| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच ।
तदेवमाकर्ण्य जलेशभाषितं महामनास्तद् विगणय्य दुर्मदः । हरेर्विदित्वा गतिमङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः ॥ १ ॥
तत् एवम् आकर्ण्य जलेश-भाषितम् महामनाः तत् विगणय्य दुर्मदः । हरेः विदित्वा गतिम् अङ्ग नारदात् रसातलम् निर्विविशे त्वरा-अन्वितः ॥ १ ॥
tat evam ākarṇya jaleśa-bhāṣitam mahāmanāḥ tat vigaṇayya durmadaḥ . hareḥ viditvā gatim aṅga nāradāt rasātalam nirviviśe tvarā-anvitaḥ .. 1 ..
ददर्श तत्राभिजितं धराधरं प्रोन्नीयमान अवनिं अग्रदंष्ट्रया । मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः ॥ २ ॥
ददर्श तत्र अभिजितम् धराधरम् प्रोन्नीयमान अवनिम् अग्र-दंष्ट्रया । मुष्णन्तम् अक्ष्णा स्व-रुचः अरुण-श्रिया जहास च अहर् वन-गोचरः मृगः ॥ २ ॥
dadarśa tatra abhijitam dharādharam pronnīyamāna avanim agra-daṃṣṭrayā . muṣṇantam akṣṇā sva-rucaḥ aruṇa-śriyā jahāsa ca ahar vana-gocaraḥ mṛgaḥ .. 2 ..
आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता । न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृते ॥ ३ ॥
आह एनम् एहि अज्ञ महीम् विमुञ्च नः रसौकसाम् विश्वसृजा इयम् अर्पिता । न स्वस्ति यास्यसि अनया मम ईक्षतः सु राधम् आसादित-सूकर-आकृते ॥ ३ ॥
āha enam ehi ajña mahīm vimuñca naḥ rasaukasām viśvasṛjā iyam arpitā . na svasti yāsyasi anayā mama īkṣataḥ su rādham āsādita-sūkara-ākṛte .. 3 ..
त्वं नः सपत्नैः अभवाय किं भृतो यो मायया हन्त्यसुरान् परोक्षजित् । त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥ ४ ॥
त्वम् नः सपत्नैः अभवाय किम् भृतः यः मायया हन्ति असुरान् परोक्ष-जित् । त्वाम् योग-माया-बलम् अल्प-पौरुषम् संस्थाप्य मूढ प्रमृजे सुहृद्-शुचः ॥ ४ ॥
tvam naḥ sapatnaiḥ abhavāya kim bhṛtaḥ yaḥ māyayā hanti asurān parokṣa-jit . tvām yoga-māyā-balam alpa-pauruṣam saṃsthāpya mūḍha pramṛje suhṛd-śucaḥ .. 4 ..
त्वयि संस्थिते गदया शीर्णशीर्षणि अस्मद्भुजच्युतया ये च तुभ्यम् । बलिं हरन्ति ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः ॥ ५ ॥
त्वयि संस्थिते गदया शीर्ण-शीर्षणि अस्मद्-भुज-च्युतया ये च तुभ्यम् । बलिम् हरन्ति ऋषयः ये च देवाः स्वयम् सर्वे न भविष्यन्ति अमूलाः ॥ ५ ॥
tvayi saṃsthite gadayā śīrṇa-śīrṣaṇi asmad-bhuja-cyutayā ye ca tubhyam . balim haranti ṛṣayaḥ ye ca devāḥ svayam sarve na bhaviṣyanti amūlāḥ .. 5 ..
स तुद्यमानोऽरिदुरुक्ततोमरैः दंष्ट्राग्रगां गां उपलक्ष्य भीताम् । तोदं मृषन् निरगाद् अम्बुमध्याद् ग्राहाहतः सकरेणुर्यथेभः ॥ ६ ॥
स तुद्यमानः अरि-दुरुक्त-तोमरैः दंष्ट्र-अग्र-गाम् गाम् उपलक्ष्य भीताम् । तोदम् मृषन् निरगात् अम्बु-मध्यात् ग्राह-आहतः स करेणुः यथा इभः ॥ ६ ॥
sa tudyamānaḥ ari-durukta-tomaraiḥ daṃṣṭra-agra-gām gām upalakṣya bhītām . todam mṛṣan niragāt ambu-madhyāt grāha-āhataḥ sa kareṇuḥ yathā ibhaḥ .. 6 ..
तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः । करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद् गतह्रियां किं त्वसतां विगर्हितम् ॥ ७ ॥
तम् निःसरन्तम् सलिलात् अनुद्रुतः हिरण्य-केशः द्विरदम् यथा झषः । कराल-दंष्ट्रः अशनि-निस्वनः अब्रवीत् गत-ह्रियाम् किम् तु असताम् विगर्हितम् ॥ ७ ॥
tam niḥsarantam salilāt anudrutaḥ hiraṇya-keśaḥ dviradam yathā jhaṣaḥ . karāla-daṃṣṭraḥ aśani-nisvanaḥ abravīt gata-hriyām kim tu asatām vigarhitam .. 7 ..
स गां उदस्तात् सलिलस्य गोचरे विन्यस्य तस्यां अदधात् स्वसत्त्वम् । अभिष्टुतो विश्वसृजा प्रसूनैः आपूर्यमाणो विबुधैः पश्यतोऽरेः ॥ ८ ॥
स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् । अभिष्टुतः विश्वसृजा प्रसूनैः आपूर्यमाणः विबुधैः पश्यतः अरेः ॥ ८ ॥
sa gām udastāt salilasya gocare vinyasya tasyām adadhāt sva-sattvam . abhiṣṭutaḥ viśvasṛjā prasūnaiḥ āpūryamāṇaḥ vibudhaiḥ paśyataḥ areḥ .. 8 ..
परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् । मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसन् तं बभाषे ॥ ९ ॥
पर-अनुषक्तम् तपनीय-उपकल्पम् महा-गदम् काञ्चन-चित्र-दंशम् । मर्माणि अभीक्ष्णम् प्रतुदन्तम् दुरुक्तैः प्रचण्ड-मन्युः प्रहसन् तम् बभाषे ॥ ९ ॥
para-anuṣaktam tapanīya-upakalpam mahā-gadam kāñcana-citra-daṃśam . marmāṇi abhīkṣṇam pratudantam duruktaiḥ pracaṇḍa-manyuḥ prahasan tam babhāṣe .. 9 ..
श्रीभगवानुवाच -
सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान्मृगये ग्रामसिंहान् । न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र ॥ १० ॥
सत्यम् वयम् भो वन-गोचराः मृगाः युष्मद्विधान् मृगये ग्राम-सिंहान् । न मृत्यु-पाशैः प्रतिमुक्तस्य वीराः विकत्थनम् तव गृह्णन्ति अभद्र ॥ १० ॥
satyam vayam bho vana-gocarāḥ mṛgāḥ yuṣmadvidhān mṛgaye grāma-siṃhān . na mṛtyu-pāśaiḥ pratimuktasya vīrāḥ vikatthanam tava gṛhṇanti abhadra .. 10 ..
एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास्ते । तिष्ठामहेऽथापि कथञ्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११ ॥
एते वयम् न्यास-हराः रसौकसाम् गत-ह्रियः गदया द्राविताः ते । तिष्ठामहे अथ अपि कथञ्चिद् आजौ स्थेयम् क्व यामः बलिना उत्पाद्य वैरम् ॥ ११ ॥
ete vayam nyāsa-harāḥ rasaukasām gata-hriyaḥ gadayā drāvitāḥ te . tiṣṭhāmahe atha api kathañcid ājau stheyam kva yāmaḥ balinā utpādya vairam .. 11 ..
त्वं पद्-रथानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः । संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः ॥ १२ ॥
त्वम् पद्-रथानाम् किल यूथप-अधिपः घटस्व नः अस्वस्तये आशु-अनूहः । संस्थाप्य च अस्मान् प्रमृज अश्रु स्वकानाम् यः स्वाम् प्रतिज्ञाम् न अतिपिपर्ति असभ्यः ॥ १२ ॥
tvam pad-rathānām kila yūthapa-adhipaḥ ghaṭasva naḥ asvastaye āśu-anūhaḥ . saṃsthāpya ca asmān pramṛja aśru svakānām yaḥ svām pratijñām na atipiparti asabhyaḥ .. 12 ..
मैत्रेय उवाच -
सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् । आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३ ॥
सः अधिक्षिप्तः भगवता प्रलब्धः च रुषा भृशम् । आजहार उल्बणम् क्रोधम् क्रीड्यमानः अहिराज् इव ॥ १३ ॥
saḥ adhikṣiptaḥ bhagavatā pralabdhaḥ ca ruṣā bhṛśam . ājahāra ulbaṇam krodham krīḍyamānaḥ ahirāj iva .. 13 ..
सृजन् अमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः । आसाद्य तरसा दैत्यो गदया न्यहनद् हरिम् ॥ १४ ॥
सृजन् अमर्षितः श्वासात् मन्यु-प्रचलित-इन्द्रियः । आसाद्य तरसा दैत्यः गदया न्यहनत् हरिम् ॥ १४ ॥
sṛjan amarṣitaḥ śvāsāt manyu-pracalita-indriyaḥ . āsādya tarasā daityaḥ gadayā nyahanat harim .. 14 ..
भगवान् तु गदावेगं विसृष्टं रिपुणोरसि । अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥ १५ ॥
भगवान् तु गदा-वेगम् विसृष्टम् रिपुणा उरसि । अवञ्चयत् तिरश्चीनः योग-आरूढः इव अन्तकम् ॥ १५ ॥
bhagavān tu gadā-vegam visṛṣṭam ripuṇā urasi . avañcayat tiraścīnaḥ yoga-ārūḍhaḥ iva antakam .. 15 ..
पुनर्गदां स्वां आदाय भ्रामयन्तं अभीक्ष्णशः । अभ्यधावद् हरिः क्रुद्धः संरम्भाद् दष्टदच्छदम् ॥ १६ ॥
पुनर् गदाम् स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशस् । अभ्यधावत् हरिः क्रुद्धः संरम्भात् दष्ट-दच्छदम् ॥ १६ ॥
punar gadām svām ādāya bhrāmayantam abhīkṣṇaśas . abhyadhāvat hariḥ kruddhaḥ saṃrambhāt daṣṭa-dacchadam .. 16 ..
ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः । आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७ ॥
ततस् च गदया अरातिम् दक्षिणस्याम् भ्रुवि प्रभुः । आजघ्ने स तु ताम् सौम्य गदया कोविदः अहनत् ॥ १७ ॥
tatas ca gadayā arātim dakṣiṇasyām bhruvi prabhuḥ . ājaghne sa tu tām saumya gadayā kovidaḥ ahanat .. 17 ..
एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च । जिगीषया सुसंरब्धौ अन्योन्यं अभिजघ्नतुः ॥ १८ ॥
एवम् गदाभ्याम् गुर्वीभ्याम् हर्यक्षः हरिः एव च । जिगीषया सु संरब्धौ अन्योन्यम् अभिजघ्नतुः ॥ १८ ॥
evam gadābhyām gurvībhyām haryakṣaḥ hariḥ eva ca . jigīṣayā su saṃrabdhau anyonyam abhijaghnatuḥ .. 18 ..
तयोः स्पृधोस्तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः । विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥
तयोः स्पृधोः तिग्म-गदा-हत-अङ्गयोः क्षत-आस्रव-घ्राण-विवृद्ध-मन्य्वोः । विचित्र-मार्गान् चरतोः जिगीषया व्यभात् इलायाम् इव शुष्मिणोः मृधः ॥ १९ ॥
tayoḥ spṛdhoḥ tigma-gadā-hata-aṅgayoḥ kṣata-āsrava-ghrāṇa-vivṛddha-manyvoḥ . vicitra-mārgān caratoḥ jigīṣayā vyabhāt ilāyām iva śuṣmiṇoḥ mṛdhaḥ .. 19 ..
दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः । कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥
दैत्यस्य यज्ञ-अवयवस्य माया गृहीत-वाराह-तनोः महात्मनः । कौरव्य मह्याम् द्विषतोः विमर्दनम् दिदृक्षु-रागात् ऋषिभिः वृतः स्वराज् ॥ २० ॥
daityasya yajña-avayavasya māyā gṛhīta-vārāha-tanoḥ mahātmanaḥ . kauravya mahyām dviṣatoḥ vimardanam didṛkṣu-rāgāt ṛṣibhiḥ vṛtaḥ svarāj .. 20 ..
आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम् । विलक्ष्य दैत्यं भगवान् सहस्रणीः जगाद नारायणमादिसूकरम् ॥ २१ ॥
आसन्न-शौण्डीरम् अपेत-साध्वसम् कृत-प्रतीकार-महा-आर्य-विक्रमम् । विलक्ष्य दैत्यम् भगवान् सहस्रणीः जगाद नारायणम् आदि-सूकरम् ॥ २१ ॥
āsanna-śauṇḍīram apeta-sādhvasam kṛta-pratīkāra-mahā-ārya-vikramam . vilakṣya daityam bhagavān sahasraṇīḥ jagāda nārāyaṇam ādi-sūkaram .. 21 ..
ब्रह्मोवाच -
एष ते देव देवानां अङ्घ्रिमूलमुपेयुषाम् । विप्राणां सौरभेयीणां भूतानां अपि अनागसाम् ॥ २२ ॥
एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् । विप्राणाम् सौरभेयीणाम् भूतानाम् अपि अनागसाम् ॥ २२ ॥
eṣa te deva devānām aṅghri-mūlam upeyuṣām . viprāṇām saurabheyīṇām bhūtānām api anāgasām .. 22 ..
आगस्कृद् भयकृद् दुष्कृद् अस्मद् राद्धवरोऽसुरः । अन्वेषन् अप्रतिरथो लोकान् अटति कण्टकः ॥ २३ ॥
आगस्कृत् भय-कृत् दुष्कृत् अस्मत् राद्ध-वरः असुरः । अन्वेषन् अप्रतिरथः लोकान् अटति कण्टकः ॥ २३ ॥
āgaskṛt bhaya-kṛt duṣkṛt asmat rāddha-varaḥ asuraḥ . anveṣan apratirathaḥ lokān aṭati kaṇṭakaḥ .. 23 ..
मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् । आक्रीड बालवद्देव यथाऽऽशीविषमुत्थितम् ॥ २४ ॥
मा एनम् मायाविनम् दृप्तम् निरङ्कुशम् असत्तमम् । आक्रीड बाल-वत् देव यथा आशीविषम् उत्थितम् ॥ २४ ॥
mā enam māyāvinam dṛptam niraṅkuśam asattamam . ākrīḍa bāla-vat deva yathā āśīviṣam utthitam .. 24 ..
न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः । स्वां देव मायां आस्थाय तावत् जह्यघमच्युत ॥ २५ ॥
न यावत् एष वर्धेत स्वाम् वेलाम् प्राप्य दारुणः । स्वाम् देव मायाम् आस्थाय तावत् जहि अघम् अच्युत ॥ २५ ॥
na yāvat eṣa vardheta svām velām prāpya dāruṇaḥ . svām deva māyām āsthāya tāvat jahi agham acyuta .. 25 ..
एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो । उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥
एषा घोरतमा सन्ध्या लोक-छम्बट्करी प्रभो । उपसर्पति सर्व-आत्मन् सुराणाम् जयम् आवह ॥ २६ ॥
eṣā ghoratamā sandhyā loka-chambaṭkarī prabho . upasarpati sarva-ātman surāṇām jayam āvaha .. 26 ..
अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् । शिवाय नस्त्वं सुहृदां आशु निस्तर दुस्तरम् ॥ २७ ॥
अधुना एषः अभिजित् नाम योगः मौहूर्तिकः हि अगात् । शिवाय नः त्वम् सुहृदाम् आशु निस्तर दुस्तरम् ॥ २७ ॥
adhunā eṣaḥ abhijit nāma yogaḥ mauhūrtikaḥ hi agāt . śivāya naḥ tvam suhṛdām āśu nistara dustaram .. 27 ..
दिष्ट्या त्वां विहितं मृत्युं अयं आसादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥ २८ ॥
दिष्ट्या त्वाम् विहितम् मृत्युम् अयम् आसादितः स्वयम् । विक्रम्य एनम् मृधे हत्वा लोकान् आधेहि शर्मणि ॥ २८ ॥
diṣṭyā tvām vihitam mṛtyum ayam āsāditaḥ svayam . vikramya enam mṛdhe hatvā lokān ādhehi śarmaṇi .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे अष्टादशः अध्यायः ॥ १८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In