| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच ।
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः । महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥
iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ . mahimā vedagarbho'tha yathāsrākṣīnnibodha me .. 1 ..
ससर्जाग्रेऽन्धतामिस्रं अथ तामिस्रमादिकृत् । महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥
sasarjāgre'ndhatāmisraṃ atha tāmisramādikṛt . mahāmohaṃ ca mohaṃ ca tamaścājñānavṛttayaḥ .. 2 ..
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत । भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३ ॥
dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahvamanyata . bhagavaddhyānapūtena manasānyāṃ tato'sṛjat .. 3 ..
सनकं च सनन्दं च सनातनमथात्मभूः । सनत्कुमारं च मुनीन् निष्क्रियान् ऊर्ध्वरेतसः ॥ ४ ॥
sanakaṃ ca sanandaṃ ca sanātanamathātmabhūḥ . sanatkumāraṃ ca munīn niṣkriyān ūrdhvaretasaḥ .. 4 ..
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः । तन्नैच्छन् मोक्षधर्माणो वासुदेवपरायणाः ॥ ५ ॥
tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ . tannaicchan mokṣadharmāṇo vāsudevaparāyaṇāḥ .. 5 ..
सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः । क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६ ॥
so'vadhyātaḥ sutairevaṃ pratyākhyātānuśāsanaiḥ . krodhaṃ durviṣahaṃ jātaṃ niyantumupacakrame .. 6 ..
धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः । सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७ ॥
dhiyā nigṛhyamāṇo'pi bhruvormadhyātprajāpateḥ . sadyo'jāyata tanmanyuḥ kumāro nīlalohitaḥ .. 7 ..
स वै रुरोद देवानां पूर्वजो भगवान्भवः । नामानि कुरु मे धातः स्थानानि च जगद्गुरो ॥ ८ ॥
sa vai ruroda devānāṃ pūrvajo bhagavānbhavaḥ . nāmāni kuru me dhātaḥ sthānāni ca jagadguro .. 8 ..
इति तस्य वचः पाद्मो भगवान् परिपालयन् । अभ्यधाद् भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९ ॥
iti tasya vacaḥ pādmo bhagavān paripālayan . abhyadhād bhadrayā vācā mā rodīstatkaromi te .. 9 ..
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः । ततस्त्वां अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ १० ॥
yadarodīḥ suraśreṣṭha sodvega iva bālakaḥ . tatastvāṃ abhidhāsyanti nāmnā rudra iti prajāḥ .. 10 ..
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही । सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे ॥ ११ ॥
hṛdindriyāṇyasurvyoma vāyuragnirjalaṃ mahī . sūryaścandrastapaścaiva sthānānyagre kṛtāni me .. 11 ..
मन्युर्मनुर्महिनसो महान् शिव ऋतध्वजः । उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ १२ ॥
manyurmanurmahinaso mahān śiva ṛtadhvajaḥ . ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ .. 12 ..
धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका । इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ १३ ॥
dhīrdhṛtirasalomā ca niyutsarpirilāmbikā . irāvatī sudhā dīkṣā rudrāṇyo rudra te striyaḥ .. 13 ..
गृहाणैतानि नामानि स्थानानि च सयोषणः । एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ॥ १४ ॥
gṛhāṇaitāni nāmāni sthānāni ca sayoṣaṇaḥ . ebhiḥ sṛja prajā bahvīḥ prajānāmasi yatpatiḥ .. 14 ..
इत्यादिष्टः स्वगुरुणा भगवान् नीललोहितः । सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥ १५ ॥
ityādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ . sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ .. 15 ..
रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत् । निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६ ॥
rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat . niśāmyāsaṃkhyaśo yūthān prajāpatiraśaṅkata .. 16 ..
अलं प्रजाभिः सृष्टाभिः ईदृशीभिः सुरोत्तम । मया सह दहन्तीभिः दिशश्चक्षुर्भिरुल्बणैः ॥ १७ ॥
alaṃ prajābhiḥ sṛṣṭābhiḥ īdṛśībhiḥ surottama . mayā saha dahantībhiḥ diśaścakṣurbhirulbaṇaiḥ .. 17 ..
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् । तपसैव यथापूर्वं स्रष्टा विश्वमिदं भवान् ॥ १८ ॥
tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham . tapasaiva yathāpūrvaṃ sraṣṭā viśvamidaṃ bhavān .. 18 ..
तपसैव परं ज्योतिः भगवन्तमधोक्षजम् । सर्वभूतगुहावासं अञ्जसा विन्दते पुमान् ॥ १९ ॥
tapasaiva paraṃ jyotiḥ bhagavantamadhokṣajam . sarvabhūtaguhāvāsaṃ añjasā vindate pumān .. 19 ..
मैत्रेय उवाच ।
एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम् । बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २० ॥
evamātmabhuvā''diṣṭaḥ parikramya girāṃ patim . bāḍhamityamumāmantrya viveśa tapase vanam .. 20 ..
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे । भगवत् शक्तियुक्तस्य लोकसन्तानहेतवः ॥ २१ ॥
athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire . bhagavat śaktiyuktasya lokasantānahetavaḥ .. 21 ..
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः ॥ २२ ॥
marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ . bhṛgurvasiṣṭho dakṣaśca daśamastatra nāradaḥ .. 22 ..
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः । प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः ॥ २३ ॥
utsaṅgānnārado jajñe dakṣo'ṅguṣṭhātsvayambhuvaḥ . prāṇādvasiṣṭhaḥ sañjāto bhṛgustvaci karātkratuḥ .. 23 ..
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोः ऋषिः । अङ्गिरा मुखतोऽक्ष्णोऽत्रिः मरीचिर्मनसोऽभवत् ॥ २४ ॥
pulaho nābhito jajñe pulastyaḥ karṇayoḥ ṛṣiḥ . aṅgirā mukhato'kṣṇo'triḥ marīcirmanaso'bhavat .. 24 ..
धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् । अधर्मः पृष्ठतो यस्मात् मृत्युर्लोकभयङ्करः ॥ २५ ॥
dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam . adharmaḥ pṛṣṭhato yasmāt mṛtyurlokabhayaṅkaraḥ .. 25 ..
हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् । आस्याद् वाक्सिन्धवो मेढ्रान् निर्ऋतिः पायोरघाश्रयः ॥ २६ ॥
hṛdi kāmo bhruvaḥ krodho lobhaścādharadacchadāt . āsyād vāksindhavo meḍhrān nirṛtiḥ pāyoraghāśrayaḥ .. 26 ..
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः । मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७ ॥
chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ . manaso dehataścedaṃ jajñe viśvakṛto jagat .. 27 ..
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः । अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ २८ ॥
vācaṃ duhitaraṃ tanvīṃ svayambhūrharatīṃ manaḥ . akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam .. 28 ..
तमधर्मे कृतमतिं विलोक्य पितरं सुताः । मरीचिमुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् ॥ २९ ॥
tamadharme kṛtamatiṃ vilokya pitaraṃ sutāḥ . marīcimukhyā munayo viśrambhāt pratyabodhayan .. 29 ..
नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे । यस्त्वं दुहितरं गच्छेः अनिगृह्याङ्गजं प्रभुः ॥ ३० ॥
naitatpūrvaiḥ kṛtaṃ tvadye na kariṣyanti cāpare . yastvaṃ duhitaraṃ gaccheḥ anigṛhyāṅgajaṃ prabhuḥ .. 30 ..
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो । यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ ३१ ॥
tejīyasāmapi hyetanna suślokyaṃ jagadguro . yadvṛttamanutiṣṭhan vai lokaḥ kṣemāya kalpate .. 31 ..
तस्मै नमो भगवते य इदं स्वेन रोचिषा । आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२ ॥
tasmai namo bhagavate ya idaṃ svena rociṣā . ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātumarhati .. 32 ..
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् । प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा । तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥ ३३ ॥
sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn . prajāpatipatistanvaṃ tatyāja vrīḍitastadā . tāṃ diśo jagṛhurghorāṃ nīhāraṃ yadvidustamaḥ .. 33 ..
कदाचिद् ध्यायतः स्रष्टुः वेदा आसंश्चतुर्मुखात् । कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा ॥ ३४ ॥
kadācid dhyāyataḥ sraṣṭuḥ vedā āsaṃścaturmukhāt . kathaṃ srakṣyāmyahaṃ lokān samavetān yathā purā .. 34 ..
चातुर्होत्रं कर्मतन्त्रं उपवेदनयैः सह । धर्मस्य पादाश्चत्वारः तथैवाश्रमवृत्तयः ॥ ३५ ॥
cāturhotraṃ karmatantraṃ upavedanayaiḥ saha . dharmasya pādāścatvāraḥ tathaivāśramavṛttayaḥ .. 35 ..
विदुर उवाच ।
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् । यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन ॥ ३६ ॥
sa vai viśvasṛjāmīśo vedādīn mukhato'sṛjat . yad yad yenāsṛjad devastanme brūhi tapodhana .. 36 ..
मैत्रेय उवाच ।
ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७ ॥
ṛgyajuḥsāmātharvākhyān vedān pūrvādibhirmukhaiḥ . śāstramijyāṃ stutistomaṃ prāyaścittaṃ vyadhātkramāt .. 37 ..
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः । स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर्मुखैः ॥ ३८ ॥
āyurvedaṃ dhanurvedaṃ gāndharvaṃ vedamātmanaḥ . sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhirmukhaiḥ .. 38 ..
इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥
itihāsapurāṇāni pañcamaṃ vedamīśvaraḥ . sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ .. 39 ..
षोडश्युक्थौ पूर्ववक्त्रात् पुरीष्यग्निष्टुतावथ । आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥
ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāvatha . āptoryāmātirātrau ca vājapeyaṃ sagosavam .. 40 ..
विद्या दानं तपः सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यं असृजत्सह वृत्तिभिः ॥ ४१ ॥
vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca . āśramāṃśca yathāsaṃkhyaṃ asṛjatsaha vṛttibhiḥ .. 41 ..
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा । वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे ॥ ४२ ॥
sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhattathā . vārtā sañcayaśālīna śiloñcha iti vai gṛhe .. 42 ..
वैखानसा वालखिल्यौ दुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३ ॥
vaikhānasā vālakhilyau dumbarāḥ phenapā vane . nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsaniṣkriyau .. 43 ..
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च । एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥ ४४ ॥
ānvīkṣikī trayī vārtā daṇḍanītistathaiva ca . evaṃ vyāhṛtayaścāsan praṇavo hyasya dahrataḥ .. 44 ..
[1]तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः । [2]त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्[3] [4]जगत्यस्थ्नः[5] प्रजापतेः ॥ ४५ ॥
[1]tasyoṣṇigāsīllomabhyo gāyatrī ca tvaco vibhoḥ . [2]triṣṭummāṃsātsnuto'nuṣṭub[3] [4]jagatyasthnaḥ[5] prajāpateḥ .. 45 ..
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् । स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत ॥ ४६ ॥
majjāyāḥ paṅktirutpannā bṛhatī prāṇato'bhavat . sparśastasyābhavajjīvaḥ svaro deha udāhṛta .. 46 ..
सप्तचक्राणि. [6]ऊष्माणमिन्द्रियाण्याहुः [7] अन्तःस्था बलमात्मनः । स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥ ४७ ॥
saptacakrāṇi. [6]ūṣmāṇamindriyāṇyāhuḥ [7] antaḥsthā balamātmanaḥ . svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ .. 47 ..
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः । ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः ॥ ४८ ॥
śabdabrahmātmanastasya vyaktāvyaktātmanaḥ paraḥ . brahmāvabhāti vitato nānāśaktyupabṛṃhitaḥ .. 48 ..
ततोऽपरामुपादाय स सर्गाय मनो दधे । ऋषीणां भूरिवीर्याणां अपि सर्गमविस्तृतम् ॥ ४९ ॥
tato'parāmupādāya sa sargāya mano dadhe . ṛṣīṇāṃ bhūrivīryāṇāṃ api sargamavistṛtam .. 49 ..
ज्ञात्वा तद्धृदये भूयः चिन्तयामास कौरव । अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥ ५० ॥
jñātvā taddhṛdaye bhūyaḥ cintayāmāsa kaurava . aho adbhutametanme vyāpṛtasyāpi nityadā .. 50 ..
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् । एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥ ५१ ॥
na hyedhante prajā nūnaṃ daivamatra vighātakam . evaṃ yuktakṛtastasya daivaṃ cāvekṣatastadā .. 51 ..
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते । ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५२ ॥
kasya rūpamabhūd dvedhā yatkāyamabhicakṣate . tābhyāṃ rūpavibhāgābhyāṃ mithunaṃ samapadyata .. 52 ..
यस्तु तत्र पुमान्सोऽभूत् मनुः स्वायम्भुवः स्वराट् । स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ॥ ५३ ॥
yastu tatra pumānso'bhūt manuḥ svāyambhuvaḥ svarāṭ . strī yā''sīcchatarūpākhyā mahiṣyasya mahātmanaḥ .. 53 ..
तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे । स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ॥ ५४ ॥
tadā mithunadharmeṇa prajā hyedhāmbabhūvire . sa cāpi śatarūpāyāṃ pañcāpatyānyajījanat .. 54 ..
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत । आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५५ ॥
priyavratottānapādau tisraḥ kanyāśca bhārata . ākūtirdevahūtiśca prasūtiriti sattama .. 55 ..
आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् । दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५६ ॥
ākūtiṃ rucaye prādāt kardamāya tu madhyamām . dakṣāyādātprasūtiṃ ca yata āpūritaṃ jagat .. 56 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe dvādaśo'dhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In