| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः । अविकारात् अकर्तृत्वात् निर्गुणत्वाज्जलार्कवत् ॥ १ ॥
प्रकृति-स्थः अपि पुरुषः न अज्यते प्राकृतैः गुणैः । अविकारात् अकर्तृ-त्वात् निर्गुण-त्वात् जल-अर्क-वत् ॥ १ ॥
prakṛti-sthaḥ api puruṣaḥ na ajyate prākṛtaiḥ guṇaiḥ . avikārāt akartṛ-tvāt nirguṇa-tvāt jala-arka-vat .. 1 ..
श्रीभगवानुवाच -
स एष यर्हि प्रकृतेः गुणेष्वभिविषज्जते । अहङ्क्रियाविमूढात्मा कर्तास्मीति अभिमन्यते ॥ २ ॥
सः एष यर्हि प्रकृतेः गुणेषु अभिविषज्जते । अहङ्क्रिया-विमूढ-आत्मा कर्तास्मि इति अभिमन्यते ॥ २ ॥
saḥ eṣa yarhi prakṛteḥ guṇeṣu abhiviṣajjate . ahaṅkriyā-vimūḍha-ātmā kartāsmi iti abhimanyate .. 2 ..
तेन संसारपदवीं अवशोऽभ्येत्यनिर्वृतः । प्रासङ्गिकैः कर्मदोषैः सदसन् मिश्रयोनिषु ॥ ३ ॥
तेन संसार-पदवीम् अवशः अभ्येति अनिर्वृतः । प्रासङ्गिकैः कर्म-दोषैः सत्-असत् मिश्र-योनिषु ॥ ३ ॥
tena saṃsāra-padavīm avaśaḥ abhyeti anirvṛtaḥ . prāsaṅgikaiḥ karma-doṣaiḥ sat-asat miśra-yoniṣu .. 3 ..
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥
अर्थे हि अ विद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः स्वप्ने अनर्थ-आगमः यथा ॥ ४ ॥
arthe hi a vidyamāne api saṃsṛtiḥ na nivartate . dhyāyataḥ svapne anartha-āgamaḥ yathā .. 4 ..
अत एव शनैश्चित्तं प्रसक्तं असतां पथि । भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥
अतस् एव शनैस् चित्तम् प्रसक्तम् असताम् पथि । भक्ति-योगेन तीव्रेण विरक्त्या च नयेत् वशम् ॥ ५ ॥
atas eva śanais cittam prasaktam asatām pathi . bhakti-yogena tīvreṇa viraktyā ca nayet vaśam .. 5 ..
यमादिभिः योगपथैः अभ्यसन् श्रद्धयान्वितः । मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥
यम-आदिभिः योग-पथैः अभ्यसन् श्रद्धया अन्वितः । मयि भावेन सत्येन मद्-कथा-श्रवणेन च ॥ ६ ॥
yama-ādibhiḥ yoga-pathaiḥ abhyasan śraddhayā anvitaḥ . mayi bhāvena satyena mad-kathā-śravaṇena ca .. 6 ..
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः । ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥
सर्व-भूत-समत्वेन निर्वैरेण अप्रसङ्गतः । ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥
sarva-bhūta-samatvena nirvaireṇa aprasaṅgataḥ . brahmacaryeṇa maunena svadharmeṇa balīyasā .. 7 ..
यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः । विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ८ ॥
यदृच्छया उपलब्धेन सन्तुष्टः मित-भुज् मुनिः । विविक्त-शरणः शान्तः मैत्रः करुणः आत्मवान् ॥ ८ ॥
yadṛcchayā upalabdhena santuṣṭaḥ mita-bhuj muniḥ . vivikta-śaraṇaḥ śāntaḥ maitraḥ karuṇaḥ ātmavān .. 8 ..
सानुबन्धे च देहेऽस्मिन् अकुर्वन् असदाग्रहम् । ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९ ॥
सानुबन्धे च देहे अस्मिन् अकुर्वन् असदाग्रहम् । ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९ ॥
sānubandhe ca dehe asmin akurvan asadāgraham . jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca .. 9 ..
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः । उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् ॥ १० ॥
निवृत्त-बुद्धि-अवस्थानः दूरीभूतानि अदर्शनः । उपलभ्य आत्मना आत्मानम् चक्षुषा इव अर्कम् आत्म-दृश् ॥ १० ॥
nivṛtta-buddhi-avasthānaḥ dūrībhūtāni adarśanaḥ . upalabhya ātmanā ātmānam cakṣuṣā iva arkam ātma-dṛś .. 10 ..
मुक्तलिङ्गं सदाभासं असति प्रतिपद्यते । सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ॥ ११ ॥
मुक्त-लिङ्गम् सत्-आभासम् असति प्रतिपद्यते । सतः बन्धुम् असत्-चक्षुः सर्व-अनुस्यूतम् अद्वयम् ॥ ११ ॥
mukta-liṅgam sat-ābhāsam asati pratipadyate . sataḥ bandhum asat-cakṣuḥ sarva-anusyūtam advayam .. 11 ..
यथा जलस्थ आभासः स्थलस्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ॥ १२ ॥
यथा जल-स्थः आभासः । स्व-आभासेन तथा सूर्यः जल-स्थेन दिवि स्थितः ॥ १२ ॥
yathā jala-sthaḥ ābhāsaḥ . sva-ābhāsena tathā sūryaḥ jala-sthena divi sthitaḥ .. 12 ..
एवं त्रिवृद् अहङ्कारो भूतेन्द्रियमनोमयैः । स्वाभासैः लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३ ॥
एवम् त्रिवृत् अहङ्कारः भूत-इन्द्रिय-मनः-मयैः । स्व-आभासैः लक्षितः अनेन सत्-आभासेन सत्य-दृश् ॥ १३ ॥
evam trivṛt ahaṅkāraḥ bhūta-indriya-manaḥ-mayaiḥ . sva-ābhāsaiḥ lakṣitaḥ anena sat-ābhāsena satya-dṛś .. 13 ..
भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया । लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १४ ॥
भूत-सूक्ष्म-इन्द्रिय-मनः बुद्धि-आदिषु इह निद्रया । लीनेषु असति यः तत्र विनिद्रः निरहङ्क्रियः ॥ १४ ॥
bhūta-sūkṣma-indriya-manaḥ buddhi-ādiṣu iha nidrayā . līneṣu asati yaḥ tatra vinidraḥ nirahaṅkriyaḥ .. 14 ..
मन्यमानस्तदात्मानं अनष्टो नष्टवन्मृषा । नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १५ ॥
मन्यमानः तद्-आत्मानम् अ नष्टः नष्ट-वत् मृषा । नष्टे अहङ्करणे द्रष्टा नष्ट-वित्तः इव आतुरः ॥ १५ ॥
manyamānaḥ tad-ātmānam a naṣṭaḥ naṣṭa-vat mṛṣā . naṣṭe ahaṅkaraṇe draṣṭā naṣṭa-vittaḥ iva āturaḥ .. 15 ..
एवं प्रत्यवमृश्यासौ आत्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १६ ॥
एवम् प्रत्यवमृश्य असौ आत्मानम् प्रतिपद्यते । स अहङ्कारस्य द्रव्यस्य यः अवस्थानम् अनुग्रहः ॥ १६ ॥
evam pratyavamṛśya asau ātmānam pratipadyate . sa ahaṅkārasya dravyasya yaḥ avasthānam anugrahaḥ .. 16 ..
पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् । अन्योन्यापाश्रयत्वाच्च नित्यत्वाद् अनयोः प्रभो ॥ १७ ॥
पुरुषम् प्रकृतिः ब्रह्मन् न विमुञ्चति कर्हिचित् । अन्योन्य-अपाश्रय-त्वात् च नित्य-त्वात् अनयोः प्रभो ॥ १७ ॥
puruṣam prakṛtiḥ brahman na vimuñcati karhicit . anyonya-apāśraya-tvāt ca nitya-tvāt anayoḥ prabho .. 17 ..
देवहूतिरुवाच -
यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः । अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८ ॥
यथा गन्धस्य भूमेः च न भावः व्यतिरेकतः । अपाम् रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८ ॥
yathā gandhasya bhūmeḥ ca na bhāvaḥ vyatirekataḥ . apām rasasya ca yathā tathā buddheḥ parasya ca .. 18 ..
अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः । गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ १९ ॥
अकर्तुः कर्म-बन्धः अयम् पुरुषस्य यत् आश्रयः । गुणेषु सत्सु प्रकृतेः कैवल्यम् तेषु अतस् कथम् ॥ १९ ॥
akartuḥ karma-bandhaḥ ayam puruṣasya yat āśrayaḥ . guṇeṣu satsu prakṛteḥ kaivalyam teṣu atas katham .. 19 ..
क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् । अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ २० ॥
क्वचिद् तत्त्व-अवमर्शेन निवृत्तम् भयम् उल्बणम् । अ निवृत्त-निमित्त-त्वात् पुनर् प्रत्यवतिष्ठते ॥ २० ॥
kvacid tattva-avamarśena nivṛttam bhayam ulbaṇam . a nivṛtta-nimitta-tvāt punar pratyavatiṣṭhate .. 20 ..
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥
अनिमित्त-निमित्तेन स्वधर्मेण अमल-आत्मना । तीव्रया मयि भक्त्या च श्रुत-सम्भृतया ॥ २१ ॥
animitta-nimittena svadharmeṇa amala-ātmanā . tīvrayā mayi bhaktyā ca śruta-sambhṛtayā .. 21 ..
श्रीभगवानुवाच -
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥
ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा । तपः-युक्तेन योगेन तीव्रेण आत्म-समाधिना ॥ २२ ॥
jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā . tapaḥ-yuktena yogena tīvreṇa ātma-samādhinā .. 22 ..
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैः अग्नेर्योनिरिवारणिः ॥ २३ ॥
प्रकृतिः पुरुषस्य इह दह्यमाना तु अहर्निशम् । तिरोभवित्री शनकैस् अग्नेः योनिः इव अरणिः ॥ २३ ॥
prakṛtiḥ puruṣasya iha dahyamānā tu aharniśam . tirobhavitrī śanakais agneḥ yoniḥ iva araṇiḥ .. 23 ..
भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥
भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशस् । न ईश्वरस्य अशुभम् धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥
bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśas . na īśvarasya aśubham dhatte sve mahimni sthitasya ca .. 24 ..
यथा हि अप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥
यथा हि अ प्रतिबुद्धस्य प्रस्वापः बहु-अनर्थ-भृत् । सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥
yathā hi a pratibuddhasya prasvāpaḥ bahu-anartha-bhṛt . saḥ eva pratibuddhasya na vai mohāya kalpate .. 25 ..
एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् । युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥
एवम् विदित-तत्त्वस्य प्रकृतिः मयि मानसम् । युञ्जतः न अपकुरुते आत्म-आरामस्य कर्हिचित् ॥ २६ ॥
evam vidita-tattvasya prakṛtiḥ mayi mānasam . yuñjataḥ na apakurute ātma-ārāmasya karhicit .. 26 ..
यदैवमध्यात्मरतः कालेन बहुजन्मना । सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७ ॥
यदा एवम् अध्यात्म-रतः कालेन बहु-जन्मना । सर्वत्र जात-वैराग्यः आब्रह्म भुवनात् मुनिः ॥ २७ ॥
yadā evam adhyātma-rataḥ kālena bahu-janmanā . sarvatra jāta-vairāgyaḥ ābrahma bhuvanāt muniḥ .. 27 ..
मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा । निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥
मद्-भक्तः प्रतिबुद्ध-अर्थः मद्-प्रसादेन भूयसा । निःश्रेयसम् स्व-संस्थानम् कैवल्य-आख्यम् मद्-आश्रयम् ॥ २८ ॥
mad-bhaktaḥ pratibuddha-arthaḥ mad-prasādena bhūyasā . niḥśreyasam sva-saṃsthānam kaivalya-ākhyam mad-āśrayam .. 28 ..
प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः । यद्गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ २९ ॥
प्राप्नोति इह अञ्जसा धीरः स्व-दृशा छिन्न-संशयः । यत् गत्वा न निवर्तेत योगी लिङ्गात् विनिर्गमे ॥ २९ ॥
prāpnoti iha añjasā dhīraḥ sva-dṛśā chinna-saṃśayaḥ . yat gatvā na nivarteta yogī liṅgāt vinirgame .. 29 ..
यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग । अनन्यहेतुष्वथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्युहासः ॥ ३० ॥
यदा न योग-उपचितासु चेतः मायासु सिद्धस्य विषज्जते अङ्ग । अन् अन्य-हेतुषु अथ मे गतिः स्यात् आत्यन्तिकी यत्र न मृत्यु-हासः ॥ ३० ॥
yadā na yoga-upacitāsu cetaḥ māyāsu siddhasya viṣajjate aṅga . an anya-hetuṣu atha me gatiḥ syāt ātyantikī yatra na mṛtyu-hāsaḥ .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे सप्तविंशः अध्यायः ॥ २७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe saptaviṃśaḥ adhyāyaḥ .. 27 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In