| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १ ॥
atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak . yadviditvā vimucyeta puruṣaḥ prākṛtairguṇaiḥ .. 1 ..
श्रीभगवानुवाच ।
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् । यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥
jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam . yadāhurvarṇaye tatte hṛdayagranthibhedanam .. 2 ..
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योतिः विश्वं येन समन्वितम् ॥ ३ ॥
anādirātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ . pratyagdhāmā svayaṃjyotiḥ viśvaṃ yena samanvitam .. 3 ..
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । यदृच्छयैवोपगतां अभ्यपद्यत लीलया ॥ ४ ॥
sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ . yadṛcchayaivopagatāṃ abhyapadyata līlayā .. 4 ..
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ५ ॥
guṇairvicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ . vilokya mumuhe sadyaḥ sa iha jñānagūhayā .. 5 ..
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥
evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān . karmasu kriyamāṇeṣu guṇairātmani manyate .. 6 ..
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् । भवति अकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७ ॥
tadasya saṃsṛtirbandhaḥ pāratantryaṃ ca tatkṛtam . bhavati akarturīśasya sākṣiṇo nirvṛtātmanaḥ .. 7 ..
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८ ॥
kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ . bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param .. 8 ..
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥
prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama . brūhi kāraṇayorasya sadasacca yadātmakam .. 9 ..
देवहूतिरुवाच -
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुः अविशेषं विशेषवत् ॥ १० ॥
yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam . pradhānaṃ prakṛtiṃ prāhuḥ aviśeṣaṃ viśeṣavat .. 10 ..
श्रीभगवानुवाच -
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतत् चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ ११ ॥
pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā . etat caturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ .. 11 ..
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः । तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥
mahābhūtāni pañcaiva bhūrāpo'gnirmarunnabhaḥ . tanmātrāṇi ca tāvanti gandhādīni matāni me .. 12 ..
इन्द्रियाणि दश श्रोत्रं त्वग् दृक् रसननासिकाः । वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥
indriyāṇi daśa śrotraṃ tvag dṛk rasananāsikāḥ . vākkarau caraṇau meḍhraṃ pāyurdaśama ucyate .. 13 ..
मनो बुद्धिरहङ्कारः चित्तमित्यन्तरात्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥
mano buddhirahaṅkāraḥ cittamityantarātmakam . caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā .. 14 ..
एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह । सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १५ ॥
etāvāneva saṅkhyāto brahmaṇaḥ saguṇasya ha . sanniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ .. 15 ..
प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् । अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १६ ॥
prabhāvaṃ pauruṣaṃ prāhuḥ kālameke yato bhayam . ahaṅkāravimūḍhasya kartuḥ prakṛtimīyuṣaḥ .. 16 ..
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १७ ॥
prakṛterguṇasāmyasya nirviśeṣasya mānavi . ceṣṭā yataḥ sa bhagavān kāla ityupalakṣitaḥ .. 17 ..
अन्तः पुरुषरूपेण कालरूपेण यो बहिः । समन्वेत्येष सत्त्वानां भगवान् आत्ममायया ॥ १८ ॥
antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ . samanvetyeṣa sattvānāṃ bhagavān ātmamāyayā .. 18 ..
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥
daivātkṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān . ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam .. 19 ..
विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । स्वतेजसापिबत् तीव्रं आत्मप्रस्वापनं तमः ॥ २० ॥
viśvamātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ . svatejasāpibat tīvraṃ ātmaprasvāpanaṃ tamaḥ .. 20 ..
यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥
yattatsattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam . yadāhurvāsudevākhyaṃ cittaṃ tanmahadātmakam .. 21 ..
स्वच्छत्वं अविकारित्वं शान्तत्वमिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ २२ ॥
svacchatvaṃ avikāritvaṃ śāntatvamiti cetasaḥ . vṛttibhirlakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā .. 22 ..
महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् । क्रियाशक्तिः अहङ्कारः त्रिविधः समपद्यत ॥ २३ ॥
mahattattvād vikurvāṇād bhagavadvīryasambhavāt . kriyāśaktiḥ ahaṅkāraḥ trividhaḥ samapadyata .. 23 ..
वैकारिकस्तैजसश्च तामसश्च यतो भवः । मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥
vaikārikastaijasaśca tāmasaśca yato bhavaḥ . manasaścendriyāṇāṃ ca bhūtānāṃ mahatāmapi .. 24 ..
सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥
sahasraśirasaṃ sākṣād yaṃ anantaṃ pracakṣate . saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam .. 25 ..
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्तघोरविमूढत्वं इति वा स्यादहङ्कृतेः ॥ २६ ॥
kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam . śāntaghoravimūḍhatvaṃ iti vā syādahaṅkṛteḥ .. 26 ..
वैकारिकाद् विकुर्वाणात् मनस्तत्त्वमजायत । यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २७ ॥
vaikārikād vikurvāṇāt manastattvamajāyata . yatsaṅkalpavikalpābhyāṃ vartate kāmasambhavaḥ .. 27 ..
यद् विदुर्ह्यनिरुद्धाख्यं हृषीकाणां अधीश्वरम् । शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ २८ ॥
yad vidurhyaniruddhākhyaṃ hṛṣīkāṇāṃ adhīśvaram . śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ .. 28 ..
तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति । द्रव्यस्फुरणविज्ञानं इन्द्रियाणामनुग्रहः ॥ २९ ॥
taijasāttu vikurvāṇād buddhitattvamabhūtsati . dravyasphuraṇavijñānaṃ indriyāṇāmanugrahaḥ .. 29 ..
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेः लक्षणं वृत्तितः पृथक् ॥ ३० ॥
saṃśayo'tha viparyāso niścayaḥ smṛtireva ca . svāpa ityucyate buddheḥ lakṣaṇaṃ vṛttitaḥ pṛthak .. 30 ..
तैजसानि इन्द्रियाण्येव क्रियाज्ञानविभागशः । प्राणस्य हि क्रियाशक्तिः बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥
taijasāni indriyāṇyeva kriyājñānavibhāgaśaḥ . prāṇasya hi kriyāśaktiḥ buddhervijñānaśaktitā .. 31 ..
तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् । शब्दमात्रं अभूत् तस्मात् नभः श्रोत्रं तु शब्दगम् ॥ ३२ ॥
tāmasācca vikurvāṇād bhagavadvīryacoditāt . śabdamātraṃ abhūt tasmāt nabhaḥ śrotraṃ tu śabdagam .. 32 ..
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च । तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३३ ॥
arthāśrayatvaṃ śabdasya draṣṭurliṅgatvameva ca . tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ .. 33 ..
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥
bhūtānāṃ chidradātṛtvaṃ bahirantarameva ca . prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam .. 34 ..
नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । स्पर्शोऽभवत्ततो वायुः त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३५ ॥
nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ . sparśo'bhavattato vāyuḥ tvak sparśasya ca saṅgrahaḥ .. 35 ..
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३६ ॥
mṛdutvaṃ kaṭhinatvaṃ ca śaityamuṣṇatvameva ca . etatsparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ .. 36 ..
चालनं व्यूहनं प्राप्तिः नेतृत्वं द्रव्यशब्दयोः । सर्वेन्द्रियाणां आत्मत्वं वायोः कर्माभिलक्षणम् ॥ ३७ ॥
cālanaṃ vyūhanaṃ prāptiḥ netṛtvaṃ dravyaśabdayoḥ . sarvendriyāṇāṃ ātmatvaṃ vāyoḥ karmābhilakṣaṇam .. 37 ..
वायोश्च स्पर्शतन्मात्राद् रूपं दैवेरितादभूत् । समुत्थितं ततस्तेजः चक्षू रूपोपलम्भनम् ॥ ३८ ॥
vāyośca sparśatanmātrād rūpaṃ daiveritādabhūt . samutthitaṃ tatastejaḥ cakṣū rūpopalambhanam .. 38 ..
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ३९ ॥
dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvameva ca . tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ .. 39 ..
द्योतनं पचनं पानं अदनं हिममर्दनम् । तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ॥ ४० ॥
dyotanaṃ pacanaṃ pānaṃ adanaṃ himamardanam . tejaso vṛttayastvetāḥ śoṣaṇaṃ kṣuttṛḍeva ca .. 40 ..
रूपमात्राद् विकुर्वाणात् तेजसो दैवचोदितात् । रसमात्रं अभूत् तस्मात् अम्भो जिह्वा रसग्रहः ॥ ४१ ॥
rūpamātrād vikurvāṇāt tejaso daivacoditāt . rasamātraṃ abhūt tasmāt ambho jihvā rasagrahaḥ .. 41 ..
कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥
kaṣāyo madhurastiktaḥ kaṭvamla iti naikadhā . bhautikānāṃ vikāreṇa rasa eko vibhidyate .. 42 ..
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वं अम्भसो वृत्तयस्त्विमाः ॥ ४३ ॥
kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam . tāpāpanodo bhūyastvaṃ ambhaso vṛttayastvimāḥ .. 43 ..
रसमात्राद् विकुर्वाणात् अम्भसो दैवचोदितात् । गन्धमात्रं अभूत् तस्मात् पृथ्वी घ्राणस्तु गन्धगः ॥ ४४ ॥
rasamātrād vikurvāṇāt ambhaso daivacoditāt . gandhamātraṃ abhūt tasmāt pṛthvī ghrāṇastu gandhagaḥ .. 44 ..
करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् । द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते ॥ ४५ ॥
karambhapūtisaurabhya śāntogrāmlādibhiḥ pṛthak . dravyāvayavavaiṣamyād gandha eko vibhidyate .. 45 ..
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् । सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥
bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam . sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam .. 46 ..
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते । वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥ ४७ ॥
nabhoguṇaviśeṣo'rtho yasya tacchrotramucyate . vāyorguṇaviśeṣo'rtho yasya tatsparśanaṃ viduḥ .. 47 ..
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः । भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥
tejoguṇaviśeṣo'rtho yasya taccakṣurucyate . ambhoguṇaviśeṣo'rtho yasya tadrasanaṃ viduḥ . bhūmerguṇaviśeṣo'rtho yasya sa ghrāṇa ucyate .. 48 ..
परस्य दृश्यते धर्मो हि, अपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥
parasya dṛśyate dharmo hi, aparasmin samanvayāt . ato viśeṣo bhāvānāṃ bhūmāvevopalakṣyate .. 49 ..
एतान्यसंहत्य यदा महदादीनि सप्त वै । कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥
etānyasaṃhatya yadā mahadādīni sapta vai . kālakarmaguṇopeto jagadādirupāviśat .. 50 ..
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डं अचेतनम् । उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट् ॥ ५१ ॥
tatastenānuviddhebhyo yuktebhyo'ṇḍaṃ acetanam . utthitaṃ puruṣo yasmāt udatiṣṭhadasau virāṭ .. 51 ..
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः । यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५२ ॥
etadaṇḍaṃ viśeṣākhyaṃ kramavṛddhairdaśottaraiḥ . toyādibhiḥ parivṛtaṃ pradhānenāvṛtairbahiḥ . yatra lokavitāno'yaṃ rūpaṃ bhagavato hareḥ .. 52 ..
हिरण्मयाद् अण्डकोशाद् उत्थाय सलिलेशयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥
hiraṇmayād aṇḍakośād utthāya salileśayāt . tamāviśya mahādevo bahudhā nirbibheda kham .. 53 ..
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् । वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः ॥ ५४ ॥
nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato'bhavat . vāṇyā vahniratho nāse prāṇo'to ghrāṇa etayoḥ .. 54 ..
घ्राणात् वायुरभिद्येतां अक्षिणी चक्षुरेतयोः । तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५५ ॥
ghrāṇāt vāyurabhidyetāṃ akṣiṇī cakṣuretayoḥ . tasmātsūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ .. 55 ..
निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः । तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः ॥ ५६ ॥
nirbibheda virājastvag romaśmaśrvādayastataḥ . tata oṣadhayaścāsan śiśnaṃ nirbibhide tataḥ .. 56 ..
रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् । गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ५७ ॥
retastasmādāpa āsan nirabhidyata vai gudam . gudādapāno'pānācca mṛtyurlokabhayaṅkaraḥ .. 57 ..
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ५८ ॥
hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ . pādau ca nirabhidyetāṃ gatistābhyāṃ tato hariḥ .. 58 ..
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् । नद्यस्ततः समभवन् उदरं निरभिद्यत ॥ ५९ ॥
nāḍyo'sya nirabhidyanta tābhyo lohitamābhṛtam . nadyastataḥ samabhavan udaraṃ nirabhidyata .. 59 ..
क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् । अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥
kṣutpipāse tataḥ syātāṃ samudrastvetayorabhūt . athāsya hṛdayaṃ bhinnaṃ hṛdayānmana utthitam .. 60 ..
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः । अहङ्कारस्ततो रुद्रः चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥
manasaścandramā jāto buddhirbuddhergirāṃ patiḥ . ahaṅkārastato rudraḥ cittaṃ caityastato'bhavat .. 61 ..
एते हि अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥
ete hi abhyutthitā devā naivāsyotthāpane'śakan . punarāviviśuḥ khāni tamutthāpayituṃ kramāt .. 62 ..
वह्निर्वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् । घ्राणेन नासिके वायुः नोदतिष्ठत् तदा विराट् ॥ ६३ ॥
vahnirvācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ . ghrāṇena nāsike vāyuḥ nodatiṣṭhat tadā virāṭ .. 63 ..
अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् । श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् ॥ ६४ ॥
akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ . śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ .. 64 ..
त्वचं रोमभिरोषध्यो नोदतिष्ठत् तदा विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत् तदा विराट् ॥ ६५ ॥
tvacaṃ romabhiroṣadhyo nodatiṣṭhat tadā virāṭ . retasā śiśnamāpastu nodatiṣṭhat tadā virāṭ .. 65 ..
गुदं मृत्युरपानेन नोदतिष्ठत् तदा विराट् । हस्ताविन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् ॥ ६६ ॥
gudaṃ mṛtyurapānena nodatiṣṭhat tadā virāṭ . hastāvindro balenaiva nodatiṣṭhat tadā virāṭ .. 66 ..
विष्णुर्गत्यैव चरणौ नोदतिष्ठत् तदा विराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत् तदा विराट् ॥ ६७ ॥
viṣṇurgatyaiva caraṇau nodatiṣṭhat tadā virāṭ . nāḍīrnadyo lohitena nodatiṣṭhat tadā virāṭ .. 67 ..
क्षुत्तृड्भ्यां उदरं सिन्धुः नोदतिष्ठत् तदा विराट् । हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् ॥ ६८ ॥
kṣuttṛḍbhyāṃ udaraṃ sindhuḥ nodatiṣṭhat tadā virāṭ . hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ .. 68 ..
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् ॥ ६९ ॥
buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ . rudro'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ .. 69 ..
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । विराट्तदैव पुरुषः सलिलाद् उदतिष्ठत ॥ ७० ॥
cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśadyadā . virāṭtadaiva puruṣaḥ salilād udatiṣṭhata .. 70 ..
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः । प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥
yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ . prabhavanti vinā yena notthāpayitumojasā .. 71 ..
तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥
tamasmin pratyagātmānaṃ dhiyā yogapravṛttayā . bhaktyā viraktyā jñānena vivicyātmani cintayet .. 72 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ṣaḍviṃśo'dhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In