| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः । दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
निर्वेद-वादिनीम् एवम् मनोः दुहितरम् मुनिः । दयालुः शालिनीम् आह शुक्ल-अभिव्याहृतम् स्मरन् ॥ १ ॥
nirveda-vādinīm evam manoḥ duhitaram muniḥ . dayāluḥ śālinīm āha śukla-abhivyāhṛtam smaran .. 1 ..
मैत्रेय उवाच -
मा खिदो राजपुत्रीत्थं आत्मानं प्रत्यनिन्दिते । भगवान् तेऽक्षरो गर्भं अदूरात्सम्प्रपत्स्यते ॥ २ ॥
मा खिदः राज-पुत्रि इत्थम् आत्मानम् प्रत्यनिन्दिते । भगवान् ते अक्षरः गर्भम् अदूरात् सम्प्रपत्स्यते ॥ २ ॥
mā khidaḥ rāja-putri ittham ātmānam pratyanindite . bhagavān te akṣaraḥ garbham adūrāt samprapatsyate .. 2 ..
ऋषिरुवाच -
धृतव्रतासि भद्रं ते दमेन नियमेन च । तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥
धृतव्रता असि भद्रम् ते दमेन नियमेन च । तपः-द्रविण-दानैः च श्रद्धया च ईश्वरम् भज ॥ ३ ॥
dhṛtavratā asi bhadram te damena niyamena ca . tapaḥ-draviṇa-dānaiḥ ca śraddhayā ca īśvaram bhaja .. 3 ..
स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः । छेत्ता ते हृदयग्रन्थिं औदर्यो ब्रह्मभावनः ॥ ४ ॥
स त्वया आराधितः शुक्लः वितन्वन् मामकम् यशः । छेत्ता ते हृदय-ग्रन्थिम् औदर्यः ब्रह्म-भावनः ॥ ४ ॥
sa tvayā ārādhitaḥ śuklaḥ vitanvan māmakam yaśaḥ . chettā te hṛdaya-granthim audaryaḥ brahma-bhāvanaḥ .. 4 ..
देवहूत्यपि सन्देशं गौरवेण प्रजापतेः । सम्यक् श्रद्धाय पुरुषं कूटस्थं अभजद्गुरुम् ॥ ५ ॥
देवहूती अपि सन्देशम् गौरवेण प्रजापतेः । सम्यक् श्रद्धाय पुरुषम् कूटस्थम् अभजत् गुरुम् ॥ ५ ॥
devahūtī api sandeśam gauraveṇa prajāpateḥ . samyak śraddhāya puruṣam kūṭastham abhajat gurum .. 5 ..
मैत्रेय उवाच -
तस्यां बहुतिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
तस्याम् बहुतिथे काले भगवान् मधुसूदनः । कार्दमम् वीर्यम् आपन्नः जज्ञे अग्निः इव दारुणि ॥ ६ ॥
tasyām bahutithe kāle bhagavān madhusūdanaḥ . kārdamam vīryam āpannaḥ jajñe agniḥ iva dāruṇi .. 6 ..
अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः । गायन्ति तं स्म गन्धर्वा नृत्यन्ति अप्सरसो मुदा ॥ ७ ॥
अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः । गायन्ति तम् स्म गन्धर्वाः नृत्यन्ति अप्सरसः मुदा ॥ ७ ॥
avādayan tadā vyomni vāditrāṇi ghanāghanāḥ . gāyanti tam sma gandharvāḥ nṛtyanti apsarasaḥ mudā .. 7 ..
पेतुः सुमनसो दिव्याः खेचरैः अपवर्जिताः । प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८ ॥
पेतुः सुमनसः दिव्याः खेचरैः अपवर्जिताः । प्रसेदुः च दिशः सर्वाः अम्भांसि च मनांसि च ॥ ८ ॥
petuḥ sumanasaḥ divyāḥ khecaraiḥ apavarjitāḥ . praseduḥ ca diśaḥ sarvāḥ ambhāṃsi ca manāṃsi ca .. 8 ..
तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् । स्वयम्भूः साकं ऋषिभिः मरीच्यादिभिरभ्ययात् ॥ ९ ॥
तत् कर्दम-आश्रम-पदम् सरस्वत्या परिश्रितम् । स्वयम्भूः साकम् ऋषिभिः मरीचि-आदिभिः अभ्ययात् ॥ ९ ॥
tat kardama-āśrama-padam sarasvatyā pariśritam . svayambhūḥ sākam ṛṣibhiḥ marīci-ādibhiḥ abhyayāt .. 9 ..
भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥
भगवन्तम् परम् ब्रह्म सत्त्वेन अंशेन शत्रु-हन् । तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातम् विद्वान् अजः स्वराज् ॥ १० ॥
bhagavantam param brahma sattvena aṃśena śatru-han . tattva-saṅkhyāna-vijñaptyai jātam vidvān ajaḥ svarāj .. 10 ..
सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् । प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११ ॥
सभाजयन् विशुद्धेन चेतसा तद्-चिकीर्षितम् । प्रहृष्यमाणैः असुभिः कर्दमम् च इदम् अभ्यधात् ॥ ११ ॥
sabhājayan viśuddhena cetasā tad-cikīrṣitam . prahṛṣyamāṇaiḥ asubhiḥ kardamam ca idam abhyadhāt .. 11 ..
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः । यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥
त्वया मे अपचितिः तात कल्पिता निर्व्यलीकतः । यत् मे सञ्जगृहे वाक्यम् भवान् मानद मानयन् ॥ १२ ॥
tvayā me apacitiḥ tāta kalpitā nirvyalīkataḥ . yat me sañjagṛhe vākyam bhavān mānada mānayan .. 12 ..
ब्रह्मोवाच -
एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः । बाढं इति अनुमन्येत गौरवेण गुरोर्वचः ॥ १३ ॥
एतावती एव शुश्रूषा कार्या पितरि पुत्रकैः । बाढम् इति अनुमन्येत गौरवेण गुरोः वचः ॥ १३ ॥
etāvatī eva śuśrūṣā kāryā pitari putrakaiḥ . bāḍham iti anumanyeta gauraveṇa guroḥ vacaḥ .. 13 ..
इमा दुहितरः सभ्य तव वत्स सुमध्यमाः । सर्गमेतं प्रभावैः स्वैः बृंहयिष्यन्ति अनेकधा ॥ १४ ॥
इमाः दुहितरः सभ्य तव वत्स सुमध्यमाः । सर्गम् एतम् प्रभावैः स्वैः बृंहयिष्यन्ति अनेकधा ॥ १४ ॥
imāḥ duhitaraḥ sabhya tava vatsa sumadhyamāḥ . sargam etam prabhāvaiḥ svaiḥ bṛṃhayiṣyanti anekadhā .. 14 ..
अतस्त्वं ऋषिमुख्येभ्यो यथाशीलं यथारुचि । आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥
अतस् त्वम् ऋषि-मुख्येभ्यः यथाशीलम् यथारुचि । आत्मजाः परिदेहि अद्य विस्तृणीहि यशः भुवि ॥ १५ ॥
atas tvam ṛṣi-mukhyebhyaḥ yathāśīlam yathāruci . ātmajāḥ paridehi adya vistṛṇīhi yaśaḥ bhuvi .. 15 ..
वेदाहमाद्यं पुरुषं अवतीर्णं स्वमायया । भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥
वेद अहम् आद्यम् पुरुषम् अवतीर्णम् स्व-मायया । भूतानाम् शेवधिम् देहम् बिभ्राणम् कपिलम् मुने ॥ १६ ॥
veda aham ādyam puruṣam avatīrṇam sva-māyayā . bhūtānām śevadhim deham bibhrāṇam kapilam mune .. 16 ..
ज्ञानविज्ञानयोगेन कर्मणां उद्धरन्जटाः । हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७ ॥
ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः । हिरण्य-केशः पद्म-अक्षः पद्म-मुद्रा-पद-अम्बुजः ॥ १७ ॥
jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ . hiraṇya-keśaḥ padma-akṣaḥ padma-mudrā-pada-ambujaḥ .. 17 ..
एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः । अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥
एष मानवि ते गर्भम् प्रविष्टः कैटभ-अर्दनः । अविद्या-संशय-ग्रन्थिम् छित्त्वा गाम् विचरिष्यति ॥ १८ ॥
eṣa mānavi te garbham praviṣṭaḥ kaiṭabha-ardanaḥ . avidyā-saṃśaya-granthim chittvā gām vicariṣyati .. 18 ..
अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः । लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥
अयम् सिद्ध-गण-अधीशः साङ्ख्य-आचार्यैः सु सम्मतः । लोके कपिलः इति आख्याम् गन्ता ते कीर्ति-वर्धनः ॥ १९ ॥
ayam siddha-gaṇa-adhīśaḥ sāṅkhya-ācāryaiḥ su sammataḥ . loke kapilaḥ iti ākhyām gantā te kīrti-vardhanaḥ .. 19 ..
तौ आवाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः । हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥
तौ आवाश्वास्य जगत्स्रष्टा कुमारैः सह नारदः । हंसः हंसेन यानेन त्रिधाम् अपरमम् ययौ ॥ २० ॥
tau āvāśvāsya jagatsraṣṭā kumāraiḥ saha nāradaḥ . haṃsaḥ haṃsena yānena tridhām aparamam yayau .. 20 ..
मैत्रेय उवाच -
गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः । यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१ ॥
गते शतधृतौ क्षत्तर् कर्दमः तेन चोदितः । यथा उदितम् स्व-दुहितॄः प्रादात् विश्वसृजाम् ततस् ॥ २१ ॥
gate śatadhṛtau kṣattar kardamaḥ tena coditaḥ . yathā uditam sva-duhitṝḥ prādāt viśvasṛjām tatas .. 21 ..
मरीचये कलां प्रादाद् अनसूयां अथात्रये । श्रद्धां अङ्गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ २२ ॥
मरीचये कलाम् प्रादात् अनसूयाम् अथ अत्रये । श्रद्धाम् अङ्गिरसे अयच्छत् पुलस्त्याय हविः-भुवम् ॥ २२ ॥
marīcaye kalām prādāt anasūyām atha atraye . śraddhām aṅgirase ayacchat pulastyāya haviḥ-bhuvam .. 22 ..
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् । ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥
पुलहाय गतिम् युक्ताम् क्रतवे च क्रियाम् सतीम् । ख्यातिम् च भृगवे अयच्छत् वसिष्ठाय अपि अरुन्धतीम् ॥ २३ ॥
pulahāya gatim yuktām kratave ca kriyām satīm . khyātim ca bhṛgave ayacchat vasiṣṭhāya api arundhatīm .. 23 ..
अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते । विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥
अथर्वणे अददात् शान्तिम् यया यज्ञः वितन्यते । विप्र-ऋषभान् कृत-उद्वाहान् स दारान् समलालयत् ॥ २४ ॥
atharvaṇe adadāt śāntim yayā yajñaḥ vitanyate . vipra-ṛṣabhān kṛta-udvāhān sa dārān samalālayat .. 24 ..
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् । प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रम मण्डलम् ॥ २५ ॥
ततस् ते ऋषयः क्षत्तर् कृतदाराः निमन्त्र्य तम् । प्रातिष्ठत् नन्दिम् आपन्नाः स्वम् स्वम् आश्रम-मण्डलम् ॥ २५ ॥
tatas te ṛṣayaḥ kṣattar kṛtadārāḥ nimantrya tam . prātiṣṭhat nandim āpannāḥ svam svam āśrama-maṇḍalam .. 25 ..
स चावतीर्णं त्रियुगं आज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
स च अवतीर्णम् त्रि-युगम् आज्ञाय विबुध-ऋषभम् । विविक्तः उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
sa ca avatīrṇam tri-yugam ājñāya vibudha-ṛṣabham . viviktaḥ upasaṅgamya praṇamya samabhāṣata .. 26 ..
अहो पापच्यमानानां निरये स्वैरमङ्गलैः । कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७ ॥
अहो पापच्यमानानाम् निरये स्वैर-मङ्गलैः । कालेन भूयसा नूनम् प्रसीदन्ति इह देवताः ॥ २७ ॥
aho pāpacyamānānām niraye svaira-maṅgalaiḥ . kālena bhūyasā nūnam prasīdanti iha devatāḥ .. 27 ..
बहुजन्मविपक्वेन सम्यग् योगसमाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८ ॥
बहु-जन्म-विपक्वेन सम्यक् योग-समाधिना । द्रष्टुम् यतन्ते यतयः शून्य-आगारेषु यत् पदम् ॥ २८ ॥
bahu-janma-vipakvena samyak yoga-samādhinā . draṣṭum yatante yatayaḥ śūnya-āgāreṣu yat padam .. 28 ..
स एव भगवानद्य हेलनं न गणय्य नः । गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९ ॥
सः एव भगवान् अद्य हेलनम् न गणय्य नः । गृहेषु जातः ग्राम्याणाम् यः स्वानाम् पक्ष-पोषणः ॥ २९ ॥
saḥ eva bhagavān adya helanam na gaṇayya naḥ . gṛheṣu jātaḥ grāmyāṇām yaḥ svānām pakṣa-poṣaṇaḥ .. 29 ..
स्वीयं वाक्यमृतं कर्तुमं अतीर्णोऽसि मे गृहे । चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३० ॥
स्वीयम् वाक्यम् ऋतम् अ तीर्णः असि मे गृहे । चिकीर्षुः भगवान् ज्ञानम् भक्तानाम् मान-वर्धनः ॥ ३० ॥
svīyam vākyam ṛtam a tīrṇaḥ asi me gṛhe . cikīrṣuḥ bhagavān jñānam bhaktānām māna-vardhanaḥ .. 30 ..
तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । यानि यानि च रोचन्ते स्वजनानां अरूपिणः ॥ ३१ ॥
तानि एव ते अभिरूपाणि रूपाणि भगवन् तव । यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥ ३१ ॥
tāni eva te abhirūpāṇi rūpāṇi bhagavan tava . yāni yāni ca rocante sva-janānām arūpiṇaḥ .. 31 ..
त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् । ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥
त्वाम् सूरिभिः तत्त्व-बुभुत्सया अद्धा सदा अभिवाद-अर्हण-पाद-पीठम् । ऐश्वर्य-वैराग्य-यशः-अवबोध वीर्य-श्रिया पूर्तम् अहम् प्रपद्ये ॥ ३२ ॥
tvām sūribhiḥ tattva-bubhutsayā addhā sadā abhivāda-arhaṇa-pāda-pīṭham . aiśvarya-vairāgya-yaśaḥ-avabodha vīrya-śriyā pūrtam aham prapadye .. 32 ..
परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥
परम् प्रधानम् पुरुषम् महान्तम् कालम् कविम् त्रिवृतम् लोकपालम् । आत्म-अनुभूत्या अनुगत-प्रपञ्चम् स्वच्छन्द-शक्तिम् कपिलम् प्रपद्ये ॥ ३३ ॥
param pradhānam puruṣam mahāntam kālam kavim trivṛtam lokapālam . ātma-anubhūtyā anugata-prapañcam svacchanda-śaktim kapilam prapadye .. 33 ..
आ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः । परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४ ॥
आ स्म अभिपृच्छे अद्य पतिम् प्रजानाम् त्वया अवतीर्ण-ऋणः उत आप्त-कामः । परिव्रजत्-पदवीम् आस्थितः अहम् चरिष्ये त्वाम् हृदि युञ्जन् विशोकः ॥ ३४ ॥
ā sma abhipṛcche adya patim prajānām tvayā avatīrṇa-ṛṇaḥ uta āpta-kāmaḥ . parivrajat-padavīm āsthitaḥ aham cariṣye tvām hṛdi yuñjan viśokaḥ .. 34 ..
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके । अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
मया प्रोक्तम् हि लोकस्य प्रमाणम् सत्य-लौकिके । अथा अजनि मया तुभ्यम् यत् अवोचम् ऋतम् मुने ॥ ३५ ॥
mayā proktam hi lokasya pramāṇam satya-laukike . athā ajani mayā tubhyam yat avocam ṛtam mune .. 35 ..
श्रीभगवानुवाच -
एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् । प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥
एतत् मे जन्म लोके अस्मिन् मुमुक्षूणाम् दुराशयात् । प्रसङ्ख्यानाय तत्त्वानाम् सम्मताय आत्म-दर्शने ॥ ३६ ॥
etat me janma loke asmin mumukṣūṇām durāśayāt . prasaṅkhyānāya tattvānām sammatāya ātma-darśane .. 36 ..
एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा । तं प्रवर्तयितुं देहं इमं विद्धि मया भृतम् ॥ ३७ ॥
एषः आत्म-पथः अव्यक्तः नष्टः कालेन भूयसा । तम् प्रवर्तयितुम् देहम् इमम् विद्धि मया भृतम् ॥ ३७ ॥
eṣaḥ ātma-pathaḥ avyaktaḥ naṣṭaḥ kālena bhūyasā . tam pravartayitum deham imam viddhi mayā bhṛtam .. 37 ..
गच्छ कामं मयाऽऽपृष्टो मयि सन्न्यस्तकर्मणा । जित्वा सुदुर्जयं मृत्युं अमृतत्वाय मां भज ॥ ३८ ॥
गच्छ कामम् मया आपृष्टः मयि सन्न्यस्त-कर्मणा । जित्वा सु दुर्जयम् मृत्युम् अमृत-त्वाय माम् भज ॥ ३८ ॥
gaccha kāmam mayā āpṛṣṭaḥ mayi sannyasta-karmaṇā . jitvā su durjayam mṛtyum amṛta-tvāya mām bhaja .. 38 ..
मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् । आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥
माम् आत्मानम् स्वयम् ज्योतिः सर्व-भूत-गुहा-आशयम् । आत्मनि एव आत्मना वीक्ष्य विशोकः अभयम् ऋच्छसि ॥ ३९ ॥
mām ātmānam svayam jyotiḥ sarva-bhūta-guhā-āśayam . ātmani eva ātmanā vīkṣya viśokaḥ abhayam ṛcchasi .. 39 ..
मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥
मात्रे आध्यात्मिकीम् विद्याम् शमनीम् सर्व-कर्मणाम् । वितरिष्ये यया च असौ भयम् च अतितरिष्यति ॥ ४० ॥
mātre ādhyātmikīm vidyām śamanīm sarva-karmaṇām . vitariṣye yayā ca asau bhayam ca atitariṣyati .. 40 ..
एवं समुदितस्तेन कपिलेन प्रजापतिः । दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥
एवम् समुदितः तेन कपिलेन प्रजापतिः । दक्षिणीकृत्य तम् प्रीतः वनम् एव जगाम ह ॥ ४१ ॥
evam samuditaḥ tena kapilena prajāpatiḥ . dakṣiṇīkṛtya tam prītaḥ vanam eva jagāma ha .. 41 ..
मैत्रेय उवाच -
व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ ४२ ॥
व्रतम् सः आस्थितः मौनम् आत्म-एक-शरणः मुनिः । निःसङ्गः व्यचरत् क्षोणीम् अनग्निः अनिकेतनः ॥ ४२ ॥
vratam saḥ āsthitaḥ maunam ātma-eka-śaraṇaḥ muniḥ . niḥsaṅgaḥ vyacarat kṣoṇīm anagniḥ aniketanaḥ .. 42 ..
मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् । गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥
मनः ब्रह्मणि युञ्जानः यत् तत् सत्-असतः परम् । गुण-अवभासे विगुणे एक-भक्त्या अनुभाविते ॥ ४३ ॥
manaḥ brahmaṇi yuñjānaḥ yat tat sat-asataḥ param . guṇa-avabhāse viguṇe eka-bhaktyā anubhāvite .. 43 ..
निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४ ॥
निरहङ्कृतिः निर्ममः च निर्द्वन्द्वः समदृश् स्वदृश् । प्रत्यक्-प्रशान्त-धीः धीरः प्रशान्त-ऊर्मिः इव उदधिः ॥ ४४ ॥
nirahaṅkṛtiḥ nirmamaḥ ca nirdvandvaḥ samadṛś svadṛś . pratyak-praśānta-dhīḥ dhīraḥ praśānta-ūrmiḥ iva udadhiḥ .. 44 ..
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५ ॥
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्ति-भावेन लब्ध-आत्मा मुक्त-बन्धनः ॥ ४५ ॥
vāsudeve bhagavati sarvajñe pratyagātmani . pareṇa bhakti-bhāvena labdha-ātmā mukta-bandhanaḥ .. 45 ..
आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
आत्मानम् सर्व-भूतेषु भगवन्तम् अवस्थितम् । अपश्यत् सर्व-भूतानि भगवति अपि च आत्मनि ॥ ४६ ॥
ātmānam sarva-bhūteṣu bhagavantam avasthitam . apaśyat sarva-bhūtāni bhagavati api ca ātmani .. 46 ..
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७ ॥
इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा । भगवत्-भक्ति-युक्तेन प्राप्ता भागवती गतिः ॥ ४७ ॥
icchā-dveṣa-vihīnena sarvatra sama-cetasā . bhagavat-bhakti-yuktena prāptā bhāgavatī gatiḥ .. 47 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे चतुर्विंशः अध्यायः ॥ २४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe caturviṃśaḥ adhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In