| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥
योगस्य लक्षणम् वक्ष्ये स बीजस्य नृप-आत्मजे । मनः येन एव विधिना प्रसन्नम् याति सत्-पथम् ॥ १ ॥
yogasya lakṣaṇam vakṣye sa bījasya nṛpa-ātmaje . manaḥ yena eva vidhinā prasannam yāti sat-patham .. 1 ..
श्रीभगवानुवाच -
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मवित् चरणार्चनम् ॥ २ ॥
स्वधर्म-आचरणम् शक्त्या विधर्मात् च निवर्तनम् । दैवात् लब्धेन सन्तोषः आत्म-विद् चरण-अर्चनम् ॥ २ ॥
svadharma-ācaraṇam śaktyā vidharmāt ca nivartanam . daivāt labdhena santoṣaḥ ātma-vid caraṇa-arcanam .. 2 ..
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥ ३ ॥
ग्राम्य-धर्म-निवृत्तिः च मोक्ष-धर्म-रतिः तथा । मित-मेध्य-अदनम् शश्वत् विविक्त-क्षेम-सेवनम् ॥ ३ ॥
grāmya-dharma-nivṛttiḥ ca mokṣa-dharma-ratiḥ tathā . mita-medhya-adanam śaśvat vivikta-kṣema-sevanam .. 3 ..
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः । ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥
अहिंसा सत्यम् अस्तेयम् यावत् अर्थ-परिग्रहः । ब्रह्मचर्यम् तपः शौचम् स्वाध्यायः पुरुष-अर्चनम् ॥ ४ ॥
ahiṃsā satyam asteyam yāvat artha-parigrahaḥ . brahmacaryam tapaḥ śaucam svādhyāyaḥ puruṣa-arcanam .. 4 ..
मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥
मौनम् सदा आसन-जयः स्थैर्यम् प्राण-जयः शनैस् । प्रत्याहारः च इन्द्रियाणाम् विषयात् मनसा हृदि ॥ ५ ॥
maunam sadā āsana-jayaḥ sthairyam prāṇa-jayaḥ śanais . pratyāhāraḥ ca indriyāṇām viṣayāt manasā hṛdi .. 5 ..
स्वधिष्ण्यानां एकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥ ६ ॥
स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् । वैकुण्ठ-लीला-अभिध्यानम् समाधानम् तथा आत्मनः ॥ ६ ॥
sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam . vaikuṇṭha-līlā-abhidhyānam samādhānam tathā ātmanaḥ .. 6 ..
एतैः अन्यैश्च पथिभिः मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैः जितप्राणो ह्यतन्द्रितः ॥ ७ ॥
एतैः अन्यैः च पथिभिः मनः दुष्टम् असत्-पथम् । बुद्ध्या युञ्जीत शनकैस् जित-प्राणः हि अतन्द्रितः ॥ ७ ॥
etaiḥ anyaiḥ ca pathibhiḥ manaḥ duṣṭam asat-patham . buddhyā yuñjīta śanakais jita-prāṇaḥ hi atandritaḥ .. 7 ..
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८ ॥
शुचौ देशे प्रतिष्ठाप्य विजित-आसनः आसनम् । तस्मिन् स्वस्ति समासीनः ऋजु-कायः समभ्यसेत् ॥ ८ ॥
śucau deśe pratiṣṭhāpya vijita-āsanaḥ āsanam . tasmin svasti samāsīnaḥ ṛju-kāyaḥ samabhyaset .. 8 ..
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । प्रतिकूलेन वा चित्तं यथा स्थिरं अचञ्चलम् ॥ ९ ॥
प्राणस्य शोधयेत् मार्गम् पूर-कुम्भक-रेचकैः । प्रतिकूलेन वा चित्तम् यथा स्थिरम् अचञ्चलम् ॥ ९ ॥
prāṇasya śodhayet mārgam pūra-kumbhaka-recakaiḥ . pratikūlena vā cittam yathā sthiram acañcalam .. 9 ..
मनोऽचिरात्स्याद् विरजं जितश्वासस्य योगिनः । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥
मनः अचिरात् स्यात् विरजम् जित-श्वासस्य योगिनः । वायु-अग्निभ्याम् यथा लोहम् ध्मातम् त्यजति वै मलम् ॥ १० ॥
manaḥ acirāt syāt virajam jita-śvāsasya yoginaḥ . vāyu-agnibhyām yathā loham dhmātam tyajati vai malam .. 10 ..
प्राणायामैः दहेद् दोषान् धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥
प्राणायामैः दहेत् दोषान् धारणाभिः च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेन अनीश्वरान् गुणान् ॥ ११ ॥
prāṇāyāmaiḥ dahet doṣān dhāraṇābhiḥ ca kilbiṣān . pratyāhāreṇa saṃsargān dhyānena anīśvarān guṇān .. 11 ..
यदा मनः स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥
यदा मनः स्वम् विरजम् योगेन सु समाहितम् । काष्ठाम् भगवतः ध्यायेत् स्व-नासा-अग्र-अवलोकनः ॥ १२ ॥
yadā manaḥ svam virajam yogena su samāhitam . kāṣṭhām bhagavataḥ dhyāyet sva-nāsā-agra-avalokanaḥ .. 12 ..
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥
प्रसन्न-वदन-अम्भोजम् पद्मगर्भ-अरुण-ईक्षणम् । नीलोत्पल-दल-श्यामम् शङ्ख-चक्र-गदा-धरम् ॥ १३ ॥
prasanna-vadana-ambhojam padmagarbha-aruṇa-īkṣaṇam . nīlotpala-dala-śyāmam śaṅkha-cakra-gadā-dharam .. 13 ..
लसत्पङ्कज किञ्जल्क पीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् ॥ १४ ॥
लसत्-पङ्कज-किञ्जल्क-पीत-कौशेय-वाससम् । श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभा-मुक्त-कन्धरम् ॥ १४ ॥
lasat-paṅkaja-kiñjalka-pīta-kauśeya-vāsasam . śrīvatsa-vakṣasam bhrājat kaustubhā-mukta-kandharam .. 14 ..
मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥ १५ ॥
मत्त-द्विरेफ-कलया परीतम् वनमालया । परार्ध्य-हार-वलय-किरीट-अङ्गद-नूपुरम् ॥ १५ ॥
matta-dvirepha-kalayā parītam vanamālayā . parārdhya-hāra-valaya-kirīṭa-aṅgada-nūpuram .. 15 ..
काञ्चीगुणोल्लसत् श्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयन वर्धनम् ॥ १६ ॥
काञ्ची-गुण-उल्लसत् श्रोणिम् हृदय-अम्भोज-विष्टरम् । दर्शनीयतमम् शान्तम् मनः-नयन वर्धनम् ॥ १६ ॥
kāñcī-guṇa-ullasat śroṇim hṛdaya-ambhoja-viṣṭaram . darśanīyatamam śāntam manaḥ-nayana vardhanam .. 16 ..
अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥
अपीच्य-दर्शनम् शश्वत् सर्व-लोक-नमस्कृतम् । सन्तम् वयसि कैशोरे भृत्य-अनुग्रह-कातरम् ॥ १७ ॥
apīcya-darśanam śaśvat sarva-loka-namaskṛtam . santam vayasi kaiśore bhṛtya-anugraha-kātaram .. 17 ..
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥
कीर्तन्य-तीर्थ-यशसम् पुण्य-श्लोक-यशस्करम् । ध्यायेत् देवम् समग्र-अङ्गम् यावत् न च्यवते मनः ॥ १८ ॥
kīrtanya-tīrtha-yaśasam puṇya-śloka-yaśaskaram . dhyāyet devam samagra-aṅgam yāvat na cyavate manaḥ .. 18 ..
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेत् शुद्धभावेन चेतसा ॥ १९ ॥
स्थितम् व्रजन्तम् आसीनम् शयानम् वा गुहा-आशयम् । प्रेक्षणीय-ईहितम् ध्यायेत् शुद्ध-भावेन चेतसा ॥ १९ ॥
sthitam vrajantam āsīnam śayānam vā guhā-āśayam . prekṣaṇīya-īhitam dhyāyet śuddha-bhāvena cetasā .. 19 ..
तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ २० ॥
तस्मिन् लब्ध-पदम् चित्तम् सर्व-अवयव-संस्थितम् । विलक्ष्य एकत्र संयुज्यात् अङ्गे भगवतः मुनिः ॥ २० ॥
tasmin labdha-padam cittam sarva-avayava-saṃsthitam . vilakṣya ekatra saṃyujyāt aṅge bhagavataḥ muniḥ .. 20 ..
सञ्चिन्तयेद् भगवतश्चरणारविन्दं वज्राङ्कुशध्वज सरोरुह लाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन् नखचक्रवाल ज्योत्स्नाभिराहतमहद् हृदयान्धकारम् ॥ २१ ॥
सञ्चिन्तयेत् भगवतः चरण-अरविन्दम् वज्र-अङ्कुश-ध्वज सरोरुह लाञ्छन-आढ्यम् । उत्तुङ्ग-रक्त-विलसन् नख-चक्रवाल ज्योत्स्नाभिः आहत-महत् हृदय-अन्धकारम् ॥ २१ ॥
sañcintayet bhagavataḥ caraṇa-aravindam vajra-aṅkuśa-dhvaja saroruha lāñchana-āḍhyam . uttuṅga-rakta-vilasan nakha-cakravāla jyotsnābhiḥ āhata-mahat hṛdaya-andhakāram .. 21 ..
यच्छौचनिःसृतसरित् प्रवरोदकेन । तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥
यत् शौच-निःसृत-सरित् प्रवर-उदकेन । तीर्थेन मूर्ध्नि अधिकृतेन शिवः शिवः अभूत् । ध्यातुः मनः-शमल-शैल-निसृष्ट-वज्रम् ध्यायेत् चिरम् भगवतः चरण-अरविन्दम् ॥ २२ ॥
yat śauca-niḥsṛta-sarit pravara-udakena . tīrthena mūrdhni adhikṛtena śivaḥ śivaḥ abhūt . dhyātuḥ manaḥ-śamala-śaila-nisṛṣṭa-vajram dhyāyet ciram bhagavataḥ caraṇa-aravindam .. 22 ..
जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः । ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥
जानु-द्वयम् जलज-लोचनया जनन्या लक्ष्म्या अखिलस्य सुर-वन्दितया विधातुः । ऊर्वोः निधाय करपल्लव-रोचिषा यत् संलालितम् हृदि विभोः अभवस्य कुर्यात् ॥ २३ ॥
jānu-dvayam jalaja-locanayā jananyā lakṣmyā akhilasya sura-vanditayā vidhātuḥ . ūrvoḥ nidhāya karapallava-rociṣā yat saṃlālitam hṛdi vibhoḥ abhavasya kuryāt .. 23 ..
ऊरू सुपर्णभुजयोरधि शोभमानौ ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥
ऊरू सुपर्ण-भुजयोः अधि शोभमानौ ओजः-निधी अतसिका-कुसुम-अवभासौ । व्यालम्बि-पीत-वर-वाससि वर्तमान काञ्ची-कलाप-परिरम्भि नितम्ब-बिम्बम् ॥ २४ ॥
ūrū suparṇa-bhujayoḥ adhi śobhamānau ojaḥ-nidhī atasikā-kusuma-avabhāsau . vyālambi-pīta-vara-vāsasi vartamāna kāñcī-kalāpa-parirambhi nitamba-bimbam .. 24 ..
नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद् द्वयं विशदहारमयूखगौरम् ॥ २५ ॥
नाभि-ह्रदम् भुवनकोश-गुहा-उदर-स्थम् यत्र आत्मयोनि-धिषण-अखिल-लोक-पद्मम् । व्यूढम् हरिन्मणि-वृष-स्तनयोः अमुष्य ध्यायेत् द्वयम् विशद-हार-मयूख-गौरम् ॥ २५ ॥
nābhi-hradam bhuvanakośa-guhā-udara-stham yatra ātmayoni-dhiṣaṇa-akhila-loka-padmam . vyūḍham harinmaṇi-vṛṣa-stanayoḥ amuṣya dhyāyet dvayam viśada-hāra-mayūkha-gauram .. 25 ..
वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिल लोकनमस्कृतस्य ॥ २६ ॥
वक्षः-अधिवासम् ऋषभस्य महा-विभूतेः पुंसाम् मनः-नयन-निर्वृतिम् आदधानम् । कण्ठम् च कौस्तुभ-मणेः अधिभूषण-अर्थम् कुर्यात् मनसि अखिल लोक-नमस्कृतस्य ॥ २६ ॥
vakṣaḥ-adhivāsam ṛṣabhasya mahā-vibhūteḥ puṃsām manaḥ-nayana-nirvṛtim ādadhānam . kaṇṭham ca kaustubha-maṇeḥ adhibhūṣaṇa-artham kuryāt manasi akhila loka-namaskṛtasya .. 26 ..
बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयान् अधिलोकपालान् । सञ्चिन्तयेद् दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥
बाहून् च मन्दर-गिरेः परिवर्तनेन निर्णिक्त-बाहु-वलयान् अधि लोकपालान् । सञ्चिन्तयेत् दश-शतारम् असह्य-तेजः शङ्खम् च तद्-कर-सरोरुह-राजहंसम् ॥ २७ ॥
bāhūn ca mandara-gireḥ parivartanena nirṇikta-bāhu-valayān adhi lokapālān . sañcintayet daśa-śatāram asahya-tejaḥ śaṅkham ca tad-kara-saroruha-rājahaṃsam .. 27 ..
कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥
कौमोदकीम् भगवतः दयिताम् स्मरेत दिग्धाम् अराति-भट-शोणित-कर्दमेन । मालाम् मधु-व्रत-वरूथ-गिरा उपघुष्टाम् चैत्यस्य तत्त्वम् अमलम् मणिम् अस्य कण्ठे ॥ २८ ॥
kaumodakīm bhagavataḥ dayitām smareta digdhām arāti-bhaṭa-śoṇita-kardamena . mālām madhu-vrata-varūtha-girā upaghuṣṭām caityasya tattvam amalam maṇim asya kaṇṭhe .. 28 ..
भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद् भगवतो वदनारविन्दम् । यद्विस्फुरन् मकरकुण्डलवल्गितेन । विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥
भृत्य-अनुकम्पित-धिया इह गृहीत-मूर्तेः सञ्चिन्तयेत् भगवतः वदन-अरविन्दम् । यत् विस्फुरत् मकर-कुण्डल-वल्गितेन । विद्योतित-अमल-कपोलम् उदार-नासम् ॥ २९ ॥
bhṛtya-anukampita-dhiyā iha gṛhīta-mūrteḥ sañcintayet bhagavataḥ vadana-aravindam . yat visphurat makara-kuṇḍala-valgitena . vidyotita-amala-kapolam udāra-nāsam .. 29 ..
यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन् मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३० ॥
यत् श्रीनिकेतम् अलिभिः परिसेव्यमानम् भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् । मीन-द्वय-आश्रयम् अधिक्षिपत् अब्ज-नेत्रम् ध्यायेत् मनः-मयम् अतन्द्रितः उल्लसत्-भ्रु ॥ ३० ॥
yat śrīniketam alibhiḥ parisevyamānam bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam . mīna-dvaya-āśrayam adhikṣipat abja-netram dhyāyet manaḥ-mayam atandritaḥ ullasat-bhru .. 30 ..
तस्यावलोकमधिकं कृपयातिघोर तापत्रयोपशमनाय निसृष्टमक्ष्णोः । स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥
तस्य अवलोकम् अधिकम् कृपया अति घोर ताप-त्रय-उपशमनाय निसृष्टम् अक्ष्णोः । स्निग्ध-स्मित-अनुगुणितम् विपुल-प्रसादम् ध्यायेत् चिरम् विपुल-भावनया गुहायाम् ॥ ३१ ॥
tasya avalokam adhikam kṛpayā ati ghora tāpa-traya-upaśamanāya nisṛṣṭam akṣṇoḥ . snigdha-smita-anuguṇitam vipula-prasādam dhyāyet ciram vipula-bhāvanayā guhāyām .. 31 ..
हासं हरेरवनताखिललोकतीव्र शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥
हासम् हरेः अवनत-अखिल-लोक-तीव्र शोक-अश्रु-सागर-विशोषणम् अत्युदारम् । सम्मोहनाय रचितम् निज-मायया अस्य भ्रू-मण्डलम् मुनि-कृते मकरध्वजस्य ॥ ३२ ॥
hāsam hareḥ avanata-akhila-loka-tīvra śoka-aśru-sāgara-viśoṣaṇam atyudāram . sammohanāya racitam nija-māyayā asya bhrū-maṇḍalam muni-kṛte makaradhvajasya .. 32 ..
ध्यानायनं प्रहसितं बहुलाधरोष्ठ भासारुणायिततनुद्विजकुन्दपङ्क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥
ध्यान-अयनम् प्रहसितम् बहुल-अधर-उष्ठ भासा अरुणायित-तनु-द्विज-कुन्द-पङ्क्ति । ध्यायेत् स्व-देह-कुहरे अवसितस्य विष्णोः भक्ति-आर्द्रया अर्पित-मनाः न पृथक् दिदृक्षेत् ॥ ३३ ॥
dhyāna-ayanam prahasitam bahula-adhara-uṣṭha bhāsā aruṇāyita-tanu-dvija-kunda-paṅkti . dhyāyet sva-deha-kuhare avasitasya viṣṇoḥ bhakti-ārdrayā arpita-manāḥ na pṛthak didṛkṣet .. 33 ..
एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानः तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥
एवम् हरौ भगवति प्रतिलब्ध-भावः भक्त्या द्रवत्-हृदयः उत्पुलकः प्रमोदात् । औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानः तत् च अपि चित्त-बडिशम् शनकैस् वियुङ्क्ते ॥ ३४ ॥
evam harau bhagavati pratilabdha-bhāvaḥ bhaktyā dravat-hṛdayaḥ utpulakaḥ pramodāt . autkaṇṭhya-bāṣpa-kalayā muhur ardyamānaḥ tat ca api citta-baḍiśam śanakais viyuṅkte .. 34 ..
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथार्चिः । आत्मानमत्र पुरुषोऽव्यवधानमेकम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५ ॥
मुक्त-आश्रयम् यर्हि निर्विषयम् विरक्तम् निर्वाणम् ऋच्छति मनः सहसा यथा अर्चिः । आत्मानम् अत्र पुरुषः अव्यवधानम् एकम् अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः ॥ ३५ ॥
mukta-āśrayam yarhi nirviṣayam viraktam nirvāṇam ṛcchati manaḥ sahasā yathā arciḥ . ātmānam atra puruṣaḥ avyavadhānam ekam anvīkṣate pratinivṛtta-guṇa-pravāhaḥ .. 35 ..
सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन् महिम्न्यवसितः सुखदुःखबाह्ये । हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६ ॥
सः अपि एतया चरमया मनसः निवृत्त्या तस्मिन् महिम्नि अवसितः सुख-दुःख-बाह्ये । हेतु-त्वम् अपि असति कर्तरि दुःखयोः यत् स्वात्मन् विधत्ते उपलब्ध-परात्म-काष्ठः ॥ ३६ ॥
saḥ api etayā caramayā manasaḥ nivṛttyā tasmin mahimni avasitaḥ sukha-duḥkha-bāhye . hetu-tvam api asati kartari duḥkhayoḥ yat svātman vidhatte upalabdha-parātma-kāṣṭhaḥ .. 36 ..
देहं च तं न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः ॥ ३७ ॥
देहम् च तम् न चरमः स्थितम् उत्थितम् वा सिद्धः विपश्यति यतस् अध्यगमत् स्वरूपम् । दैवात् उपेतम् अथ दैव-वशात् अपेतम् वासः यथा परिकृतम् मदिरा-मद-अन्धः ॥ ३७ ॥
deham ca tam na caramaḥ sthitam utthitam vā siddhaḥ vipaśyati yatas adhyagamat svarūpam . daivāt upetam atha daiva-vaśāt apetam vāsaḥ yathā parikṛtam madirā-mada-andhaḥ .. 37 ..
देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८ ॥
देहः अपि दैव-वशगः खलु कर्म यावत् स्वारम्भकम् प्रतिसमीक्षते एव सासुः । तम् स प्रपञ्चम् अधिरूढ-समाधि-योगः स्वाप्नम् पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ ३८ ॥
dehaḥ api daiva-vaśagaḥ khalu karma yāvat svārambhakam pratisamīkṣate eva sāsuḥ . tam sa prapañcam adhirūḍha-samādhi-yogaḥ svāpnam punar na bhajate pratibuddha-vastuḥ .. 38 ..
यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते । अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३९ ॥
यथा पुत्रात् च वित्तात् च पृथक् मर्त्यः प्रतीयते । अपि आत्म-त्वेन अभिमतात् देह-आदेः पुरुषः तथा ॥ ३९ ॥
yathā putrāt ca vittāt ca pṛthak martyaḥ pratīyate . api ātma-tvena abhimatāt deha-ādeḥ puruṣaḥ tathā .. 39 ..
(अनुष्टुप्)
यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ ४० ॥
यथा उल्मुकात् विस्फुलिङ्गात् धूमात् वा अपि स्व-सम्भवात् । अपि आत्म-त्वेन अभिमतात् यथा अग्निः पृथक् उल्मुकात् ॥ ४० ॥
yathā ulmukāt visphuliṅgāt dhūmāt vā api sva-sambhavāt . api ātma-tvena abhimatāt yathā agniḥ pṛthak ulmukāt .. 40 ..
भूतेन्द्रियान्तःकरणात् प्रधानात् जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१ ॥
भूत-इन्द्रिय-अन्तःकरणात् प्रधानात् जीव-संज्ञितात् । आत्मा तथा पृथक् द्रष्टा भगवान् ब्रह्म-संज्ञितः ॥ ४१ ॥
bhūta-indriya-antaḥkaraṇāt pradhānāt jīva-saṃjñitāt . ātmā tathā pṛthak draṣṭā bhagavān brahma-saṃjñitaḥ .. 41 ..
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतान् अन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥
सर्व-भूतेषु च आत्मानम् सर्व-भूतानि च आत्मनि । ईक्षेतान् अन् अन्य-भावेन भूतेषु इव तद्-आत्मताम् ॥ ४२ ॥
sarva-bhūteṣu ca ātmānam sarva-bhūtāni ca ātmani . īkṣetān an anya-bhāvena bhūteṣu iva tad-ātmatām .. 42 ..
स्वयोनिषु यथा ज्योतिः एकं नाना प्रतीयते । योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४३ ॥
स्व-योनिषु यथा ज्योतिः एकम् नाना प्रतीयते । योनीनाम् गुण-वैषम्यात् तथा आत्मा प्रकृतौ स्थितः ॥ ४३ ॥
sva-yoniṣu yathā jyotiḥ ekam nānā pratīyate . yonīnām guṇa-vaiṣamyāt tathā ātmā prakṛtau sthitaḥ .. 43 ..
तस्माद् इमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
तस्मात् इमाम् स्वाम् प्रकृतिम् दैवीम् सदसत्-आत्मिकाम् । दुर्विभाव्याम् पराभाव्य स्व-रूपेण अवतिष्ठते ॥ ४४ ॥
tasmāt imām svām prakṛtim daivīm sadasat-ātmikām . durvibhāvyām parābhāvya sva-rūpeṇa avatiṣṭhate .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे अष्टाविंशः अध्यायः ॥ २८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe aṣṭāviṃśaḥ adhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In