| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ १ ॥
इति भागवतः पृष्टः क्षत्त्रा वार्ताम् प्रिय-आश्रयाम् । प्रतिवक्तुम् न च उत्सेह औत्कण्ठ्यात् स्मारित-ईश्वरः ॥ १ ॥
iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtām priya-āśrayām . prativaktum na ca utseha autkaṇṭhyāt smārita-īśvaraḥ .. 1 ..
यः पञ्चहायनो मात्रा प्रातराशाय याचितः । तन्नैच्छत् रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥
यः पञ्च-हायनः मात्रा प्रातराशाय याचितः । तत् न ऐच्छत् रचयन् यस्य सपर्याम् बाल-लीलया ॥ २ ॥
yaḥ pañca-hāyanaḥ mātrā prātarāśāya yācitaḥ . tat na aicchat racayan yasya saparyām bāla-līlayā .. 2 ..
स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादौ अनुस्मरन् ॥ ३ ॥
स कथम् सेवया तस्य कालेन जरसम् गतः । पृष्टः वार्ताम् प्रतिब्रूयात् भर्तुः पादौ अनुस्मरन् ॥ ३ ॥
sa katham sevayā tasya kālena jarasam gataḥ . pṛṣṭaḥ vārtām pratibrūyāt bhartuḥ pādau anusmaran .. 3 ..
स मुहूर्तं अभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् । तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४ ॥
स मुहूर्तम् अभूत् तूष्णीम् कृष्ण-अङ्घ्रि-सुधया भृशम् । तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ ४ ॥
sa muhūrtam abhūt tūṣṇīm kṛṣṇa-aṅghri-sudhayā bhṛśam . tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ .. 4 ..
पुलकोद् भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः । पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५ ॥
पुलक-उद् भिन्न-सर्व-अङ्गः मुञ्चन् मीलत्-दृशा शुचः । पूर्ण-अर्थः लक्षितः तेन स्नेह-प्रसर-सम्प्लुतः ॥ ५ ॥
pulaka-ud bhinna-sarva-aṅgaḥ muñcan mīlat-dṛśā śucaḥ . pūrṇa-arthaḥ lakṣitaḥ tena sneha-prasara-samplutaḥ .. 5 ..
शनकैः भगवल्लोकान् नृलोकं पुनरागतः । विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥
शनकैस् भगवत्-लोकात् नृ-लोकम् पुनर् आगतः । विमृज्य नेत्रे विदुरम् प्रीत्या आह उद्धवः उत्स्मयन् ॥ ६ ॥
śanakais bhagavat-lokāt nṛ-lokam punar āgataḥ . vimṛjya netre viduram prītyā āha uddhavaḥ utsmayan .. 6 ..
उद्धव उवाच ।
कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह । किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥
कृष्ण-द्युमणि निम्लोचे गीर्णेषु अजगरेण ह । किम् नु नः कुशलम् ब्रूयाम् गत-श्रीषु गृहेषु अहम् ॥ ७ ॥
kṛṣṇa-dyumaṇi nimloce gīrṇeṣu ajagareṇa ha . kim nu naḥ kuśalam brūyām gata-śrīṣu gṛheṣu aham .. 7 ..
दुर्भगो बत लोकोऽयं यदवो नितरामपि । ये संवसन्तो न विदुः हरिं मीना इवोडुपम् ॥ ८ ॥
दुर्भगः बत लोकः अयम् यदवः नितराम् अपि । ये संवसन्तः न विदुः हरिम् मीनाः इव उडुपम् ॥ ८ ॥
durbhagaḥ bata lokaḥ ayam yadavaḥ nitarām api . ye saṃvasantaḥ na viduḥ harim mīnāḥ iva uḍupam .. 8 ..
इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः । सात्वतां ऋषभं सर्वे भूतावासममंसत ॥ ९ ॥
इङ्गित-ज्ञाः पुरु-प्रौढाः एक-आरामाः च सात्वताः । सात्वताम् ऋषभम् सर्वे भूतावासम् अमंसत ॥ ९ ॥
iṅgita-jñāḥ puru-prauḍhāḥ eka-ārāmāḥ ca sātvatāḥ . sātvatām ṛṣabham sarve bhūtāvāsam amaṃsata .. 9 ..
देवस्य मायया स्पृष्टा ये चान्यद् असदाश्रिताः । भ्राम्यते धीर्न तद्वाक्यैः आत्मन्युप्तात्मनो हरौ ॥ १० ॥
देवस्य मायया स्पृष्टाः ये च अन्यत् असत् आश्रिताः । भ्राम्यते धीः न तद्-वाक्यैः आत्मनि उप्त-आत्मनः हरौ ॥ १० ॥
devasya māyayā spṛṣṭāḥ ye ca anyat asat āśritāḥ . bhrāmyate dhīḥ na tad-vākyaiḥ ātmani upta-ātmanaḥ harau .. 10 ..
प्रदर्श्या तप्ततपसां अवितृप्तदृशां नृणाम् । आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥
प्रदर्श्या तप्त-तपसाम् अ वितृप्त-दृशाम् नृणाम् । आदाय अन्तरधात् यः तु स्व-बिम्बम् लोकलोचनम् ॥ ११ ॥
pradarśyā tapta-tapasām a vitṛpta-dṛśām nṛṇām . ādāya antaradhāt yaḥ tu sva-bimbam lokalocanam .. 11 ..
यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥
यत् मर्त्य-लीला-औपयिकम् स्व-योग माया-बलम् दर्शयता गृहीतम् । विस्मापनम् स्वस्य च सौभग-ऋद्धेः परम् पदम् भूषण-भूषण-अङ्गम् ॥ १२ ॥
yat martya-līlā-aupayikam sva-yoga māyā-balam darśayatā gṛhītam . vismāpanam svasya ca saubhaga-ṛddheḥ param padam bhūṣaṇa-bhūṣaṇa-aṅgam .. 12 ..
यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः । कार्त्स्न्येन चाद्येह गतं विधातुः अर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥
यत् धर्मसूनोः बत राजसूये निरीक्ष्य दृश्-स्वस्त्ययनम् त्रिलोकः । कार्त्स्न्येन च अद्य इह गतम् विधातुः अर्वाक् सृतौ कौशलम् इति अमन्यत ॥ १३ ॥
yat dharmasūnoḥ bata rājasūye nirīkṣya dṛś-svastyayanam trilokaḥ . kārtsnyena ca adya iha gatam vidhātuḥ arvāk sṛtau kauśalam iti amanyata .. 13 ..
यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४ ॥
यस्य अनुराग-प्लुत-हास-रास लीला-अवलोक-प्रतिलब्ध-मानाः । व्रजस्त्रियः दृग्भिः अनुप्रवृत्त धियः अवतस्थुः किल कृत्यशेषाः ॥ १४ ॥
yasya anurāga-pluta-hāsa-rāsa līlā-avaloka-pratilabdha-mānāḥ . vrajastriyaḥ dṛgbhiḥ anupravṛtta dhiyaḥ avatasthuḥ kila kṛtyaśeṣāḥ .. 14 ..
स्वशान्तरूपेष्वितरैः स्वरूपैः अभ्यर्द्यमानेष्वनुकम्पितात्मा । परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५ ॥
स्व-शान्त-रूपेषु इतरैः स्व-रूपैः अभ्यर्द्यमानेषु अनुकम्पित-आत्मा । परावर-ईशः महत्-अंश-युक्तः हि अजः अपि जातः भगवान् यथा अग्निः ॥ १५ ॥
sva-śānta-rūpeṣu itaraiḥ sva-rūpaiḥ abhyardyamāneṣu anukampita-ātmā . parāvara-īśaḥ mahat-aṃśa-yuktaḥ hi ajaḥ api jātaḥ bhagavān yathā agniḥ .. 15 ..
मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे । व्रजे च वासोऽरिभयादिव स्वयं पुराद् व्यवात्सीद् यत् अनन्तवीर्यः ॥ १६ ॥
माम् खेदयति एतत् अजस्य जन्म विडम्बनम् यत् वसुदेव-गेहे । व्रजे च वासः-अरि-भयात् इव स्वयम् पुरात् व्यवात्सीत् यत् अनन्त-वीर्यः ॥ १६ ॥
mām khedayati etat ajasya janma viḍambanam yat vasudeva-gehe . vraje ca vāsaḥ-ari-bhayāt iva svayam purāt vyavātsīt yat ananta-vīryaḥ .. 16 ..
दुनोति चेतः स्मरतो ममैतद् यदाह पादावभिवन्द्य पित्रोः । ताताम्ब कंसाद् उरुशंकितानां प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥
दुनोति चेतः स्मरतः मम एतत् यत् आह पादौ अभिवन्द्य पित्रोः । तात-अम्ब कंसात् उरु-शंकितानाम् प्रसीदतम् नः अकृत-निष्कृतीनाम् ॥ १७ ॥
dunoti cetaḥ smarataḥ mama etat yat āha pādau abhivandya pitroḥ . tāta-amba kaṃsāt uru-śaṃkitānām prasīdatam naḥ akṛta-niṣkṛtīnām .. 17 ..
को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान् विजिघ्रन् । यो विस्फुरद्भ्रूविटपेन भूमेः भारं कृतान्तेन तिरश्चकार ॥ १८ ॥
कः वा अमुष्य अङ्घ्रि-सरोज-रेणुम् विस्मर्तुम् ईशीत पुमान् विजिघ्रन् । यः विस्फुरत्-भ्रू-विटपेन भूमेः भारम् कृतान्तेन तिरस् चकार ॥ १८ ॥
kaḥ vā amuṣya aṅghri-saroja-reṇum vismartum īśīta pumān vijighran . yaḥ visphurat-bhrū-viṭapena bhūmeḥ bhāram kṛtāntena tiras cakāra .. 18 ..
दृष्टा भवद्भिः ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः । यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस्तद्विरहं सहेत ॥ १९ ॥
दृष्टा भवद्भिः ननु राजसूये चैद्यस्य कृष्णम् द्विषतः अपि सिद्धिः । याम् योगिनः संस्पृहयन्ति सम्यक् योगेन कः तद्-विरहम् सहेत ॥ १९ ॥
dṛṣṭā bhavadbhiḥ nanu rājasūye caidyasya kṛṣṇam dviṣataḥ api siddhiḥ . yām yoginaḥ saṃspṛhayanti samyak yogena kaḥ tad-viraham saheta .. 19 ..
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य ॥ २० ॥
तथा एव च अन्ये नर-लोक-वीराः ये आहवे कृष्ण-मुख-अरविन्दम् । नेत्रैः पिबन्तः नयन-अभिरामम् पार्थ-अस्त्र-पूताः पदम् आपुरस्य ॥ २० ॥
tathā eva ca anye nara-loka-vīrāḥ ye āhave kṛṣṇa-mukha-aravindam . netraiḥ pibantaḥ nayana-abhirāmam pārtha-astra-pūtāḥ padam āpurasya .. 20 ..
स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः । बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः ॥ २१ ॥
स्वयम् तु असाम्य-अतिशयः त्र्यधीशः स्वा-राज्य-लक्ष्मी-आप्त-समस्त-कामः । बलिम् हरद्भिः चिर-लोकपालैः किरीट-कोट्या ईडित-पाद-पीठः ॥ २१ ॥
svayam tu asāmya-atiśayaḥ tryadhīśaḥ svā-rājya-lakṣmī-āpta-samasta-kāmaḥ . balim haradbhiḥ cira-lokapālaiḥ kirīṭa-koṭyā īḍita-pāda-pīṭhaḥ .. 21 ..
तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् । तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति ॥ २२ ॥
तत् तस्य कैङ्कर्यम् अलम् भृतान् नः विग्लापयति अङ्ग यत् उग्रसेनम् । तिष्ठत् निषण्णम् परमेष्ठि-धिष्ण्ये न्यबोधयत् देव निधारय इति ॥ २२ ॥
tat tasya kaiṅkaryam alam bhṛtān naḥ viglāpayati aṅga yat ugrasenam . tiṣṭhat niṣaṇṇam parameṣṭhi-dhiṣṇye nyabodhayat deva nidhāraya iti .. 22 ..
अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी । लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ २३ ॥
अहो बकी यम् स्तन-कालकूटम् जिघांसया अपाययत् अपि असाध्वी । लेभे गतिम् धात्री-उचिताम् ततस् अन्यम् कम् वा दयालुम् शरणम् व्रजेम ॥ २३ ॥
aho bakī yam stana-kālakūṭam jighāṃsayā apāyayat api asādhvī . lebhe gatim dhātrī-ucitām tatas anyam kam vā dayālum śaraṇam vrajema .. 23 ..
मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् । ये संयुगेऽचक्षत तार्क्ष्यपुत्र मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥
मन्ये असुरान् भागवतान् त्र्यधीशे संरम्भ-मार्ग-अभिनिविष्ट-चित्तान् । ये संयुगे अचक्षत तार्क्ष्यपुत्र मंसे सुनाभ-आयुधम् आपतन्तम् ॥ २४ ॥
manye asurān bhāgavatān tryadhīśe saṃrambha-mārga-abhiniviṣṭa-cittān . ye saṃyuge acakṣata tārkṣyaputra maṃse sunābha-āyudham āpatantam .. 24 ..
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने । चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५ ॥
वसुदेवस्य देवक्याम् जातः भोजेन्द्र-बन्धने । चिकीर्षुः भगवान् अस्याः शमजेन अभियाचितः ॥ २५ ॥
vasudevasya devakyām jātaḥ bhojendra-bandhane . cikīrṣuḥ bhagavān asyāḥ śamajena abhiyācitaḥ .. 25 ..
ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता । एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६ ॥
ततस् नन्द-व्रज-मितः पित्रा कंसात् विबिभ्यता । एकादश समाः तत्र गूढ-अर्चिः सबलः अवसत् ॥ २६ ॥
tatas nanda-vraja-mitaḥ pitrā kaṃsāt vibibhyatā . ekādaśa samāḥ tatra gūḍha-arciḥ sabalaḥ avasat .. 26 ..
परीतो वत्सपैर्वत्सान् चारयन् व्यहरद्विभुः । यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे ॥ २७ ॥
परीतः वत्सपैः वत्सान् चारयन् व्यहरत् विभुः । यमुना-उपवने कूजत् द्विज-सङ्कुलित-अङ्घ्रिपे ॥ २७ ॥
parītaḥ vatsapaiḥ vatsān cārayan vyaharat vibhuḥ . yamunā-upavane kūjat dvija-saṅkulita-aṅghripe .. 27 ..
कौमारीं दर्शयन् चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्निव हसन्मुग्ध बालसिंहावलोकनः ॥ २८ ॥
कौमारीम् दर्शयन् चेष्टाम् प्रेक्षणीयाम् व्रजौकसाम् । रुदन् इव हसन् मुग्ध बाल-सिंह-अवलोकनः ॥ २८ ॥
kaumārīm darśayan ceṣṭām prekṣaṇīyām vrajaukasām . rudan iva hasan mugdha bāla-siṃha-avalokanaḥ .. 28 ..
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् । चारयन्ननुगान् गोपान् रणद् वेणुररीरमत् ॥ २९ ॥
सः एव गो-धनम् लक्ष्म्याः निकेतम् सित-गो-वृषम् । चारयन् अनुगान् गोपान् वेणुः अरीरमत् ॥ २९ ॥
saḥ eva go-dhanam lakṣmyāḥ niketam sita-go-vṛṣam . cārayan anugān gopān veṇuḥ arīramat .. 29 ..
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः । लीलया व्यनुदत्तान् तान् बालः क्रीडनकानिव ॥ ३० ॥
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः । लीलया व्यनुदत्तान् तान् बालः क्रीडनकान् इव ॥ ३० ॥
prayuktān bhojarājena māyinaḥ kāmarūpiṇaḥ . līlayā vyanudattān tān bālaḥ krīḍanakān iva .. 30 ..
विपन्नान् विषपानेन निगृह्य भुजगाधिपम् । उत्थाप्यापाययद् गावः तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥
विपन्नान् विष-पानेन निगृह्य भुजग-अधिपम् । उत्थाप्य अपाययत् गावः तत् तोयम् प्रकृति-स्थितम् ॥ ३१ ॥
vipannān viṣa-pānena nigṛhya bhujaga-adhipam . utthāpya apāyayat gāvaḥ tat toyam prakṛti-sthitam .. 31 ..
अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः । वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२ ॥
अयाजयत् गोसवेन गोप-राजम् द्विजोत्तमैः । वित्तस्य च उरु-भारस्य चिकीर्षन् सत्-व्ययम् विभुः ॥ ३२ ॥
ayājayat gosavena gopa-rājam dvijottamaiḥ . vittasya ca uru-bhārasya cikīrṣan sat-vyayam vibhuḥ .. 32 ..
वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः । गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥
वर्षति इन्द्रे व्रजः कोपात् भग्न-माने अति विह्वलः । गोत्र-लीला-आतपत्रेण त्रातः भद्र अनुगृह्णता ॥ ३३ ॥
varṣati indre vrajaḥ kopāt bhagna-māne ati vihvalaḥ . gotra-līlā-ātapatreṇa trātaḥ bhadra anugṛhṇatā .. 33 ..
शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् । गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४ ॥
शरच्छशि-करैः मृष्टम् मानयन् रजनीमुखम् । गायन् कल-पदम् रेमे स्त्रीणाम् मण्डल-मण्डनः ॥ ३४ ॥
śaracchaśi-karaiḥ mṛṣṭam mānayan rajanīmukham . gāyan kala-padam reme strīṇām maṇḍala-maṇḍanaḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे विदुर-उद्धव-संवादे द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe vidura-uddhava-saṃvāde dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In