| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः । ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १ ॥
निशम्य आत्मभुवा गीतम् कारणम् शङ्कया उज्झिताः । ततस् सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १ ॥
niśamya ātmabhuvā gītam kāraṇam śaṅkayā ujjhitāḥ . tatas sarve nyavartanta tridivāya divaukasaḥ .. 1 ..
दितिस्तु भर्तुरादेशाद् अपत्यपरिशङ्किनी । पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥
दितिः तु भर्तुः आदेशात् अपत्य-परिशङ्किनी । पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥
ditiḥ tu bhartuḥ ādeśāt apatya-pariśaṅkinī . pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau .. 2 ..
उत्पाता बहवस्तत्र निपेतुर्जायमानयोः । दिवि भुव्यन्तरिक्षे च लोकस्य उरु भयावहाः ॥ ३ ॥
उत्पाताः बहवः तत्र निपेतुः जायमानयोः । दिवि भुवि अन्तरिक्षे च लोकस्य उरु भय-आवहाः ॥ ३ ॥
utpātāḥ bahavaḥ tatra nipetuḥ jāyamānayoḥ . divi bhuvi antarikṣe ca lokasya uru bhaya-āvahāḥ .. 3 ..
सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः । स उल्काश्च अशनयः पेतुः, केतवश्चार्तिहेतवः ॥ ४ ॥
सह अचलाः भुवः चेलुः दिशः सर्वाः प्रजज्वलुः । स उल्काः च अशनयः पेतुः, केतवः च आर्ति-हेतवः ॥ ४ ॥
saha acalāḥ bhuvaḥ celuḥ diśaḥ sarvāḥ prajajvaluḥ . sa ulkāḥ ca aśanayaḥ petuḥ, ketavaḥ ca ārti-hetavaḥ .. 4 ..
ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः । उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥
ववौ वायुः सु दुःस्पर्शः फूत्कारान् ईरयन् मुहुर् । उन्मूलयन् नगपतीन् वात्या-अनीकः रजः-ध्वजः ॥ ५ ॥
vavau vāyuḥ su duḥsparśaḥ phūtkārān īrayan muhur . unmūlayan nagapatīn vātyā-anīkaḥ rajaḥ-dhvajaḥ .. 5 ..
उद्धसत् तडिदम्भोद घटया नष्टभागणे । व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६ ॥
उद्धसत् तडित्-अम्भोद घटया नष्ट-भा-गणे । व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् ॥ ६ ॥
uddhasat taḍit-ambhoda ghaṭayā naṣṭa-bhā-gaṇe . vyomni praviṣṭa-tamasā na sma vyādṛśyate padam .. 6 ..
चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः । सोदपानाश्च सरितः चुक्षुभुः शुष्कपङ्कजाः ॥ ७ ॥
चुक्रोश विमनाः वार्धिः उदूर्मिः क्षुभित-उदरः । स उदपानाः च सरितः चुक्षुभुः शुष्क-पङ्कजाः ॥ ७ ॥
cukrośa vimanāḥ vārdhiḥ udūrmiḥ kṣubhita-udaraḥ . sa udapānāḥ ca saritaḥ cukṣubhuḥ śuṣka-paṅkajāḥ .. 7 ..
मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः । निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ ८ ॥
मुहुर् परिधयः अभूवन् सराह्वोः शशि-सूर्ययोः । निर्घाताः रथ-निर्ह्रादाः विवरेभ्यः प्रजज्ञिरे ॥ ८ ॥
muhur paridhayaḥ abhūvan sarāhvoḥ śaśi-sūryayoḥ . nirghātāḥ ratha-nirhrādāḥ vivarebhyaḥ prajajñire .. 8 ..
अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् । सृगाल उलूक टङ्कारैः प्रणेदुः अशिवं शिवाः ॥ ९ ॥
अन्तर् ग्रामेषु मुखतस् वमन्त्यः वह्निम् उल्बणम् । सृगाल-उलूक-टङ्कारैः प्रणेदुः अशिवम् शिवाः ॥ ९ ॥
antar grāmeṣu mukhatas vamantyaḥ vahnim ulbaṇam . sṛgāla-ulūka-ṭaṅkāraiḥ praṇeduḥ aśivam śivāḥ .. 9 ..
सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्रामसिंहाः ततस्ततः ॥ १० ॥
सङ्गीत-वत् रोदन-वत् उन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधाः वाचः ग्रामसिंहाः ततस् ततस् ॥ १० ॥
saṅgīta-vat rodana-vat unnamayya śirodharām . vyamuñcan vividhāḥ vācaḥ grāmasiṃhāḥ tatas tatas .. 10 ..
खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् । खार्कार रभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥
खराः च कर्कशैः क्षत्तर् खुरैः घ्नन्तः धरा-तलम् । खार्कार रभसाः मत्ताः पर्यधावन् वरूथशस् ॥ ११ ॥
kharāḥ ca karkaśaiḥ kṣattar khuraiḥ ghnantaḥ dharā-talam . khārkāra rabhasāḥ mattāḥ paryadhāvan varūthaśas .. 11 ..
रुदन्तो रासभत्रस्ता नीडाद् उदपतन्खगाः । घोषेऽरण्ये च पशवः शकृन् मूत्रमकुर्वत ॥ १२ ॥
रुदन्तः रासभ-त्रस्ताः नीडात् उदपतन् खगाः । घोषे अरण्ये च पशवः शकृत् मूत्रम् अकुर्वत ॥ १२ ॥
rudantaḥ rāsabha-trastāḥ nīḍāt udapatan khagāḥ . ghoṣe araṇye ca paśavaḥ śakṛt mūtram akurvata .. 12 ..
गावः अत्रसन् असृग्दोहाः तोयदाः पूयवर्षिणः । व्यरुदन् देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् ॥ १३ ॥
गावः अत्रसन् असृग्दोहाः तोयदाः पूयवर्षिणः । व्यरुदन् देवलिङ्गानि द्रुमाः पेतुः विना अनिलम् ॥ १३ ॥
gāvaḥ atrasan asṛgdohāḥ toyadāḥ pūyavarṣiṇaḥ . vyarudan devaliṅgāni drumāḥ petuḥ vinā anilam .. 13 ..
ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः । अतिचेरुः वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥
ग्रहान् पुण्यतमान् अन्ये भगणान् च अपि दीपिताः । अतिचेरुः वक्रगत्या युयुधुः च परस्परम् ॥ १४ ॥
grahān puṇyatamān anye bhagaṇān ca api dīpitāḥ . aticeruḥ vakragatyā yuyudhuḥ ca parasparam .. 14 ..
दृष्ट्वा अन्यांश्च महोत्पातान् अतत्-तत्त्वविदः प्रजाः । ब्रह्मपुत्रान् ऋते भीता मेनिरे विश्वसंप्लवम् ॥ १५ ॥
दृष्ट्वा अन्यान् च महा-उत्पातान् अ तद्-तत्त्व-विदः प्रजाः । ब्रह्म-पुत्रान् ऋते भीताः मेनिरे विश्व-संप्लवम् ॥ १५ ॥
dṛṣṭvā anyān ca mahā-utpātān a tad-tattva-vidaḥ prajāḥ . brahma-putrān ṛte bhītāḥ menire viśva-saṃplavam .. 15 ..
तौ आदिदैत्यौ सहसा व्यज्यमान आत्मपौरुषौ । ववृधातेऽश्मसारेण कायेन अद्रिपती इव ॥ १६ ॥
तौ आदिदैत्यौ सहसा व्यज्यमान-आत्म-पौरुषौ । ववृधाते अश्मसारेण कायेन अद्रिपती इव ॥ १६ ॥
tau ādidaityau sahasā vyajyamāna-ātma-pauruṣau . vavṛdhāte aśmasāreṇa kāyena adripatī iva .. 16 ..
दिविस्पृशौ हेमकिरीटकोटिभिः निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कंपयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ॥ १७ ॥
दिविस्पृशौ हेम-किरीट-कोटिभिः निरुद्ध-काष्ठौ स्फुरत्-अङ्गद-आभुजौ । गाम् कंपयन्तौ चरणैः पदे पदे कट्या सु काञ्च्या अर्कम् अतीत्य तस्थतुः ॥ १७ ॥
divispṛśau hema-kirīṭa-koṭibhiḥ niruddha-kāṣṭhau sphurat-aṅgada-ābhujau . gām kaṃpayantau caraṇaiḥ pade pade kaṭyā su kāñcyā arkam atītya tasthatuḥ .. 17 ..
प्रजापतिर्नाम तयोरकार्षीद् यः प्राक् स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ॥ १८ ॥
प्रजापतिः नाम तयोः अकार्षीत् यः प्राक् स्व-देहात् यमयोः अजायत । तम् वै हिरण्यकशिपुम् विदुः प्रजाः यम् तम् हिरण्याक्षम् असूत साग्रतः ॥ १८ ॥
prajāpatiḥ nāma tayoḥ akārṣīt yaḥ prāk sva-dehāt yamayoḥ ajāyata . tam vai hiraṇyakaśipum viduḥ prajāḥ yam tam hiraṇyākṣam asūta sāgrataḥ .. 18 ..
चक्रे हिरण्यकशिपुः दोर्भ्यां ब्रह्मवरेण च । वशे सपालान् लोकान् त्रीन् अकुतोमृत्युरुद्धतः ॥ १९ ॥
चक्रे हिरण्यकशिपुः दोर्भ्याम् ब्रह्म-वरेण च । वशे स पालान् लोकान् त्रीन् अकुतस् मृत्युः उद्धतः ॥ १९ ॥
cakre hiraṇyakaśipuḥ dorbhyām brahma-vareṇa ca . vaśe sa pālān lokān trīn akutas mṛtyuḥ uddhataḥ .. 19 ..
हिरण्याक्षो अनुजस्तस्य प्रियः प्रीतिकृदन्वहम् । गदापाणिर्दिवं यातो युयुत्सुः मृगयन् रणम् ॥ २० ॥
हिरण्याक्षः अनुजः तस्य प्रियः प्रीति-कृत् अन्वहम् । गदा-पाणिः दिवम् यातः युयुत्सुः मृगयन् रणम् ॥ २० ॥
hiraṇyākṣaḥ anujaḥ tasya priyaḥ prīti-kṛt anvaham . gadā-pāṇiḥ divam yātaḥ yuyutsuḥ mṛgayan raṇam .. 20 ..
तं वीक्ष्य दुःसहजवं रणत् काञ्चन नूपुरम् । वैजयन्त्या स्रजा जुष्टं अंस न्यस्त महागदम् ॥ २१ ॥
तम् वीक्ष्य दुःसह-जवम् रणत् काञ्चन नूपुरम् । वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् ॥ २१ ॥
tam vīkṣya duḥsaha-javam raṇat kāñcana nūpuram . vaijayantyā srajā juṣṭam aṃsa-nyasta-mahā-gadam .. 21 ..
मनोवीर्यवर उत्सिक्तं असृण्यं अकुतोभयम् । भीता निलिल्यिरे देवाः तार्क्ष्य त्रस्तः इवाहयः ॥ २२ ॥
मनः-वीर्य-वरः उत्सिक्तम् असृण्यम् अकुतोभयम् । भीताः निलिल्यिरे देवाः तार्क्ष्य त्रस्तः इव अहयः ॥ २२ ॥
manaḥ-vīrya-varaḥ utsiktam asṛṇyam akutobhayam . bhītāḥ nililyire devāḥ tārkṣya trastaḥ iva ahayaḥ .. 22 ..
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् । स-इन्द्रान् देवगणान् क्षीबान् अपश्यन् व्यनदद्भृशम् ॥ २३ ॥
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राज् । स इन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदत् भृशम् ॥ २३ ॥
sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāj . sa indrān deva-gaṇān kṣībān apaśyan vyanadat bhṛśam .. 23 ..
ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनम् । विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः ॥ २४ ॥
ततस् निवृत्तः क्रीडिष्यन् गम्भीरम् भीम-निस्वनम् । विजगाहे महासत्त्वः वार्धिम् मत्तः इव द्विपः ॥ २४ ॥
tatas nivṛttaḥ krīḍiṣyan gambhīram bhīma-nisvanam . vijagāhe mahāsattvaḥ vārdhim mattaḥ iva dvipaḥ .. 24 ..
तस्मिन्प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः । अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ २५ ॥
तस्मिन् प्रविष्टे वरुणस्य सैनिकाः यादः-गणाः सन्न-धियः स साध्वसाः । अ हन्यमानाः अपि तस्य वर्चसा प्रधर्षिताः दूरतरम् प्रदुद्रुवुः ॥ २५ ॥
tasmin praviṣṭe varuṇasya sainikāḥ yādaḥ-gaṇāḥ sanna-dhiyaḥ sa sādhvasāḥ . a hanyamānāḥ api tasya varcasā pradharṣitāḥ dūrataram pradudruvuḥ .. 25 ..
स वर्षपूगान् उदधौ महाबलः चरन् महोर्मीन् श्वसनेरितान्मुहुः । मौर्व्याभिजघ्ने गदया विभावरीं आसेदिवान् तात पुरीं प्रचेतसः ॥ २६ ॥
स वर्ष-पूगान् उदधौ महा-बलः चरन् महा-ऊर्मीन् श्वसन-ईरितान् मुहुर् । मौर्व्या अभिजघ्ने गदया विभावरीम् आसेदिवान् तात पुरीम् प्रचेतसः ॥ २६ ॥
sa varṣa-pūgān udadhau mahā-balaḥ caran mahā-ūrmīn śvasana-īritān muhur . maurvyā abhijaghne gadayā vibhāvarīm āsedivān tāta purīm pracetasaḥ .. 26 ..
तत्रोपलभ्यासुरलोकपालकं यादोगणानां ऋषभं प्रचेतसम् । स्मयन् प्रलब्धुं प्रणिपत्य नीचवत् जगाद मे देह्यधिराज संयुगम् ॥ २७ ॥
तत्र उपलभ्य असुर-लोकपालकम् यादः-गणानाम् ऋषभम् प्रचेतसम् । स्मयन् प्रलब्धुम् प्रणिपत्य नीच-वत् जगाद मे देहि अधिराज संयुगम् ॥ २७ ॥
tatra upalabhya asura-lokapālakam yādaḥ-gaṇānām ṛṣabham pracetasam . smayan pralabdhum praṇipatya nīca-vat jagāda me dehi adhirāja saṃyugam .. 27 ..
त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम् । विजित्य लोकेऽखिलदैत्यदानवान् यद् राजसूयेन पुरायजत्प्रभो ॥ २८ ॥
त्वम् लोकपालः अधिपतिः बृहच्छ्रवाः वीर्य-अपहः दुर्मद-वीर-मानिनाम् । विजित्य लोके अखिल-दैत्य-दानवान् यत् राजसूयेन पुरा अयजत् प्रभो ॥ २८ ॥
tvam lokapālaḥ adhipatiḥ bṛhacchravāḥ vīrya-apahaḥ durmada-vīra-māninām . vijitya loke akhila-daitya-dānavān yat rājasūyena purā ayajat prabho .. 28 ..
स एवं उत्सिक्त मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः । रोषं समुत्थं शमयन् स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥
सः एवम् उत्सिक्त-मदेन विद्विषा दृढम् प्रलब्धः भगवान् अपाम् पतिः । रोषम् समुत्थम् शमयन् स्वया धिया व्यवोचत् अङ्ग-उपशमम् गताः वयम् ॥ २९ ॥
saḥ evam utsikta-madena vidviṣā dṛḍham pralabdhaḥ bhagavān apām patiḥ . roṣam samuttham śamayan svayā dhiyā vyavocat aṅga-upaśamam gatāḥ vayam .. 29 ..
पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यति असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ॥ ३० ॥
पश्यामि ना अन्यम् पुरुषात् पुरातनात् यः संयुगे त्वाम् रण-मार्ग-कोविदम् । आराधयिष्यति असुर-ऋषभे हि तम् मनस्विनः यम् गृणते भवादृशाः ॥ ३० ॥
paśyāmi nā anyam puruṣāt purātanāt yaḥ saṃyuge tvām raṇa-mārga-kovidam . ārādhayiṣyati asura-ṛṣabhe hi tam manasvinaḥ yam gṛṇate bhavādṛśāḥ .. 30 ..
तं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिर्वृतः । यस्त्वद्विधानां असतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥
तम् वीरम् आरात् अभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिः वृतः । यः त्वद्विधानाम् असताम् प्रशान्तये रूपाणि धत्ते सत्-अनुग्रह-इच्छया ॥ ३१ ॥
tam vīram ārāt abhipadya vismayaḥ śayiṣyase vīraśaye śvabhiḥ vṛtaḥ . yaḥ tvadvidhānām asatām praśāntaye rūpāṇi dhatte sat-anugraha-icchayā .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe saptadaśaḥ adhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In