| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया । जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम् ॥ १ ॥
कपिलः तत्त्व-सङ्ख्याता भगवान् आत्म-मायया । जातः स्वयम् अजः साक्षात् आत्म-प्रज्ञप्तये नृणाम् ॥ १ ॥
kapilaḥ tattva-saṅkhyātā bhagavān ātma-māyayā . jātaḥ svayam ajaḥ sākṣāt ātma-prajñaptaye nṛṇām .. 1 ..
शौनक उवाच ।
न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥
न हि अस्य वर्ष्मणः पुंसाम् वरिम्णः सर्व-योगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मे असवः ॥ २ ॥
na hi asya varṣmaṇaḥ puṃsām varimṇaḥ sarva-yoginām . viśrutau śrutadevasya bhūri tṛpyanti me asavaḥ .. 2 ..
यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया । तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥
यत् यत् विधत्ते भगवान् स्वच्छन्द-आत्मा आत्म-मायया । तानि मे श्रद्दधानस्य कीर्तन्यानि अनुकीर्तय ॥ ३ ॥
yat yat vidhatte bhagavān svacchanda-ātmā ātma-māyayā . tāni me śraddadhānasya kīrtanyāni anukīrtaya .. 3 ..
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा । प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥
द्वैपायन-सखः तु एवम् मैत्रेयः भगवान् तथा । प्राह इदम् विदुरम् प्रीतः आन्वीक्षिक्याम् प्रचोदितः ॥ ४ ॥
dvaipāyana-sakhaḥ tu evam maitreyaḥ bhagavān tathā . prāha idam viduram prītaḥ ānvīkṣikyām pracoditaḥ .. 4 ..
सूत उवाच -
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया । तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल ॥ ५ ॥
पितरि प्रस्थिते अरण्यम् मातुः प्रिय-चिकीर्षया । तस्मिन् बिन्दुसरे अवात्सीत् भगवान् कपिलः किल ॥ ५ ॥
pitari prasthite araṇyam mātuḥ priya-cikīrṣayā . tasmin bindusare avātsīt bhagavān kapilaḥ kila .. 5 ..
मैत्रेय उवाच -
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् । स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥
तम् आसीनम् अकर्माणम् तत्त्व-मार्ग-अग्र-दर्शनम् । स्व-सुतम् देवहूती आह धातुः संस्मरती वचः ॥ ६ ॥
tam āsīnam akarmāṇam tattva-mārga-agra-darśanam . sva-sutam devahūtī āha dhātuḥ saṃsmaratī vacaḥ .. 6 ..
निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् । येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७ ॥
निर्विण्णा नितराम् भूमन् असत् इन्द्रिय-तर्षणात् । येन सम्भाव्यमानेन प्रपन्न-अन्धम् तमः प्रभो ॥ ७ ॥
nirviṇṇā nitarām bhūman asat indriya-tarṣaṇāt . yena sambhāvyamānena prapanna-andham tamaḥ prabho .. 7 ..
देवहूतिरुवाच ।
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् । सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥
तस्य त्वम् तमसः अन्धस्य दुष्पारस्य अद्य पारगम् । सत्-चक्षुः-जन्मनाम् अन्ते लब्धम् मे त्वद्-अनुग्रहात् ॥ ८ ॥
tasya tvam tamasaḥ andhasya duṣpārasya adya pāragam . sat-cakṣuḥ-janmanām ante labdham me tvad-anugrahāt .. 8 ..
य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल । लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥
यः आद्यः भगवान् पुंसाम् ईश्वरः वै भवान् किल । लोकस्य तमसा अन्धस्य चक्षुः सूर्यः इव उदितः ॥ ९ ॥
yaḥ ādyaḥ bhagavān puṃsām īśvaraḥ vai bhavān kila . lokasya tamasā andhasya cakṣuḥ sūryaḥ iva uditaḥ .. 9 ..
अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि । योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया ॥ १० ॥
अथ मे देव सम्मोहम् अपाक्रष्टुम् त्वम् अर्हसि । यः अवग्रहः अहम् मम इति इति एतस्मिन् योजितः त्वया ॥ १० ॥
atha me deva sammoham apākraṣṭum tvam arhasi . yaḥ avagrahaḥ aham mama iti iti etasmin yojitaḥ tvayā .. 10 ..
तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् । जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
तम् त्वा गता अहम् शरणम् शरण्यम् स्व-भृत्य-संसार-तरोः कुठारम् । जिज्ञासया अहम् प्रकृतेः पूरुषस्य नमामि सत्-धर्म-विदाम् वरिष्ठम् ॥ ११ ॥
tam tvā gatā aham śaraṇam śaraṇyam sva-bhṛtya-saṃsāra-taroḥ kuṭhāram . jijñāsayā aham prakṛteḥ pūruṣasya namāmi sat-dharma-vidām variṣṭham .. 11 ..
इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसां अपवर्गवर्धनम् । धियाभिनन्द्यात्मवतां सतां गतिः बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥
इति स्व-मातुः निरवद्यम् ईप्सितम् निशम्य पुंसाम् अपवर्ग-वर्धनम् । धिया अभिनन्द्य आत्मवताम् सताम् गतिः बभाष ईषत् स्मित-शोभित-आननः ॥ १२ ॥
iti sva-mātuḥ niravadyam īpsitam niśamya puṃsām apavarga-vardhanam . dhiyā abhinandya ātmavatām satām gatiḥ babhāṣa īṣat smita-śobhita-ānanaḥ .. 12 ..
मैत्रेय उवाच -
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥
योगः आध्यात्मिकः पुंसाम् मतः निःश्रेयसाय मे । अत्यन्ता उपरतिः यत्र दुःखस्य च सुखस्य च ॥ १३ ॥
yogaḥ ādhyātmikaḥ puṃsām mataḥ niḥśreyasāya me . atyantā uparatiḥ yatra duḥkhasya ca sukhasya ca .. 13 ..
श्रीभगवानुवाच -
तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे । ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥
तम् इमम् ते प्रवक्ष्यामि यम् अवोचम् पुरा अनघे । ऋषीणाम् श्रोतु-कामानाम् योगम् सर्व-अङ्ग-नैपुणम् ॥ १४ ॥
tam imam te pravakṣyāmi yam avocam purā anaghe . ṛṣīṇām śrotu-kāmānām yogam sarva-aṅga-naipuṇam .. 14 ..
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् । गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥
चेतः खलु अस्य बन्धाय मुक्तये च आत्मनः मतम् । गुणेषु सक्तम् बन्धाय रतम् वा पुंसि मुक्तये ॥ १५ ॥
cetaḥ khalu asya bandhāya muktaye ca ātmanaḥ matam . guṇeṣu saktam bandhāya ratam vā puṃsi muktaye .. 15 ..
अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः । वीतं यदा मनः शुद्धं अदुःखं असुखं समम् ॥ १६ ॥
अहम् मम अभिमान-उत्थैः काम-लोभ-आदिभिः मलैः । वीतम् यदा मनः शुद्धम् अदुःखम् असुखम् समम् ॥ १६ ॥
aham mama abhimāna-utthaiḥ kāma-lobha-ādibhiḥ malaiḥ . vītam yadā manaḥ śuddham aduḥkham asukham samam .. 16 ..
तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम् ॥ १७ ॥
तदा पुरुषः आत्मानम् केवलम् प्रकृतेः परम् । निरन्तरम् स्वयम् ज्योतिः अणिमानम् अखण्डितम् ॥ १७ ॥
tadā puruṣaḥ ātmānam kevalam prakṛteḥ param . nirantaram svayam jyotiḥ aṇimānam akhaṇḍitam .. 17 ..
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना । परिपश्यति उदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥
ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन च आत्मना । परिपश्यति उदासीनम् प्रकृतिम् च हत-ओजसम् ॥ १८ ॥
jñāna-vairāgya-yuktena bhakti-yuktena ca ātmanā . paripaśyati udāsīnam prakṛtim ca hata-ojasam .. 18 ..
न युज्यमानया भक्त्या भगवति अखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥
न युज्यमानया भक्त्या भगवति अखिलात्मनि । सदृशः अस्ति शिवः पन्थाः योगिनाम् ब्रह्म-सिद्धये ॥ १९ ॥
na yujyamānayā bhaktyā bhagavati akhilātmani . sadṛśaḥ asti śivaḥ panthāḥ yoginām brahma-siddhaye .. 19 ..
प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्षद्वारं अपावृतम् ॥ २० ॥
प्रसङ्गम् अजरम् पाशम् आत्मनः कवयः विदुः । सः एव साधुषु कृतः मोक्ष-द्वारम् अपावृतम् ॥ २० ॥
prasaṅgam ajaram pāśam ātmanaḥ kavayaḥ viduḥ . saḥ eva sādhuṣu kṛtaḥ mokṣa-dvāram apāvṛtam .. 20 ..
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥
तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥ २१ ॥
titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām . ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ .. 21 ..
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ २२ ॥
मयि अनन्येन भावेन भक्तिम् कुर्वन्ति ये दृढाम् । मद्-कृते त्यक्त-कर्माणः त्यक्त-स्व-जन-बान्धवाः ॥ २२ ॥
mayi ananyena bhāvena bhaktim kurvanti ye dṛḍhām . mad-kṛte tyakta-karmāṇaḥ tyakta-sva-jana-bāndhavāḥ .. 22 ..
मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास्तापा नैतान् मद्गतचेतसः ॥ २३ ॥
मद्-आश्रयाः कथाः मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधाः तापाः न एतान् मद्-गत-चेतसः ॥ २३ ॥
mad-āśrayāḥ kathāḥ mṛṣṭāḥ śṛṇvanti kathayanti ca . tapanti vividhāḥ tāpāḥ na etān mad-gata-cetasaḥ .. 23 ..
ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः । सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥
ते एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गः तेषु अथ ते प्रार्थ्यः सङ्ग-दोष-हराः हि ते ॥ २४ ॥
te ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ . saṅgaḥ teṣu atha te prārthyaḥ saṅga-doṣa-harāḥ hi te .. 24 ..
सतां प्रसङ्गान् मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥
सताम् प्रसङ्गात् मम वीर्य-संविदः भवन्ति हृद्-कर्ण-रसायनाः कथाः । तद्-जोषणात् आशु अपवर्ग-वर्त्मनि श्रद्धा रतिः भक्तिः अनुक्रमिष्यति ॥ २५ ॥
satām prasaṅgāt mama vīrya-saṃvidaḥ bhavanti hṛd-karṇa-rasāyanāḥ kathāḥ . tad-joṣaṇāt āśu apavarga-vartmani śraddhā ratiḥ bhaktiḥ anukramiṣyati .. 25 ..
भक्त्या पुमान्जातविराग ऐन्द्रियाद् दृष्टश्रुतान् मद्रचनानुचिन्तया । चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥
भक्त्या पुमान् जात-विरागः ऐन्द्रियात् दृष्ट-श्रुतात् मद्-रचना-अनुचिन्तया । चित्तस्य यत्तः ग्रहणे योग-युक्तः यतिष्यते ऋजुभिः योग-मार्गैः ॥ २६ ॥
bhaktyā pumān jāta-virāgaḥ aindriyāt dṛṣṭa-śrutāt mad-racanā-anucintayā . cittasya yattaḥ grahaṇe yoga-yuktaḥ yatiṣyate ṛjubhiḥ yoga-mārgaiḥ .. 26 ..
असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन । योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥
असेवया अयम् प्रकृतेः गुणानाम् ज्ञानेन वैराग्य-विजृम्भितेन । योगेन मयि अर्पितया च भक्त्या माम् प्रत्यगात्मानम् इह अवरुन्धे ॥ २७ ॥
asevayā ayam prakṛteḥ guṇānām jñānena vairāgya-vijṛmbhitena . yogena mayi arpitayā ca bhaktyā mām pratyagātmānam iha avarundhe .. 27 ..
काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा । यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥
काचिद् त्वयि उचिता भक्तिः कीदृशी मम गोचरा । यया पदम् ते निर्वाणम् अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥
kācid tvayi ucitā bhaktiḥ kīdṛśī mama gocarā . yayā padam te nirvāṇam añjasā anvāśnavai aham .. 28 ..
देवहूतिरुवाच ।
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः । कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥
यः योगः भगवत्-बाणः निर्वाण-आत्मन् त्वया उदितः । कीदृशः च अङ्गानि यतस् तत्त्व-अवबोधनम् ॥ २९ ॥
yaḥ yogaḥ bhagavat-bāṇaḥ nirvāṇa-ātman tvayā uditaḥ . kīdṛśaḥ ca aṅgāni yatas tattva-avabodhanam .. 29 ..
तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥
तत् एतत् मे विजानीहि यथा अहम् मन्द-धीः हरे । सुखम् दुर्बोधम् योषाः भवत्-अनुग्रहात् ॥ ३० ॥
tat etat me vijānīhi yathā aham manda-dhīḥ hare . sukham durbodham yoṣāḥ bhavat-anugrahāt .. 30 ..
विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः । तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥
विदित्वा अर्थम् कपिलः मातुः इत्थम् जात-स्नेहः यत्र तन्वा अभिजातः । तत्त्व-आम्नायम् यत् प्रवदन्ति साङ्ख्यम् प्रोवाच वै भक्ति-वितान-योगम् ॥ ३१ ॥
viditvā artham kapilaḥ mātuḥ ittham jāta-snehaḥ yatra tanvā abhijātaḥ . tattva-āmnāyam yat pravadanti sāṅkhyam provāca vai bhakti-vitāna-yogam .. 31 ..
मैत्रेय उवाच ।
देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
देवानाम् गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् । सत्त्वे एव एकमनसः वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
devānām guṇa-liṅgānām ānuśravika-karmaṇām . sattve eva ekamanasaḥ vṛttiḥ svābhāvikī tu yā .. 32 ..
श्रीभगवानुवाच -
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
अनिमित्ता भागवती भक्तिः सिद्धेः गरीयसी । जरयति आशु या कोशम् निगीर्णम् अनलः यथा ॥ ३३ ॥
animittā bhāgavatī bhaktiḥ siddheḥ garīyasī . jarayati āśu yā kośam nigīrṇam analaḥ yathā .. 33 ..
नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥
न एकात्म-ताम् मे स्पृहयन्ति केचिद् मद्-पाद-सेवा-अभिरताः मद्-ईहाः । ये अन्योन्यतः भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥
na ekātma-tām me spṛhayanti kecid mad-pāda-sevā-abhiratāḥ mad-īhāḥ . ye anyonyataḥ bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi .. 34 ..
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥
पश्यन्ति ते मे रुचिराणि अम्ब सन्तः प्रसन्न-वक्त्र-अरुण-लोचनानि । रूपाणि दिव्यानि वर-प्रदानि साकम् वाचम् स्पृहणीयाम् वदन्ति ॥ ३५ ॥
paśyanti te me rucirāṇi amba santaḥ prasanna-vaktra-aruṇa-locanāni . rūpāṇi divyāni vara-pradāni sākam vācam spṛhaṇīyām vadanti .. 35 ..
तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिः अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥
तैः दर्शनीय-अवयवैः उदार विलास-हास-ईक्षित-वाम-सूक्तैः । हृत-आत्मनः हृत-प्राणान् च भक्तिः अन् इच्छतः मे गतिम् अण्वीम् प्रयुङ्क्ते ॥ ३६ ॥
taiḥ darśanīya-avayavaiḥ udāra vilāsa-hāsa-īkṣita-vāma-sūktaiḥ . hṛta-ātmanaḥ hṛta-prāṇān ca bhaktiḥ an icchataḥ me gatim aṇvīm prayuṅkte .. 36 ..
अथो विभूतिं मम मायाविनस्तां ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥
अथो विभूतिम् मम मायाविनः ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् । श्रियम् भागवतीम् वा स्पृहयन्ति भद्राम् परस्य मे ते अश्नुवते तु लोके ॥ ३७ ॥
atho vibhūtim mama māyāvinaḥ tām aiśvaryam aṣṭāṅgam anupravṛttam . śriyam bhāgavatīm vā spṛhayanti bhadrām parasya me te aśnuvate tu loke .. 37 ..
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥
न कर्हिचित् मद्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे अनिमिषः लेढि हेतिः । येषाम् अहम् प्रियः आत्मा सुतः च सखा गुरुः सुहृदः दैवम् इष्टम् ॥ ३८ ॥
na karhicit mad-parāḥ śānta-rūpe naṅkṣyanti no me animiṣaḥ leḍhi hetiḥ . yeṣām aham priyaḥ ātmā sutaḥ ca sakhā guruḥ suhṛdaḥ daivam iṣṭam .. 38 ..
इमं लोकं तथैव अमुं आत्मानं उभयायिनम् । आत्मानं अनु ये चेह ये रायः पशवो गृहाः ॥ ३९ ॥
इमम् लोकम् तथा एव अमुम् आत्मानम् उभयायिनम् । आत्मानम् अनु ये च इह ये रायः पशवः गृहाः ॥ ३९ ॥
imam lokam tathā eva amum ātmānam ubhayāyinam . ātmānam anu ye ca iha ye rāyaḥ paśavaḥ gṛhāḥ .. 39 ..
विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् । भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥
विसृज्य सर्वान् अन्यान् च माम् एवम् विश्वतोमुखम् । भजन्ति अनन्यया भक्त्या तान् मृत्योः अतिपारये ॥ ४० ॥
visṛjya sarvān anyān ca mām evam viśvatomukham . bhajanti ananyayā bhaktyā tān mṛtyoḥ atipāraye .. 40 ..
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् । आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥
न अन्यत्र मद्-भगवतः प्रधान-पुरुष-ईश्वरात् । आत्मनः सर्व-भूतानाम् भयम् तीव्रम् निवर्तते ॥ ४१ ॥
na anyatra mad-bhagavataḥ pradhāna-puruṣa-īśvarāt . ātmanaḥ sarva-bhūtānām bhayam tīvram nivartate .. 41 ..
मद्भयाद् वाति वातोऽयं सूर्यस्तपति मद्भयात् । वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्भयात् ॥ ४२ ॥
मद्-भयात् वाति वातः अयम् सूर्यः तपति मद्-भयात् । वर्षति इन्द्रः दहति अग्निः मृत्युः चरति मद्-भयात् ॥ ४२ ॥
mad-bhayāt vāti vātaḥ ayam sūryaḥ tapati mad-bhayāt . varṣati indraḥ dahati agniḥ mṛtyuḥ carati mad-bhayāt .. 42 ..
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥
ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः । क्षेमाय पाद-मूलम् मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥
jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ . kṣemāya pāda-mūlam me praviśanti akutobhayam .. 43 ..
एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥
एतावान् एव लोके अस्मिन् पुंसाम् निःश्रेयस-उदयः । तीव्रेण भक्ति-योगेन मनः मयि अर्पितम् स्थिरम् ॥ ४४ ॥
etāvān eva loke asmin puṃsām niḥśreyasa-udayaḥ . tīvreṇa bhakti-yogena manaḥ mayi arpitam sthiram .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे पञ्चविंशः अध्यायः ॥ २५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe pañcaviṃśaḥ adhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In