ॥
vācam duhitaram tanvīm svayambhūḥ haratīm manaḥ . akāmām cakame kṣattar sa kāmaḥ iti naḥ śrutam .. 28 ..
तमधर्मे कृतमतिं विलोक्य पितरं सुताः । मरीचिमुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् ॥ २९ ॥
तम् अधर्मे कृतमतिम् विलोक्य पितरम् सुताः । मरीचि-मुख्याः मुनयः विश्रम्भात् प्रत्यबोधयन् ॥ २९ ॥
tam adharme kṛtamatim vilokya pitaram sutāḥ . marīci-mukhyāḥ munayaḥ viśrambhāt pratyabodhayan .. 29 ..
नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे । यस्त्वं दुहितरं गच्छेः अनिगृह्याङ्गजं प्रभुः ॥ ३० ॥
न एतत् पूर्वैः कृतम् तु अद्ये न करिष्यन्ति च अपरे । यः त्वम् दुहितरम् गच्छेः अ निगृह्य अङ्गजम् प्रभुः ॥ ३० ॥
na etat pūrvaiḥ kṛtam tu adye na kariṣyanti ca apare . yaḥ tvam duhitaram gaccheḥ a nigṛhya aṅgajam prabhuḥ .. 30 ..
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो । यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ ३१ ॥
तेजीयसाम् अपि हि एतत् न सुश्लोक्यम् जगद्गुरो । यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ ३१ ॥
tejīyasām api hi etat na suślokyam jagadguro . yad-vṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate .. 31 ..
तस्मै नमो भगवते य इदं स्वेन रोचिषा । आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२ ॥
तस्मै नमः भगवते यः इदम् स्वेन रोचिषा । आत्म-स्थम् व्यञ्जयामास स धर्मम् पातुम् अर्हति ॥ ३२ ॥
tasmai namaḥ bhagavate yaḥ idam svena rociṣā . ātma-stham vyañjayāmāsa sa dharmam pātum arhati .. 32 ..
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् । प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा । तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥ ३३ ॥
सः इत्थम् गृणतः पुत्रान् पुरस् दृष्ट्वा प्रजापतीन् । प्रजापति-पतिः तन्वम् तत्याज व्रीडितः तदा । ताम् दिशः जगृहुः घोराम् नीहारम् यत् विदुः तमः ॥ ३३ ॥
saḥ ittham gṛṇataḥ putrān puras dṛṣṭvā prajāpatīn . prajāpati-patiḥ tanvam tatyāja vrīḍitaḥ tadā . tām diśaḥ jagṛhuḥ ghorām nīhāram yat viduḥ tamaḥ .. 33 ..
कदाचिद् ध्यायतः स्रष्टुः वेदा आसंश्चतुर्मुखात् । कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा ॥ ३४ ॥
कदाचिद् ध्यायतः स्रष्टुः वेदाः आसन् चतुर्मुखात् । कथम् स्रक्ष्यामि अहम् लोकान् समवेतान् यथा पुरा ॥ ३४ ॥
kadācid dhyāyataḥ sraṣṭuḥ vedāḥ āsan caturmukhāt . katham srakṣyāmi aham lokān samavetān yathā purā .. 34 ..
चातुर्होत्रं कर्मतन्त्रं उपवेदनयैः सह । धर्मस्य पादाश्चत्वारः तथैवाश्रमवृत्तयः ॥ ३५ ॥
चातुर्होत्रम् कर्म-तन्त्रम् उपवेद-नयैः सह । धर्मस्य पादाः चत्वारः तथा एव आश्रम-वृत्तयः ॥ ३५ ॥
cāturhotram karma-tantram upaveda-nayaiḥ saha . dharmasya pādāḥ catvāraḥ tathā eva āśrama-vṛttayaḥ .. 35 ..
विदुर उवाच ।
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् । यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन ॥ ३६ ॥
स वै विश्वसृजाम् ईशः वेद-आदीन् मुखतः असृजत् । यत् यत् येन असृजत् देवः तत् मे ब्रूहि तपोधन ॥ ३६ ॥
sa vai viśvasṛjām īśaḥ veda-ādīn mukhataḥ asṛjat . yat yat yena asṛjat devaḥ tat me brūhi tapodhana .. 36 ..
मैत्रेय उवाच ।
ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७ ॥
ऋक्-यजुः-साम-अथर्व-आख्यान् वेदान् पूर्व-आदिभिः मुखैः । शास्त्रम् इज्याम् स्तुति-स्तोमम् प्रायश्चित्तम् व्यधात् क्रमात् ॥ ३७ ॥
ṛk-yajuḥ-sāma-atharva-ākhyān vedān pūrva-ādibhiḥ mukhaiḥ . śāstram ijyām stuti-stomam prāyaścittam vyadhāt kramāt .. 37 ..
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः । स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर्मुखैः ॥ ३८ ॥
आयुर्वेदम् धनुर्वेदम् गान्धर्वम् वेदम् आत्मनः । स्थापत्यम् च असृजत् वेदम् क्रमात् पूर्व-आदिभिः मुखैः ॥ ३८ ॥
āyurvedam dhanurvedam gāndharvam vedam ātmanaḥ . sthāpatyam ca asṛjat vedam kramāt pūrva-ādibhiḥ mukhaiḥ .. 38 ..
इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥
इतिहास-पुराणानि पञ्चमम् वेदम् ईश्वरः । सर्वेभ्यः एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥ ३९ ॥
itihāsa-purāṇāni pañcamam vedam īśvaraḥ . sarvebhyaḥ eva vaktrebhyaḥ sasṛje sarva-darśanaḥ .. 39 ..
षोडश्युक्थौ पूर्ववक्त्रात् पुरीष्यग्निष्टुतावथ । आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥
षोडशी-उक्थौ पूर्व-वक्त्रात् पुरीषी-अग्निष्टुतौ अथ । आप्तोर्याम-अतिरात्रौ च वाजपेयम् सगोसवम् ॥ ४० ॥
ṣoḍaśī-ukthau pūrva-vaktrāt purīṣī-agniṣṭutau atha . āptoryāma-atirātrau ca vājapeyam sagosavam .. 40 ..
विद्या दानं तपः सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यं असृजत्सह वृत्तिभिः ॥ ४१ ॥
विद्या दानम् तपः सत्यम् धर्मस्य इति पदानि च । आश्रमान् च यथासंख्यम् असृजत् सह वृत्तिभिः ॥ ४१ ॥
vidyā dānam tapaḥ satyam dharmasya iti padāni ca . āśramān ca yathāsaṃkhyam asṛjat saha vṛttibhiḥ .. 41 ..
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा । वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे ॥ ४२ ॥
सावित्रम् प्राजापत्यम् च ब्राह्मम् च अथ बृहत् तथा । वार्ता सञ्चय-शालीन शिल-उञ्छः इति वै गृहे ॥ ४२ ॥
sāvitram prājāpatyam ca brāhmam ca atha bṛhat tathā . vārtā sañcaya-śālīna śila-uñchaḥ iti vai gṛhe .. 42 ..
वैखानसा वालखिल्यौ दुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३ ॥
वैखानसाः वालखिल्यौ दुम्बराः फेनपाः वने । न्यासे कुटीचकः पूर्वम् हंस-निष्क्रियौ ॥ ४३ ॥
vaikhānasāḥ vālakhilyau dumbarāḥ phenapāḥ vane . nyāse kuṭīcakaḥ pūrvam haṃsa-niṣkriyau .. 43 ..
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च । एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥ ४४ ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिः तथा एव च । एवम् व्याहृतयः च आसन् प्रणवः हि अस्य दह्रतः ॥ ४४ ॥
ānvīkṣikī trayī vārtā daṇḍanītiḥ tathā eva ca . evam vyāhṛtayaḥ ca āsan praṇavaḥ hi asya dahrataḥ .. 44 ..
[1]तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः । [2]त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्[3] [4]जगत्यस्थ्नः[5] प्रजापतेः ॥ ४५ ॥
[१]तस्य उष्णिह् आसीत् लोमभ्यः गायत्री च त्वचः विभोः । [२]त्रिष्टुभ् मांसात् स्नुतः अनुष्टुभ्[३] [४]जगती-अस्थ्नः[५] प्रजापतेः ॥ ४५ ॥
[1]tasya uṣṇih āsīt lomabhyaḥ gāyatrī ca tvacaḥ vibhoḥ . [2]triṣṭubh māṃsāt snutaḥ anuṣṭubh[3] [4]jagatī-asthnaḥ[5] prajāpateḥ .. 45 ..
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् । स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत ॥ ४६ ॥
मज्जायाः पङ्क्तिः उत्पन्ना बृहती प्राणतः अभवत् । स्पर्शः तस्य अभवत् जीवः स्वरः देहः उदाहृत ॥ ४६ ॥
majjāyāḥ paṅktiḥ utpannā bṛhatī prāṇataḥ abhavat . sparśaḥ tasya abhavat jīvaḥ svaraḥ dehaḥ udāhṛta .. 46 ..
सप्तचक्राणि. [6]ऊष्माणमिन्द्रियाण्याहुः [7] अन्तःस्था बलमात्मनः । स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥ ४७ ॥
सप्त-चक्राणि। [६]ऊष्माणम् इन्द्रियाणि आहुः [७] अन्तःस्थाः बलम् आत्मनः । स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥ ४७ ॥
sapta-cakrāṇi. [6]ūṣmāṇam indriyāṇi āhuḥ [7] antaḥsthāḥ balam ātmanaḥ . svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ .. 47 ..
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः । ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः ॥ ४८ ॥
शब्दब्रह्म-आत्मनः तस्य व्यक्त-अव्यक्त-आत्मनः परः । ब्रह्मा अवभाति विततः नाना शक्ति-उपबृंहितः ॥ ४८ ॥
śabdabrahma-ātmanaḥ tasya vyakta-avyakta-ātmanaḥ paraḥ . brahmā avabhāti vitataḥ nānā śakti-upabṛṃhitaḥ .. 48 ..
ततोऽपरामुपादाय स सर्गाय मनो दधे । ऋषीणां भूरिवीर्याणां अपि सर्गमविस्तृतम् ॥ ४९ ॥
ततस् अपराम् उपादाय स सर्गाय मनः दधे । ऋषीणाम् भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् ॥ ४९ ॥
tatas aparām upādāya sa sargāya manaḥ dadhe . ṛṣīṇām bhūri-vīryāṇām api sargam avistṛtam .. 49 ..
ज्ञात्वा तद्धृदये भूयः चिन्तयामास कौरव । अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥ ५० ॥
ज्ञात्वा तद्-हृदये भूयस् चिन्तयामास कौरव । अहो अद्भुतम् एतत् मे व्यापृतस्य अपि नित्यदा ॥ ५० ॥
jñātvā tad-hṛdaye bhūyas cintayāmāsa kaurava . aho adbhutam etat me vyāpṛtasya api nityadā .. 50 ..
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् । एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥ ५१ ॥
न हि एधन्ते प्रजाः नूनम् दैवम् अत्र विघातकम् । एवम् युक्तकृतः तस्य दैवम् च अवेक्षतः तदा ॥ ५१ ॥
na hi edhante prajāḥ nūnam daivam atra vighātakam . evam yuktakṛtaḥ tasya daivam ca avekṣataḥ tadā .. 51 ..
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते । ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५२ ॥
कस्य रूपम् अभूत् द्वेधा यत् कायम् अभिचक्षते । ताभ्याम् रूप-विभागाभ्याम् मिथुनम् समपद्यत ॥ ५२ ॥
kasya rūpam abhūt dvedhā yat kāyam abhicakṣate . tābhyām rūpa-vibhāgābhyām mithunam samapadyata .. 52 ..
यस्तु तत्र पुमान्सोऽभूत् मनुः स्वायम्भुवः स्वराट् । स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ॥ ५३ ॥
यः तु तत्र पुमान् सः अभूत् मनुः स्वायम्भुवः स्वराज् । स्त्री या आसीत् शतरूपा-आख्या महिषी अस्य महात्मनः ॥ ५३ ॥
yaḥ tu tatra pumān saḥ abhūt manuḥ svāyambhuvaḥ svarāj . strī yā āsīt śatarūpā-ākhyā mahiṣī asya mahātmanaḥ .. 53 ..
तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे । स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ॥ ५४ ॥
तदा मिथुन-धर्मेण प्रजाः हि एधाम्बभूविरे । स च अपि शतरूपायाम् पञ्च अपत्यानि अजीजनत् ॥ ५४ ॥
tadā mithuna-dharmeṇa prajāḥ hi edhāmbabhūvire . sa ca api śatarūpāyām pañca apatyāni ajījanat .. 54 ..
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत । आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५५ ॥
प्रियव्रत-उत्तानपादौ तिस्रः कन्याः च भारत । आकूतिः देवहूतिः च प्रसूतिः इति सत्तम ॥ ५५ ॥
priyavrata-uttānapādau tisraḥ kanyāḥ ca bhārata . ākūtiḥ devahūtiḥ ca prasūtiḥ iti sattama .. 55 ..
आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् । दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५६ ॥
आकूतिम् रुचये प्रादात् कर्दमाय तु मध्यमाम् । दक्षाय अदात् प्रसूतिम् च यतस् आपूरितम् जगत् ॥ ५६ ॥
ākūtim rucaye prādāt kardamāya tu madhyamām . dakṣāya adāt prasūtim ca yatas āpūritam jagat .. 56 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe dvādaśaḥ adhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In