| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः । पुनः स पप्रच्छ तमुद्यताञ्जलिः न चातितृप्तो विदुरो धृतव्रतः ॥ १ ॥
निशम्य कौषारविणा उपवर्णिताम् हरेः कथाम् कारण-सूकर-आत्मनः । पुनर् स पप्रच्छ तम् उद्यत-अञ्जलिः न च अतितृप्तः विदुरः धृत-व्रतः ॥ १ ॥
niśamya kauṣāraviṇā upavarṇitām hareḥ kathām kāraṇa-sūkara-ātmanaḥ . punar sa papraccha tam udyata-añjaliḥ na ca atitṛptaḥ viduraḥ dhṛta-vrataḥ .. 1 ..
विदुर उवाच ।
तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना । आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥
तेन एव तु मुनि-श्रेष्ठ हरिणा यज्ञमूर्तिना । आदिदैत्यः हिरण्याक्षः हतः इति अनुशुश्रुम ॥ २ ॥
tena eva tu muni-śreṣṭha hariṇā yajñamūrtinā . ādidaityaḥ hiraṇyākṣaḥ hataḥ iti anuśuśruma .. 2 ..
तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया । दैत्यराजस्य च ब्रह्मन् कस्माद् हेतोरभून्मृधः ॥ ३ ॥
तस्य च उद्धरतः क्षौणीम् स्व-दंष्ट्र-अग्रेण लीलया । दैत्य-राजस्य च ब्रह्मन् कस्मात् हेतोः अभूत् मृधः ॥ ३ ॥
tasya ca uddharataḥ kṣauṇīm sva-daṃṣṭra-agreṇa līlayā . daitya-rājasya ca brahman kasmāt hetoḥ abhūt mṛdhaḥ .. 3 ..
मैत्रेय उवाच ।
साधु वीर त्वया पृष्टं अवतारकथां हरेः । यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ४ ॥
साधु वीर त्वया पृष्टम् अवतार-कथाम् हरेः । यत् त्वम् पृच्छसि मर्त्यानाम् मृत्यु-पाश-विशातनीम् ॥ ४ ॥
sādhu vīra tvayā pṛṣṭam avatāra-kathām hareḥ . yat tvam pṛcchasi martyānām mṛtyu-pāśa-viśātanīm .. 4 ..
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः । मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिं आरुरोह हरेः पदम् ॥ ५ ॥
यया उत्तानपदः पुत्रः मुनिना गीतया अर्भकः । मृत्योः कृत्वा एव मूर्ध्नि अङ्घ्रिम् आरुरोह हरेः पदम् ॥ ५ ॥
yayā uttānapadaḥ putraḥ muninā gītayā arbhakaḥ . mṛtyoḥ kṛtvā eva mūrdhni aṅghrim āruroha hareḥ padam .. 5 ..
अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा । ब्रह्मणा देवदेवेन देवानां अनुपृच्छताम् ॥ ६ ॥
अथ अत्रा अपि इतिहासः अयम् श्रुतः मे वर्णितः पुरा । ब्रह्मणा देवदेवेन देवानाम् अनुपृच्छताम् ॥ ६ ॥
atha atrā api itihāsaḥ ayam śrutaḥ me varṇitaḥ purā . brahmaṇā devadevena devānām anupṛcchatām .. 6 ..
दितिर्दाक्षायणी क्षत्तः मारीचं कश्यपं पतिम् । अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ७ ॥
दितिः दाक्षायणी क्षत्तर् मारीचम् कश्यपम् पतिम् । अपत्य-कामा चकमे सन्ध्यायाम् हृच्छय-अर्दिता ॥ ७ ॥
ditiḥ dākṣāyaṇī kṣattar mārīcam kaśyapam patim . apatya-kāmā cakame sandhyāyām hṛcchaya-arditā .. 7 ..
इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् । निम्लोचत्यर्क आसीनं अग्न्यगारे समाहितम् ॥ ८ ॥
इष्ट्वा अग्नि-जिह्वम् पयसा पुरुषम् यजुषाम् पतिम् । निम्लोचति अर्के आसीनम् अग्न्यगारे समाहितम् ॥ ८ ॥
iṣṭvā agni-jihvam payasā puruṣam yajuṣām patim . nimlocati arke āsīnam agnyagāre samāhitam .. 8 ..
दितिरुवाच ।
एष मां त्वत्कृते विद्वन् काम आत्तशरासनः । दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९ ॥
एष माम् त्वद्-कृते विद्वन् कामः आत्त-शरासनः । दुनोति दीनाम् विक्रम्य रम्भाम् इव मतङ्ग-जः ॥ ९ ॥
eṣa mām tvad-kṛte vidvan kāmaḥ ātta-śarāsanaḥ . dunoti dīnām vikramya rambhām iva mataṅga-jaḥ .. 9 ..
तद्भवान् दह्यमानायां सपत्नीनां समृद्धिभिः । प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १० ॥
तत् भवान् दह्यमानायाम् सपत्नीनाम् समृद्धिभिः । प्रजावतीनाम् भद्रम् ते मयि आयुङ्क्ताम् अनुग्रहम् ॥ १० ॥
tat bhavān dahyamānāyām sapatnīnām samṛddhibhiḥ . prajāvatīnām bhadram te mayi āyuṅktām anugraham .. 10 ..
भर्तर्याप्तोरुमानानां लोकानाविशते यशः । पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११ ॥
भर्तरि आप्त-उरु-मानानाम् लोकान् आविशते यशः । पतिः भवद्विधः यासाम् प्रजया ननु जायते ॥ ११ ॥
bhartari āpta-uru-mānānām lokān āviśate yaśaḥ . patiḥ bhavadvidhaḥ yāsām prajayā nanu jāyate .. 11 ..
पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः । कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२ ॥
पुरा पिता नः भगवान् दक्षः दुहितृ-वत्सलः । कम् वृणीत वरम् वत्सा इति अपृच्छत नः पृथक् ॥ १२ ॥
purā pitā naḥ bhagavān dakṣaḥ duhitṛ-vatsalaḥ . kam vṛṇīta varam vatsā iti apṛcchata naḥ pṛthak .. 12 ..
स विदित्वात्मजानां नो भावं सन्तानभावनः । त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥ १३ ॥
स विदित्वा आत्मजानाम् नः भावम् सन्तान-भावनः । त्रयोदश अददात् तासाम् याः ते शीलम् अनुव्रताः ॥ १३ ॥
sa viditvā ātmajānām naḥ bhāvam santāna-bhāvanaḥ . trayodaśa adadāt tāsām yāḥ te śīlam anuvratāḥ .. 13 ..
अथ मे कुरु कल्याण कामं कञ्जविलोचन । आर्तोपसर्पणं भूमन् अमोघं हि महीयसि ॥ १४ ॥
अथ मे कुरु कल्याण कामम् कञ्ज-विलोचन । आर्त-उपसर्पणम् भूमन् अमोघम् हि महीयसि ॥ १४ ॥
atha me kuru kalyāṇa kāmam kañja-vilocana . ārta-upasarpaṇam bhūman amogham hi mahīyasi .. 14 ..
इति तां वीर मारीचः कृपणां बहुभाषिणीम् । प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५ ॥
इति ताम् वीर मारीचः कृपणाम् बहु-भाषिणीम् । प्रत्याह अनुनयन् वाचा प्रवृद्ध-अनङ्ग-कश्मलाम् ॥ १५ ॥
iti tām vīra mārīcaḥ kṛpaṇām bahu-bhāṣiṇīm . pratyāha anunayan vācā pravṛddha-anaṅga-kaśmalām .. 15 ..
एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि । तस्याः कामं न कः कुर्यात् सिद्धिस्त्रैवर्गिकी यतः ॥ १६ ॥
एष ते अहम् विधास्यामि प्रियम् भीरु यत् इच्छसि । तस्याः कामम् न कः कुर्यात् सिद्धिः त्रैवर्गिकी यतस् ॥ १६ ॥
eṣa te aham vidhāsyāmi priyam bhīru yat icchasi . tasyāḥ kāmam na kaḥ kuryāt siddhiḥ traivargikī yatas .. 16 ..
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् । व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७ ॥
सर्व-आश्रमान् उपादाय स्व-आश्रमेण कलत्रवान् । व्यसन-अर्णवम् अत्येति जलयानैः यथा अर्णवम् ॥ १७ ॥
sarva-āśramān upādāya sva-āśrameṇa kalatravān . vyasana-arṇavam atyeti jalayānaiḥ yathā arṇavam .. 17 ..
यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि । यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८ ॥
याम् आहुः आत्मनः हि अर्धम् श्रेयस्कामस्य मानिनि । यस्याम् स्वधुर-मध्यस्य पुमान् चरति विज्वरः ॥ १८ ॥
yām āhuḥ ātmanaḥ hi ardham śreyaskāmasya mānini . yasyām svadhura-madhyasya pumān carati vijvaraḥ .. 18 ..
यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः । वयं जयेम हेलाभिः दस्यून् दुर्गपतिर्यथा ॥ १९ ॥
याम् आश्रित्य इन्द्रिय-अरातीन् दुर्जयान् इतर-आश्रमैः । वयम् जयेम हेलाभिः दस्यून् दुर्ग-पतिः यथा ॥ १९ ॥
yām āśritya indriya-arātīn durjayān itara-āśramaiḥ . vayam jayema helābhiḥ dasyūn durga-patiḥ yathā .. 19 ..
न वयं प्रभवस्तां त्वां अनुकर्तुं गृहेश्वरि । अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ २० ॥
न वयम् प्रभवः ताम् त्वाम् अनुकर्तुम् गृहेश्वरि । अपि आयुषा वा कार्त्स्न्येन ये च अन्ये गुण-गृध्नवः ॥ २० ॥
na vayam prabhavaḥ tām tvām anukartum gṛheśvari . api āyuṣā vā kārtsnyena ye ca anye guṇa-gṛdhnavaḥ .. 20 ..
अथापि काममेतं ते प्रजात्यै करवाण्यलम् । यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २१ ॥
अथ अपि कामम् एतम् ते प्रजात्यै करवाणि अलम् । यथा माम् न अतिरोचन्ति मुहूर्तम् प्रतिपालय ॥ २१ ॥
atha api kāmam etam te prajātyai karavāṇi alam . yathā mām na atirocanti muhūrtam pratipālaya .. 21 ..
एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२ ॥
एषा घोरतमा वेला घोराणाम् घोर-दर्शना । चरन्ति यस्याम् भूतानि भूतेश-अनुचराणि ह ॥ २२ ॥
eṣā ghoratamā velā ghorāṇām ghora-darśanā . caranti yasyām bhūtāni bhūteśa-anucarāṇi ha .. 22 ..
एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः । परीतो भूतपर्षद्भिः वृषेणाटति भूतराट् ॥ २३ ॥
एतस्याम् साध्वि सन्ध्यायाम् भगवान् भूतभावनः । परीतः भूत-पर्षद्भिः वृषेण अटति भूत-राज् ॥ २३ ॥
etasyām sādhvi sandhyāyām bhagavān bhūtabhāvanaḥ . parītaḥ bhūta-parṣadbhiḥ vṛṣeṇa aṭati bhūta-rāj .. 23 ..
श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योतजटाकलापः । भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ॥ २४ ॥
। भस्म-अवगुण्ठ-अमल-रुक्म-देहः देवः त्रिभिः पश्यति देवरः ते ॥ २४ ॥
. bhasma-avaguṇṭha-amala-rukma-dehaḥ devaḥ tribhiḥ paśyati devaraḥ te .. 24 ..
न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः । वयं व्रतैर्यत् चरणापविद्धां आशास्महेऽजां बत भुक्तभोगाम् ॥ २५ ॥
न यस्य लोके स्व-जनः परः वा न अति आदृतः न उत कश्चिद् विगर्ह्यः । वयम् व्रतैः यत् चरण-अपविद्धाम् आशास्महे अजाम् बत भुक्त-भोगाम् ॥ २५ ॥
na yasya loke sva-janaḥ paraḥ vā na ati ādṛtaḥ na uta kaścid vigarhyaḥ . vayam vrataiḥ yat caraṇa-apaviddhām āśāsmahe ajām bata bhukta-bhogām .. 25 ..
यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः । निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम् ॥ २६ ॥
यस्य अनवद्य-आचरितम् मनीषिणः गृणन्ति अविद्या-पटलम् बिभित्सवः । निरस्त-साम्य-अतिशयः अपि यत् स्वयम् पिशाच-चर्याम् अचरत् गतिः सताम् ॥ २६ ॥
yasya anavadya-ācaritam manīṣiṇaḥ gṛṇanti avidyā-paṭalam bibhitsavaḥ . nirasta-sāmya-atiśayaḥ api yat svayam piśāca-caryām acarat gatiḥ satām .. 26 ..
हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन् रतस्याविदुषः समीहितम् । यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम् ॥ २७ ॥
हसन्ति यस्य आचरितम् हि दुर्भगाः स्वात्मन् रतस्य अविदुषः समीहितम् । यैः वस्त्र-माल्य-आभरण-अनुलेपनैः श्व-भोजनम् स्वात्मतया उपलालितम् ॥ २७ ॥
hasanti yasya ācaritam hi durbhagāḥ svātman ratasya aviduṣaḥ samīhitam . yaiḥ vastra-mālya-ābharaṇa-anulepanaiḥ śva-bhojanam svātmatayā upalālitam .. 27 ..
ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया । आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥
ब्रह्म-आदयः यद्-कृत-सेतु-पालाः यत् कारणम् विश्वम् इदम् च माया । आज्ञाकरी यस्य पिशाच-चर्या अहो विभूम्नः चरितम् विडम्बनम् ॥ २८ ॥
brahma-ādayaḥ yad-kṛta-setu-pālāḥ yat kāraṇam viśvam idam ca māyā . ājñākarī yasya piśāca-caryā aho vibhūmnaḥ caritam viḍambanam .. 28 ..
मैत्रेय उवाच ।
सैवं संविदिते भर्त्रा मन्मथोन् मथितेन्द्रिया । जग्राह वासो ब्रह्मर्षेः वृषलीव गतत्रपा ॥ २९ ॥
सा एवम् भर्त्रा मन्मथ-उद् मथित-इन्द्रिया । जग्राह वासः ब्रह्मर्षेः वृषली इव गतत्रपा ॥ २९ ॥
sā evam bhartrā manmatha-ud mathita-indriyā . jagrāha vāsaḥ brahmarṣeḥ vṛṣalī iva gatatrapā .. 29 ..
स विदित्वाथ भार्यायाः तं निर्बन्धं विकर्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३० ॥
स विदित्वा अथ भार्यायाः तम् निर्बन्धम् विकर्मणि । नत्वा दिष्टाय रहसि तया अथा उपविवेश हि ॥ ३० ॥
sa viditvā atha bhāryāyāḥ tam nirbandham vikarmaṇi . natvā diṣṭāya rahasi tayā athā upaviveśa hi .. 30 ..
अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः । ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ ३१ ॥
अथ उपस्पृश्य सलिलम् प्राणान् आयम्य वाग्यतः । ध्यायन् जजाप विरजम् ब्रह्म ज्योतिः सनातनम् ॥ ३१ ॥
atha upaspṛśya salilam prāṇān āyamya vāgyataḥ . dhyāyan jajāpa virajam brahma jyotiḥ sanātanam .. 31 ..
दितिस्तु व्रीडिता तेन कर्मावद्येन भारत । उपसङ्गम्य विप्रर्षिं अधोमुख्यभ्यभाषत ॥ ३२ ॥
दितिः तु व्रीडिता तेन कर्म-अवद्येन भारत । उपसङ्गम्य विप्रर्षिम् अधोमुखी अभ्यभाषत ॥ ३२ ॥
ditiḥ tu vrīḍitā tena karma-avadyena bhārata . upasaṅgamya viprarṣim adhomukhī abhyabhāṣata .. 32 ..
दितिरुवाच ।
न मे गर्भमिमं ब्रह्मन् भूतानां ऋषभोऽवधीत् । रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३ ॥
न मे गर्भम् इमम् ब्रह्मन् भूतानाम् ऋषभः अवधीत् । रुद्रः पतिः हि भूतानाम् यस्य अकरवम् अंहसम् ॥ ३३ ॥
na me garbham imam brahman bhūtānām ṛṣabhaḥ avadhīt . rudraḥ patiḥ hi bhūtānām yasya akaravam aṃhasam .. 33 ..
नमो रुद्राय महते देवायोग्राय मीढुषे । शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४ ॥
नमः रुद्राय महते देवाय उग्राय मीढुषे । शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे ॥ ३४ ॥
namaḥ rudrāya mahate devāya ugrāya mīḍhuṣe . śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave .. 34 ..
स नः प्रसीदतां भामो भगवानुर्वनुग्रहः । व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५ ॥
स नः प्रसीदताम् भामः भगवान् उरु-अनुग्रहः । व्याधस्य अपि अनुकम्प्यानाम् स्त्रीणाम् देवः सतीपतिः ॥ ३५ ॥
sa naḥ prasīdatām bhāmaḥ bhagavān uru-anugrahaḥ . vyādhasya api anukampyānām strīṇām devaḥ satīpatiḥ .. 35 ..
मैत्रेय उवाच ।
स्वसर्गस्याशिषं लोक्यां आशासानां प्रवेपतीम् । निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६ ॥
स्वसर्गस्य आशिषम् लोक्याम् आशासानाम् प्रवेपतीम् । निवृत्त-सन्ध्या-नियमः भार्याम् आह प्रजापतिः ॥ ३६ ॥
svasargasya āśiṣam lokyām āśāsānām pravepatīm . nivṛtta-sandhyā-niyamaḥ bhāryām āha prajāpatiḥ .. 36 ..
कश्यप उवाच ।
अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत । मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३७ ॥
अप्रायत्यात् आत्मनः ते दोषात् मौहूर्तिकात् उत । मद्-निदेश-अतिचारेण देवानाम् च अतिहेलनात् ॥ ३७ ॥
aprāyatyāt ātmanaḥ te doṣāt mauhūrtikāt uta . mad-nideśa-aticāreṇa devānām ca atihelanāt .. 37 ..
भविष्यतस्तवाभद्रौ अभद्रे जाठराधमौ । लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८ ॥
भविष्यतः तव अभद्रौ अभद्रे जाठर-अधमौ । लोकान् स पालान् त्रीन् चण्डि मुहुर् आक्रन्दयिष्यतः ॥ ३८ ॥
bhaviṣyataḥ tava abhadrau abhadre jāṭhara-adhamau . lokān sa pālān trīn caṇḍi muhur ākrandayiṣyataḥ .. 38 ..
प्राणिनां हन्यमानानां दीनानां अकृतागसाम् । स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९ ॥
प्राणिनाम् हन्यमानानाम् दीनानाम् अ कृत-आगसाम् । स्त्रीणाम् निगृह्यमाणानाम् कोपितेषु महात्मसु ॥ ३९ ॥
prāṇinām hanyamānānām dīnānām a kṛta-āgasām . strīṇām nigṛhyamāṇānām kopiteṣu mahātmasu .. 39 ..
तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः । हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४० ॥
तदा विश्वेश्वरः क्रुद्धः भगवान् लोक-भावनः । हनिष्यति अवतीर्य असौ यथा अद्रीन् ॥ ४० ॥
tadā viśveśvaraḥ kruddhaḥ bhagavān loka-bhāvanaḥ . haniṣyati avatīrya asau yathā adrīn .. 40 ..
दितिरुवाच ।
वधं भगवता साक्षान् सुनाभोदारबाहुना । आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद् विभो ॥ ४१ ॥
वधम् भगवता साक्षात् सुनाभ-उदार-बाहुना । आशासे पुत्रयोः मह्यम् मा क्रुद्धात् ब्राह्मणात् विभो ॥ ४१ ॥
vadham bhagavatā sākṣāt sunābha-udāra-bāhunā . āśāse putrayoḥ mahyam mā kruddhāt brāhmaṇāt vibho .. 41 ..
न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च । नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२ ॥
न ब्रह्मदण्ड-दग्धस्य न भूत-भय-दस्य च । नारकाः च अनुगृह्णन्ति याम् याम् योनिम् असौ गतः ॥ ४२ ॥
na brahmadaṇḍa-dagdhasya na bhūta-bhaya-dasya ca . nārakāḥ ca anugṛhṇanti yām yām yonim asau gataḥ .. 42 ..
कश्यप उवाच ।
कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् । भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३ ॥
कृत-शोक-अनुतापेन सद्यस् प्रत्यवमर्शनात् । भगवति उरु-मानात् च भवे मयि अपि च आदरात् ॥ ४३ ॥
kṛta-śoka-anutāpena sadyas pratyavamarśanāt . bhagavati uru-mānāt ca bhave mayi api ca ādarāt .. 43 ..
पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः । गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४ ॥
पुत्रस्य एव च पुत्राणाम् भविता एकः सताम् मतः । गास्यन्ति यद्-यशः शुद्धम् भगवत्-यशसा समम् ॥ ४४ ॥
putrasya eva ca putrāṇām bhavitā ekaḥ satām mataḥ . gāsyanti yad-yaśaḥ śuddham bhagavat-yaśasā samam .. 44 ..
योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५ ॥
योगैः हेम इव दुर्वर्णम् भावयिष्यन्ति साधवः । निर्वैर-आदिभिः आत्मानम् यच्छीलम् अनुवर्तितुम् ॥ ४५ ॥
yogaiḥ hema iva durvarṇam bhāvayiṣyanti sādhavaḥ . nirvaira-ādibhiḥ ātmānam yacchīlam anuvartitum .. 45 ..
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् । स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६ ॥
यद्-प्रसादात् इदम् विश्वम् प्रसीदति यद्-आत्मकम् । स स्वदृश् भगवान् यस्य तोष्यते अनन्यया दृशा ॥ ४६ ॥
yad-prasādāt idam viśvam prasīdati yad-ātmakam . sa svadṛś bhagavān yasya toṣyate ananyayā dṛśā .. 46 ..
स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः । प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४७ ॥
स वै महाभागवतः महात्मा महा-अनुभावः महताम् महिष्ठः । प्रवृद्ध-भक्त्या हि अनुभावित-आशये निवेश्य वैकुण्ठम् इमम् विहास्यति ॥ ४७ ॥
sa vai mahābhāgavataḥ mahātmā mahā-anubhāvaḥ mahatām mahiṣṭhaḥ . pravṛddha-bhaktyā hi anubhāvita-āśaye niveśya vaikuṇṭham imam vihāsyati .. 47 ..
अलम्पटः शीलधरो गुणाकरो हृष्टः परर्ध्या व्यथितो दुःखितेषु । अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं तापमिवोडुराजः ॥ ४८ ॥
अलम्पटः शील-धरः गुण-आकरः हृष्टः पर-ऋध्या व्यथितः दुःखितेषु । अभूतशत्रुः जगतः शोक-हर्ता नैदाघिकम् तापम् इव उडुराजः ॥ ४८ ॥
alampaṭaḥ śīla-dharaḥ guṇa-ākaraḥ hṛṣṭaḥ para-ṛdhyā vyathitaḥ duḥkhiteṣu . abhūtaśatruḥ jagataḥ śoka-hartā naidāghikam tāpam iva uḍurājaḥ .. 48 ..
अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् । पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९ ॥
अन्तर् बहिस् च अमलम् अब्ज-नेत्रम् स्व-पूरुष-इच्छा-अनुगृहीत-रूपम् । पौत्रः तव श्री-ललना-ललामम् द्रष्टा स्फुरत्-कुण्डल-मण्डित-आननम् ॥ ४९ ॥
antar bahis ca amalam abja-netram sva-pūruṣa-icchā-anugṛhīta-rūpam . pautraḥ tava śrī-lalanā-lalāmam draṣṭā sphurat-kuṇḍala-maṇḍita-ānanam .. 49 ..
मैत्रेय उवाच ।
श्रुत्वा भागवतं पौत्रं अमोदत दितिर्भृशम् । पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन् महामनाः ॥ ५० ॥
श्रुत्वा भागवतम् पौत्रम् अमोदत दितिः भृशम् । पुत्रयोः च वधम् कृष्णात् विदित्वा आसीत् महा-मनाः ॥ ५० ॥
śrutvā bhāgavatam pautram amodata ditiḥ bhṛśam . putrayoḥ ca vadham kṛṣṇāt viditvā āsīt mahā-manāḥ .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे दिति-कश्यप-संवादे चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe diti-kaśyapa-saṃvāde caturdaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In