| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
निशम्य वाचं वदतो मुनेः पुण्यतमां नृप । भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥ १ ॥
निशम्य वाचम् वदतः मुनेः पुण्यतमाम् नृप । भूयस् पप्रच्छ कौरव्यः वासुदेव-कथा-आदृतः ॥ १ ॥
niśamya vācam vadataḥ muneḥ puṇyatamām nṛpa . bhūyas papraccha kauravyaḥ vāsudeva-kathā-ādṛtaḥ .. 1 ..
विदुर उवाच ।
स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥
स वै स्वायम्भुवः सम्राज् प्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियाम् पत्नीम् किम् चकार ततस् मुने ॥ २ ॥
sa vai svāyambhuvaḥ samrāj priyaḥ putraḥ svayambhuvaḥ . pratilabhya priyām patnīm kim cakāra tatas mune .. 2 ..
चरितं तस्य राजर्षेः आदिराजस्य सत्तम । ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥
चरितम् तस्य राजर्षेः आदि-राजस्य सत्तम । ब्रूहि मे श्रद्दधानाय विष्वक्सेन-आश्रयः हि असौ ॥ ३ ॥
caritam tasya rājarṣeḥ ādi-rājasya sattama . brūhi me śraddadhānāya viṣvaksena-āśrayaḥ hi asau .. 3 ..
श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः । तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् ॥ ४ ॥
श्रुतस्य पुंसाम् सु चिर-श्रमस्य ननु अञ्जसा सूरिभिः ईडितः अर्थः । तत् तद्-गुण-अनुश्रवणम् मुकुन्द पाद-अरविन्दम् हृदयेषु येषाम् ॥ ४ ॥
śrutasya puṃsām su cira-śramasya nanu añjasā sūribhiḥ īḍitaḥ arthaḥ . tat tad-guṇa-anuśravaṇam mukunda pāda-aravindam hṛdayeṣu yeṣām .. 4 ..
श्रीशुक उवाच ।
इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम् । प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥
इति ब्रुवाणम् विदुरम् विनीतम् सहस्र-शीर्ष्णः चरण-उपधानम् । प्रहृष्ट-रोमा भगवत्-कथायाम् प्रणीयमानः मुनिः अभ्यचष्ट ॥ ५ ॥
iti bruvāṇam viduram vinītam sahasra-śīrṣṇaḥ caraṇa-upadhānam . prahṛṣṭa-romā bhagavat-kathāyām praṇīyamānaḥ muniḥ abhyacaṣṭa .. 5 ..
मैत्रेय उवाच ।
यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः । प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥
यदा स्व-भार्यया सार्धम् जातः स्वायम्भुवः मनुः । प्राञ्जलिः प्रणतः च इदम् वेदगर्भम् अभाषत ॥ ६ ॥
yadā sva-bhāryayā sārdham jātaḥ svāyambhuvaḥ manuḥ . prāñjaliḥ praṇataḥ ca idam vedagarbham abhāṣata .. 6 ..
त्वमेकः सर्वभूतानां जन्मकृत् वृत्तिदः पिता । तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥
त्वम् एकः सर्व-भूतानाम् जन्म-कृत् वृत्ति-दः पिता । तथा अपि नः प्रजानाम् ते शुश्रूषा केन वा भवेत् ॥ ७ ॥
tvam ekaḥ sarva-bhūtānām janma-kṛt vṛtti-daḥ pitā . tathā api naḥ prajānām te śuśrūṣā kena vā bhavet .. 7 ..
तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु । यत्कृत्वेह यशो विष्वक् अमुत्र च भवेद्गतिः ॥ ८ ॥
तत् विधेहि नमः तुभ्यम् कर्मसु ईड्य-आत्म-शक्तिषु । यत् कृत्वा इह यशः विष्वक् अमुत्र च भवेत् गतिः ॥ ८ ॥
tat vidhehi namaḥ tubhyam karmasu īḍya-ātma-śaktiṣu . yat kṛtvā iha yaśaḥ viṣvak amutra ca bhavet gatiḥ .. 8 ..
ब्रह्मोवाच
प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर । यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥
प्रीतः तुभ्यम् अहम् तात स्वस्ति स्ताद्वाम् क्षितीश्वर । यत् निर्व्यलीकेन हृदा शाधि मा इति आत्मना अर्पितम् ॥ ९ ॥
prītaḥ tubhyam aham tāta svasti stādvām kṣitīśvara . yat nirvyalīkena hṛdā śādhi mā iti ātmanā arpitam .. 9 ..
एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ । शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः ॥ १० ॥
एतावती आत्मजैः वीर कार्या हि अपचितिः गुरौ । शक्त्या अप्रमत्तैः गृह्येत स आदरम् गत-मत्सरैः ॥ १० ॥
etāvatī ātmajaiḥ vīra kāryā hi apacitiḥ gurau . śaktyā apramattaiḥ gṛhyeta sa ādaram gata-matsaraiḥ .. 10 ..
स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः । उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ ११ ॥
स त्वम् अस्याम् अपत्यानि सदृशानि आत्मनः गुणैः । उत्पाद्य शास धर्मेण गाम् यज्ञैः पुरुषम् यज ॥ ११ ॥
sa tvam asyām apatyāni sadṛśāni ātmanaḥ guṇaiḥ . utpādya śāsa dharmeṇa gām yajñaiḥ puruṣam yaja .. 11 ..
परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप । भगवांस्ते प्रजाभर्तुः हृषीकेशोऽनुतुष्यति ॥ १२ ॥
परम् शुश्रूषणम् मह्यम् स्यात् प्रजा-रक्षया नृप । भगवान् ते प्रजा-भर्तुः हृषीकेशः अनुतुष्यति ॥ १२ ॥
param śuśrūṣaṇam mahyam syāt prajā-rakṣayā nṛpa . bhagavān te prajā-bhartuḥ hṛṣīkeśaḥ anutuṣyati .. 12 ..
येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः । तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् ॥ १३ ॥
येषाम् न तुष्टः भगवान् यज्ञ-लिङ्गः जनार्दनः । तेषाम् श्रमः हि अपार्थाय यत् आत्मा न आदृतः स्वयम् ॥ १३ ॥
yeṣām na tuṣṭaḥ bhagavān yajña-liṅgaḥ janārdanaḥ . teṣām śramaḥ hi apārthāya yat ātmā na ādṛtaḥ svayam .. 13 ..
मनुरुवाच ।
आदेशेऽहं भगवतो वर्तेयामीवसूदन । स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥
आदेशे अहम् भगवतः वर्तेयाम् इवसूदन । स्थानम् तु इह अनुजानीहि प्रजानाम् मम च प्रभो ॥ १४ ॥
ādeśe aham bhagavataḥ varteyām ivasūdana . sthānam tu iha anujānīhi prajānām mama ca prabho .. 14 ..
यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि । अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५ ॥
यत् ओकः सर्व-सत्त्वानाम् मही मग्ना महा-अम्भसि । अस्याः उद्धरणे यत्नः देव देव्याः विधीयताम् ॥ १५ ॥
yat okaḥ sarva-sattvānām mahī magnā mahā-ambhasi . asyāḥ uddharaṇe yatnaḥ deva devyāḥ vidhīyatām .. 15 ..
मैत्रेय उवाच ।
परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् । कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥
परमेष्ठी तु अपाम् मध्ये तथा सन्नाम् अवेक्ष्य गाम् । कथम् एनाम् समुन्नेष्ये इति दध्यौ धिया चिरम् ॥ १६ ॥
parameṣṭhī tu apām madhye tathā sannām avekṣya gām . katham enām samunneṣye iti dadhyau dhiyā ciram .. 16 ..
सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता । अथात्र किमनुष्ठेयं अस्माभिः सर्गयोजितैः । यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७ ॥
सृजतः मे क्षितिः वार्भिः प्लाव्यमाना रसाम् गता । अथ अत्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः । यस्य अहम् हृदयात् आसम् सः ईशः विदधातु मे ॥ १७ ॥
sṛjataḥ me kṣitiḥ vārbhiḥ plāvyamānā rasām gatā . atha atra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ . yasya aham hṛdayāt āsam saḥ īśaḥ vidadhātu me .. 17 ..
इत्यभिध्यायतो नासा विवरात्सहसानघ । वराहतोको निरगाद् अङ्गुष्ठपरिमाणकः ॥ १८ ॥
इति अभिध्यायतः नासाः विवरात् सहसा अनघ । वराह-तोकः निरगात् अङ्गुष्ठ-परिमाणकः ॥ १८ ॥
iti abhidhyāyataḥ nāsāḥ vivarāt sahasā anagha . varāha-tokaḥ niragāt aṅguṣṭha-parimāṇakaḥ .. 18 ..
तस्याभिपश्यतः खस्थः क्षणेन किल भारत । गजमात्रः प्रववृधे तदद्भुतं अभून्महत् ॥ १९ ॥
तस्य अभिपश्यतः ख-स्थः क्षणेन किल भारत । गज-मात्रः प्रववृधे तत् अद्भुतम् अभूत् महत् ॥ १९ ॥
tasya abhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata . gaja-mātraḥ pravavṛdhe tat adbhutam abhūt mahat .. 19 ..
मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह । दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २० ॥
मरीचि-प्रमुखैः विप्रैः कुमारैः मनुना सह । दृष्ट्वा तत् सौकरम् रूपम् तर्कयामास चित्रधा ॥ २० ॥
marīci-pramukhaiḥ vipraiḥ kumāraiḥ manunā saha . dṛṣṭvā tat saukaram rūpam tarkayāmāsa citradhā .. 20 ..
किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम् । अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् ॥ २१ ॥
किम् एतत् सौकर-व्याजम् सत्त्वम् दिव्यम् अवस्थितम् । अहो बत आश्चर्यम् इदम् नासायाः मे विनिःसृतम् ॥ २१ ॥
kim etat saukara-vyājam sattvam divyam avasthitam . aho bata āścaryam idam nāsāyāḥ me viniḥsṛtam .. 21 ..
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः । अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः ॥ २२ ॥
दृष्टः अङ्गुष्ठ-शिरः-मात्रः क्षणात् गण्ड-शिला-समः । अपि स्विद् भगवान् एष यज्ञः मे खेदयत् मनः ॥ २२ ॥
dṛṣṭaḥ aṅguṣṭha-śiraḥ-mātraḥ kṣaṇāt gaṇḍa-śilā-samaḥ . api svid bhagavān eṣa yajñaḥ me khedayat manaḥ .. 22 ..
इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः । भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥ २३ ॥
इति मीमांसतः तस्य ब्रह्मणः सह सूनुभिः । भगवान् यज्ञपुरुषः जगर्जाग-इन्द्र-सन्निभः ॥ २३ ॥
iti mīmāṃsataḥ tasya brahmaṇaḥ saha sūnubhiḥ . bhagavān yajñapuruṣaḥ jagarjāga-indra-sannibhaḥ .. 23 ..
ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् । स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ २४ ॥
ब्रह्माणम् हर्षयामास हरिः तान् च द्विजोत्तमान् । स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ २४ ॥
brahmāṇam harṣayāmāsa hariḥ tān ca dvijottamān . sva-garjitena kakubhaḥ pratisvanayatā vibhuḥ .. 24 ..
निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्य । जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म ॥ २५ ॥
निशम्य ते घर्घरितम् स्व-खेद क्षयिष्णु माया-मय-सूकरस्य । जनः तपः-सत्य-निवासिनः ते त्रिभिः पवित्रैः मुनयः अगृणन् स्म ॥ २५ ॥
niśamya te ghargharitam sva-kheda kṣayiṣṇu māyā-maya-sūkarasya . janaḥ tapaḥ-satya-nivāsinaḥ te tribhiḥ pavitraiḥ munayaḥ agṛṇan sma .. 25 ..
तेषां सतां वेदवितानमूर्तिः ब्रह्मावधार्यात्मगुणानुवादम् । विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश ॥ २६ ॥
तेषाम् सताम् वेद-वितान-मूर्तिः ब्रह्म अवधार्य आत्म-गुण-अनुवादम् । विनद्य भूयस् विबुध-उदयाय गज-इन्द्र-लीलः जलम् आविवेश ॥ २६ ॥
teṣām satām veda-vitāna-mūrtiḥ brahma avadhārya ātma-guṇa-anuvādam . vinadya bhūyas vibudha-udayāya gaja-indra-līlaḥ jalam āviveśa .. 26 ..
उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक् । खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः ॥ २७ ॥
उत्क्षिप्त-वालः खचरः कठोरः सटाः विधुन्वन् खर-रोमश-त्वच् । खुर-आहत-अभ्रः सित-दंष्ट्रः ईक्षा ज्योतिः बभासे भगवान् महीध्रः ॥ २७ ॥
utkṣipta-vālaḥ khacaraḥ kaṭhoraḥ saṭāḥ vidhunvan khara-romaśa-tvac . khura-āhata-abhraḥ sita-daṃṣṭraḥ īkṣā jyotiḥ babhāse bhagavān mahīdhraḥ .. 27 ..
घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयमध्वराङ्गः । करालदंष्ट्रोऽप्यकरालदृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८ ॥
घ्राणेन पृथ्व्याः पदवीम् विजिघ्रन् क्रोड-अपदेशः स्वयम् अध्वर-अङ्गः । कराल-दंष्ट्रः अपि अ कराल-दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतः अविशत् कम् ॥ २८ ॥
ghrāṇena pṛthvyāḥ padavīm vijighran kroḍa-apadeśaḥ svayam adhvara-aṅgaḥ . karāla-daṃṣṭraḥ api a karāla-dṛgbhyām udvīkṣya viprān gṛṇataḥ aviśat kam .. 28 ..
स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्मिभुजैरिवार्तः चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९ ॥
स वज्रकूट-अङ्ग-निपात-वेग विशीर्ण-कुक्षिः स्तनयन् उदन्वान् । उत्सृष्ट-दीर्घ-ऊर्मि-भुजैः इव आर्तः चुक्रोश यज्ञेश्वर पाहि मा इति ॥ २९ ॥
sa vajrakūṭa-aṅga-nipāta-vega viśīrṇa-kukṣiḥ stanayan udanvān . utsṛṣṭa-dīrgha-ūrmi-bhujaiḥ iva ārtaḥ cukrośa yajñeśvara pāhi mā iti .. 29 ..
खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् । ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३० ॥
खुरैः क्षुरप्रैः दरयन् तदा आप उत्पार-पारम् रसायाम् । ददर्श गाम् तत्र सुषुप्सुः अग्रे याम् जीव-धानीम् स्वयम् अभ्यधत्त ॥ ३० ॥
khuraiḥ kṣurapraiḥ darayan tadā āpa utpāra-pāram rasāyām . dadarśa gām tatra suṣupsuḥ agre yām jīva-dhānīm svayam abhyadhatta .. 30 ..
स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः । तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥ ३१ ॥
स्व-दंष्ट्रया उद्धृत्य महीम् निमग्नाम् सः उत्थितः संरुरुचे रसायाः । तत्र अपि दैत्यम् गदया आपतन्तम् सुनाभ-सन्दीपित-तीव्र-मन्युः ॥ ३१ ॥
sva-daṃṣṭrayā uddhṛtya mahīm nimagnām saḥ utthitaḥ saṃruruce rasāyāḥ . tatra api daityam gadayā āpatantam sunābha-sandīpita-tīvra-manyuḥ .. 31 ..
जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि । तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२ ॥
जघान रुन्धानम् असह्य-विक्रमम् स लीलया इभम् मृगराज् इव अम्भसि । तद्-रक्त-पङ्क-अङ्कित-गण्ड-तुण्डः यथा गज-इन्द्रः जगतीम् विभिन्दन् ॥ ३२ ॥
jaghāna rundhānam asahya-vikramam sa līlayā ibham mṛgarāj iva ambhasi . tad-rakta-paṅka-aṅkita-gaṇḍa-tuṇḍaḥ yathā gaja-indraḥ jagatīm vibhindan .. 32 ..
तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग । प्रज्ञाय बद्धाञ्जलयोऽनुवाकैः विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३ ॥
तमाल-नीलम् सित-दन्त-कोट्या क्ष्माम् उत्क्षिपन्तम् गज-लीलया अङ्ग । प्रज्ञाय बद्धाञ्जलयः अनुवाकैः विरिञ्चि-मुख्याः उपतस्थुः ईशम् ॥ ३३ ॥
tamāla-nīlam sita-danta-koṭyā kṣmām utkṣipantam gaja-līlayā aṅga . prajñāya baddhāñjalayaḥ anuvākaiḥ viriñci-mukhyāḥ upatasthuḥ īśam .. 33 ..
ऋषय ऊचुः
जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद् रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते ॥ ३४ ॥
जितम् जितम् ते अजित यज्ञ-भावन त्रयीम् तनुम् स्वाम् परिधुन्वते नमः । यत् रोम-गर्तेषु निलिल्युः अध्वराः तस्मै नमः कारण-सूकराय ते ॥ ३४ ॥
jitam jitam te ajita yajña-bhāvana trayīm tanum svām paridhunvate namaḥ . yat roma-garteṣu nililyuḥ adhvarāḥ tasmai namaḥ kāraṇa-sūkarāya te .. 34 ..
रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ ३५ ॥
रूपम् तव एतत् ननु दुष्कृत-आत्मनाम् दुर्दर्शनम् देव यत् अध्वर-आत्मकम् । छन्दांसि यस्य त्वचि बर्हिः-ओम सु आज्यम् दृशि तु अङ्घ्रिषु चातुर्होत्रम् ॥ ३५ ॥
rūpam tava etat nanu duṣkṛta-ātmanām durdarśanam deva yat adhvara-ātmakam . chandāṃsi yasya tvaci barhiḥ-oma su ājyam dṛśi tu aṅghriṣu cāturhotram .. 35 ..
स्रुक्तुण्ड आसीत्स्रुव ईश नासयोः इडोदरे चमसाः कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६ ॥
स्रुच्-तुण्डः आसीत् स्रुवः ईश नासयोः इडा उदरे चमसाः कर्ण-रन्ध्रे । प्राशित्रम् आस्ये ग्रसने ग्रहाः तु ते यत् चर्वणम् ते भगवन् अग्निहोत्रम् ॥ ३६ ॥
sruc-tuṇḍaḥ āsīt sruvaḥ īśa nāsayoḥ iḍā udare camasāḥ karṇa-randhre . prāśitram āsye grasane grahāḥ tu te yat carvaṇam te bhagavan agnihotram .. 36 ..
दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ३७ ॥
दीक्षा-अनुजन्म-उपसदः शिरोधरम् त्वम् प्रायणीय-उदयनीय-दंष्ट्रः । जिह्वा प्रवर्ग्यः तव शीर्षकम् क्रतोः सभ्य-आवसथ्यम् चितयः असवः हि ते ॥ ३७ ॥
dīkṣā-anujanma-upasadaḥ śirodharam tvam prāyaṇīya-udayanīya-daṃṣṭraḥ . jihvā pravargyaḥ tava śīrṣakam kratoḥ sabhya-āvasathyam citayaḥ asavaḥ hi te .. 37 ..
सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ३८ ॥
सोमः तु रेतः सवनानि अवस्थितिः संस्था-विभेदाः तव देव धातवः । सत्राणि सर्वाणि शरीर-सन्धि स्त्वम् सर्व-यज्ञ-क्रतुः इष्टि-बन्धनः ॥ ३८ ॥
somaḥ tu retaḥ savanāni avasthitiḥ saṃsthā-vibhedāḥ tava deva dhātavaḥ . satrāṇi sarvāṇi śarīra-sandhi stvam sarva-yajña-kratuḥ iṣṭi-bandhanaḥ .. 38 ..
नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः ॥ ३९ ॥
नमः नमः ते अखिल-मन्त्रदेवता द्रव्याय सर्व-क्रतवे क्रिया-आत्मने । वैराग्य-भक्ति-आत्मजया-अनुभावित ज्ञानाय विद्या-गुरवे नमः नमः ॥ ३९ ॥
namaḥ namaḥ te akhila-mantradevatā dravyāya sarva-kratave kriyā-ātmane . vairāgya-bhakti-ātmajayā-anubhāvita jñānāya vidyā-gurave namaḥ namaḥ .. 39 ..
दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा । यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४० ॥
दंष्ट्र-अग्र-कोट्या भगवन् त्वया धृता विराजते भूधर भूः स भूधरा । यथा वनात् निःसरतः दता धृता मतङ्ग-ज-इन्द्रस्य स पत्र-पद्मिनी ॥ ४० ॥
daṃṣṭra-agra-koṭyā bhagavan tvayā dhṛtā virājate bhūdhara bhūḥ sa bhūdharā . yathā vanāt niḥsarataḥ datā dhṛtā mataṅga-ja-indrasya sa patra-padminī .. 40 ..
त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते । चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ४१ ॥
त्रयी-मयम् रूपम् इदम् च सौकरम् भू-मण्डलेन अथ दता धृतेन ते । चकास्ति शृङ्ग-ऊढ-घनेन भूयसा कुल-अचल-इन्द्रस्य यथा एव विभ्रमः ॥ ४१ ॥
trayī-mayam rūpam idam ca saukaram bhū-maṇḍalena atha datā dhṛtena te . cakāsti śṛṅga-ūḍha-ghanena bhūyasā kula-acala-indrasya yathā eva vibhramaḥ .. 41 ..
लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ४२ ॥
लोकाय पत्नीम् असि मातरम् पिता । विधेम च अस्यै नमसा सह त्वया यस्याम् स्व-तेजः-अग्निम् इव अरण-अवधाः ॥ ४२ ॥
lokāya patnīm asi mātaram pitā . vidhema ca asyai namasā saha tvayā yasyām sva-tejaḥ-agnim iva araṇa-avadhāḥ .. 42 ..
कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३ ॥
कः श्रद्दधीत अन्यतमः तव प्रभो रसाम् गतायाः भुवः उद्विबर्हणम् । न विस्मयः असौ त्वयि विश्व-विस्मये यः मायया इदम् ससृजे अति विस्मयम् ॥ ४३ ॥
kaḥ śraddadhīta anyatamaḥ tava prabho rasām gatāyāḥ bhuvaḥ udvibarhaṇam . na vismayaḥ asau tvayi viśva-vismaye yaḥ māyayā idam sasṛje ati vismayam .. 43 ..
विधुन्वता वेदमयं निजं वपुः जनस्तपःसत्यनिवासिनो वयम् । सटाशिखोद्धूत शिवाम्बुबिन्दुभिः विमृज्यमाना भृशमीश पाविताः ॥ ४४ ॥
विधुन्वता वेद-मयम् निजम् वपुः जनः तपः-सत्य-निवासिनः वयम् । सटा-शिखा-उद्धूत शिव-अम्बु-बिन्दुभिः विमृज्यमानाः भृशम् ईश पाविताः ॥ ४४ ॥
vidhunvatā veda-mayam nijam vapuḥ janaḥ tapaḥ-satya-nivāsinaḥ vayam . saṭā-śikhā-uddhūta śiva-ambu-bindubhiḥ vimṛjyamānāḥ bhṛśam īśa pāvitāḥ .. 44 ..
स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः । यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम् ॥ ४५ ॥
स वै बत भ्रष्ट-मतिः तव एष ते यः कर्मणाम् पारम् अपार-कर्मणः । यत् योग-माया-गुण-योग-मोहितम् विश्वम् समस्तम् भगवन् विधेहि शम् ॥ ४५ ॥
sa vai bata bhraṣṭa-matiḥ tava eṣa te yaḥ karmaṇām pāram apāra-karmaṇaḥ . yat yoga-māyā-guṇa-yoga-mohitam viśvam samastam bhagavan vidhehi śam .. 45 ..
मैत्रेय उवाच ।
इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः । सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६ ॥
इति उपस्थीयमानः तैः मुनिभिः ब्रह्म-वादिभिः । सलिले स्व-खुर-आक्रान्तः उपाधत्त अवित-अवनिम् ॥ ४६ ॥
iti upasthīyamānaḥ taiḥ munibhiḥ brahma-vādibhiḥ . salile sva-khura-ākrāntaḥ upādhatta avita-avanim .. 46 ..
स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः । रसाया लीलयोन्नीतां अप्सु न्यस्य ययौ हरिः ॥ ४७ ॥
सः इत्थम् भगवान् उर्वीम् विष्वक्सेनः प्रजापतिः । रसायाः लीलया उन्नीताम् अप्सु न्यस्य ययौ हरिः ॥ ४७ ॥
saḥ ittham bhagavān urvīm viṣvaksenaḥ prajāpatiḥ . rasāyāḥ līlayā unnītām apsu nyasya yayau hariḥ .. 47 ..
य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः । शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८ ॥
यः एवम् एताम् हरिमेधसः हरेः कथाम् सु भद्राम् कथनीय-मायिनः । शृण्वीत भक्त्या श्रवयेत वा उशतीम् जनार्दनः अस्य आशु हृदि प्रसीदति ॥ ४८ ॥
yaḥ evam etām harimedhasaḥ hareḥ kathām su bhadrām kathanīya-māyinaḥ . śṛṇvīta bhaktyā śravayeta vā uśatīm janārdanaḥ asya āśu hṛdi prasīdati .. 48 ..
तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः । अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम् ॥ ४९ ॥
तस्मिन् प्रसन्ने सकल-आशिषाम् प्रभौ किम् दुर्लभम् ताभिः अलम् लव-आत्मभिः । अन् अन्य-दृष्ट्या भजताम् गुहा-आशयः स्वयम् विधत्ते स्व-गतिम् परः पराम् ॥ ४९ ॥
tasmin prasanne sakala-āśiṣām prabhau kim durlabham tābhiḥ alam lava-ātmabhiḥ . an anya-dṛṣṭyā bhajatām guhā-āśayaḥ svayam vidhatte sva-gatim paraḥ parām .. 49 ..
को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम् । आपीय कर्णाञ्जलिभिर्भवापहा- महो विरज्येत विना नरेतरम् ॥ ५० ॥
कः नाम लोके पुरुष-अर्थ-सार-विद् पुराकथानाम् भगवत्-कथा-सुधाम् । आपीय कर्ण-अञ्जलिभिः भव-अपहा महः विरज्येत विना नरेतरम् ॥ ५० ॥
kaḥ nāma loke puruṣa-artha-sāra-vid purākathānām bhagavat-kathā-sudhām . āpīya karṇa-añjalibhiḥ bhava-apahā mahaḥ virajyeta vinā naretaram .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णनं त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे वराहप्रादुर्भावानुवर्णनम् त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe varāhaprādurbhāvānuvarṇanam trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In