| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पितृभ्यां प्रस्थिते साध्वी पतिं इङ्कितकोविदा । नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ १ ॥
पितृभ्याम् प्रस्थिते साध्वी पतिम् इङ्कित-कोविदा । नित्यम् पर्यचरत् प्रीत्या भवानी इव भवम् प्रभुम् ॥ १ ॥
pitṛbhyām prasthite sādhvī patim iṅkita-kovidā . nityam paryacarat prītyā bhavānī iva bhavam prabhum .. 1 ..
मैत्रेय उवाच ।
विश्रम्भेणात्मशौचेन गौरवेण दमेन च । शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २ ॥
विश्रम्भेण आत्म-शौचेन गौरवेण दमेन च । शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २ ॥
viśrambheṇa ātma-śaucena gauraveṇa damena ca . śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ .. 2 ..
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् । अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३ ॥
विसृज्य कामम् दम्भम् च द्वेषम् लोभम् अघम् मदम् । अप्रमत्ता उद्यता नित्यम् तेजीयांसम् अतोषयत् ॥ ३ ॥
visṛjya kāmam dambham ca dveṣam lobham agham madam . apramattā udyatā nityam tejīyāṃsam atoṣayat .. 3 ..
स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् । दैवाद्गरीयसः पत्युः आशासानां महाशिषः ॥ ४ ॥
स वै देव-ऋषि-वर्यः ताम् मानवीम् समनुव्रताम् । दैवात् गरीयसः पत्युः आशासानाम् महा-आशिषः ॥ ४ ॥
sa vai deva-ṛṣi-varyaḥ tām mānavīm samanuvratām . daivāt garīyasaḥ patyuḥ āśāsānām mahā-āśiṣaḥ .. 4 ..
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया । प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ ५ ॥
कालेन भूयसा क्षामाम् कर्शिताम् व्रत-चर्यया । प्रेम-गद्गदया वाचा पीडितः कृपया अब्रवीत् ॥ ५ ॥
kālena bhūyasā kṣāmām karśitām vrata-caryayā . prema-gadgadayā vācā pīḍitaḥ kṛpayā abravīt .. 5 ..
तुष्टोऽहमद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या । यो देहिनामयमतीव सुहृत्स्वदेहो नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ ६ ॥
तुष्टः अहम् अद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या । यः देहिनाम् अयम् अतीव सुहृद् स्व-देहः न अवेक्षितः समुचितः क्षपितुम् मद्-अर्थे ॥ ६ ॥
tuṣṭaḥ aham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā . yaḥ dehinām ayam atīva suhṛd sva-dehaḥ na avekṣitaḥ samucitaḥ kṣapitum mad-arthe .. 6 ..
कर्दम उवाच -
ये मे स्वधर्मनिरतस्य तपःसमाधि विद्यात्मयोगविजिता भगवत्प्रसादाः । तानेव ते मदनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७ ॥
ये मे स्वधर्म-निरतस्य तपः-समाधि विद्या-आत्म-योग-विजिताः भगवत्-प्रसादाः । तान् एव ते मद्-अनुसेवनया अवरुद्धान् दृष्टिम् प्रपश्य वितरामि अभयान् अशोकान् ॥ ७ ॥
ye me svadharma-niratasya tapaḥ-samādhi vidyā-ātma-yoga-vijitāḥ bhagavat-prasādāḥ . tān eva te mad-anusevanayā avaruddhān dṛṣṭim prapaśya vitarāmi abhayān aśokān .. 7 ..
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ विभ्रंशितार्थरचनाः किमुरुक्रमस्य । सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान् दिव्यान् नरैर्दुरधिगान् नृपविक्रियाभिः ॥ ८ ॥
अन्ये पुनर् भगवतः भ्रुवः उद्विजृम्भ विभ्रंशित-अर्थ-रचनाः किम् उरुक्रमस्य । सिद्धा असि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् दिव्यान् नरैः दुरधिगान् नृप-विक्रियाभिः ॥ ८ ॥
anye punar bhagavataḥ bhruvaḥ udvijṛmbha vibhraṃśita-artha-racanāḥ kim urukramasya . siddhā asi bhuṅkṣva vibhavān nija-dharma-dohān divyān naraiḥ duradhigān nṛpa-vikriyābhiḥ .. 8 ..
एवं ब्रुवाणमबलाखिलयोगमाया विद्याविचक्षणमवेक्ष्य गताधिरासीत् । सम्प्रश्रयप्रणयविह्वलया गिरेषद् व्रीडावलोकविलसद् हसिताननाह ॥ ९ ॥
एवम् ब्रुवाणम् अबल-अखिल-योग-माया विद्या-विचक्षणम् अवेक्ष्य गत-आधिः आसीत् । सम्प्रश्रय-प्रणय-विह्वलया गिरा ईषत् व्रीडा-अवलोक-विलसत् हसित-आनना आह ॥ ९ ॥
evam bruvāṇam abala-akhila-yoga-māyā vidyā-vicakṣaṇam avekṣya gata-ādhiḥ āsīt . sampraśraya-praṇaya-vihvalayā girā īṣat vrīḍā-avaloka-vilasat hasita-ānanā āha .. 9 ..
राद्धं बत द्विजवृषैतदमोघयोग मायाधिपे त्वयि विभो तदवैमि भर्तः । यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥ १० ॥
राद्धम् बत द्विज-वृष एतत् अमोघ-योग माया-अधिपे त्वयि विभो तत् अवैमि भर्तर् । यः ते अभ्यधायि समयः सकृत् अङ्गसङ्गः भूयात् गरीयसि गुणः प्रसवः सतीनाम् ॥ १० ॥
rāddham bata dvija-vṛṣa etat amogha-yoga māyā-adhipe tvayi vibho tat avaimi bhartar . yaḥ te abhyadhāyi samayaḥ sakṛt aṅgasaṅgaḥ bhūyāt garīyasi guṇaḥ prasavaḥ satīnām .. 10 ..
तत्रेतिकृत्यमुपशिक्ष यथोपदेशं येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा । सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११ ॥
तत्र इति कृत्यम् उपशिक्ष यथोपदेशम् येन एष मे कर्शितः अति रिरंसया आत्मा । सिद्ध्येत ते कृत-मनोभव-धर्षितायाः दीनः तद्-ईश भवनम् सदृशम् विचक्ष्व ॥ ११ ॥
tatra iti kṛtyam upaśikṣa yathopadeśam yena eṣa me karśitaḥ ati riraṃsayā ātmā . siddhyeta te kṛta-manobhava-dharṣitāyāḥ dīnaḥ tad-īśa bhavanam sadṛśam vicakṣva .. 11 ..
प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः । विमानं कामगं क्षत्तः तर्ह्येवाविरचीकरत् ॥ १२ ॥
प्रियायाः प्रियम् अन्विच्छन् कर्दमः योगम् आस्थितः । विमानम् कामगम् क्षत्तर् तर्हि एव अ विरचीकरत् ॥ १२ ॥
priyāyāḥ priyam anvicchan kardamaḥ yogam āsthitaḥ . vimānam kāmagam kṣattar tarhi eva a viracīkarat .. 12 ..
मैत्रेय उवाच -
सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् । सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३ ॥
सर्व-काम-दुघम् दिव्यम् सर्व-रत्न-समन्वितम् । सर्व-ऋद्धि-उपचय-उदर्कम् मणि-स्तम्भैः उपस्कृतम् ॥ १३ ॥
sarva-kāma-dugham divyam sarva-ratna-samanvitam . sarva-ṛddhi-upacaya-udarkam maṇi-stambhaiḥ upaskṛtam .. 13 ..
दिव्योपकरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिः विचित्राभिः अलङ्कृतम् ॥ १४ ॥
दिव्य-उपकरण-उपेतम् सर्व-काल-सुख-आवहम् । पट्टिकाभिः पताकाभिः विचित्राभिः अलङ्कृतम् ॥ १४ ॥
divya-upakaraṇa-upetam sarva-kāla-sukha-āvaham . paṭṭikābhiḥ patākābhiḥ vicitrābhiḥ alaṅkṛtam .. 14 ..
स्रग्भिर्विचित्रमाल्याभिः मञ्जुशिञ्जत् षडङ्घ्रिभिः । दुकूलक्षौमकौशेयैः नानावस्त्रैः विराजितम् ॥ १५ ॥
स्रग्भिः विचित्र-माल्याभिः मञ्जु-शिञ्जत् षष्-अङ्घ्रिभिः । दुकूल-क्षौम-कौशेयैः नाना वस्त्रैः विराजितम् ॥ १५ ॥
sragbhiḥ vicitra-mālyābhiḥ mañju-śiñjat ṣaṣ-aṅghribhiḥ . dukūla-kṣauma-kauśeyaiḥ nānā vastraiḥ virājitam .. 15 ..
उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक् । क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ १६ ॥
उपरि उपरि विन्यस्त-निलयेषु पृथक् पृथक् । क्षिप्तैः कशिपुभिः कान्तम् पर्यङ्क-व्यजन-आसनैः ॥ १६ ॥
upari upari vinyasta-nilayeṣu pṛthak pṛthak . kṣiptaiḥ kaśipubhiḥ kāntam paryaṅka-vyajana-āsanaiḥ .. 16 ..
तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ १७ ॥
तत्र तत्र विनिक्षिप्त-नाना शिल्प-उपशोभितम् । महा-मरकत-स्थल्या जुष्टम् विद्रुम-वेदिभिः ॥ १७ ॥
tatra tatra vinikṣipta-nānā śilpa-upaśobhitam . mahā-marakata-sthalyā juṣṭam vidruma-vedibhiḥ .. 17 ..
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् । शिखरेषु इन्द्रनीलेषु हेमकुम्भैः अधिश्रितम् ॥ १८ ॥
द्वाःसु विद्रुम-देहल्या भातम् वज्र-कपाट-वत् । शिखरेषु इन्द्रनीलेषु हेमकुम्भैः अधिश्रितम् ॥ १८ ॥
dvāḥsu vidruma-dehalyā bhātam vajra-kapāṭa-vat . śikhareṣu indranīleṣu hemakumbhaiḥ adhiśritam .. 18 ..
चक्षुष्मत् पद्मरागाग्र्यैः वज्रभित्तिषु निर्मितैः । जुष्टं विचित्रवैतानैः महार्हैः हेमतोरणैः ॥ १९ ॥
चक्षुष्मत् पद्मराग-अग्र्यैः वज्र-भित्तिषु निर्मितैः । जुष्टम् विचित्र-वैतानैः महार्हैः हेम-तोरणैः ॥ १९ ॥
cakṣuṣmat padmarāga-agryaiḥ vajra-bhittiṣu nirmitaiḥ . juṣṭam vicitra-vaitānaiḥ mahārhaiḥ hema-toraṇaiḥ .. 19 ..
हंसपारावतव्रातैः तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥ २० ॥
हंस-पारावत-व्रातैः तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वान् अधिरुह्य अधिरुह्य च ॥ २० ॥
haṃsa-pārāvata-vrātaiḥ tatra tatra nikūjitam . kṛtrimān manyamānaiḥ svān adhiruhya adhiruhya ca .. 20 ..
विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः । यथोपजोषं रचितैः विस्मापनम् इवात्मनः ॥ २१ ॥
विहार-स्थान-विश्राम-संवेश-प्राङ्गण-अजिरैः । यथोपजोषम् रचितैः विस्मापनम् इव आत्मनः ॥ २१ ॥
vihāra-sthāna-viśrāma-saṃveśa-prāṅgaṇa-ajiraiḥ . yathopajoṣam racitaiḥ vismāpanam iva ātmanaḥ .. 21 ..
ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा । सर्वभूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ २२ ॥
ईदृश् गृहम् तत् पश्यन्तीम् न अति प्रीतेन चेतसा । सर्व-भूत-आशय-अभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ २२ ॥
īdṛś gṛham tat paśyantīm na ati prītena cetasā . sarva-bhūta-āśaya-abhijñaḥ prāvocat kardamaḥ svayam .. 22 ..
निमज्ज्यास्मिन् ह्रदे भीरु विमानं इदमारुह । इदं शुक्लकृतं तीर्थं आशिषां यापकं नृणाम् ॥ २३ ॥
निमज्ज्य अस्मिन् ह्रदे भीरु विमानम् इदम् आरुह । इदम् शुक्ल-कृतम् तीर्थम् आशिषाम् यापकम् नृणाम् ॥ २३ ॥
nimajjya asmin hrade bhīru vimānam idam āruha . idam śukla-kṛtam tīrtham āśiṣām yāpakam nṛṇām .. 23 ..
सा तद्भर्तुः समादाय वचः कुवलयेक्षणा । सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४ ॥
सा तद्-भर्तुः समादाय वचः कुवलय-ईक्षणा । सरजम् बिभ्रती वासः वेणी-भूतान् च मूर्धजान् ॥ २४ ॥
sā tad-bhartuḥ samādāya vacaḥ kuvalaya-īkṣaṇā . sarajam bibhratī vāsaḥ veṇī-bhūtān ca mūrdhajān .. 24 ..
अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् । आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ २५ ॥
अङ्गम् च मल-पङ्केन सञ्छन्नम् शबल-स्तनम् । आविवेश सरस्वत्याः सरः शिव-जलाशयम् ॥ २५ ॥
aṅgam ca mala-paṅkena sañchannam śabala-stanam . āviveśa sarasvatyāḥ saraḥ śiva-jalāśayam .. 25 ..
सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः । सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ॥ २६ ॥
स अन्तर् सरसि वेश्म-स्थाः शतानि दश कन्यकाः । सर्वाः किशोर-वयसः ददर्श उत्पल-गन्धयः ॥ २६ ॥
sa antar sarasi veśma-sthāḥ śatāni daśa kanyakāḥ . sarvāḥ kiśora-vayasaḥ dadarśa utpala-gandhayaḥ .. 26 ..
तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः । वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ॥ २७ ॥
ताम् दृष्ट्वा सहसा उत्थाय प्रोचुः प्राञ्जलयः स्त्रियः । वयम् कर्मकरीः तुभ्यम् शाधि नः करवाम किम् ॥ २७ ॥
tām dṛṣṭvā sahasā utthāya procuḥ prāñjalayaḥ striyaḥ . vayam karmakarīḥ tubhyam śādhi naḥ karavāma kim .. 27 ..
स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् । दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः ॥ २८ ॥
स्नानेन ताम् महार्हेण स्नापयित्वा मनस्विनीम् । दुकूले निर्मले नूत्ने ददुः अस्यै च मानदाः ॥ २८ ॥
snānena tām mahārheṇa snāpayitvā manasvinīm . dukūle nirmale nūtne daduḥ asyai ca mānadāḥ .. 28 ..
भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च । अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९ ॥
भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च । अन्नम् सर्व-गुण-उपेतम् पानम् च एव अमृत-आसवम् ॥ २९ ॥
bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca . annam sarva-guṇa-upetam pānam ca eva amṛta-āsavam .. 29 ..
अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् । विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥
अथ आदर्शे स्वम् आत्मानम् स्रग्विणम् विरज-अम्बरम् । विरजम् कृत-स्वस्त्ययनम् कन्याभिः बहु-मानितम् ॥ ३० ॥
atha ādarśe svam ātmānam sragviṇam viraja-ambaram . virajam kṛta-svastyayanam kanyābhiḥ bahu-mānitam .. 30 ..
स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् । निष्कग्रीवं वलयिनं कूजत् काञ्चननूपुरम् ॥ ३१ ॥
स्नातम् कृत-शिरःस्नानम् सर्व-आभरण-भूषितम् । निष्क-ग्रीवम् वलयिनम् कूजत् काञ्चन-नूपुरम् ॥ ३१ ॥
snātam kṛta-śiraḥsnānam sarva-ābharaṇa-bhūṣitam . niṣka-grīvam valayinam kūjat kāñcana-nūpuram .. 31 ..
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया । हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥
श्रोण्योः अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया । हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥
śroṇyoḥ adhyastayā kāñcyā kāñcanyā bahu-ratnayā . hāreṇa ca mahārheṇa rucakena ca bhūṣitam .. 32 ..
सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा । पद्मकोशस्पृधा नीलैः अलकैश्च लसन्मुखम् ॥ ३३ ॥
सु दता सु भ्रुवा श्लक्ष्ण स्निग्ध-अपाङ्गेन चक्षुषा । नीलैः अलकैः च लसत्-मुखम् ॥ ३३ ॥
su datā su bhruvā ślakṣṇa snigdha-apāṅgena cakṣuṣā . nīlaiḥ alakaiḥ ca lasat-mukham .. 33 ..
यदा सस्मार ऋषभं ऋषीणां दयितं पतिम् । तत्र चास्ते सह स्त्रीभिः यत्रास्ते स प्रजापतिः ॥ ३४ ॥
यदा सस्मार ऋषभम् ऋषीणाम् दयितम् पतिम् । तत्र च आस्ते सह स्त्रीभिः यत्र आस्ते स प्रजापतिः ॥ ३४ ॥
yadā sasmāra ṛṣabham ṛṣīṇām dayitam patim . tatra ca āste saha strībhiḥ yatra āste sa prajāpatiḥ .. 34 ..
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा । निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५ ॥
भर्तुः पुरस्तात् आत्मानम् स्त्री-सहस्र-वृतम् तदा । निशाम्य तद्-योग-गतिम् संशयम् प्रत्यपद्यत ॥ ३५ ॥
bhartuḥ purastāt ātmānam strī-sahasra-vṛtam tadā . niśāmya tad-yoga-gatim saṃśayam pratyapadyata .. 35 ..
स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६ ॥
स ताम् कृत-मल-स्नानाम् विभ्राजन्तीम् अपूर्ववत् । आत्मनः बिभ्रतीम् रूपम् संवीत-रुचिर-स्तनीम् ॥ ३६ ॥
sa tām kṛta-mala-snānām vibhrājantīm apūrvavat . ātmanaḥ bibhratīm rūpam saṃvīta-rucira-stanīm .. 36 ..
विद्याधरीसहस्रेण सेव्यमानां सुवाससम् । जातभावो विमानं तद् आरोहयद् अमित्रहन् ॥ ३७ ॥
विद्याधरी-सहस्रेण सेव्यमानाम् सु वाससम् । जात-भावः विमानम् तत् आरोहयत् अमित्र-हन् ॥ ३७ ॥
vidyādharī-sahasreṇa sevyamānām su vāsasam . jāta-bhāvaḥ vimānam tat ārohayat amitra-han .. 37 ..
तस्मिन् अलुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने । बभ्राज उत्कचकुमुद्गणवानपीच्यः ताराभिरावृत इव उडुपतिः नभःस्थः ॥ ३८ ॥
तस्मिन् अलुप्त-महिमा प्रियया अनुरक्तः विद्याधरीभिः उपचीर्ण-वपुः-विमाने । बभ्राजे उत्कच-कुमुद्-गण-वानपीच्यः ताराभिः आवृतः इव उडुपतिः नभःस्थः ॥ ३८ ॥
tasmin alupta-mahimā priyayā anuraktaḥ vidyādharībhiḥ upacīrṇa-vapuḥ-vimāne . babhrāje utkaca-kumud-gaṇa-vānapīcyaḥ tārābhiḥ āvṛtaḥ iva uḍupatiḥ nabhaḥsthaḥ .. 38 ..
तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणीष्वनङ्गसखमारुतसौभगासु । सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी ॥ ३९ ॥
तेन अष्ट-लोक-पविहार-कुल-अचल-इन्द्र द्रोणीषु अनङ्ग-सख-मारुत-सौभगासु । सिद्धैः नुतः द्युधु-निपात-शिव-स्वनासु रेमे चिरम् ॥ ३९ ॥
tena aṣṭa-loka-pavihāra-kula-acala-indra droṇīṣu anaṅga-sakha-māruta-saubhagāsu . siddhaiḥ nutaḥ dyudhu-nipāta-śiva-svanāsu reme ciram .. 39 ..
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ४० ॥
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ४० ॥
vaiśrambhake surasane nandane puṣpabhadrake . mānase caitrarathye ca sa reme rāmayā rataḥ .. 40 ..
भ्राजिष्णुना विमानेन कामगेन महीयसा । वैमानिकानत्यशेत चरन् लोकान् यथानिलः ॥ ४१ ॥
भ्राजिष्णुना विमानेन कामगेन महीयसा । वैमानिकान् अत्यशेत चरन् लोकान् यथा अनिलः ॥ ४१ ॥
bhrājiṣṇunā vimānena kāmagena mahīyasā . vaimānikān atyaśeta caran lokān yathā anilaḥ .. 41 ..
किं दुरापादनं तेषां पुंसां उद्दामचेतसाम् । यैराश्रितस्तीर्थपदः चरणो व्यसनात्ययः ॥ ४२ ॥
किम् दुरापादनम् तेषाम् पुंसाम् उद्दाम-चेतसाम् । यैः आश्रितः तीर्थ-पदः चरणः व्यसन-अत्ययः ॥ ४२ ॥
kim durāpādanam teṣām puṃsām uddāma-cetasām . yaiḥ āśritaḥ tīrtha-padaḥ caraṇaḥ vyasana-atyayaḥ .. 42 ..
प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया । बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३ ॥
प्रेक्षयित्वा भुवः गोलम् पत्न्यै यावान् स्व-संस्थया । बहु-आश्चर्यम् महा-योगी स्व-आश्रमाय न्यवर्तत ॥ ४३ ॥
prekṣayitvā bhuvaḥ golam patnyai yāvān sva-saṃsthayā . bahu-āścaryam mahā-yogī sva-āśramāya nyavartata .. 43 ..
विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ ४४ ॥
विभज्य नवधा आत्मानम् मानवीम् सुरत-उत्सुकाम् । रामाम् निरमयन् रेमे वर्ष-पूगान् मुहूर्त-वत् ॥ ४४ ॥
vibhajya navadhā ātmānam mānavīm surata-utsukām . rāmām niramayan reme varṣa-pūgān muhūrta-vat .. 44 ..
तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता । न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५ ॥
तस्मिन् विमाने उत्कृष्टाम् शय्याम् रतिकरीम् श्रिता । न च अबुध्यत तम् कालम् पत्या आपीच्येन सङ्ग-ता ॥ ४५ ॥
tasmin vimāne utkṛṣṭām śayyām ratikarīm śritā . na ca abudhyata tam kālam patyā āpīcyena saṅga-tā .. 45 ..
एवं योगानुभावेन दम्पत्यो रममाणयोः । शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ॥ ४६ ॥
एवम् योग-अनुभावेन दम्पत्योः रममाणयोः । शतम् व्यतीयुः शरदः काम-लालसयोः मनाक् ॥ ४६ ॥
evam yoga-anubhāvena dampatyoḥ ramamāṇayoḥ . śatam vyatīyuḥ śaradaḥ kāma-lālasayoḥ manāk .. 46 ..
तस्यां आधत्त रेतस्तां भावयन् आत्मनाऽऽत्मवित् । नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः ॥ ४७ ॥
तस्याम् आधत्त रेतः ताम् भावयन् आत्मना आत्म-विद् । नोधाः विधाय रूपम् स्वम् सर्व-सङ्कल्प-विद् विभुः ॥ ४७ ॥
tasyām ādhatta retaḥ tām bhāvayan ātmanā ātma-vid . nodhāḥ vidhāya rūpam svam sarva-saṅkalpa-vid vibhuḥ .. 47 ..
अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः । सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ ४८ ॥
अतस् सा सुषुवे सद्यस् देव-हूतिः स्त्रियः प्रजाः । सर्वाः ताः चारु-सर्व-अङ्ग्यः लोहित-उत्पल-गन्धयः ॥ ४८ ॥
atas sā suṣuve sadyas deva-hūtiḥ striyaḥ prajāḥ . sarvāḥ tāḥ cāru-sarva-aṅgyaḥ lohita-utpala-gandhayaḥ .. 48 ..
पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती बहिः । स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥
पतिम् सा प्रव्रजिष्यन्तम् तदा आलक्ष्य उशती बहिस् । स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥
patim sā pravrajiṣyantam tadā ālakṣya uśatī bahis . smayamānā viklavena hṛdayena vidūyatā .. 49 ..
लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया । उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ ५० ॥
लिखन्ती अधोमुखी भूमिम् पदा नखमणि-श्रिया । उवाच ललिताम् वाचम् निरुध्य अश्रु-कलाम् शनैस् ॥ ५० ॥
likhantī adhomukhī bhūmim padā nakhamaṇi-śriyā . uvāca lalitām vācam nirudhya aśru-kalām śanais .. 50 ..
सर्वं तद्भगवान् मह्यं उपोवाह प्रतिश्रुतम् । अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१ ॥
सर्वम् तत् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् । अथ अपि मे प्रपन्नायै अभयम् दातुम् अर्हसि ॥ ५१ ॥
sarvam tat bhagavān mahyam upovāha pratiśrutam . atha api me prapannāyai abhayam dātum arhasi .. 51 ..
देवहूतिरुवाच -
ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः । कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥
ब्रह्मन् दुहितृभिः तुभ्यम् विमृग्याः पतयः समाः । कश्चिद् स्यात् मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥
brahman duhitṛbhiḥ tubhyam vimṛgyāḥ patayaḥ samāḥ . kaścid syāt me viśokāya tvayi pravrajite vanam .. 52 ..
एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो । इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ ५३ ॥
एतावता अलम् कालेन व्यतिक्रान्तेन मे प्रभो । इन्द्रिय-अर्थ-प्रसङ्गेन परित्यक्त-परात्मनः ॥ ५३ ॥
etāvatā alam kālena vyatikrāntena me prabho . indriya-artha-prasaṅgena parityakta-parātmanaḥ .. 53 ..
इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः । अजानन्त्या परं भावं तथाप्यस्तु अभयाय मे ॥ ५४ ॥
इन्द्रिय-अर्थेषु सज्जन्त्या प्रसङ्गः त्वयि मे कृतः । अ जानन्त्या परम् भावम् तथा अपि अस्तु अभयाय मे ॥ ५४ ॥
indriya-artheṣu sajjantyā prasaṅgaḥ tvayi me kṛtaḥ . a jānantyā param bhāvam tathā api astu abhayāya me .. 54 ..
सङ्गो यः संसृतेर्हेतुः असत्सु विहितोऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ५५ ॥
सङ्गः यः संसृतेः हेतुः असत्सु विहितः अधिया । सः एव साधुषु कृतः निःसङ्ग-त्वाय कल्पते ॥ ५५ ॥
saṅgaḥ yaḥ saṃsṛteḥ hetuḥ asatsu vihitaḥ adhiyā . saḥ eva sādhuṣu kṛtaḥ niḥsaṅga-tvāya kalpate .. 55 ..
नेह यत्कर्म धर्माय न विरागाय कल्पते । न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥ ५६ ॥
न इह यत् कर्म धर्माय न विरागाय कल्पते । न तीर्थ-पद-सेवायै जीवन् अपि मृतः हि सः ॥ ५६ ॥
na iha yat karma dharmāya na virāgāya kalpate . na tīrtha-pada-sevāyai jīvan api mṛtaḥ hi saḥ .. 56 ..
साहं भगवतो नूनं वञ्चिता मायया दृढम् । यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७ ॥
सा अहम् भगवतः नूनम् वञ्चिता मायया दृढम् । यत् त्वाम् विमुक्ति-दम् प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७ ॥
sā aham bhagavataḥ nūnam vañcitā māyayā dṛḍham . yat tvām vimukti-dam prāpya na mumukṣeya bandhanāt .. 57 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe trayoviṃśaḥ adhyāyaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In