| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः । प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १ ॥
अवधार्य विरिञ्चस्य निर्व्यलीक-अमृतम् वचः । प्रहस्य प्रेम-गर्भेण तद्-अपाङ्गेन सः अग्रहीत् ॥ १ ॥
avadhārya viriñcasya nirvyalīka-amṛtam vacaḥ . prahasya prema-garbheṇa tad-apāṅgena saḥ agrahīt .. 1 ..
ततः सपत्नं मुखतः चरन्तं अकुतोभयम् । जघानोत्पत्य गदया हनौ असुरमक्षजः ॥ २ ॥
ततस् सपत्नम् मुखतः चरन्तम् अकुतोभयम् । जघान उत्पत्य गदया हनौ असुर-मक्षजः ॥ २ ॥
tatas sapatnam mukhataḥ carantam akutobhayam . jaghāna utpatya gadayā hanau asura-makṣajaḥ .. 2 ..
सा हता तेन गदया विहता भगवत्करात् । विघूर्णित अपतद् रेजे तदद्भुतं इवाभवत् ॥ ३ ॥
सा हता तेन गदया विहता भगवत्-करात् । विघूर्णित अपतत् रेजे तत् अद्भुतम् इव अभवत् ॥ ३ ॥
sā hatā tena gadayā vihatā bhagavat-karāt . vighūrṇita apatat reje tat adbhutam iva abhavat .. 3 ..
स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् । मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४ ॥
स तदा लब्धतीर्थः अपि न बबाधे निरायुधम् । मानयन् स मृधे धर्मम् विष्वक्सेनम् प्रकोपयन् ॥ ४ ॥
sa tadā labdhatīrthaḥ api na babādhe nirāyudham . mānayan sa mṛdhe dharmam viṣvaksenam prakopayan .. 4 ..
गदायां अपविद्धायां हाहाकारे विनिर्गते । मानयामास तद् धर्मं सुनाभं चास्मरद्विभुः ॥ ५ ॥
गदायाम् अपविद्धायाम् हाहाकारे विनिर्गते । मानयामास तत् धर्मम् सुनाभम् च अस्मरत् विभुः ॥ ५ ॥
gadāyām apaviddhāyām hāhākāre vinirgate . mānayāmāsa tat dharmam sunābham ca asmarat vibhuḥ .. 5 ..
तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम् । चित्रा वाचोऽतद्विदां खेचराणां तत्रास्मासन् स्वस्ति तेऽमुं जहीति ॥ ६ ॥
तम् व्यग्र-चक्रम् दिति-पुत्र-अधमेन स्व-पार्षद-मुख्येन विषज्जमानम् । चित्राः वाचः अ तद्-विदाम् खेचराणाम् तत्र अस्म आसन् स्वस्ति ते अमुम् जहि इति ॥ ६ ॥
tam vyagra-cakram diti-putra-adhamena sva-pārṣada-mukhyena viṣajjamānam . citrāḥ vācaḥ a tad-vidām khecarāṇām tatra asma āsan svasti te amum jahi iti .. 6 ..
स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम् । विलोक्य चामर्ष परिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन् ॥ ७ ॥
स तम् निशाम्य आत्त-रथाङ्गम् अग्रतस् व्यवस्थितम् पद्म-पलाश-लोचनम् । विलोक्य च आमर्ष परिप्लुत-इन्द्रियः रुषा स्व-दन्तच्छदम् आदशत् श्वसन् ॥ ७ ॥
sa tam niśāmya ātta-rathāṅgam agratas vyavasthitam padma-palāśa-locanam . vilokya ca āmarṣa paripluta-indriyaḥ ruṣā sva-dantacchadam ādaśat śvasan .. 7 ..
(अनुष्टुप्)
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव । अभिप्लुत्य स्वगदया हतोऽसीत्याहनद् हरिम् ॥ ८ ॥
कराल-दंष्ट्रः चक्षुर्भ्याम् सञ्चक्षाणः दहन् इव । अभिप्लुत्य स्व-गदया हतः असि इति आहनत् हरिम् ॥ ८ ॥
karāla-daṃṣṭraḥ cakṣurbhyām sañcakṣāṇaḥ dahan iva . abhiplutya sva-gadayā hataḥ asi iti āhanat harim .. 8 ..
पदा सव्येन तां साधो भगवान् यज्ञसूकरः । लीलया मिषतः शत्रोः प्राहरद् वातरंहसम् ॥ ९ ॥
सव्येन ताम् साधो भगवान् यज्ञसूकरः । लीलया मिषतः शत्रोः प्राहरत् वात-रंहसम् ॥ ९ ॥
savyena tām sādho bhagavān yajñasūkaraḥ . līlayā miṣataḥ śatroḥ prāharat vāta-raṃhasam .. 9 ..
आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि । इत्युक्तः स तदा भूयः ताडयन् व्यनदद् भृशम् ॥ १० ॥
आह च आयुधम् आधत्स्व घटस्व त्वम् जिगीषसि । इति उक्तः स तदा भूयस् ताडयन् व्यनदत् भृशम् ॥ १० ॥
āha ca āyudham ādhatsva ghaṭasva tvam jigīṣasi . iti uktaḥ sa tadā bhūyas tāḍayan vyanadat bhṛśam .. 10 ..
तां स आपततीं वीक्ष्य भगवान् समवस्थितः । जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥
ताम् सः आपततीम् वीक्ष्य भगवान् समवस्थितः । जग्राह लीलया प्राप्ताम् गरुत्मान् इव पन्नगीम् ॥ ११ ॥
tām saḥ āpatatīm vīkṣya bhagavān samavasthitaḥ . jagrāha līlayā prāptām garutmān iva pannagīm .. 11 ..
स्वपौरुषे प्रतिहते हतमानो महासुरः । नैच्छद्गदां दीयमानां हरिणा विगतप्रभः ॥ १२ ॥
स्व-पौरुषे प्रतिहते हत-मानः महा-असुरः । न ऐच्छत् गदाम् दीयमानाम् हरिणा विगत-प्रभः ॥ १२ ॥
sva-pauruṣe pratihate hata-mānaḥ mahā-asuraḥ . na aicchat gadām dīyamānām hariṇā vigata-prabhaḥ .. 12 ..
जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् । यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३ ॥
जग्राह त्रि-शिखम् शूलम् । यज्ञाय धृत-रूपाय विप्राय अभिचरन् यथा ॥ १३ ॥
jagrāha tri-śikham śūlam . yajñāya dhṛta-rūpāya viprāya abhicaran yathā .. 13 ..
तदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधिति । चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४ ॥
तद्-ओजसा दैत्य-महाभट-अर्पितम् चकासत्-अन्तर् खः उदीर्णदीधिति । चक्रेण चिच्छेद निशात-नेमिना हरिः यथा तार्क्ष्य-पतत्रम् उज्झितम् ॥ १४ ॥
tad-ojasā daitya-mahābhaṭa-arpitam cakāsat-antar khaḥ udīrṇadīdhiti . cakreṇa ciccheda niśāta-neminā hariḥ yathā tārkṣya-patatram ujjhitam .. 14 ..
वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत् । प्रवृद्धरोषः स कठोरमुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः ॥ १५ ॥
वृक्णे स्व-शूले बहु-धारिणा हरेः प्रत्येत्य विस्तीर्णम् उरः विभूतिमत् । प्रवृद्ध-रोषः स कठोर-मुष्टिना नदन् प्रहृत्य अन्तरधीयत असुरः ॥ १५ ॥
vṛkṇe sva-śūle bahu-dhāriṇā hareḥ pratyetya vistīrṇam uraḥ vibhūtimat . pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā nadan prahṛtya antaradhīyata asuraḥ .. 15 ..
तेनेत्थमाहतः क्षत्तः भगवान् आदिसूकरः । नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः ॥ १६ ॥
तेन इत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः । न अकम्पत मनाक् क्वापि स्रजा हतः इव द्विपः ॥ १६ ॥
tena ittham āhataḥ kṣattar bhagavān ādi-sūkaraḥ . na akampata manāk kvāpi srajā hataḥ iva dvipaḥ .. 16 ..
अथोरुधासृजन् मायां योगमायेश्वरे हरौ । यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७ ॥
अथ उरुधा सृजत् मायाम् योग-माया-ईश्वरे हरौ । याम् विलोक्य प्रजाः त्रस्ताः मेनिरे अस्य उपसंयमम् ॥ १७ ॥
atha urudhā sṛjat māyām yoga-māyā-īśvare harau . yām vilokya prajāḥ trastāḥ menire asya upasaṃyamam .. 17 ..
प्रववुर्वायवश्चण्डाः तमः पांसवमैरयन् । दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥ १८ ॥
प्रववुः वायवः चण्डाः तमः पांसवम् ऐरयन् । दिग्भ्यः निपेतुः ग्रावाणः क्षेपणैः प्रहिताः इव ॥ १८ ॥
pravavuḥ vāyavaḥ caṇḍāḥ tamaḥ pāṃsavam airayan . digbhyaḥ nipetuḥ grāvāṇaḥ kṣepaṇaiḥ prahitāḥ iva .. 18 ..
द्यौर्नष्टभगणाभ्रौघैः सविद्युत् स्तनयित्नुभिः । वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत् ॥ १९ ॥
द्यौः नष्ट-भगण-अभ्र-ओघैः स विद्युत् स्तनयित्नुभिः । वर्षद्भिः पूय-केश-असृज् विष्-मूत्र-अस्थीनि च असकृत् ॥ १९ ॥
dyauḥ naṣṭa-bhagaṇa-abhra-oghaiḥ sa vidyut stanayitnubhiḥ . varṣadbhiḥ pūya-keśa-asṛj viṣ-mūtra-asthīni ca asakṛt .. 19 ..
गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ । दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः ॥ २० ॥
गिरयः प्रत्यदृश्यन्त नाना आयुध-मुचः अनघ । दिग्वाससः यातुधान्यः शूलिन्यः मुक्त-मूर्धजाः ॥ २० ॥
girayaḥ pratyadṛśyanta nānā āyudha-mucaḥ anagha . digvāsasaḥ yātudhānyaḥ śūlinyaḥ mukta-mūrdhajāḥ .. 20 ..
बहुभिर्यक्षरक्षोभिः पत्त्यश्व रथकुञ्जरैः । आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः ॥ २१ ॥
बहुभिः यक्ष-रक्षोभिः पत्ति-अश्व-रथ-कुञ्जरैः । आततायिभिः उत्सृष्टाः हिंस्राः वाचः अतिवैशसाः ॥ २१ ॥
bahubhiḥ yakṣa-rakṣobhiḥ patti-aśva-ratha-kuñjaraiḥ . ātatāyibhiḥ utsṛṣṭāḥ hiṃsrāḥ vācaḥ ativaiśasāḥ .. 21 ..
प्रादुष्कृतानां मायानां आसुरीणां विनाशयत् । सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात् ॥ २२ ॥
प्रादुष्कृतानाम् मायानाम् आसुरीणाम् विनाशयत् । सुदर्शन-अस्त्रम् भगवान् प्रायुङ्क्त दयितम् त्रिपाद् ॥ २२ ॥
prāduṣkṛtānām māyānām āsurīṇām vināśayat . sudarśana-astram bhagavān prāyuṅkta dayitam tripād .. 22 ..
तदा दितेः समभवत् सहसा हृदि वेपथुः । स्मरन्त्या भर्तुः आदेशं स्तनात् च असृक् प्रसुस्रुवे ॥ २३ ॥
तदा दितेः समभवत् सहसा हृदि वेपथुः । स्मरन्त्या भर्तुः आदेशम् स्तनात् च असृक् प्रसुस्रुवे ॥ २३ ॥
tadā diteḥ samabhavat sahasā hṛdi vepathuḥ . smarantyā bhartuḥ ādeśam stanāt ca asṛk prasusruve .. 23 ..
विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् । रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥ २४ ॥
विनष्टासु स्व-मायासु भूयस् च आव्रज्य केशवम् । रुषा उपगूहमानः अमुम् ददृशे अवस्थितम् बहिस् ॥ २४ ॥
vinaṣṭāsu sva-māyāsu bhūyas ca āvrajya keśavam . ruṣā upagūhamānaḥ amum dadṛśe avasthitam bahis .. 24 ..
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैः अधोक्षजः । करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः ॥ २५ ॥
तम् मुष्टिभिः विनिघ्नन्तम् वज्रसारैः अधोक्षजः । करेण कर्ण-मूले अहन् यथा त्वाष्ट्रम् मरुत्पतिः ॥ २५ ॥
tam muṣṭibhiḥ vinighnantam vajrasāraiḥ adhokṣajaḥ . kareṇa karṇa-mūle ahan yathā tvāṣṭram marutpatiḥ .. 25 ..
स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः । विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद् यथा नगेन्द्रो लुलितो नभस्वता ॥ २६ ॥
सः आहतः विश्वजिता हि अवज्ञया परिभ्रमत्-गात्रः उदस्त-लोचनः । विशीर्ण-बाहु-अङ्घ्रि-शिरोरुहः अपतत् यथा नगेन्द्रः लुलितः नभस्वता ॥ २६ ॥
saḥ āhataḥ viśvajitā hi avajñayā paribhramat-gātraḥ udasta-locanaḥ . viśīrṇa-bāhu-aṅghri-śiroruhaḥ apatat yathā nagendraḥ lulitaḥ nabhasvatā .. 26 ..
क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् । अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम् ॥ २७ ॥
क्षितौ शयानम् तम् अकुण्ठ-वर्चसम् कराल-दंष्ट्रम् परिदष्ट-दच्छदम् । अज-आदयः वीक्ष्य शशंसुः आगताः अहो इमम् कः नु लभेत संस्थितिम् ॥ २७ ॥
kṣitau śayānam tam akuṇṭha-varcasam karāla-daṃṣṭram paridaṣṭa-dacchadam . aja-ādayaḥ vīkṣya śaśaṃsuḥ āgatāḥ aho imam kaḥ nu labheta saṃsthitim .. 27 ..
यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया । तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यन् तनुमुत्ससर्ज ह ॥ २८ ॥
यम् योगिनः योग-समाधिना रहः ध्यायन्ति लिङ्गात् असतः मुमुक्षया । तस्य एष दैत्य-ऋषभः पद-आहतः मुखम् प्रपश्यन् तनुम् उत्ससर्ज ह ॥ २८ ॥
yam yoginaḥ yoga-samādhinā rahaḥ dhyāyanti liṅgāt asataḥ mumukṣayā . tasya eṣa daitya-ṛṣabhaḥ pada-āhataḥ mukham prapaśyan tanum utsasarja ha .. 28 ..
एतौ तौ पार्षदावस्य शापाद् यातौ असद्गतिम् । पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ २९ ॥
एतौ तौ पार्षदौ अस्य शापात् यातौ असत्-गतिम् । पुनर् कतिपयैः स्थानम् प्रपत्स्येते ह जन्मभिः ॥ २९ ॥
etau tau pārṣadau asya śāpāt yātau asat-gatim . punar katipayaiḥ sthānam prapatsyete ha janmabhiḥ .. 29 ..
(अनुष्टुप्)
नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये । दिष्ट्या हतोऽयं जगतामरुन्तुदः त्वत् पादभक्त्या वयमीश निर्वृताः ॥ ३० ॥
नमः नमः ते अखिल-यज्ञ-तन्तवे स्थितौ गृहीत-अमल-सत्त्व-मूर्तये । दिष्ट्या हतः अयम् जगताम् अरुन्तुदः त्वत् पाद-भक्त्या वयम् ईश निर्वृताः ॥ ३० ॥
namaḥ namaḥ te akhila-yajña-tantave sthitau gṛhīta-amala-sattva-mūrtaye . diṣṭyā hataḥ ayam jagatām aruntudaḥ tvat pāda-bhaktyā vayam īśa nirvṛtāḥ .. 30 ..
देवा ऊचुः -
एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः । जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः ॥ ३१ ॥
एवम् हिरण्याक्षम् असह्य-विक्रमम् स सादयित्वा हरिः आदि-सूकरः । जगाम लोकम् स्वम् अखण्डित-उत्सवम् समीडितः पुष्कर-विष्टर-आदिभिः ॥ ३१ ॥
evam hiraṇyākṣam asahya-vikramam sa sādayitvā hariḥ ādi-sūkaraḥ . jagāma lokam svam akhaṇḍita-utsavam samīḍitaḥ puṣkara-viṣṭara-ādibhiḥ .. 31 ..
मैत्रेय उवाच -
मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् । यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः ॥ ३२ ॥
मया यथा अनूक्तम् अवादि ते हरेः कृत-अवतारस्य सुमित्र चेष्टितम् । यथा हिरण्याक्षः उदार-विक्रमः महा-मृधे क्रीडन-वत् निराकृतः ॥ ३२ ॥
mayā yathā anūktam avādi te hareḥ kṛta-avatārasya sumitra ceṣṭitam . yathā hiraṇyākṣaḥ udāra-vikramaḥ mahā-mṛdhe krīḍana-vat nirākṛtaḥ .. 32 ..
इति कौषारवाख्यातां आश्रुत्य भगवत्कथाम् । क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥ ३३ ॥
इति कौषारव-आख्याताम् आश्रुत्य भगवत्-कथाम् । क्षत्ता आनन्दम् परम् लेभे महा-भागवतः द्विज ॥ ३३ ॥
iti kauṣārava-ākhyātām āśrutya bhagavat-kathām . kṣattā ānandam param lebhe mahā-bhāgavataḥ dvija .. 33 ..
सूत उवाच - (अनुष्टुप्)
अन्येषां पुण्यश्लोकानां उद्दामयशसां सताम् । उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः ॥ ३४ ॥
अन्येषाम् पुण्य-श्लोकानाम् उद्दाम-यशसाम् सताम् । उपश्रुत्य भवेत् मोदः श्रीवत्स-अङ्कस्य किम् पुनर् ॥ ३४ ॥
anyeṣām puṇya-ślokānām uddāma-yaśasām satām . upaśrutya bhavet modaḥ śrīvatsa-aṅkasya kim punar .. 34 ..
यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् । क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम् ॥ ३५ ॥
यः गज-इन्द्रम् झष-ग्रस्तम् ध्यायन्तम् चरण-अम्बुजम् । क्रोशन्तीनाम् करेणूनाम् कृच्छ्रतस् अमोचयत् द्रुतम् ॥ ३५ ॥
yaḥ gaja-indram jhaṣa-grastam dhyāyantam caraṇa-ambujam . krośantīnām kareṇūnām kṛcchratas amocayat drutam .. 35 ..
तं सुखाराध्यमृजुभिः अनन्यशरणैर्नृभिः । कृतज्ञः को न सेवेत दुराराध्यं असाधुभिः ॥ ३६ ॥
तम् सुख-आराध्यम् ऋजुभिः अनन्य-शरणैः नृभिः । कृतज्ञः कः न सेवेत दुराराध्यम् असाधुभिः ॥ ३६ ॥
tam sukha-ārādhyam ṛjubhiḥ ananya-śaraṇaiḥ nṛbhiḥ . kṛtajñaḥ kaḥ na seveta durārādhyam asādhubhiḥ .. 36 ..
यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः । श्रृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः ॥ ३७ ॥
यः वै हिरण्याक्ष-वधम् महा-अद्भुतम् विक्रीडितम् कारण-सूकर-आत्मनः । श्रृणोति गायति अनुमोदते अञ्जसा विमुच्यते ब्रह्म-वधात् अपि द्विजाः ॥ ३७ ॥
yaḥ vai hiraṇyākṣa-vadham mahā-adbhutam vikrīḍitam kāraṇa-sūkara-ātmanaḥ . śrṛṇoti gāyati anumodate añjasā vimucyate brahma-vadhāt api dvijāḥ .. 37 ..
एतन् महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम् । प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग श्रृण्वताम् ॥ ३८ ॥
एतत् महा-पुण्य-मलम् पवित्रम् धन्यम् यशस्यम् पदम् आयुः-आशिषाम् । प्राण-इन्द्रियाणाम् युधि शौर्य-वर्धनम् नारायणः अन्ते गतिः अङ्ग श्रृण्वताम् ॥ ३८ ॥
etat mahā-puṇya-malam pavitram dhanyam yaśasyam padam āyuḥ-āśiṣām . prāṇa-indriyāṇām yudhi śaurya-vardhanam nārāyaṇaḥ ante gatiḥ aṅga śrṛṇvatām .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In