| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः । कानि अन्वतिष्ठद् द्वाराणि मार्गाय अवर जन्मनाम् ॥ १ ॥
महीम् प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवः मनुः । कानि अन्वतिष्ठत् द्वाराणि मार्गाय अवर-जन्मनाम् ॥ १ ॥
mahīm pratiṣṭhām adhyasya saute svāyambhuvaḥ manuḥ . kāni anvatiṣṭhat dvārāṇi mārgāya avara-janmanām .. 1 ..
शौनक उवाच -
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् । यस्तत्याजाग्रजं कृष्णे सापत्यं अघवानिति ॥ २ ॥
क्षत्ता महा-भागवतः कृष्णस्य ऐकान्तिकः सुहृद् । यः तत्याज अग्रजम् कृष्णे सापत्यम् अघवान् इति ॥ २ ॥
kṣattā mahā-bhāgavataḥ kṛṣṇasya aikāntikaḥ suhṛd . yaḥ tatyāja agrajam kṛṣṇe sāpatyam aghavān iti .. 2 ..
द्वैपायनादनवरो महित्वे तस्य देहजः । सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३ ॥
द्वैपायनात् अनवरः महित्वे तस्य देहजः । सर्व-आत्मना श्रितः कृष्णम् तद्-परान् च अपि अनुव्रतः ॥ ३ ॥
dvaipāyanāt anavaraḥ mahitve tasya dehajaḥ . sarva-ātmanā śritaḥ kṛṣṇam tad-parān ca api anuvrataḥ .. 3 ..
किं अन्वपृच्छन् मैत्रेयं विरजास्तीर्थसेवया । उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥
किम् अन्वपृच्छत् मैत्रेयम् विरजाः तीर्थ-सेवया । उपगम्य कुशावर्ते आसीनम् तत्त्व-वित्तमम् ॥ ४ ॥
kim anvapṛcchat maitreyam virajāḥ tīrtha-sevayā . upagamya kuśāvarte āsīnam tattva-vittamam .. 4 ..
तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः । आपो गाङ्गा इवाघघ्नीः हरेः पादाम्बुजाश्रयाः ॥ ५ ॥
तयोः संवदतोः सूत प्रवृत्ताः हि अमलाः कथाः । आपः गाङ्गाः इव अघ-घ्नीः हरेः पाद-अम्बुज-आश्रयाः ॥ ५ ॥
tayoḥ saṃvadatoḥ sūta pravṛttāḥ hi amalāḥ kathāḥ . āpaḥ gāṅgāḥ iva agha-ghnīḥ hareḥ pāda-ambuja-āśrayāḥ .. 5 ..
ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः । रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥
ताः नः कीर्तय भद्रम् ते कीर्तन्य-उदार-कर्मणः । रसज्ञः कः नु तृप्येत हरि-लीला-अमृतम् पिबन् ॥ ६ ॥
tāḥ naḥ kīrtaya bhadram te kīrtanya-udāra-karmaṇaḥ . rasajñaḥ kaḥ nu tṛpyeta hari-līlā-amṛtam piban .. 6 ..
एवं उग्रश्रवाः पृष्ट ऋषिभिः नैमिषायनैः । भगवति अर्पिताध्यात्मः तान् आह श्रूयतामिति ॥ ७ ॥
एवम् उग्रश्रवाः पृष्ट ऋषिभिः नैमिषायनैः । भगवति अर्पित-अध्यात्मः तान् आह श्रूयताम् इति ॥ ७ ॥
evam ugraśravāḥ pṛṣṭa ṛṣibhiḥ naimiṣāyanaiḥ . bhagavati arpita-adhyātmaḥ tān āha śrūyatām iti .. 7 ..
हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात् । लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह भारतः ॥ ८ ॥
हरेः धृत-क्रोड-तनोः स्व-मायया निशम्य गोः उद्धरणम् रसातलात् । लीलाम् हिरण्याक्षम् अवज्ञया हतम् सञ्जात-हर्षः मुनिम् आह भारतः ॥ ८ ॥
hareḥ dhṛta-kroḍa-tanoḥ sva-māyayā niśamya goḥ uddharaṇam rasātalāt . līlām hiraṇyākṣam avajñayā hatam sañjāta-harṣaḥ munim āha bhārataḥ .. 8 ..
सूत उवाच -
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् । किं आरभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥
प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् । किम् आरभत मे ब्रह्मन् प्रब्रूहि अव्यक्त-मार्ग-विद् ॥ ९ ॥
prajāpati-patiḥ sṛṣṭvā prajā-sarge prajāpatīn . kim ārabhata me brahman prabrūhi avyakta-mārga-vid .. 9 ..
विदुर उवाच -
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः । ते वै ब्रह्मण आदेशात् कथं एतद् अभावयन् ॥ १० ॥
ये मरीचि-आदयः विप्राः यः तु स्वायम्भुवः मनुः । ते वै ब्रह्मणः आदेशात् कथम् एतत् अभावयन् ॥ १० ॥
ye marīci-ādayaḥ viprāḥ yaḥ tu svāyambhuvaḥ manuḥ . te vai brahmaṇaḥ ādeśāt katham etat abhāvayan .. 10 ..
सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु । आहो स्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११ ॥
स द्वितीयाः किम् असृजन् स्वतन्त्राः उत कर्मसु । आहो स्विद् संहताः सर्वे इदम् स्म समकल्पयन् ॥ ११ ॥
sa dvitīyāḥ kim asṛjan svatantrāḥ uta karmasu . āho svid saṃhatāḥ sarve idam sma samakalpayan .. 11 ..
दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जातक्षोभाद् भगवतो महान् आसीद् गुणत्रयात् ॥ १२ ॥
दैवेन दुर्वितर्क्येण परेण अनिमिषेण च । जात-क्षोभात् भगवतः महान् आसीत् गुण-त्रयात् ॥ १२ ॥
daivena durvitarkyeṇa pareṇa animiṣeṇa ca . jāta-kṣobhāt bhagavataḥ mahān āsīt guṇa-trayāt .. 12 ..
मैत्रेय उवाच -
रजःप्रधानान् महतः त्रिलिङ्गो दैवचोदितात् । जातः ससर्ज भूतादिः वियदादीनि पञ्चशः ॥ १३ ॥
रजः-प्रधानात् महतः त्रि-लिङ्गः दैव-चोदितात् । जातः ससर्ज भूतादिः वियदादीनि पञ्चशः ॥ १३ ॥
rajaḥ-pradhānāt mahataḥ tri-liṅgaḥ daiva-coditāt . jātaḥ sasarja bhūtādiḥ viyadādīni pañcaśaḥ .. 13 ..
तानि चैकैकशः स्रष्टुं असमर्थानि भौतिकम् । संहत्य दैवयोगेन हैमं अण्डं अवासृजन् ॥ १४ ॥
तानि च एकैकशस् स्रष्टुम् असमर्थानि भौतिकम् । संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् ॥ १४ ॥
tāni ca ekaikaśas sraṣṭum asamarthāni bhautikam . saṃhatya daiva-yogena haimam aṇḍam avāsṛjan .. 14 ..
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः । साग्रं वै वर्षसाहस्रं अन्ववात्सीत् तं ईश्वरः ॥ १५ ॥
सः अशयिष्ट अब्धि-सलिले आण्डकोशः निरात्मकः । साग्रम् वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः ॥ १५ ॥
saḥ aśayiṣṭa abdhi-salile āṇḍakośaḥ nirātmakaḥ . sāgram vai varṣa-sāhasram anvavātsīt tam īśvaraḥ .. 15 ..
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति । सर्वजीवनिकायौको यत्र स्वयं अभूत्स्वराट् ॥ १६ ॥
तस्य नाभेः अभूत् पद्मम् । सर्व-जीव-निकाय-ओकः यत्र स्वयम् अभूत् स्वराज् ॥ १६ ॥
tasya nābheḥ abhūt padmam . sarva-jīva-nikāya-okaḥ yatra svayam abhūt svarāj .. 16 ..
सोऽनुविष्टो भगवता यः शेते सलिलाशये । लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
सः अनुविष्टः भगवता यः शेते सलिलाशये । लोक-संस्थाम् यथा पूर्वम् निर्ममे संस्थया स्वया ॥ १७ ॥
saḥ anuviṣṭaḥ bhagavatā yaḥ śete salilāśaye . loka-saṃsthām yathā pūrvam nirmame saṃsthayā svayā .. 17 ..
ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः । तामिस्रं अन्धतामिस्रं तमो मोहो महातमः ॥ १८ ॥
ससर्ज छायया अविद्याम् पञ्च-पर्वाणम् अग्रतस् । तामिस्रम् अन्धतामिस्रम् तमः मोहः महातमः ॥ १८ ॥
sasarja chāyayā avidyām pañca-parvāṇam agratas . tāmisram andhatāmisram tamaḥ mohaḥ mahātamaḥ .. 18 ..
विससर्जात्मनः कायं नाभिनन्दन् तमोमयम् । जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९ ॥
विससर्ज आत्मनः कायम् न अभिनन्दन् तमः-मयम् । जगृहुः यक्ष-रक्षांसि रात्रिम् क्षुध्-तृष्-समुद्भवाम् ॥ १९ ॥
visasarja ātmanaḥ kāyam na abhinandan tamaḥ-mayam . jagṛhuḥ yakṣa-rakṣāṃsi rātrim kṣudh-tṛṣ-samudbhavām .. 19 ..
क्षुत्तृड्भ्यां उपसृष्टास्ते तं जग्धुमभिदुद्रुवुः । मा रक्षतैनं जक्षध्वं इति ऊचुः क्षुत्तृडर्दिताः ॥ २० ॥
क्षुध्-तृड्भ्याम् उपसृष्टाः ते तम् जग्धुम् अभिदुद्रुवुः । मा रक्षत एनम् जक्षध्वम् इति ऊचुः क्षुत्तृष्-अर्दिताः ॥ २० ॥
kṣudh-tṛḍbhyām upasṛṣṭāḥ te tam jagdhum abhidudruvuḥ . mā rakṣata enam jakṣadhvam iti ūcuḥ kṣuttṛṣ-arditāḥ .. 20 ..
देवस्तानाह संविग्नो मा मां जक्षत रक्षत । अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥
देवः तान् आह संविग्नः मा माम् जक्षत रक्षत । अहो मे यक्ष-रक्षांसि प्रजा यूयम् बभूविथ ॥ २१ ॥
devaḥ tān āha saṃvignaḥ mā mām jakṣata rakṣata . aho me yakṣa-rakṣāṃsi prajā yūyam babhūvitha .. 21 ..
देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् । ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२ ॥
देवताः प्रभया याः याः दीव्यन् प्रमुखतस् असृजत् । ते अहार्षुः देवयन्तः विसृष्टाम् ताम् प्रभाम् अहर् ॥ २२ ॥
devatāḥ prabhayā yāḥ yāḥ dīvyan pramukhatas asṛjat . te ahārṣuḥ devayantaḥ visṛṣṭām tām prabhām ahar .. 22 ..
देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् । ते एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
देवः अदेवान् जघनतस् सृजति स्म अति लोलुपान् । ते एनम् लोलुप-तया मैथुनाय अभिपेदिरे ॥ २३ ॥
devaḥ adevān jaghanatas sṛjati sma ati lolupān . te enam lolupa-tayā maithunāya abhipedire .. 23 ..
ततो हसन् स भगवान् असुरैर्निरपत्रपैः । अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥
ततस् हसन् स भगवान् असुरैः निरपत्रपैः । अन्वीयमानः तरसा क्रुद्धः भीतः परापतत् ॥ २४ ॥
tatas hasan sa bhagavān asuraiḥ nirapatrapaiḥ . anvīyamānaḥ tarasā kruddhaḥ bhītaḥ parāpatat .. 24 ..
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् । अनुग्रहाय भक्तानां अनुरूपात्मदर्शनम् ॥ २५ ॥
सः उपव्रज्य वर-दम् प्रपन्न-आर्ति-हरम् हरिम् । अनुग्रहाय भक्तानाम् अनुरूप-आत्म-दर्शनम् ॥ २५ ॥
saḥ upavrajya vara-dam prapanna-ārti-haram harim . anugrahāya bhaktānām anurūpa-ātma-darśanam .. 25 ..
पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः । ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥
पाहि माम् परमात्मन् ते प्रेषणेन असृजम् प्रजाः । ताः इमाः यभितुम् पापाः उपाक्रामन्ति माम् प्रभो ॥ २६ ॥
pāhi mām paramātman te preṣaṇena asṛjam prajāḥ . tāḥ imāḥ yabhitum pāpāḥ upākrāmanti mām prabho .. 26 ..
त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः । त्वमेकः क्लेशदस्तेषां अनासन्न पदां तव ॥ २७ ॥
त्वम् एकः किल लोकानाम् क्लिष्टानाम् क्लेश-नाशनः । त्वम् एकः क्लेश-दः तेषाम् अनासन्न पदाम् तव ॥ २७ ॥
tvam ekaḥ kila lokānām kliṣṭānām kleśa-nāśanaḥ . tvam ekaḥ kleśa-daḥ teṣām anāsanna padām tava .. 27 ..
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः । विमुञ्चात्मतनुं घोरां इत्युक्तो विमुमोच ह ॥ २८ ॥
सः अवधार्य अस्य कार्पण्यम् विविक्त-अध्यात्म-दर्शनः । विमुञ्च आत्म-तनुम् घोराम् इति उक्तः विमुमोच ह ॥ २८ ॥
saḥ avadhārya asya kārpaṇyam vivikta-adhyātma-darśanaḥ . vimuñca ātma-tanum ghorām iti uktaḥ vimumoca ha .. 28 ..
तां क्वणच्चरणाम्भोजां मदविह्वल लोचनाम् । काञ्चीकलापविलसद् दुकूलत् छन्न रोधसम् ॥ २९ ॥
ताम् क्वणत्-चरण-अम्भोजाम् मद-विह्वल लोचनाम् । रोधसम् ॥ २९ ॥
tām kvaṇat-caraṇa-ambhojām mada-vihvala locanām . rodhasam .. 29 ..
अन्योन्यश्लेषयोत्तुङ्ग निरन्तरपयोधराम् । सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम् ॥ ३० ॥
अन्योन्य-श्लेषया उत्तुङ्ग निरन्तर-पयोधराम् । सु नासाम् सु द्विजाम् स्निग्ध हास-लीला-अवलोकनाम् ॥ ३० ॥
anyonya-śleṣayā uttuṅga nirantara-payodharām . su nāsām su dvijām snigdha hāsa-līlā-avalokanām .. 30 ..
गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् । उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१ ॥
गूहन्तीम् व्रीडया आत्मानम् नील-अलक-वरूथिनीम् । उपलभ्य असुराः धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१ ॥
gūhantīm vrīḍayā ātmānam nīla-alaka-varūthinīm . upalabhya asurāḥ dharma sarve sammumuhuḥ striyam .. 31 ..
अहो रूपमहो धैर्यं अहो अस्या नवं वयः । मध्ये कामयमानानां अकामेव विसर्पति ॥ ३२ ॥
अहो रूपम् अहो धैर्यम् अहो अस्याः नवम् वयः । मध्ये कामयमानानाम् अकामा इव विसर्पति ॥ ३२ ॥
aho rūpam aho dhairyam aho asyāḥ navam vayaḥ . madhye kāmayamānānām akāmā iva visarpati .. 32 ..
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥
वितर्कयन्तः बहुधा ताम् सन्ध्याम् प्रमदा-आकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥
vitarkayantaḥ bahudhā tām sandhyām pramadā-ākṛtim . abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ .. 33 ..
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि । रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥
का असि कस्य असि रम्भा-ऊरु कः वा अर्थः ते अत्र भामिनि । रूप-द्रविण-पण्येन दुर्भगान् नः विबाधसे ॥ ३४ ॥
kā asi kasya asi rambhā-ūru kaḥ vā arthaḥ te atra bhāmini . rūpa-draviṇa-paṇyena durbhagān naḥ vibādhase .. 34 ..
या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव । उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५ ॥
या वा काचिद् त्वम् अबले दिष्ट्या सन्दर्शनम् तव । उत्सुनोषि ईक्षमाणानाम् कन्दुक-क्रीडया मनः ॥ ३५ ॥
yā vā kācid tvam abale diṣṭyā sandarśanam tava . utsunoṣi īkṣamāṇānām kanduka-krīḍayā manaḥ .. 35 ..
नैकत्र ते जयति शालिनि पादपद्मं घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् । मध्यं विषीदति बृहत्स्तनभारभीतं शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६ ॥
न एकत्र ते जयति शालिनि पाद-पद्मम् घ्नन्त्या मुहुर् कर-तलेन पतत्-पतङ्गम् । मध्यम् विषीदति बृहत्-स्तन-भार-भीतम् शान्ता इव दृष्टिः अमला सुशिखा-समूहः ॥ ३६ ॥
na ekatra te jayati śālini pāda-padmam ghnantyā muhur kara-talena patat-pataṅgam . madhyam viṣīdati bṛhat-stana-bhāra-bhītam śāntā iva dṛṣṭiḥ amalā suśikhā-samūhaḥ .. 36 ..
इति सायन्तनीं सन्ध्यां असुराः प्रमदायतीम् । प्रलोभयन्तीं जगृहुः मत्वा मूढधियः स्त्रियम् ॥ ३७ ॥
इति सायन्तनीम् सन्ध्याम् असुराः प्रमदायतीम् । प्रलोभयन्तीम् जगृहुः मत्वा मूढ-धियः स्त्रियम् ॥ ३७ ॥
iti sāyantanīm sandhyām asurāḥ pramadāyatīm . pralobhayantīm jagṛhuḥ matvā mūḍha-dhiyaḥ striyam .. 37 ..
प्रहस्य भावगम्भीरं जिघ्रन्ति आत्मानमात्मना । कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥
प्रहस्य भावगम्भीरम् जिघ्रन्ति आत्मानम् आत्मना । कान्त्या ससर्ज भगवान् गन्धर्व-अप्सरसाम् गणान् ॥ ३८ ॥
prahasya bhāvagambhīram jighranti ātmānam ātmanā . kāntyā sasarja bhagavān gandharva-apsarasām gaṇān .. 38 ..
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । ते एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९ ॥
विससर्ज तनुम् ताम् वै ज्योत्स्नाम् कान्तिमतीम् प्रियाम् । ते एव च आददुः प्रीत्या विश्वावसु-पुरोगमाः ॥ ३९ ॥
visasarja tanum tām vai jyotsnām kāntimatīm priyām . te eva ca ādaduḥ prītyā viśvāvasu-purogamāḥ .. 39 ..
सृष्ट्वा भूतपिशाचांश्च भगवान् आत्मतन्द्रिणा । दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥
सृष्ट्वा भूत-पिशाचान् च भगवान् । दिग्वाससः मुक्तकेशान् वीक्ष्य च आमीलयत् दृशौ ॥ ४० ॥
sṛṣṭvā bhūta-piśācān ca bhagavān . digvāsasaḥ muktakeśān vīkṣya ca āmīlayat dṛśau .. 40 ..
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः । निद्रां इन्द्रियविक्लेदो यया भूतेषु दृश्यते । येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥
जगृहुः तद्-विसृष्टाम् ताम् जृम्भण-आख्याम् तनुम् प्रभोः । निद्राम् इन्द्रिय-विक्लेदः यया भूतेषु दृश्यते । येन उच्छिष्टान् धर्षयन्ति तम् उन्मादम् प्रचक्षते ॥ ४१ ॥
jagṛhuḥ tad-visṛṣṭām tām jṛmbhaṇa-ākhyām tanum prabhoḥ . nidrām indriya-vikledaḥ yayā bhūteṣu dṛśyate . yena ucchiṣṭān dharṣayanti tam unmādam pracakṣate .. 41 ..
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः । साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२ ॥
ऊर्जस्वन्तम् मन्यमानः आत्मानम् भगवान् अजः । साध्यान् गणान् पितृ-गणान् परोक्षेण असृजत् प्रभुः ॥ ४२ ॥
ūrjasvantam manyamānaḥ ātmānam bhagavān ajaḥ . sādhyān gaṇān pitṛ-gaṇān parokṣeṇa asṛjat prabhuḥ .. 42 ..
ते आत्मसर्गं तं कायं पितरः प्रतिपेदिरे । साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥
ते आत्म-सर्गम् तम् कायम् पितरः प्रतिपेदिरे । साध्येभ्यः च पितृभ्यः च कवयः यत् वितन्वते ॥ ४३ ॥
te ātma-sargam tam kāyam pitaraḥ pratipedire . sādhyebhyaḥ ca pitṛbhyaḥ ca kavayaḥ yat vitanvate .. 43 ..
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् । तेभ्योऽददात् तं आत्मानं अन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥
सिद्धान् विद्याधरान् च एव तिरोधानेन सः असृजत् । तेभ्यः अददात् तम् आत्मानम् अन्तर्धान-आख्यम् अद्भुतम् ॥ ४४ ॥
siddhān vidyādharān ca eva tirodhānena saḥ asṛjat . tebhyaḥ adadāt tam ātmānam antardhāna-ākhyam adbhutam .. 44 ..
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः । मानयन्नात्मनात्मानं आत्माभासं विलोकयन् ॥ ४५ ॥
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येन असृजत् प्रभुः । मानयन् आत्मना आत्मानम् आत्म-आभासम् विलोकयन् ॥ ४५ ॥
sa kinnarān kimpuruṣān pratyātmyena asṛjat prabhuḥ . mānayan ātmanā ātmānam ātma-ābhāsam vilokayan .. 45 ..
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना । मिथुनीभूय गायन्तः तं एवोषसि कर्मभिः ॥ ४६ ॥
ते तु तत् जगृहुः रूपम् त्यक्तम् यत् परमेष्ठिना । मिथुनीभूय गायन्तः तम् एव उषसि कर्मभिः ॥ ४६ ॥
te tu tat jagṛhuḥ rūpam tyaktam yat parameṣṭhinā . mithunībhūya gāyantaḥ tam eva uṣasi karmabhiḥ .. 46 ..
देहेन वै भोगवता शयानो बहुचिन्तया । सर्गेऽनुपचिते क्रोधात् उत्ससर्ज ह तद्वपुः ॥ ४७ ॥
देहेन वै भोगवता शयानः बहु-चिन्तया । सर्गे अनुपचिते क्रोधात् उत्ससर्ज ह तद्-वपुः ॥ ४७ ॥
dehena vai bhogavatā śayānaḥ bahu-cintayā . sarge anupacite krodhāt utsasarja ha tad-vapuḥ .. 47 ..
येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८ ॥
ये अहीयन्त अमुतस् केशाः अहयः ते अङ्ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूराः नागाः भोग-ऊरु-कन्धराः ॥ ४८ ॥
ye ahīyanta amutas keśāḥ ahayaḥ te aṅga jajñire . sarpāḥ prasarpataḥ krūrāḥ nāgāḥ bhoga-ūru-kandharāḥ .. 48 ..
स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
सः आत्मानम् मन्यमानः कृतकृत्यम् इव आत्मभूः । तदा मनून् ससर्ज अन्ते मनसा लोक-भावनान् ॥ ४९ ॥
saḥ ātmānam manyamānaḥ kṛtakṛtyam iva ātmabhūḥ . tadā manūn sasarja ante manasā loka-bhāvanān .. 49 ..
तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥
तेभ्यः सः असृजत् स्वीयम् पुरम् पुरुषम् आत्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥
tebhyaḥ saḥ asṛjat svīyam puram puruṣam ātmavān . tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim .. 50 ..
अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे ॥ ५१ ॥
अहो एतत् जगत्स्रष्टर् सु कृतम् बत ते कृतम् । प्रतिष्ठिताः क्रियाः यस्मिन् साकम् अन्नम् अदाम हे ॥ ५१ ॥
aho etat jagatsraṣṭar su kṛtam bata te kṛtam . pratiṣṭhitāḥ kriyāḥ yasmin sākam annam adāma he .. 51 ..
तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥
तपसा विद्यया युक्तः योगेन सुसमाधिना । ऋषीन् ऋषिः हृषीकेशः ससर्ज अभिमताः प्रजाः ॥ ५२ ॥
tapasā vidyayā yuktaḥ yogena susamādhinā . ṛṣīn ṛṣiḥ hṛṣīkeśaḥ sasarja abhimatāḥ prajāḥ .. 52 ..
तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः । यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत् ॥ ५३ ॥
तेभ्यः च एकैकशस् स्वस्य देहस्य अंशम् अदात् अजः । यत् तत् समाधि-योग-ऋद्धि तपः-विद्या-विरक्तिमत् ॥ ५३ ॥
tebhyaḥ ca ekaikaśas svasya dehasya aṃśam adāt ajaḥ . yat tat samādhi-yoga-ṛddhi tapaḥ-vidyā-viraktimat .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विंशोऽध्यायः ॥ २० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे विंशः अध्यायः ॥ २० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In