| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १ ॥
अथ ते सम्प्रवक्ष्यामि तत्त्वानाम् लक्षणम् पृथक् । यत् विदित्वा विमुच्येत पुरुषः प्राकृतैः गुणैः ॥ १ ॥
atha te sampravakṣyāmi tattvānām lakṣaṇam pṛthak . yat viditvā vimucyeta puruṣaḥ prākṛtaiḥ guṇaiḥ .. 1 ..
श्रीभगवानुवाच ।
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् । यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥
ज्ञानम् निःश्रेयस-अर्थाय पुरुषस्य आत्म-दर्शनम् । यत् आहुः वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् ॥ २ ॥
jñānam niḥśreyasa-arthāya puruṣasya ātma-darśanam . yat āhuḥ varṇaye tat te hṛdaya-granthi-bhedanam .. 2 ..
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योतिः विश्वं येन समन्वितम् ॥ ३ ॥
अनादिः आत्मा पुरुषः निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयम् ज्योतिः विश्वम् येन समन्वितम् ॥ ३ ॥
anādiḥ ātmā puruṣaḥ nirguṇaḥ prakṛteḥ paraḥ . pratyagdhāmā svayam jyotiḥ viśvam yena samanvitam .. 3 ..
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । यदृच्छयैवोपगतां अभ्यपद्यत लीलया ॥ ४ ॥
सः एष प्रकृतिम् सूक्ष्माम् दैवीम् गुण-मयीम् विभुः । यदृच्छया एव उपगताम् अभ्यपद्यत लीलया ॥ ४ ॥
saḥ eṣa prakṛtim sūkṣmām daivīm guṇa-mayīm vibhuḥ . yadṛcchayā eva upagatām abhyapadyata līlayā .. 4 ..
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ५ ॥
गुणैः विचित्राः सृजतीम् सरूपाः प्रकृतिम् प्रजाः । विलोक्य मुमुहे सद्यस् सः इह ज्ञान-गूहया ॥ ५ ॥
guṇaiḥ vicitrāḥ sṛjatīm sarūpāḥ prakṛtim prajāḥ . vilokya mumuhe sadyas saḥ iha jñāna-gūhayā .. 5 ..
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥
एवम् पर-अभिध्यानेन कर्तृ-त्वम् प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैः आत्मनि मन्यते ॥ ६ ॥
evam para-abhidhyānena kartṛ-tvam prakṛteḥ pumān . karmasu kriyamāṇeṣu guṇaiḥ ātmani manyate .. 6 ..
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् । भवति अकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७ ॥
तत् अस्य संसृतिः बन्धः पारतन्त्र्यम् च तत् कृतम् । भवति अकर्तुः ईशस्य साक्षिणः निर्वृत-आत्मनः ॥ ७ ॥
tat asya saṃsṛtiḥ bandhaḥ pāratantryam ca tat kṛtam . bhavati akartuḥ īśasya sākṣiṇaḥ nirvṛta-ātmanaḥ .. 7 ..
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८ ॥
कार्य-कारण-कर्तृ-त्वे कारणम् प्रकृतिम् विदुः । भोक्तृ-त्वे सुख-दुःखानाम् पुरुषम् प्रकृतेः परम् ॥ ८ ॥
kārya-kāraṇa-kartṛ-tve kāraṇam prakṛtim viduḥ . bhoktṛ-tve sukha-duḥkhānām puruṣam prakṛteḥ param .. 8 ..
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥
प्रकृतेः पुरुषस्य अपि लक्षणम् पुरुषोत्तम । ब्रूहि कारणयोः अस्य सत्-असत् च यद्-आत्मकम् ॥ ९ ॥
prakṛteḥ puruṣasya api lakṣaṇam puruṣottama . brūhi kāraṇayoḥ asya sat-asat ca yad-ātmakam .. 9 ..
देवहूतिरुवाच -
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुः अविशेषं विशेषवत् ॥ १० ॥
यत् तत् त्रिगुणम् अव्यक्तम् नित्यम् सत्-असत्-आत्मकम् । प्रधानम् प्रकृतिम् प्राहुः अविशेषम् विशेषवत् ॥ १० ॥
yat tat triguṇam avyaktam nityam sat-asat-ātmakam . pradhānam prakṛtim prāhuḥ aviśeṣam viśeṣavat .. 10 ..
श्रीभगवानुवाच -
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतत् चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ ११ ॥
पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिः दशभिः तथा । एतत् चतुर्विंशतिकम् गणम् प्राधानिकम् विदुः ॥ ११ ॥
pañcabhiḥ pañcabhiḥ brahma caturbhiḥ daśabhiḥ tathā . etat caturviṃśatikam gaṇam prādhānikam viduḥ .. 11 ..
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः । तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥
महाभूतानि पञ्च एव भूः आपः अग्निः मरुत् नभः । तन्मात्राणि च तावन्ति गन्ध-आदीनि मतानि मे ॥ १२ ॥
mahābhūtāni pañca eva bhūḥ āpaḥ agniḥ marut nabhaḥ . tanmātrāṇi ca tāvanti gandha-ādīni matāni me .. 12 ..
इन्द्रियाणि दश श्रोत्रं त्वग् दृक् रसननासिकाः । वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥
इन्द्रियाणि दश श्रोत्रम् त्वच् दृश् रसन-नासिकाः । वाच्-करौ चरणौ मेढ्रम् पायुः दशमः उच्यते ॥ १३ ॥
indriyāṇi daśa śrotram tvac dṛś rasana-nāsikāḥ . vāc-karau caraṇau meḍhram pāyuḥ daśamaḥ ucyate .. 13 ..
मनो बुद्धिरहङ्कारः चित्तमित्यन्तरात्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥
मनः बुद्धिः अहङ्कारः चित्तम् इति अन्तरात्मकम् । चतुर्धा लक्ष्यते भेदः वृत्त्या लक्षण-रूपया ॥ १४ ॥
manaḥ buddhiḥ ahaṅkāraḥ cittam iti antarātmakam . caturdhā lakṣyate bhedaḥ vṛttyā lakṣaṇa-rūpayā .. 14 ..
एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह । सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १५ ॥
एतावान् एव सङ्ख्यातः ब्रह्मणः सगुणस्य ह । सन्निवेशः मया प्रोक्तः यः कालः पञ्चविंशकः ॥ १५ ॥
etāvān eva saṅkhyātaḥ brahmaṇaḥ saguṇasya ha . sanniveśaḥ mayā proktaḥ yaḥ kālaḥ pañcaviṃśakaḥ .. 15 ..
प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् । अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १६ ॥
प्रभावम् पौरुषम् प्राहुः कालम् एके यतस् भयम् । अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः ॥ १६ ॥
prabhāvam pauruṣam prāhuḥ kālam eke yatas bhayam . ahaṅkāra-vimūḍhasya kartuḥ prakṛtim īyuṣaḥ .. 16 ..
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १७ ॥
प्रकृतेः गुण-साम्यस्य निर्विशेषस्य मानवि । चेष्टा यतस् स भगवान् कालः इति उपलक्षितः ॥ १७ ॥
prakṛteḥ guṇa-sāmyasya nirviśeṣasya mānavi . ceṣṭā yatas sa bhagavān kālaḥ iti upalakṣitaḥ .. 17 ..
अन्तः पुरुषरूपेण कालरूपेण यो बहिः । समन्वेत्येष सत्त्वानां भगवान् आत्ममायया ॥ १८ ॥
अन्तर् पुरुष-रूपेण काल-रूपेण यः बहिस् । समन्वेति एष सत्त्वानाम् भगवान् आत्म-मायया ॥ १८ ॥
antar puruṣa-rūpeṇa kāla-rūpeṇa yaḥ bahis . samanveti eṣa sattvānām bhagavān ātma-māyayā .. 18 ..
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥
दैवात् क्षुभित-धर्मिण्याम् स्वस्याम् योनौ परः पुमान् । आधत्त वीर्यम् सा असूत महत्-तत्त्वम् हिरण्मयम् ॥ १९ ॥
daivāt kṣubhita-dharmiṇyām svasyām yonau paraḥ pumān . ādhatta vīryam sā asūta mahat-tattvam hiraṇmayam .. 19 ..
विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । स्वतेजसापिबत् तीव्रं आत्मप्रस्वापनं तमः ॥ २० ॥
विश्वम् आत्म-गतम् व्यञ्जन् कूटस्थः जगत्-अङ्कुरः । स्व-तेजसा अपिबत् तीव्रम् आत्म-प्रस्वापनम् तमः ॥ २० ॥
viśvam ātma-gatam vyañjan kūṭasthaḥ jagat-aṅkuraḥ . sva-tejasā apibat tīvram ātma-prasvāpanam tamaḥ .. 20 ..
यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥
यत् तत् सत्त्व-गुणम् स्वच्छम् शान्तम् भगवतः पदम् । यत् आहुः वासुदेव-आख्यम् चित्तम् तत् महत्-आत्मकम् ॥ २१ ॥
yat tat sattva-guṇam svaccham śāntam bhagavataḥ padam . yat āhuḥ vāsudeva-ākhyam cittam tat mahat-ātmakam .. 21 ..
स्वच्छत्वं अविकारित्वं शान्तत्वमिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ २२ ॥
स्वच्छ-त्वम् अविकारि-त्वम् शान्त-त्वम् इति चेतसः । वृत्तिभिः लक्षणम् प्रोक्तम् यथा अपाम् प्रकृतिः परा ॥ २२ ॥
svaccha-tvam avikāri-tvam śānta-tvam iti cetasaḥ . vṛttibhiḥ lakṣaṇam proktam yathā apām prakṛtiḥ parā .. 22 ..
महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् । क्रियाशक्तिः अहङ्कारः त्रिविधः समपद्यत ॥ २३ ॥
महत्-तत्त्वात् विकुर्वाणात् भगवत्-वीर्य-सम्भवात् । क्रियाशक्तिः अहङ्कारः त्रिविधः समपद्यत ॥ २३ ॥
mahat-tattvāt vikurvāṇāt bhagavat-vīrya-sambhavāt . kriyāśaktiḥ ahaṅkāraḥ trividhaḥ samapadyata .. 23 ..
वैकारिकस्तैजसश्च तामसश्च यतो भवः । मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥
वैकारिकः तैजसः च तामसः च यतस् भवः । मनसः च इन्द्रियाणाम् च भूतानाम् महताम् अपि ॥ २४ ॥
vaikārikaḥ taijasaḥ ca tāmasaḥ ca yatas bhavaḥ . manasaḥ ca indriyāṇām ca bhūtānām mahatām api .. 24 ..
सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥
सहस्र-शिरसम् साक्षात् यम् अनन्तम् प्रचक्षते । सङ्कर्षण-आख्यम् पुरुषम् भूत-इन्द्रिय-मनः-मयम् ॥ २५ ॥
sahasra-śirasam sākṣāt yam anantam pracakṣate . saṅkarṣaṇa-ākhyam puruṣam bhūta-indriya-manaḥ-mayam .. 25 ..
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्तघोरविमूढत्वं इति वा स्यादहङ्कृतेः ॥ २६ ॥
कर्तृ-त्वम् करण-त्वम् च कार्य-त्वम् च इति लक्षणम् । शान्त-घोर-विमूढ-त्वम् इति वा स्यात् अहङ्कृतेः ॥ २६ ॥
kartṛ-tvam karaṇa-tvam ca kārya-tvam ca iti lakṣaṇam . śānta-ghora-vimūḍha-tvam iti vā syāt ahaṅkṛteḥ .. 26 ..
वैकारिकाद् विकुर्वाणात् मनस्तत्त्वमजायत । यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २७ ॥
वैकारिकात् विकुर्वाणात् मनः तत्त्वम् अजायत । यत् सङ्कल्प-विकल्पाभ्याम् वर्तते काम-सम्भवः ॥ २७ ॥
vaikārikāt vikurvāṇāt manaḥ tattvam ajāyata . yat saṅkalpa-vikalpābhyām vartate kāma-sambhavaḥ .. 27 ..
यद् विदुर्ह्यनिरुद्धाख्यं हृषीकाणां अधीश्वरम् । शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ २८ ॥
यत् विदुः हि अनिरुद्ध-आख्यम् हृषीकाणाम् अधीश्वरम् । शारद-इन्दीवर-श्यामम् संराध्यम् योगिभिः शनैस् ॥ २८ ॥
yat viduḥ hi aniruddha-ākhyam hṛṣīkāṇām adhīśvaram . śārada-indīvara-śyāmam saṃrādhyam yogibhiḥ śanais .. 28 ..
तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति । द्रव्यस्फुरणविज्ञानं इन्द्रियाणामनुग्रहः ॥ २९ ॥
तैजसात् तु विकुर्वाणात् बुद्धि-तत्त्वम् अभूत् सति । द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः ॥ २९ ॥
taijasāt tu vikurvāṇāt buddhi-tattvam abhūt sati . dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ .. 29 ..
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेः लक्षणं वृत्तितः पृथक् ॥ ३० ॥
संशयः अथ विपर्यासः निश्चयः स्मृतिः एव च । स्वापः इति उच्यते बुद्धेः लक्षणम् वृत्तितः पृथक् ॥ ३० ॥
saṃśayaḥ atha viparyāsaḥ niścayaḥ smṛtiḥ eva ca . svāpaḥ iti ucyate buddheḥ lakṣaṇam vṛttitaḥ pṛthak .. 30 ..
तैजसानि इन्द्रियाण्येव क्रियाज्ञानविभागशः । प्राणस्य हि क्रियाशक्तिः बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥
तैजसानि इन्द्रियाणि एव क्रिया-ज्ञान-विभागशः । प्राणस्य हि क्रियाशक्तिः बुद्धेः विज्ञान-शक्ति-ता ॥ ३१ ॥
taijasāni indriyāṇi eva kriyā-jñāna-vibhāgaśaḥ . prāṇasya hi kriyāśaktiḥ buddheḥ vijñāna-śakti-tā .. 31 ..
तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् । शब्दमात्रं अभूत् तस्मात् नभः श्रोत्रं तु शब्दगम् ॥ ३२ ॥
तामसात् च विकुर्वाणात् भगवत्-वीर्य-चोदितात् । शब्द-मात्रम् अभूत् तस्मात् नभः श्रोत्रम् तु शब्द-गम् ॥ ३२ ॥
tāmasāt ca vikurvāṇāt bhagavat-vīrya-coditāt . śabda-mātram abhūt tasmāt nabhaḥ śrotram tu śabda-gam .. 32 ..
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च । तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३३ ॥
अर्थ-आश्रय-त्वम् शब्दस्य द्रष्टुः लिङ्ग-त्वम् एव च । तन्मात्र-त्वम् च नभसः लक्षणम् कवयः विदुः ॥ ३३ ॥
artha-āśraya-tvam śabdasya draṣṭuḥ liṅga-tvam eva ca . tanmātra-tvam ca nabhasaḥ lakṣaṇam kavayaḥ viduḥ .. 33 ..
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥
भूतानाम् छिद्र-दातृ-त्वम् बहिस् अन्तरम् एव च । प्राण-इन्द्रिय-आत्म-धिष्ण्य-त्वम् नभसः वृत्ति-लक्षणम् ॥ ३४ ॥
bhūtānām chidra-dātṛ-tvam bahis antaram eva ca . prāṇa-indriya-ātma-dhiṣṇya-tvam nabhasaḥ vṛtti-lakṣaṇam .. 34 ..
नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । स्पर्शोऽभवत्ततो वायुः त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३५ ॥
नभसः शब्द-तन्मात्रात् काल-गत्याः विकुर्वतः । स्पर्शः अभवत् ततस् वायुः त्वच् स्पर्शस्य च सङ्ग्रहः ॥ ३५ ॥
nabhasaḥ śabda-tanmātrāt kāla-gatyāḥ vikurvataḥ . sparśaḥ abhavat tatas vāyuḥ tvac sparśasya ca saṅgrahaḥ .. 35 ..
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३६ ॥
मृदु-त्वम् कठिन-त्वम् च शैत्यम् उष्ण-त्वम् एव च । ॥ ३६ ॥
mṛdu-tvam kaṭhina-tvam ca śaityam uṣṇa-tvam eva ca . .. 36 ..
चालनं व्यूहनं प्राप्तिः नेतृत्वं द्रव्यशब्दयोः । सर्वेन्द्रियाणां आत्मत्वं वायोः कर्माभिलक्षणम् ॥ ३७ ॥
चालनम् व्यूहनम् प्राप्तिः नेतृ-त्वम् द्रव्य-शब्दयोः । सर्व-इन्द्रियाणाम् आत्मत्वम् वायोः कर्म-अभिलक्षणम् ॥ ३७ ॥
cālanam vyūhanam prāptiḥ netṛ-tvam dravya-śabdayoḥ . sarva-indriyāṇām ātmatvam vāyoḥ karma-abhilakṣaṇam .. 37 ..
वायोश्च स्पर्शतन्मात्राद् रूपं दैवेरितादभूत् । समुत्थितं ततस्तेजः चक्षू रूपोपलम्भनम् ॥ ३८ ॥
वायोः च स्पर्श-तन्मात्रात् रूपम् दैव-ईरितात् अभूत् । समुत्थितम् ततस् तेजः चक्षुः रूप-उपलम्भनम् ॥ ३८ ॥
vāyoḥ ca sparśa-tanmātrāt rūpam daiva-īritāt abhūt . samutthitam tatas tejaḥ cakṣuḥ rūpa-upalambhanam .. 38 ..
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ३९ ॥
द्रव्य-आकृति-त्वम् गुणता व्यक्ति-संस्था-त्वम् एव च । तेजः-त्वम् तेजसः साध्वि रूप-मात्रस्य वृत्तयः ॥ ३९ ॥
dravya-ākṛti-tvam guṇatā vyakti-saṃsthā-tvam eva ca . tejaḥ-tvam tejasaḥ sādhvi rūpa-mātrasya vṛttayaḥ .. 39 ..
द्योतनं पचनं पानं अदनं हिममर्दनम् । तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ॥ ४० ॥
द्योतनम् पचनम् पानम् अदनम् हिम-मर्दनम् । तेजसः वृत्तयः तु एताः शोषणम् क्षुध् तृष् एव च ॥ ४० ॥
dyotanam pacanam pānam adanam hima-mardanam . tejasaḥ vṛttayaḥ tu etāḥ śoṣaṇam kṣudh tṛṣ eva ca .. 40 ..
रूपमात्राद् विकुर्वाणात् तेजसो दैवचोदितात् । रसमात्रं अभूत् तस्मात् अम्भो जिह्वा रसग्रहः ॥ ४१ ॥
रूप-मात्रात् विकुर्वाणात् तेजसः दैव-चोदितात् । रस-मात्रम् अभूत् तस्मात् अम्भः जिह्वा रस-ग्रहः ॥ ४१ ॥
rūpa-mātrāt vikurvāṇāt tejasaḥ daiva-coditāt . rasa-mātram abhūt tasmāt ambhaḥ jihvā rasa-grahaḥ .. 41 ..
कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥
कषायः मधुरः तिक्तः कटु-अम्लः इति न एकधा । भौतिकानाम् विकारेण रसः एकः विभिद्यते ॥ ४२ ॥
kaṣāyaḥ madhuraḥ tiktaḥ kaṭu-amlaḥ iti na ekadhā . bhautikānām vikāreṇa rasaḥ ekaḥ vibhidyate .. 42 ..
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वं अम्भसो वृत्तयस्त्विमाः ॥ ४३ ॥
क्लेदनम् पिण्डनम् तृप्तिः प्राणन-आप्यायन-उन्दनम् । ताप-अपनोदः भूयस्त्वम् अम्भसः वृत्तयः तु इमाः ॥ ४३ ॥
kledanam piṇḍanam tṛptiḥ prāṇana-āpyāyana-undanam . tāpa-apanodaḥ bhūyastvam ambhasaḥ vṛttayaḥ tu imāḥ .. 43 ..
रसमात्राद् विकुर्वाणात् अम्भसो दैवचोदितात् । गन्धमात्रं अभूत् तस्मात् पृथ्वी घ्राणस्तु गन्धगः ॥ ४४ ॥
रस-मात्रात् विकुर्वाणात् अम्भसः दैव-चोदितात् । गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणः तु गन्ध-गः ॥ ४४ ॥
rasa-mātrāt vikurvāṇāt ambhasaḥ daiva-coditāt . gandha-mātram abhūt tasmāt pṛthvī ghrāṇaḥ tu gandha-gaḥ .. 44 ..
करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् । द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते ॥ ४५ ॥
करम्भ-पूति-सौरभ्य-शान्त-उग्र-अम्ल-आदिभिः पृथक् । द्रव्य-अवयव-वैषम्यात् गन्धः एकः विभिद्यते ॥ ४५ ॥
karambha-pūti-saurabhya-śānta-ugra-amla-ādibhiḥ pṛthak . dravya-avayava-vaiṣamyāt gandhaḥ ekaḥ vibhidyate .. 45 ..
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् । सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥
भावनम् ब्रह्मणः स्थानम् धारणम् सत्-विशेषणम् । ॥ ४६ ॥
bhāvanam brahmaṇaḥ sthānam dhāraṇam sat-viśeṣaṇam . .. 46 ..
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते । वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥ ४७ ॥
नभः-गुण-विशेषः अर्थः यस्य तत् श्रोत्रम् उच्यते । वायोः गुण-विशेषः अर्थः यस्य तत् स्पर्शनम् विदुः ॥ ४७ ॥
nabhaḥ-guṇa-viśeṣaḥ arthaḥ yasya tat śrotram ucyate . vāyoḥ guṇa-viśeṣaḥ arthaḥ yasya tat sparśanam viduḥ .. 47 ..
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः । भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥
तेजः-गुण-विशेषः अर्थः यस्य तत् चक्षुः उच्यते । अम्भः-गुण-विशेषः अर्थः यस्य तत् रसनम् विदुः । भूमेः गुण-विशेषः अर्थः यस्य स घ्राणः उच्यते ॥ ४८ ॥
tejaḥ-guṇa-viśeṣaḥ arthaḥ yasya tat cakṣuḥ ucyate . ambhaḥ-guṇa-viśeṣaḥ arthaḥ yasya tat rasanam viduḥ . bhūmeḥ guṇa-viśeṣaḥ arthaḥ yasya sa ghrāṇaḥ ucyate .. 48 ..
परस्य दृश्यते धर्मो हि, अपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥
परस्य दृश्यते धर्मः हि, अपरस्मिन् समन्वयात् । अतस् विशेषः भावानाम् भूमौ एव उपलक्ष्यते ॥ ४९ ॥
parasya dṛśyate dharmaḥ hi, aparasmin samanvayāt . atas viśeṣaḥ bhāvānām bhūmau eva upalakṣyate .. 49 ..
एतान्यसंहत्य यदा महदादीनि सप्त वै । कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥
एतानि अ संहत्य यदा महत्-आदीनि सप्त वै । काल-कर्म-गुण-उपेतः जगत्-आदिः उपाविशत् ॥ ५० ॥
etāni a saṃhatya yadā mahat-ādīni sapta vai . kāla-karma-guṇa-upetaḥ jagat-ādiḥ upāviśat .. 50 ..
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डं अचेतनम् । उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट् ॥ ५१ ॥
ततस् तेन अनुविद्धेभ्यः युक्तेभ्यः अण्डम् अचेतनम् । उत्थितम् पुरुषः यस्मात् उदतिष्ठत् असौ विराज् ॥ ५१ ॥
tatas tena anuviddhebhyaḥ yuktebhyaḥ aṇḍam acetanam . utthitam puruṣaḥ yasmāt udatiṣṭhat asau virāj .. 51 ..
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः । यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५२ ॥
एतत् अण्डम् विशेष-आख्यम् क्रम-वृद्धैः दश-उत्तरैः । तोय-आदिभिः परिवृतम् प्रधानेन आवृतैः बहिस् । यत्र लोक-वितानः अयम् रूपम् भगवतः हरेः ॥ ५२ ॥
etat aṇḍam viśeṣa-ākhyam krama-vṛddhaiḥ daśa-uttaraiḥ . toya-ādibhiḥ parivṛtam pradhānena āvṛtaiḥ bahis . yatra loka-vitānaḥ ayam rūpam bhagavataḥ hareḥ .. 52 ..
हिरण्मयाद् अण्डकोशाद् उत्थाय सलिलेशयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥
हिरण्मयात् अण्ड-कोशात् उत्थाय सलिलेशयात् । तम् आविश्य महादेवः बहुधा निर्बिभेद खम् ॥ ५३ ॥
hiraṇmayāt aṇḍa-kośāt utthāya salileśayāt . tam āviśya mahādevaḥ bahudhā nirbibheda kham .. 53 ..
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् । वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः ॥ ५४ ॥
निरभिद्यत अस्य प्रथमम् मुखम् वाणी ततस् अभवत् । वाण्याः वह्निः अथो नासे प्राणः अतस् घ्राणः एतयोः ॥ ५४ ॥
nirabhidyata asya prathamam mukham vāṇī tatas abhavat . vāṇyāḥ vahniḥ atho nāse prāṇaḥ atas ghrāṇaḥ etayoḥ .. 54 ..
घ्राणात् वायुरभिद्येतां अक्षिणी चक्षुरेतयोः । तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५५ ॥
घ्राणात् वायुः अभिद्येताम् अक्षिणी चक्षुः एतयोः । तस्मात् सूर्यः न्यभिद्येताम् कर्णौ श्रोत्रम् ततस् दिशः ॥ ५५ ॥
ghrāṇāt vāyuḥ abhidyetām akṣiṇī cakṣuḥ etayoḥ . tasmāt sūryaḥ nyabhidyetām karṇau śrotram tatas diśaḥ .. 55 ..
निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः । तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः ॥ ५६ ॥
निर्बिभेद विराजः त्वच् रोम-श्मश्रु-आदयः ततस् । ततस् ओषधयः च आसन् शिश्नम् निर्बिभिदे ततस् ॥ ५६ ॥
nirbibheda virājaḥ tvac roma-śmaśru-ādayaḥ tatas . tatas oṣadhayaḥ ca āsan śiśnam nirbibhide tatas .. 56 ..
रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् । गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ५७ ॥
रेतः तस्मात् आपः आसन् निरभिद्यत वै गुदम् । गुदात् अपानः अपानात् च मृत्युः लोक-भयङ्करः ॥ ५७ ॥
retaḥ tasmāt āpaḥ āsan nirabhidyata vai gudam . gudāt apānaḥ apānāt ca mṛtyuḥ loka-bhayaṅkaraḥ .. 57 ..
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ५८ ॥
हस्तौ च निरभिद्येताम् बलम् ताभ्याम् ततस् स्वराज् । पादौ च निरभिद्येताम् गतिः ताभ्याम् ततस् हरिः ॥ ५८ ॥
hastau ca nirabhidyetām balam tābhyām tatas svarāj . pādau ca nirabhidyetām gatiḥ tābhyām tatas hariḥ .. 58 ..
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् । नद्यस्ततः समभवन् उदरं निरभिद्यत ॥ ५९ ॥
नाड्यः अस्य निरभिद्यन्त ताभ्यः लोहितम् आभृतम् । नद्यः ततस् समभवन् उदरम् निरभिद्यत ॥ ५९ ॥
nāḍyaḥ asya nirabhidyanta tābhyaḥ lohitam ābhṛtam . nadyaḥ tatas samabhavan udaram nirabhidyata .. 59 ..
क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् । अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥
क्षुध्-पिपासे ततस् स्याताम् समुद्रः तु एतयोः अभूत् । अथ अस्य हृदयम् भिन्नम् हृदयात् मनः उत्थितम् ॥ ६० ॥
kṣudh-pipāse tatas syātām samudraḥ tu etayoḥ abhūt . atha asya hṛdayam bhinnam hṛdayāt manaḥ utthitam .. 60 ..
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः । अहङ्कारस्ततो रुद्रः चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥
मनसः चन्द्रमाः जातः बुद्धिः बुद्धेः गिराम् पतिः । अहङ्कारः ततस् रुद्रः चित्तम् चैत्यः ततस् अभवत् ॥ ६१ ॥
manasaḥ candramāḥ jātaḥ buddhiḥ buddheḥ girām patiḥ . ahaṅkāraḥ tatas rudraḥ cittam caityaḥ tatas abhavat .. 61 ..
एते हि अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥
एते हि अभ्युत्थिताः देवाः न एव अस्य उत्थापने अशकन् । पुनर् आविविशुः खानि तम् उत्थापयितुम् क्रमात् ॥ ६२ ॥
ete hi abhyutthitāḥ devāḥ na eva asya utthāpane aśakan . punar āviviśuḥ khāni tam utthāpayitum kramāt .. 62 ..
वह्निर्वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् । घ्राणेन नासिके वायुः नोदतिष्ठत् तदा विराट् ॥ ६३ ॥
वह्निः वाचा मुखम् भेजे न उदतिष्ठत् तदा विराज् । घ्राणेन नासिके वायुः न उदतिष्ठत् तदा विराज् ॥ ६३ ॥
vahniḥ vācā mukham bheje na udatiṣṭhat tadā virāj . ghrāṇena nāsike vāyuḥ na udatiṣṭhat tadā virāj .. 63 ..
अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् । श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् ॥ ६४ ॥
अक्षिणी चक्षुषा आदित्यः न उदतिष्ठत् तदा विराज् । श्रोत्रेण कर्णौ च दिशः न उदतिष्ठत् तदा विराज् ॥ ६४ ॥
akṣiṇī cakṣuṣā ādityaḥ na udatiṣṭhat tadā virāj . śrotreṇa karṇau ca diśaḥ na udatiṣṭhat tadā virāj .. 64 ..
त्वचं रोमभिरोषध्यो नोदतिष्ठत् तदा विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत् तदा विराट् ॥ ६५ ॥
त्वचम् रोमभिः ओषध्यः न उदतिष्ठत् तदा विराज् । रेतसा शिश्नम् आपः तु न उदतिष्ठत् तदा विराज् ॥ ६५ ॥
tvacam romabhiḥ oṣadhyaḥ na udatiṣṭhat tadā virāj . retasā śiśnam āpaḥ tu na udatiṣṭhat tadā virāj .. 65 ..
गुदं मृत्युरपानेन नोदतिष्ठत् तदा विराट् । हस्ताविन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् ॥ ६६ ॥
गुदम् मृत्युः अपानेन न उदतिष्ठत् तदा विराज् । हस्तौ इन्द्रः बलेन एव न उदतिष्ठत् तदा विराज् ॥ ६६ ॥
gudam mṛtyuḥ apānena na udatiṣṭhat tadā virāj . hastau indraḥ balena eva na udatiṣṭhat tadā virāj .. 66 ..
विष्णुर्गत्यैव चरणौ नोदतिष्ठत् तदा विराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत् तदा विराट् ॥ ६७ ॥
विष्णुः गत्य एव चरणौ न उदतिष्ठत् तदा विराज् । नाडीः नद्यः लोहितेन न उदतिष्ठत् तदा विराज् ॥ ६७ ॥
viṣṇuḥ gatya eva caraṇau na udatiṣṭhat tadā virāj . nāḍīḥ nadyaḥ lohitena na udatiṣṭhat tadā virāj .. 67 ..
क्षुत्तृड्भ्यां उदरं सिन्धुः नोदतिष्ठत् तदा विराट् । हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् ॥ ६८ ॥
क्षुत्-तृड्भ्याम् उदरम् सिन्धुः न उदतिष्ठत् तदा विराज् । हृदयम् मनसा चन्द्रः न उदतिष्ठत् तदा विराज् ॥ ६८ ॥
kṣut-tṛḍbhyām udaram sindhuḥ na udatiṣṭhat tadā virāj . hṛdayam manasā candraḥ na udatiṣṭhat tadā virāj .. 68 ..
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् ॥ ६९ ॥
बुद्ध्या ब्रह्मा अपि हृदयम् न उदतिष्ठत् तदा विराज् । रुद्रः अभिमत्या हृदयम् न उदतिष्ठत् तदा विराज् ॥ ६९ ॥
buddhyā brahmā api hṛdayam na udatiṣṭhat tadā virāj . rudraḥ abhimatyā hṛdayam na udatiṣṭhat tadā virāj .. 69 ..
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । विराट्तदैव पुरुषः सलिलाद् उदतिष्ठत ॥ ७० ॥
चित्तेन हृदयम् चैत्यः क्षेत्रज्ञः प्राविशत् यदा । विराज् तदा एव पुरुषः सलिलात् उदतिष्ठत ॥ ७० ॥
cittena hṛdayam caityaḥ kṣetrajñaḥ prāviśat yadā . virāj tadā eva puruṣaḥ salilāt udatiṣṭhata .. 70 ..
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः । प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥
यथा प्रसुप्तम् पुरुषम् प्राण-इन्द्रिय-मनः-धियः । प्रभवन्ति विना येन ना उत्थापयितुम् ओजसा ॥ ७१ ॥
yathā prasuptam puruṣam prāṇa-indriya-manaḥ-dhiyaḥ . prabhavanti vinā yena nā utthāpayitum ojasā .. 71 ..
तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥
तम् अस्मिन् प्रत्यगात्मानम् धिया योग-प्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्य आत्मनि चिन्तयेत् ॥ ७२ ॥
tam asmin pratyagātmānam dhiyā yoga-pravṛttayā . bhaktyā viraktyā jñānena vivicya ātmani cintayet .. 72 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे षड्विंशः अध्यायः ॥ २६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ṣaḍviṃśaḥ adhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In