| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

स्वायम्भुवस्य च मनोः वंशः परमसम्मतः । कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ १ ॥
स्वायम्भुवस्य च मनोः वंशः परम-सम्मतः । कथ्यताम् भगवन् यत्र मैथुनेन एधिरे प्रजाः ॥ १ ॥
svāyambhuvasya ca manoḥ vaṃśaḥ parama-sammataḥ . kathyatām bhagavan yatra maithunena edhire prajāḥ .. 1 ..
विदुर उवाच ।
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २ ॥
प्रियव्रत-उत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथाधर्मम् जुगुपतुः सप्त-द्वीपवतीम् महीम् ॥ २ ॥
priyavrata-uttānapādau sutau svāyambhuvasya vai . yathādharmam jugupatuḥ sapta-dvīpavatīm mahīm .. 2 ..
तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता । पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥
तस्य वै दुहिता ब्रह्मन् देवहूती इति विश्रुता । पत्नी प्रजापतेः उक्ता कर्दमस्य त्वया अनघ ॥ ३ ॥
tasya vai duhitā brahman devahūtī iti viśrutā . patnī prajāpateḥ uktā kardamasya tvayā anagha .. 3 ..
तस्यां स वै महायोगी युक्तायां योगलक्षणैः । ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥
तस्याम् स वै महा-योगी युक्तायाम् योग-लक्षणैः । ससर्ज कतिधा वीर्यम् तत् मे शुश्रूषवे वद ॥ ४ ॥
tasyām sa vai mahā-yogī yuktāyām yoga-lakṣaṇaiḥ . sasarja katidhā vīryam tat me śuśrūṣave vada .. 4 ..
रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः । यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥
रुचिः यः भगवान् ब्रह्मन् दक्षः वा ब्रह्मणः सुतः । यथा ससर्ज भूतानि लब्ध्वा भार्याम् च मानवीम् ॥ ५ ॥
ruciḥ yaḥ bhagavān brahman dakṣaḥ vā brahmaṇaḥ sutaḥ . yathā sasarja bhūtāni labdhvā bhāryām ca mānavīm .. 5 ..
प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः । सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥
प्रजाः सृज इति भगवान् कर्दमः ब्रह्मणा उदितः । सरस्वत्याम् तपः तेपे सहस्राणाम् समाः दश ॥ ६ ॥
prajāḥ sṛja iti bhagavān kardamaḥ brahmaṇā uditaḥ . sarasvatyām tapaḥ tepe sahasrāṇām samāḥ daśa .. 6 ..
मैत्रेय उवाच -
ततः समाधियुक्तेन क्रियायोगेन कर्दमः । सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥
ततस् समाधि-युक्तेन क्रिया-योगेन कर्दमः । सम्प्रपेदे हरिम् भक्त्या प्रपन्न-वरदा-शुषम् ॥ ७ ॥
tatas samādhi-yuktena kriyā-yogena kardamaḥ . samprapede harim bhaktyā prapanna-varadā-śuṣam .. 7 ..
तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८ ॥
तावत् प्रसन्नः भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तम् क्षत्तर् शाब्दम् ब्रह्म दधत् वपुः ॥ ८ ॥
tāvat prasannaḥ bhagavān puṣkarākṣaḥ kṛte yuge . darśayāmāsa tam kṣattar śābdam brahma dadhat vapuḥ .. 8 ..
स तं विरजमर्काभं सितपद्मोत्पलस्रजम् । स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥
स तम् विरजम् अर्क-आभम् सित-पद्म-उत्पल-स्रजम् । स्निग्ध-नील-अलक-व्रात वक्त्र-अब्जम् विरजः-अम्बरम् ॥ ९ ॥
sa tam virajam arka-ābham sita-padma-utpala-srajam . snigdha-nīla-alaka-vrāta vaktra-abjam virajaḥ-ambaram .. 9 ..
किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् । श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १० ॥
किरीटिनम् कुण्डलिनम् शङ्ख-चक्र-गदा-धरम् । श्वेत-उत्पल-क्रीडनकम् मनः-स्पर्श-स्मित-ईक्षणम् ॥ १० ॥
kirīṭinam kuṇḍalinam śaṅkha-cakra-gadā-dharam . śveta-utpala-krīḍanakam manaḥ-sparśa-smita-īkṣaṇam .. 10 ..
विन्यस्तचरणाम्भोजं अंसदेशे गरुत्मतः । दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् ॥ ११ ॥
विन्यस्त-चरण-अम्भोजम् अंस-देशे गरुत्मतः । दृष्ट्वा खे अवस्थितम् वक्षः श्रियम् कौस्तुभ-कन्धरम् ॥ ११ ॥
vinyasta-caraṇa-ambhojam aṃsa-deśe garutmataḥ . dṛṣṭvā khe avasthitam vakṣaḥ śriyam kaustubha-kandharam .. 11 ..
जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः । गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः ॥ १२ ॥
जात-हर्षः अपतत् मूर्ध्ना क्षितौ लब्ध-मनोरथः । गीर्भिः तु अभ्यगृणात् प्रीति स्वभाव-आत्मा कृताञ्जलिः ॥ १२ ॥
jāta-harṣaḥ apatat mūrdhnā kṣitau labdha-manorathaḥ . gīrbhiḥ tu abhyagṛṇāt prīti svabhāva-ātmā kṛtāñjaliḥ .. 12 ..
जुष्टं बताद्याखिलसत्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः । यद्दर्शनं जन्मभिरीड्य सद्भिः आशासते योगिनो रूढयोगाः ॥ १३ ॥
जुष्टम् बत अद्य अखिल-सत्त्व-राशेः सांसिध्यम् अक्ष्णोः तव दर्शनात् नः । यत् दर्शनम् जन्मभिः ईड्य सद्भिः आशासते योगिनः रूढ-योगाः ॥ १३ ॥
juṣṭam bata adya akhila-sattva-rāśeḥ sāṃsidhyam akṣṇoḥ tava darśanāt naḥ . yat darśanam janmabhiḥ īḍya sadbhiḥ āśāsate yoginaḥ rūḍha-yogāḥ .. 13 ..
ऋषिरुवाच -
ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम् । उपासते कामलवाय तेषां रासीश कामान् निरयेऽपि ये स्युः ॥ १४ ॥
ये मायया ते हतमेधसः त्वत् पाद-अरविन्दम् भव-सिन्धु-पोतम् । उपासते काम-लवाय तेषाम् रासि ईश कामान् निरये अपि ये स्युः ॥ १४ ॥
ye māyayā te hatamedhasaḥ tvat pāda-aravindam bhava-sindhu-potam . upāsate kāma-lavāya teṣām rāsi īśa kāmān niraye api ye syuḥ .. 14 ..
तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम् । उपेयिवान् मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य ॥ १५ ॥
तथा स च अहम् परिवोढु-कामः समान-शीलाम् गृहमेध-धेनुम् । उपेयिवान् मूलम् अशेष-मूलम् दुराशयः कामदुघा-अङ्घ्रिपस्य ॥ १५ ॥
tathā sa ca aham parivoḍhu-kāmaḥ samāna-śīlām gṛhamedha-dhenum . upeyivān mūlam aśeṣa-mūlam durāśayaḥ kāmadughā-aṅghripasya .. 15 ..
प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः । अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥
प्रजापतेः ते वचसा अधीश तन्त्या लोकः किल अयम् काम-हतः अनुबद्धः । अहम् च लोक-अनुगतः वहामि बलिम् च शुक्ल-अनिमिषाय तुभ्यम् ॥ १६ ॥
prajāpateḥ te vacasā adhīśa tantyā lokaḥ kila ayam kāma-hataḥ anubaddhaḥ . aham ca loka-anugataḥ vahāmi balim ca śukla-animiṣāya tubhyam .. 16 ..
लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम् । परस्परं त्वद्गुणवादसीधु पीयूषनिर्यापितदेहधर्माः ॥ १७ ॥
लोकान् च लोक-अनुगतान् पशून् च हित्वा श्रिताः ते चरण-आतपत्रम् । परस्परम् त्वद्-गुण-वाद-सीधु पीयूष-निर्यापित-देह-धर्माः ॥ १७ ॥
lokān ca loka-anugatān paśūn ca hitvā śritāḥ te caraṇa-ātapatram . parasparam tvad-guṇa-vāda-sīdhu pīyūṣa-niryāpita-deha-dharmāḥ .. 17 ..
न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व । षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥
न ते अजर-अक्ष-भ्रमिः आयुः एषाम् त्रयोदश-अरम् त्रिशतम् षष्टि-पर्व । षष्-नेमि-अनन्त-छदि यत् त्रिणाभि कराल-स्रोतः जगत् आच्छिद्य धावत् ॥ १८ ॥
na te ajara-akṣa-bhramiḥ āyuḥ eṣām trayodaśa-aram triśatam ṣaṣṭi-parva . ṣaṣ-nemi-ananta-chadi yat triṇābhi karāla-srotaḥ jagat ācchidya dhāvat .. 18 ..
एकः स्वयं सन्जगतः सिसृक्षया अद्वितीययात्मन् अधि योगमायया । सृजस्यदः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिः भगवन् स्वशक्तिभिः ॥ १९ ॥
एकः स्वयम् सन् जगतः सिसृक्षया अद्वितीयया आत्मन् अधि योगमायया । सृजसि अदः पासि पुनर् ग्रसिष्यसे यथा ऊर्णनाभिः भगवन् स्व-शक्तिभिः ॥ १९ ॥
ekaḥ svayam san jagataḥ sisṛkṣayā advitīyayā ātman adhi yogamāyayā . sṛjasi adaḥ pāsi punar grasiṣyase yathā ūrṇanābhiḥ bhagavan sva-śaktibhiḥ .. 19 ..
नैतद्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम् । अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या तनुवा विलक्षितः ॥ २० ॥
न एतत् बत अधीश पदम् तव ईप्सितम् यत् मायया नः तनुषे भूत-सूक्ष्मम् । अनुग्रहाय अस्तु अपि यर्हि मायया लसत्-तुलस्या तनुवा विलक्षितः ॥ २० ॥
na etat bata adhīśa padam tava īpsitam yat māyayā naḥ tanuṣe bhūta-sūkṣmam . anugrahāya astu api yarhi māyayā lasat-tulasyā tanuvā vilakṣitaḥ .. 20 ..
तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् । नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥
तम् त्वा अनुभूत्या उपरत-क्रिया-अर्थम् स्व-मायया वर्तित-लोकतन्त्रम् । नमामि अभीक्ष्णम् नमनीय-पाद सरोजम् अल्पीयसि काम-वर्षम् ॥ २१ ॥
tam tvā anubhūtyā uparata-kriyā-artham sva-māyayā vartita-lokatantram . namāmi abhīkṣṇam namanīya-pāda sarojam alpīyasi kāma-varṣam .. 21 ..
इत्यव्यलीकं प्रणुतोऽब्जनाभः तं आबभाषे वचसामृतेन । सुपर्णपक्षोपरि रोचमानः प्रेमस्मित उद्वीक्षणविभ्रमद्भ्रूः ॥ २२ ॥
इति अव्यलीकम् प्रणुतः अब्जनाभः तम् आबभाषे वचसा अमृतेन । सुपर्ण-पक्ष-उपरि रोचमानः प्रेम-स्मितः उद्वीक्षण-विभ्रमत्-भ्रूः ॥ २२ ॥
iti avyalīkam praṇutaḥ abjanābhaḥ tam ābabhāṣe vacasā amṛtena . suparṇa-pakṣa-upari rocamānaḥ prema-smitaḥ udvīkṣaṇa-vibhramat-bhrūḥ .. 22 ..
ऋषिरुवाच ।
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् । यदर्थं आत्मनियमैः त्वयैवाहं समर्चितः ॥ २३ ॥
विदित्वा तव चैत्यम् मे पुरा एव तत् । यद्-अर्थम् आत्म-नियमैः त्वया एव अहम् समर्चितः ॥ २३ ॥
viditvā tava caityam me purā eva tat . yad-artham ātma-niyamaiḥ tvayā eva aham samarcitaḥ .. 23 ..
श्रीभगवानुवाच -
न वै जातु मृषैव स्यात् प्रजाध्यक्ष मदर्हणम् । भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४ ॥
न वै जातु मृषा एव स्यात् प्रजाध्यक्ष मद्-अर्हणम् । भवद्विधेषु अतितराम् मयि सङ्गृभित-आत्मनाम् ॥ २४ ॥
na vai jātu mṛṣā eva syāt prajādhyakṣa mad-arhaṇam . bhavadvidheṣu atitarām mayi saṅgṛbhita-ātmanām .. 24 ..
प्रजापतिसुतः सम्राट् मनुर्विख्यातमङ्गलः । ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥
। ब्रह्मावर्तम् यः अधिवसन् शास्ति सप्त-अर्णवाम् महीम् ॥ २५ ॥
. brahmāvartam yaḥ adhivasan śāsti sapta-arṇavām mahīm .. 25 ..
स चेह विप्र राजर्षिः महिष्या शतरूपया । आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६ ॥
स च इह विप्र राजर्षिः महिष्या शतरूपया । आयास्यति दिदृक्षुः त्वाम् परश्वस् धर्म-कोविदः ॥ २६ ॥
sa ca iha vipra rājarṣiḥ mahiṣyā śatarūpayā . āyāsyati didṛkṣuḥ tvām paraśvas dharma-kovidaḥ .. 26 ..
आत्मजां असितापाङ्गीं वयःशीलगुणान्विताम् । मृगयन्तीं पतिं दास्यति अनुरूपाय ते प्रभो ॥ २७ ॥
आत्मजाम् असित-अपाङ्गीम् वयः-शील-गुण-अन्विताम् । मृगयन्तीम् पतिम् दास्यति अनुरूपाय ते प्रभो ॥ २७ ॥
ātmajām asita-apāṅgīm vayaḥ-śīla-guṇa-anvitām . mṛgayantīm patim dāsyati anurūpāya te prabho .. 27 ..
समाहितं ते हृदयं यत्र इमान् परिवत्सरान् । सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८ ॥
समाहितम् ते हृदयम् यत्र इमान् परिवत्सरान् । सा त्वाम् ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति ॥ २८ ॥
samāhitam te hṛdayam yatra imān parivatsarān . sā tvām brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyati .. 28 ..
या ते आत्मभृतं वीर्यं नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषय आधास्यन्ति अञ्जसात्मनः ॥ २९ ॥
या ते आत्म-भृतम् वीर्यम् नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषयः आधास्यन्ति अञ्जसा आत्मनः ॥ २९ ॥
yā te ātma-bhṛtam vīryam navadhā prasaviṣyati . vīrye tvadīye ṛṣayaḥ ādhāsyanti añjasā ātmanaḥ .. 29 ..
त्वं च सम्यग् अनुष्ठाय निदेशं मे उशत्तमः । मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥
त्वम् च सम्यक् अनुष्ठाय निदेशम् मे उशत्तमः । मयि तीर्थीकृत-अशेष क्रिया-अर्थः माम् प्रपत्स्यसे ॥ ३० ॥
tvam ca samyak anuṣṭhāya nideśam me uśattamaḥ . mayi tīrthīkṛta-aśeṣa kriyā-arthaḥ mām prapatsyase .. 30 ..
कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् । मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥
कृत्वा दयाम् च जीवेषु दत्त्वा च अभयम् आत्मवान् । मयि आत्मानम् सह जगत् द्रक्ष्यसि आत्मनि च अपि माम् ॥ ३१ ॥
kṛtvā dayām ca jīveṣu dattvā ca abhayam ātmavān . mayi ātmānam saha jagat drakṣyasi ātmani ca api mām .. 31 ..
सहाहं स्वांशकलया त्वद्वीर्येण महामुने । तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥
सह अहम् स्व-अंशकलया त्वद्-वीर्येण महा-मुने । तव क्षेत्रे देवहूत्याम् प्रणेष्ये तत्त्व-संहिताम् ॥ ३२ ॥
saha aham sva-aṃśakalayā tvad-vīryeṇa mahā-mune . tava kṣetre devahūtyām praṇeṣye tattva-saṃhitām .. 32 ..
एवं तं अनुभाष्याथ भगवान् प्रत्यगक्षजः । जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥
एवम् तम् अनुभाष्य अथ भगवान् प्रत्यक् अक्षजः । जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥
evam tam anubhāṣya atha bhagavān pratyak akṣajaḥ . jagāma bindusarasaḥ sarasvatyā pariśritāt .. 33 ..
मैत्रेय उवाच -
निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः । आकर्णयन् पत्ररथेन्द्रपक्षैः उच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥
निरीक्षतः तस्य सिद्धेश्वर-अभिष्टुत-सिद्ध-मार्गः । आकर्णयन् पत्ररथ-इन्द्र-पक्षैः उच्चारितम् स्तोमम् उदीर्ण-साम ॥ ३४ ॥
nirīkṣataḥ tasya siddheśvara-abhiṣṭuta-siddha-mārgaḥ . ākarṇayan patraratha-indra-pakṣaiḥ uccāritam stomam udīrṇa-sāma .. 34 ..
अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः । आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥
अथ सम्प्रस्थिते शुक्ले कर्दमः भगवान् ऋषिः । आस्ते स्म बिन्दुसरसि तम् कालम् प्रतिपालयन् ॥ ३५ ॥
atha samprasthite śukle kardamaḥ bhagavān ṛṣiḥ . āste sma bindusarasi tam kālam pratipālayan .. 35 ..
मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् । आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६ ॥
मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् । आरोप्य स्वाम् दुहितरम् स भार्यः पर्यटन् महीम् ॥ ३६ ॥
manuḥ syandanam āsthāya śātakaumbha-paricchadam . āropya svām duhitaram sa bhāryaḥ paryaṭan mahīm .. 36 ..
तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् । उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७ ॥
तस्मिन् सुधन्वन् अहनि भगवान् यत् समादिशत् । उपायात् आश्रम-पदम् मुनेः शान्त-व्रतस्य तत् ॥ ३७ ॥
tasmin sudhanvan ahani bhagavān yat samādiśat . upāyāt āśrama-padam muneḥ śānta-vratasya tat .. 37 ..
यस्मिन्भगवतो नेत्रान् न्यपतन् अश्रुबिन्दवः । कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥
यस्मिन् भगवतः नेत्रात् न्यपतन् अश्रु-बिन्दवः । कृपया सम्परीतस्य प्रपन्ने अर्पितया भृशम् ॥ ३८ ॥
yasmin bhagavataḥ netrāt nyapatan aśru-bindavaḥ . kṛpayā samparītasya prapanne arpitayā bhṛśam .. 38 ..
तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् । पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥
तत् वै बिन्दुसरः नाम सरस्वत्या परिप्लुतम् । पुण्यम् शिव-अमृत-जलम् महा-ऋषि-गण-सेवितम् ॥ ३९ ॥
tat vai bindusaraḥ nāma sarasvatyā pariplutam . puṇyam śiva-amṛta-jalam mahā-ṛṣi-gaṇa-sevitam .. 39 ..
पुण्यद्रुमलताजालैः कूजत् पुण्यमृगद्विजैः । सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥
पुण्य-द्रुम-लता-जालैः कूजत् पुण्य-मृग-द्विजैः । सर्व-ऋतु-फल-पुष्प-आढ्यम् वन-राजि-श्रिया अन्वितम् ॥ ४० ॥
puṇya-druma-latā-jālaiḥ kūjat puṇya-mṛga-dvijaiḥ . sarva-ṛtu-phala-puṣpa-āḍhyam vana-rāji-śriyā anvitam .. 40 ..
मत्त-द्विजगणैर्घुष्टं मत्तभ्रमर विभ्रमम् । मत्त-बर्हिनटाटोपं आह्वयन् मत्तकोकिलम् ॥ ४१ ॥
मत्त-द्विज-गणैः घुष्टम् मत्त-भ्रमर विभ्रमम् । मत्त-बर्हि-नट-आटोपम् आह्वयन् मत्त-कोकिलम् ॥ ४१ ॥
matta-dvija-gaṇaiḥ ghuṣṭam matta-bhramara vibhramam . matta-barhi-naṭa-āṭopam āhvayan matta-kokilam .. 41 ..
कदम्ब चम्पकाशोक करञ्ज बकुलासनैः । कुन्दमन्दारकुटजैः चूतपोतैः अलङ्कृतम् ॥ ४२ ॥
। कुन्द-मन्दार-कुटजैः चूत-पोतैः अलङ्कृतम् ॥ ४२ ॥
. kunda-mandāra-kuṭajaiḥ cūta-potaiḥ alaṅkṛtam .. 42 ..
कारण्डवैः प्लवैर्हंसैः कुररैः जलकुक्कुटैः । सारसैः चक्रवाकैश्च चकोरैः वल्गु कूजितम् ॥ ४३ ॥
कारण्डवैः प्लवैः हंसैः कुररैः जलकुक्कुटैः । सारसैः चक्रवाकैः च चकोरैः वल्गु कूजितम् ॥ ४३ ॥
kāraṇḍavaiḥ plavaiḥ haṃsaiḥ kuraraiḥ jalakukkuṭaiḥ . sārasaiḥ cakravākaiḥ ca cakoraiḥ valgu kūjitam .. 43 ..
तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः । गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम् ॥ ४४ ॥
तथा एव हरिणैः क्रोडैः श्वाविध्-गवय-कुञ्जरैः । गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिः वृतम् ॥ ४४ ॥
tathā eva hariṇaiḥ kroḍaiḥ śvāvidh-gavaya-kuñjaraiḥ . gopucchaiḥ haribhiḥ markaiḥ nakulaiḥ nābhibhiḥ vṛtam .. 44 ..
प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः । ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥
प्रविश्य तत् तीर्थ-वरम् आदिराजः सह आत्मजः । ददर्श मुनिम् आसीनम् तस्मिन् हुत-हुताशनम् ॥ ४५ ॥
praviśya tat tīrtha-varam ādirājaḥ saha ātmajaḥ . dadarśa munim āsīnam tasmin huta-hutāśanam .. 45 ..
विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्व्याहृतामृतकला पीयूषश्रवणेन च ॥ ४६ ॥
विद्योतमानम् वपुषा तपसि उग्र-युजा चिरम् । न अति क्षामम् भगवतः स्निग्ध-अपाङ्ग-अवलोकनात् । तद्-व्याहृत-अमृत-कला पीयूष-श्रवणेन च ॥ ४६ ॥
vidyotamānam vapuṣā tapasi ugra-yujā ciram . na ati kṣāmam bhagavataḥ snigdha-apāṅga-avalokanāt . tad-vyāhṛta-amṛta-kalā pīyūṣa-śravaṇena ca .. 46 ..
प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् । उपसंश्रित्य मलिनं यथार्हणं असंस्कृतम् ॥ ४७ ॥
प्रांशुम् पद्म-पलाश-अक्षम् जटिलम् चीर-वाससम् । उपसंश्रित्य मलिनम् यथार्हणम् अ संस्कृतम् ॥ ४७ ॥
prāṃśum padma-palāśa-akṣam jaṭilam cīra-vāsasam . upasaṃśritya malinam yathārhaṇam a saṃskṛtam .. 47 ..
अथोटजमुपायातं नृदेवं प्रणतं पुरः । सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ ४८ ॥
अथ उटजम् उपायातम् नृदेवम् प्रणतम् पुरस् । सपर्यया पर्यगृह्णात् प्रतिनन्द्य अनुरूपया ॥ ४८ ॥
atha uṭajam upāyātam nṛdevam praṇatam puras . saparyayā paryagṛhṇāt pratinandya anurūpayā .. 48 ..
गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः । स्मरन् भगवदादेशं इत्याह श्लक्ष्णया गिरा ॥ ४९ ॥
गृहीत-अर्हणम् आसीनम् संयतम् प्रीणयन् मुनिः । स्मरन् भगवत्-आदेशम् इति आह श्लक्ष्णया गिरा ॥ ४९ ॥
gṛhīta-arhaṇam āsīnam saṃyatam prīṇayan muniḥ . smaran bhagavat-ādeśam iti āha ślakṣṇayā girā .. 49 ..
नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५० ॥
नूनम् चङ्क्रमणम् देव सताम् संरक्षणाय ते । वधाय च असताम् यः त्वम् हरेः शक्तिः हि पालिनी ॥ ५० ॥
nūnam caṅkramaṇam deva satām saṃrakṣaṇāya te . vadhāya ca asatām yaḥ tvam hareḥ śaktiḥ hi pālinī .. 50 ..
योऽर्केन्दु अग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१ ॥
यः अर्क-इन्दु अग्नि-इन्द्र-वायूनाम् यम-धर्म-प्रचेतसाम् । रूपाणि स्थाने आधत्से तस्मै शुक्लाय ते नमः ॥ ५१ ॥
yaḥ arka-indu agni-indra-vāyūnām yama-dharma-pracetasām . rūpāṇi sthāne ādhatse tasmai śuklāya te namaḥ .. 51 ..
न यदा रथमास्थाय जैत्रं मणिगणार्पितम् । विस्फूर्जत् चण्डकोदण्डो रथेन त्रासयन् अघान् ॥ ५२ ॥
न यदा रथम् आस्थाय जैत्रम् मणि-गण-अर्पितम् । विस्फूर्जत् चण्ड-कोदण्डः रथेन त्रासयन् अघान् ॥ ५२ ॥
na yadā ratham āsthāya jaitram maṇi-gaṇa-arpitam . visphūrjat caṇḍa-kodaṇḍaḥ rathena trāsayan aghān .. 52 ..
स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः । विकर्षन् बृहतीं सेनां पर्यटसि अंशुमानिव ॥ ५३ ॥
स्व-सैन्य-चरण-क्षुण्णम् वेपयन् मण्डलम् भुवः । विकर्षन् बृहतीम् सेनाम् पर्यटसि अंशुमान् इव ॥ ५३ ॥
sva-sainya-caraṇa-kṣuṇṇam vepayan maṇḍalam bhuvaḥ . vikarṣan bṛhatīm senām paryaṭasi aṃśumān iva .. 53 ..
तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः । भगवद् रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥
तदा एव सेतवः सर्वे वर्ण-आश्रम-निबन्धनाः । भगवत् रचिताः राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥
tadā eva setavaḥ sarve varṇa-āśrama-nibandhanāḥ . bhagavat racitāḥ rājan bhidyeran bata dasyubhiḥ .. 54 ..
अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः । शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५ ॥
अधर्मः च समेधेत लोलुपैः व्यङ्कुशैः नृभिः । शयाने त्वयि लोकः अयम् दस्यु-ग्रस्तः विनङ्क्ष्यति ॥ ५५ ॥
adharmaḥ ca samedheta lolupaiḥ vyaṅkuśaiḥ nṛbhiḥ . śayāne tvayi lokaḥ ayam dasyu-grastaḥ vinaṅkṣyati .. 55 ..
अथापि पृच्छे त्वां वीर यदर्थं त्वं इहागतः । तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥
अथ अपि पृच्छे त्वाम् वीर यद्-अर्थम् त्वम् इह आगतः । तत् वयम् निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥
atha api pṛcche tvām vīra yad-artham tvam iha āgataḥ . tat vayam nirvyalīkena pratipadyāmahe hṛdā .. 56 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे एकविंशः अध्यायः ॥ २१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ekaviṃśaḥ adhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In