| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच -
इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १ ॥
इति तत् गृणताम् तेषाम् मुनीनाम् योग-धर्मिणाम् । प्रतिनन्द्य जगाद इदम् विकुण्ठ-निलयः विभुः ॥ १ ॥
iti tat gṛṇatām teṣām munīnām yoga-dharmiṇām . pratinandya jagāda idam vikuṇṭha-nilayaḥ vibhuḥ .. 1 ..
श्रीभगवानुवाच -
एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥
एतौ तौ पार्षदौ मह्यम् जयः विजयः एव च । कदर्थीकृत्य माम् यत् वः बहु-अक्राताम् अतिक्रमम् ॥ २ ॥
etau tau pārṣadau mahyam jayaḥ vijayaḥ eva ca . kadarthīkṛtya mām yat vaḥ bahu-akrātām atikramam .. 2 ..
यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः । स एवानुमतोऽस्माभिः मुनयो देवहेलनात् ॥ ३ ॥
यः तु एतयोः धृतः दण्डः भवद्भिः माम् अनुव्रतैः । सः एव अनुमतः अस्माभिः मुनयः देव-हेलनात् ॥ ३ ॥
yaḥ tu etayoḥ dhṛtaḥ daṇḍaḥ bhavadbhiḥ mām anuvrataiḥ . saḥ eva anumataḥ asmābhiḥ munayaḥ deva-helanāt .. 3 ..
तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे । तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४ ॥
तत् वः प्रसादयामि अद्य ब्रह्म दैवम् परम् हि मे । तत् हि इति आत्म-कृतम् मन्ये यत् स्व-पुम्भिः असत्कृताः ॥ ४ ॥
tat vaḥ prasādayāmi adya brahma daivam param hi me . tat hi iti ātma-kṛtam manye yat sva-pumbhiḥ asatkṛtāḥ .. 4 ..
यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि । सोऽसाधुवादस्तत् कीर्तिं हन्ति त्वचमिवामयः ॥ ५ ॥
यद्-नामानि च गृह्णाति लोकः भृत्ये कृत-आगसि । सः असाधुवादः तत् कीर्तिम् हन्ति त्वचम् इव आमयः ॥ ५ ॥
yad-nāmāni ca gṛhṇāti lokaḥ bhṛtye kṛta-āgasi . saḥ asādhuvādaḥ tat kīrtim hanti tvacam iva āmayaḥ .. 5 ..
यस्यामृतामलयशःश्रवणावगाहः सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः । सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिः छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥
यस्य अमृत-अमल-यशः-श्रवण-अवगाहः सद्यस् पुनाति जगत्-आश्व-पचात् विकुण्ठः । सः अहम् भवद्भ्यः उपलब्ध-सुतीर्थ-कीर्तिः छिन्द्याम् स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् ॥ ६ ॥
yasya amṛta-amala-yaśaḥ-śravaṇa-avagāhaḥ sadyas punāti jagat-āśva-pacāt vikuṇṭhaḥ . saḥ aham bhavadbhyaḥ upalabdha-sutīrtha-kīrtiḥ chindyām sva-bāhum api vaḥ pratikūla-vṛttim .. 6 ..
यत्सेवया चरणपद्मपवित्ररेणुं सद्यः क्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर्विरक्तमपि मां विजहाति यस्याः प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥
यद्-सेवया चरण-पद्म-पवित्र-रेणुम् सद्यस् क्षत-अखिल-मलम् प्रतिलब्ध-शीलम् । न श्रीः विरक्तम् अपि माम् विजहाति यस्याः प्रेक्षा-लव-अर्थे इतरे नियमान् वहन्ति ॥ ७ ॥
yad-sevayā caraṇa-padma-pavitra-reṇum sadyas kṣata-akhila-malam pratilabdha-śīlam . na śrīḥ viraktam api mām vijahāti yasyāḥ prekṣā-lava-arthe itare niyamān vahanti .. 7 ..
नाहं तथाद्मि यजमानहविर्वितानेः च्योतद्घृतप्लुतमदन् हुतभुङ्मुखेन । यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८ ॥
न अहम् तथा अद्मि यजमान-हविः-वितानेः च्योतत्-घृत-प्लुतम् अदन् हुतभुज्-मुखेन । यत् ब्राह्मणस्य मुखतस् चरतः अनुघासम् तुष्टस्य मयि अवहितैः निज-कर्म-पाकैः ॥ ८ ॥
na aham tathā admi yajamāna-haviḥ-vitāneḥ cyotat-ghṛta-plutam adan hutabhuj-mukhena . yat brāhmaṇasya mukhatas carataḥ anughāsam tuṣṭasya mayi avahitaiḥ nija-karma-pākaiḥ .. 8 ..
येषां बिभर्म्यहमखण्डविकुण्ठयोग मायाविभूतिरमलाङ्घ्रिरजः किरीटैः । विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥
येषाम् बिभर्मि अहम् अखण्ड-विकुण्ठ-योग माया-विभूतिः अमल-अङ्घ्रिः रजः किरीटैः । विप्रान् तु कः न विषहेत यद्-अर्हण-अम्भः सद्यस् पुनाति सह चन्द्रललाम-लोकान् ॥ ९ ॥
yeṣām bibharmi aham akhaṇḍa-vikuṇṭha-yoga māyā-vibhūtiḥ amala-aṅghriḥ rajaḥ kirīṭaiḥ . viprān tu kaḥ na viṣaheta yad-arhaṇa-ambhaḥ sadyas punāti saha candralalāma-lokān .. 9 ..
ये मे तनूर्द्विजवरान्दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या । द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥
ये मे तनूः द्विजवरान् दुहतीः मदीयाः भूतानि अलब्ध-शरणानि च भेद-बुद्ध्या । द्रक्ष्यन्ति अघ-क्षत-दृशः हि अहिमन्यवः तान् गृध्राः रुषा मम अधिदण्डनेतुः ॥ १० ॥
ye me tanūḥ dvijavarān duhatīḥ madīyāḥ bhūtāni alabdha-śaraṇāni ca bheda-buddhyā . drakṣyanti agha-kṣata-dṛśaḥ hi ahimanyavaḥ tān gṛdhrāḥ ruṣā mama adhidaṇḍanetuḥ .. 10 ..
ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तः तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः । वाण्यानुरागकलयात्मजवद् गृणन्तः सम्बोधयन्ति अहमिवाहमुपाहृतस्तैः ॥ ११ ॥
ये ब्राह्मणान् मयि धिया क्षिपतः अर्चयन्तः तुष्यत्-हृदः स्मित-सुधा-उक्षित-पद्म-वक्त्राः । वाण्या अनुराग-कलया आत्मज-वत् गृणन्तः सम्बोधयन्ति अहम् इव अहम् उपाहृतः तैः ॥ ११ ॥
ye brāhmaṇān mayi dhiyā kṣipataḥ arcayantaḥ tuṣyat-hṛdaḥ smita-sudhā-ukṣita-padma-vaktrāḥ . vāṇyā anurāga-kalayā ātmaja-vat gṛṇantaḥ sambodhayanti aham iva aham upāhṛtaḥ taiḥ .. 11 ..
तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः । भूयो ममान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥
तत् मे स्व-भर्तुः अवसायम् अलक्षमाणौ युष्मद्-व्यतिक्रम-गतिम् प्रतिपद्य सद्यस् । भूयस् मम अन्तिकम् इताम् तत् अनुग्रहः मे यत् कल्पताम् अचिरतः भृतयोः विवासः ॥ १२ ॥
tat me sva-bhartuḥ avasāyam alakṣamāṇau yuṣmad-vyatikrama-gatim pratipadya sadyas . bhūyas mama antikam itām tat anugrahaḥ me yat kalpatām acirataḥ bhṛtayoḥ vivāsaḥ .. 12 ..
ब्रह्मोवाच -
अथ तस्योशतीं देवीं ऋषिकुल्यां सरस्वतीम् । नास्वाद्य मन्युदष्टानां तेषां आत्माप्यतृप्यत ॥ १३ ॥
अथ तस्य उशतीम् देवीम् ऋषिकुल्याम् सरस्वतीम् । न आस्वाद्य मन्यु-दष्टानाम् तेषाम् आत्मा अप्यतृप्यत ॥ १३ ॥
atha tasya uśatīm devīm ṛṣikulyām sarasvatīm . na āsvādya manyu-daṣṭānām teṣām ātmā apyatṛpyata .. 13 ..
सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् । विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥
सतीम् व्यादाय शृण्वन्तः लघ्वीम् गुरु-अर्थ-गह्वराम् । विगाह्य अगाध-गम्भीराम् न विदुः तद्-चिकीर्षितम् ॥ १४ ॥
satīm vyādāya śṛṇvantaḥ laghvīm guru-artha-gahvarām . vigāhya agādha-gambhīrām na viduḥ tad-cikīrṣitam .. 14 ..
ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् । प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५ ॥
ते पारमेष्ठ्य-महा-उदयम् । प्रोचुः प्राञ्जलयः विप्राः प्रहृष्टाः क्षुभित-त्वचः ॥ १५ ॥
te pārameṣṭhya-mahā-udayam . procuḥ prāñjalayaḥ viprāḥ prahṛṣṭāḥ kṣubhita-tvacaḥ .. 15 ..
ऋषय ऊचुः -
न वयं भगवन् विद्मः तव देव चिकीर्षितम् । कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६ ॥
न वयम् भगवन् विद्मः तव देव चिकीर्षितम् । कृतः मे अनुग्रहः च इति यत् अध्यक्षः प्रभाषसे ॥ १६ ॥
na vayam bhagavan vidmaḥ tava deva cikīrṣitam . kṛtaḥ me anugrahaḥ ca iti yat adhyakṣaḥ prabhāṣase .. 16 ..
ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो । विप्राणां देवदेवानां भगवान् आत्मदैवतम् ॥ १७ ॥
ब्रह्मण्यस्य परम् दैवम् ब्राह्मणाः किल ते प्रभो । विप्राणाम् देवदेवानाम् भगवान् आत्म-दैवतम् ॥ १७ ॥
brahmaṇyasya param daivam brāhmaṇāḥ kila te prabho . viprāṇām devadevānām bhagavān ātma-daivatam .. 17 ..
त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव । धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८ ॥
त्वत्तः सनातनः धर्मः रक्ष्यते तनुभिः तव । धर्मस्य परमः गुह्यः निर्विकारः भवान् मतः ॥ १८ ॥
tvattaḥ sanātanaḥ dharmaḥ rakṣyate tanubhiḥ tava . dharmasya paramaḥ guhyaḥ nirvikāraḥ bhavān mataḥ .. 18 ..
तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् । योगिनः स भवान् किंस्विद् अनुगृह्येत यत्परैः ॥ १९ ॥
तरन्ति हि अञ्जसा मृत्युम् निवृत्ताः यद्-अनुग्रहात् । योगिनः स भवान् किम् स्विद् अनुगृह्येत यत् परैः ॥ १९ ॥
taranti hi añjasā mṛtyum nivṛttāḥ yad-anugrahāt . yoginaḥ sa bhavān kim svid anugṛhyeta yat paraiḥ .. 19 ..
यं वै विभूतिरुपयात्यनुवेलमन्यैः अर्थार्थिभिः स्वशिरसा धृतपादरेणुः । धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥
यम् वै विभूतिः उपयाति अनुवेलम् अन्यैः अर्थ-अर्थिभिः स्व-शिरसा धृत-पाद-रेणुः । धन्य-अर्पित-अङ्घ्रि-तुलसी-नव-दाम-धाम्नः लोकम् मधु-व्रत-पतेः इव कामयाना ॥ २० ॥
yam vai vibhūtiḥ upayāti anuvelam anyaiḥ artha-arthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ . dhanya-arpita-aṅghri-tulasī-nava-dāma-dhāmnaḥ lokam madhu-vrata-pateḥ iva kāmayānā .. 20 ..
यस्तां विविक्तचरितैः अनुवर्तमानां नात्याद्रियत्परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
यः ताम् विविक्त-चरितैः अनुवर्तमानाम् न अति आद्रियत्-परम-भागवत-प्रसङ्गः । स त्वम् द्विज-अनुपथ-पुण्य-रजः पुनीतः श्रीवत्स-लक्ष्म किम् अगाः भग-भाजनः त्वम् ॥ २१ ॥
yaḥ tām vivikta-caritaiḥ anuvartamānām na ati ādriyat-parama-bhāgavata-prasaṅgaḥ . sa tvam dvija-anupatha-puṇya-rajaḥ punītaḥ śrīvatsa-lakṣma kim agāḥ bhaga-bhājanaḥ tvam .. 21 ..
धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चराचरमिदं द्विजदेवतार्थम् । नूनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥
धर्मस्य ते भगवतः त्रियुग त्रिभिः स्वैः पद्भिः चराचरम् इदम् द्विज-देवता-अर्थम् । नूनम् भृतम् तत् अभिघाति रजः तमः च सत्त्वेन नः वर-दया तनुवा निरस्य ॥ २२ ॥
dharmasya te bhagavataḥ triyuga tribhiḥ svaiḥ padbhiḥ carācaram idam dvija-devatā-artham . nūnam bhṛtam tat abhighāti rajaḥ tamaḥ ca sattvena naḥ vara-dayā tanuvā nirasya .. 22 ..
न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन । तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यद् ऋषभस्य हि तत्प्रमाणम् ॥ २३ ॥
न त्वम् द्विजोत्तम-कुलम् यत् इह आत्म-गोपम् गोप्ता वृषः स्वर्हणेन स सूनृतेन । तर्हि एव नङ्क्ष्यति शिवः तव देव पन्थाः लोकः अग्रहीष्यत् ऋषभस्य हि तत् प्रमाणम् ॥ २३ ॥
na tvam dvijottama-kulam yat iha ātma-gopam goptā vṛṣaḥ svarhaṇena sa sūnṛtena . tarhi eva naṅkṣyati śivaḥ tava deva panthāḥ lokaḥ agrahīṣyat ṛṣabhasya hi tat pramāṇam .. 23 ..
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । नैतावता त्र्यधिपतेर्बत विश्वभर्तुः तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥
तत् ते अन् अभीष्टम् इव सत्त्व-निधेः विधित्सोः क्षेमम् जनाय निज-शक्तिभिः उद्धृत-अरेः । न एतावता त्र्यधिपतेः बत विश्वभर्तुः तेजः क्षतम् तु अवनतस्य स ते विनोदः ॥ २४ ॥
tat te an abhīṣṭam iva sattva-nidheḥ vidhitsoḥ kṣemam janāya nija-śaktibhiḥ uddhṛta-areḥ . na etāvatā tryadhipateḥ bata viśvabhartuḥ tejaḥ kṣatam tu avanatasya sa te vinodaḥ .. 24 ..
यं वानयोर्दममधीश भवान्विधत्ते वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् । अस्मासु वा य उचितो ध्रियतां स दण्डो येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ २५ ॥
यम् वा अनयोः दमम् अधीश भवान् विधत्ते वृत्तिम् नु वा निर्व्यलीकम् । अस्मासु वा यः उचितः ध्रियताम् स दण्डः ये अनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ २५ ॥
yam vā anayoḥ damam adhīśa bhavān vidhatte vṛttim nu vā nirvyalīkam . asmāsu vā yaḥ ucitaḥ dhriyatām sa daṇḍaḥ ye anāgasau vayam ayuṅkṣmahi kilbiṣeṇa .. 25 ..
श्रीभगवानुवाच -
एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ । भूयः सकाशमुपयास्यत आशु यो वः शापो मयैव निमितस्तदवैत विप्राः ॥ २६ ॥
एतौ सुरेतर-गतिम् प्रतिपद्य सद्यस् संरम्भ-सम्भृत-समाधि-अनुबद्ध-योगौ । भूयस् सकाशम् उपयास्यतः आशु यः वः शापः मया एव निमितः तत् अवैत विप्राः ॥ २६ ॥
etau suretara-gatim pratipadya sadyas saṃrambha-sambhṛta-samādhi-anubaddha-yogau . bhūyas sakāśam upayāsyataḥ āśu yaḥ vaḥ śāpaḥ mayā eva nimitaḥ tat avaita viprāḥ .. 26 ..
ब्रह्मोवाच -
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥
अथ ते मुनयः दृष्ट्वा नयन-आनन्द-भाजनम् । वैकुण्ठम् तद्-अधिष्ठानम् विकुण्ठम् च स्वयंप्रभम् ॥ २७ ॥
atha te munayaḥ dṛṣṭvā nayana-ānanda-bhājanam . vaikuṇṭham tad-adhiṣṭhānam vikuṇṭham ca svayaṃprabham .. 27 ..
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥
भगवन्तम् परिक्रम्य प्रणिपत्य अनुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तः वैष्णवीम् श्रियम् ॥ २८ ॥
bhagavantam parikramya praṇipatya anumānya ca . pratijagmuḥ pramuditāḥ śaṃsantaḥ vaiṣṇavīm śriyam .. 28 ..
भगवाननुगावाह यातं मा भैष्टमस्तु शम् । ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥
भगवान् अनुगौ आह यातम् मा भैष्टम् अस्तु शम् । ब्रह्म-तेजः समर्थः अपि हन्तुम् न इच्छे मतम् तु मे ॥ २९ ॥
bhagavān anugau āha yātam mā bhaiṣṭam astu śam . brahma-tejaḥ samarthaḥ api hantum na icche matam tu me .. 29 ..
एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा । पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥
एतत् पुरा एव निर्दिष्टम् रमया क्रुद्धया यदा । पुर-अपवारिता द्वारि विशन्ती मयि उपारते ॥ ३० ॥
etat purā eva nirdiṣṭam ramayā kruddhayā yadā . pura-apavāritā dvāri viśantī mayi upārate .. 30 ..
मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥
मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् । निकाशम् मे कालेन अल्पीयसा पुनर् ॥ ३१ ॥
mayi saṃrambha-yogena nistīrya brahma-helanam . nikāśam me kālena alpīyasā punar .. 31 ..
द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् । सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥
द्वाःस्थौ आदिश्य भगवान् विमान-श्रेणि-भूषणम् । सर्व-अतिशयया लक्ष्म्या जुष्टम् स्वम् धिष्ण्यम् आविशत् ॥ ३२ ॥
dvāḥsthau ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam . sarva-atiśayayā lakṣmyā juṣṭam svam dhiṣṇyam āviśat .. 32 ..
तौ तु गीर्वाणऋषभौ दुस्तरात् हरिलोकतः । हतश्रियौ ब्रह्मशापाद् अभूतां विगतस्मयौ ॥ ३३ ॥
तौ तु गीर्वाण-ऋषभौ दुस्तरात् हरि-लोकतः । हत-श्रियौ ब्रह्म-शापात् अभूताम् विगत-स्मयौ ॥ ३३ ॥
tau tu gīrvāṇa-ṛṣabhau dustarāt hari-lokataḥ . hata-śriyau brahma-śāpāt abhūtām vigata-smayau .. 33 ..
तदा विकुण्ठधिषणात् तयोर्निपतमानयोः । हाहाकारो महानासीद् विमानाग्र्येषु पुत्रकाः ॥ ३४ ॥
तदा विकुण्ठ-धिषणात् तयोः निपतमानयोः । हाहाकारः महान् आसीत् विमान-अग्र्येषु पुत्रकाः ॥ ३४ ॥
tadā vikuṇṭha-dhiṣaṇāt tayoḥ nipatamānayoḥ . hāhākāraḥ mahān āsīt vimāna-agryeṣu putrakāḥ .. 34 ..
तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः । दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥
तौ एव हि अधुना प्राप्तौ पार्षद-प्रवरौ हरेः । दितेः जठर-निर्विष्टम् काश्यपम् तेजः उल्बणम् ॥ ३५ ॥
tau eva hi adhunā prāptau pārṣada-pravarau hareḥ . diteḥ jaṭhara-nirviṣṭam kāśyapam tejaḥ ulbaṇam .. 35 ..
तयोरसुरयोरद्य तेजसा यमयोर्हि वः । आक्षिप्तं तेज एतर्हि भगवान् तद्विधित्सति ॥ ३६ ॥
तयोः असुरयोः अद्य तेजसा यमयोः हि वः । आक्षिप्तम् तेजः एतर्हि भगवान् तत् विधित्सति ॥ ३६ ॥
tayoḥ asurayoḥ adya tejasā yamayoḥ hi vaḥ . ākṣiptam tejaḥ etarhi bhagavān tat vidhitsati .. 36 ..
विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो योगेश्वरैरपि दुरत्यययोगमायः । क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७ ॥
विश्वस्य यः स्थिति-लय-उद्भव-हेतुः आद्यः योगेश्वरैः अपि दुरत्यय-योग-मायः । क्षेमम् विधास्यति स नः भगवान् त्र्यधीशः तत्र अस्मदीय-विमृशेन कियान् इह अर्थः ॥ ३७ ॥
viśvasya yaḥ sthiti-laya-udbhava-hetuḥ ādyaḥ yogeśvaraiḥ api duratyaya-yoga-māyaḥ . kṣemam vidhāsyati sa naḥ bhagavān tryadhīśaḥ tatra asmadīya-vimṛśena kiyān iha arthaḥ .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे षोडशः अध्यायः ॥ १६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ṣoḍaśaḥ adhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In