| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥
लक्षणम् महत्-आदीनाम् प्रकृतेः पुरुषस्य च । स्वरूपम् लक्ष्यते अमीषाम् येन तत् पारमार्थिकम् ॥ १ ॥
lakṣaṇam mahat-ādīnām prakṛteḥ puruṣasya ca . svarūpam lakṣyate amīṣām yena tat pāramārthikam .. 1 ..
देवहूतिरुवाच -
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते । भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥
यथा साङ्ख्येषु कथितम् यत् मूलम् तत् प्रचक्षते । भक्ति-योगस्य मे मार्गम् ब्रूहि विस्तरशः प्रभो ॥ २ ॥
yathā sāṅkhyeṣu kathitam yat mūlam tat pracakṣate . bhakti-yogasya me mārgam brūhi vistaraśaḥ prabho .. 2 ..
विरागो येन पुरुषो भगवन् सर्वतो भवेत् । आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३ ॥
विरागः येन पुरुषः भगवन् सर्वतस् भवेत् । आचक्ष्व जीव-लोकस्य विविधाः मम संसृतीः ॥ ३ ॥
virāgaḥ yena puruṣaḥ bhagavan sarvatas bhavet . ācakṣva jīva-lokasya vividhāḥ mama saṃsṛtīḥ .. 3 ..
कालस्येश्वररूपस्य परेषां च परस्य ते । स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४ ॥
कालस्य ईश्वर-रूपस्य परेषाम् च परस्य ते । स्व-रूपम् बत कुर्वन्ति यद्धेतोः कुशलम् जनाः ॥ ४ ॥
kālasya īśvara-rūpasya pareṣām ca parasya te . sva-rūpam bata kurvanti yaddhetoḥ kuśalam janāḥ .. 4 ..
लोकस्य मिथ्याभिमतेरचक्षुषः चिरं प्रसुप्तस्य तमस्यनाश्रये । श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः ॥ ५ ॥
लोकस्य मिथ्या अभिमतेः अचक्षुषः चिरम् प्रसुप्तस्य तमसि अनाश्रये । श्रान्तस्य कर्मसु अनुविद्धया धिया त्वम् आविरासीः किल योग-भास्करः ॥ ५ ॥
lokasya mithyā abhimateḥ acakṣuṣaḥ ciram prasuptasya tamasi anāśraye . śrāntasya karmasu anuviddhayā dhiyā tvam āvirāsīḥ kila yoga-bhāskaraḥ .. 5 ..
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः । आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६ ॥
इति मातुः वचः श्लक्ष्णम् प्रतिनन्द्य महा-मुनिः । आबभाषे कुरु-श्रेष्ठ प्रीतः ताम् करुणा-अर्दितः ॥ ६ ॥
iti mātuḥ vacaḥ ślakṣṇam pratinandya mahā-muniḥ . ābabhāṣe kuru-śreṣṭha prītaḥ tām karuṇā-arditaḥ .. 6 ..
मैत्रेय उवाच । - (अनुष्टुप्)
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥
भक्ति-योगः बहुविधः मार्गैः भामिनि भाव्यते । स्वभाव-गुण-मार्गेण पुंसाम् भावः विभिद्यते ॥ ७ ॥
bhakti-yogaḥ bahuvidhaḥ mārgaiḥ bhāmini bhāvyate . svabhāva-guṇa-mārgeṇa puṃsām bhāvaḥ vibhidyate .. 7 ..
श्रीभगवानुवाच -
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा । संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८ ॥
अभिसन्धाय यः हिंसाम् दम्भम् मात्सर्यम् एव वा । संरम्भी भिन्नदृश्-भावम् मयि कुर्यात् स तामसः ॥ ८ ॥
abhisandhāya yaḥ hiṃsām dambham mātsaryam eva vā . saṃrambhī bhinnadṛś-bhāvam mayi kuryāt sa tāmasaḥ .. 8 ..
विषयान् अभिसन्धाय यश ऐश्वर्यमेव वा । अर्चादौ अर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९ ॥
विषयान् अभिसन्धाय यशः ऐश्वर्यम् एव वा । अर्चा-आदौ अर्चयेत् यः माम् पृथक् भावः स राजसः ॥ ९ ॥
viṣayān abhisandhāya yaśaḥ aiśvaryam eva vā . arcā-ādau arcayet yaḥ mām pṛthak bhāvaḥ sa rājasaḥ .. 9 ..
कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् । यजेद् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १० ॥
कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् । यजेत् यष्टव्यम् इति वा पृथक् भावः स सात्त्विकः ॥ १० ॥
karma-nirhāram uddiśya parasmin vā tad-arpaṇam . yajet yaṣṭavyam iti vā pṛthak bhāvaḥ sa sāttvikaḥ .. 10 ..
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये । मनोगतिः अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहा-आशये । मनोगतिः अविच्छिन्ना यथा गङ्गा-अम्भसः अम्बुधौ ॥ ११ ॥
mad-guṇa-śruti-mātreṇa mayi sarva-guhā-āśaye . manogatiḥ avicchinnā yathā gaṅgā-ambhasaḥ ambudhau .. 11 ..
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥
लक्षणम् भक्ति-योगस्य निर्गुणस्य हि उदाहृतम् । अहैतुकी अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥
lakṣaṇam bhakti-yogasya nirguṇasya hi udāhṛtam . ahaitukī avyavahitā yā bhaktiḥ puruṣottame .. 12 ..
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३ ॥
सालोक्य-सार्ष्टि-सामीप्य-सारूप्य-एक-त्वम् अपि उत । दीयमानम् न गृह्णन्ति विना मद्-सेवनम् जनाः ॥ १३ ॥
sālokya-sārṣṭi-sāmīpya-sārūpya-eka-tvam api uta . dīyamānam na gṛhṇanti vinā mad-sevanam janāḥ .. 13 ..
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४ ॥
सः एव भक्ति-योग-आख्यः आत्यन्तिकः उदाहृतः । येन अतिव्रज्य त्रिगुणम् मद्-भावाय उपपद्यते ॥ १४ ॥
saḥ eva bhakti-yoga-ākhyaḥ ātyantikaḥ udāhṛtaḥ . yena ativrajya triguṇam mad-bhāvāya upapadyate .. 14 ..
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५ ॥
निषेवितेन अनिमित्तेन स्वधर्मेण महीयसा । क्रिया-योगेन शस्तेन न अति हिंस्रेण नित्यशस् ॥ १५ ॥
niṣevitena animittena svadharmeṇa mahīyasā . kriyā-yogena śastena na ati hiṃsreṇa nityaśas .. 15 ..
मद्धिष्ण्य दर्शनस्पर्श पूजास्तुति अभिवन्दनैः । भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥
मद्-धिष्ण्य-दर्शन-स्पर्श-पूजा-स्तुति-अभिवन्दनैः । भूतेषु मद्-भावनया सत्त्वेन असङ्गमेन च ॥ १६ ॥
mad-dhiṣṇya-darśana-sparśa-pūjā-stuti-abhivandanaiḥ . bhūteṣu mad-bhāvanayā sattvena asaṅgamena ca .. 16 ..
महतां बहुमानेन दीनानां अनुकम्पया । मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥
महताम् बहु-मानेन दीनानाम् अनुकम्पया । मैत्र्या च एव आत्म-तुल्येषु यमेन नियमेन च ॥ १७ ॥
mahatām bahu-mānena dīnānām anukampayā . maitryā ca eva ātma-tulyeṣu yamena niyamena ca .. 17 ..
आध्यात्मिकानुश्रवणात् नामसङ्कीर्तनाच्च मे । आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥ १८ ॥
आध्यात्मिक-अनुश्रवणात् नाम-सङ्कीर्तनात् च मे । आर्जवेन अरि-असङ्गेन निरहङ्क्रियया तथा ॥ १८ ॥
ādhyātmika-anuśravaṇāt nāma-saṅkīrtanāt ca me . ārjavena ari-asaṅgena nirahaṅkriyayā tathā .. 18 ..
मद् धर्मणो गुणैः एतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥
मद्-धर्मणः गुणैः एतैः परिसंशुद्ध आशयः । पुरुषस्य अञ्जसा अभ्येति श्रुत-मात्र-गुणम् हि माम् ॥ १९ ॥
mad-dharmaṇaḥ guṇaiḥ etaiḥ parisaṃśuddha āśayaḥ . puruṣasya añjasā abhyeti śruta-mātra-guṇam hi mām .. 19 ..
यथा वातरथो घ्राणं आवृङ्क्ते गन्ध आशयात् । एवं योगरतं चेत आत्मानं अविकारि यत् ॥ २० ॥
यथा वात-रथः घ्राणम् आवृङ्क्ते गन्धः आशयात् । एवम् योग-रतम् चेतः आत्मानम् अविकारि यत् ॥ २० ॥
yathā vāta-rathaḥ ghrāṇam āvṛṅkte gandhaḥ āśayāt . evam yoga-ratam cetaḥ ātmānam avikāri yat .. 20 ..
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा । तं अवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥
अहम् सर्वेषु भूतेषु भूत-आत्मा अवस्थितः सदा । तम् अवज्ञाय माम् मर्त्यः कुरुते अर्चा-विडम्बनम् ॥ २१ ॥
aham sarveṣu bhūteṣu bhūta-ātmā avasthitaḥ sadā . tam avajñāya mām martyaḥ kurute arcā-viḍambanam .. 21 ..
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः ॥ २२ ॥
यः माम् सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् । हित्वा अर्चाम् भजते मौढ्यात् भस्मनि एव जुहोति सः ॥ २२ ॥
yaḥ mām sarveṣu bhūteṣu santam ātmānam īśvaram . hitvā arcām bhajate mauḍhyāt bhasmani eva juhoti saḥ .. 22 ..
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २३ ॥
द्विषतः पर-काये माम् मानिनः भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिम् ऋच्छति ॥ २३ ॥
dviṣataḥ para-kāye mām māninaḥ bhinnadarśinaḥ . bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati .. 23 ..
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४ ॥
अहम् उच्चावचैः द्रव्यैः क्रियया उत्पन्नया अनघे । न एव तुष्ये अर्चितः अर्चायाम् भूत-ग्राम-अवमानिनः ॥ २४ ॥
aham uccāvacaiḥ dravyaiḥ kriyayā utpannayā anaghe . na eva tuṣye arcitaḥ arcāyām bhūta-grāma-avamāninaḥ .. 24 ..
अर्चादौ अर्चयेत्तावद् ईश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
अर्चा-आदौ अर्चयेत् तावत् ईश्वरम् माम् स्व-कर्म-कृत् । यावत् न वेद स्व-हृदि सर्व-भूतेषु अवस्थितम् ॥ २५ ॥
arcā-ādau arcayet tāvat īśvaram mām sva-karma-kṛt . yāvat na veda sva-hṛdi sarva-bhūteṣu avasthitam .. 25 ..
आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् । तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम् ॥ २६ ॥
आत्मनः च परस्य अपि यः करोति अन्तर-उदरम् । तस्य भिन्नदृशः मृत्युः विदधे भयम् उल्बणम् ॥ २६ ॥
ātmanaḥ ca parasya api yaḥ karoti antara-udaram . tasya bhinnadṛśaḥ mṛtyuḥ vidadhe bhayam ulbaṇam .. 26 ..
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥
अथ माम् सर्व-भूतेषु भूतात्मानम् कृत-आलयम् । अर्हयेत् दान-मानाभ्याम् मैत्र्या अभिन्नेन चक्षुषा ॥ २७ ॥
atha mām sarva-bhūteṣu bhūtātmānam kṛta-ālayam . arhayet dāna-mānābhyām maitryā abhinnena cakṣuṣā .. 27 ..
जीवाः श्रेष्ठा हि अजीवानां ततः प्राणभृतः शुभे । ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः ॥ २८ ॥
जीवाः श्रेष्ठाः हि अजीवानाम् ततस् प्राणभृतः शुभे । ततस् स चित्ताः प्रवराः ततस् च इन्द्रिय-वृत्तयः ॥ २८ ॥
jīvāḥ śreṣṭhāḥ hi ajīvānām tatas prāṇabhṛtaḥ śubhe . tatas sa cittāḥ pravarāḥ tatas ca indriya-vṛttayaḥ .. 28 ..
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदो वराः ॥ २९ ॥
तत्र अपि स्पर्श-वेदिभ्यः प्रवराः रस-वेदिनः । तेभ्यः गन्ध-विदः श्रेष्ठाः ततस् शब्द-विदः वराः ॥ २९ ॥
tatra api sparśa-vedibhyaḥ pravarāḥ rasa-vedinaḥ . tebhyaḥ gandha-vidaḥ śreṣṭhāḥ tatas śabda-vidaḥ varāḥ .. 29 ..
रूपभेदविदस्तत्र ततश्चोभयतोदतः । तेषां बहुपदाः श्रेष्ठाः चतुष्पादस्ततो द्विपात् ॥ ३० ॥
रूप-भेद-विदः तत्र ततस् च उभय-तोदतः । तेषाम् बहु-पदाः श्रेष्ठाः चतुष्पादः ततस् द्विपाद् ॥ ३० ॥
rūpa-bheda-vidaḥ tatra tatas ca ubhaya-todataḥ . teṣām bahu-padāḥ śreṣṭhāḥ catuṣpādaḥ tatas dvipād .. 30 ..
ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्वपि वेदज्ञो हि, अर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
ततस् वर्णाः च चत्वारः तेषाम् ब्राह्मणः उत्तमः । ब्राह्मणेषु अपि वेद-ज्ञः हि, अर्थ-ज्ञः अभ्यधिकः ततस् ॥ ३१ ॥
tatas varṇāḥ ca catvāraḥ teṣām brāhmaṇaḥ uttamaḥ . brāhmaṇeṣu api veda-jñaḥ hi, artha-jñaḥ abhyadhikaḥ tatas .. 31 ..
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् । मुक्तसङ्गस्ततो भूयात् अदोग्धा धर्ममात्मनः ॥ ३२ ॥
अर्थ-ज्ञात् संशय-छेत्ता ततस् श्रेयान् स्व-कर्म-कृत् । मुक्त-सङ्गः ततस् भूयात् अ दोग्धा धर्मम् आत्मनः ॥ ३२ ॥
artha-jñāt saṃśaya-chettā tatas śreyān sva-karma-kṛt . mukta-saṅgaḥ tatas bhūyāt a dogdhā dharmam ātmanaḥ .. 32 ..
तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः । मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । न पश्यामि परं भूतं अकर्तुः समदर्शनात् ॥ ३३ ॥
तस्मात् मयि अर्पित-अशेष क्रिया-अर्थ-आत्मा निरन्तरः । मयि अर्पित-आत्मनः पुंसः मयि सन्न्यस्त-कर्मणः । न पश्यामि परम् भूतम् अकर्तुः समदर्शनात् ॥ ३३ ॥
tasmāt mayi arpita-aśeṣa kriyā-artha-ātmā nirantaraḥ . mayi arpita-ātmanaḥ puṃsaḥ mayi sannyasta-karmaṇaḥ . na paśyāmi param bhūtam akartuḥ samadarśanāt .. 33 ..
मनसैतानि भूतानि प्रणमेद्बहुमानयन् । ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
मनसा एतानि भूतानि प्रणमेत् बहु-मानयन् । ईश्वरः जीव-कलया प्रविष्टः भगवान् इति ॥ ३४ ॥
manasā etāni bhūtāni praṇamet bahu-mānayan . īśvaraḥ jīva-kalayā praviṣṭaḥ bhagavān iti .. 34 ..
भक्तियोगश्च योगश्च मया मानव्युदीरितः । ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥
भक्ति-योगः च योगः च मया मान-व्युदीरितः । ययोः एकतरेण एव पुरुषः पुरुषम् व्रजेत् ॥ ३५ ॥
bhakti-yogaḥ ca yogaḥ ca mayā māna-vyudīritaḥ . yayoḥ ekatareṇa eva puruṣaḥ puruṣam vrajet .. 35 ..
एतद्भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥
एतत् भगवतः रूपम् ब्रह्मणः परमात्मनः । परम् प्रधानम् पुरुषम् दैवम् कर्म-विचेष्टितम् ॥ ३६ ॥
etat bhagavataḥ rūpam brahmaṇaḥ paramātmanaḥ . param pradhānam puruṣam daivam karma-viceṣṭitam .. 36 ..
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
रूप-भेद-आस्पदम् दिव्यम् कालः इति अभिधीयते । भूतानाम् महत्-आदीनाम् यतस् भिन्नदृशाम् भयम् ॥ ३७ ॥
rūpa-bheda-āspadam divyam kālaḥ iti abhidhīyate . bhūtānām mahat-ādīnām yatas bhinnadṛśām bhayam .. 37 ..
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः । स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८ ॥
यः अन्तर् प्रविश्य भूतानि भूतैः अत्ति अखिल-आश्रयः । स विष्णु-आख्यः अधियज्ञः असौ कालः कलयताम् प्रभुः ॥ ३८ ॥
yaḥ antar praviśya bhūtāni bhūtaiḥ atti akhila-āśrayaḥ . sa viṣṇu-ākhyaḥ adhiyajñaḥ asau kālaḥ kalayatām prabhuḥ .. 38 ..
न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
न च अस्य कश्चिद् दयितः न द्वेष्यः न च बान्धवः । आविशति अप्रमत्तः असौ प्रमत्तम् जनम् अन्तकृत् ॥ ३९ ॥
na ca asya kaścid dayitaḥ na dveṣyaḥ na ca bāndhavaḥ . āviśati apramattaḥ asau pramattam janam antakṛt .. 39 ..
यद्भयाद् वाति वातोऽयं सूर्यस्तपति यद्भयात् । यद्भयाद् वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥
यद्-भयात् वाति वातः अयम् सूर्यः तपति यद्-भयात् । यद्-भयात् वर्षते देवः भगणः भाति यद्-भयात् ॥ ४० ॥
yad-bhayāt vāti vātaḥ ayam sūryaḥ tapati yad-bhayāt . yad-bhayāt varṣate devaḥ bhagaṇaḥ bhāti yad-bhayāt .. 40 ..
यद् वनस्पतयो भीता लताश्चौषधिभिः सह । स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
यत् वनस्पतयः भीताः लताः च ओषधिभिः सह । स्वे स्वे काले अभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
yat vanaspatayaḥ bhītāḥ latāḥ ca oṣadhibhiḥ saha . sve sve kāle abhigṛhṇanti puṣpāṇi ca phalāni ca .. 41 ..
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः । अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्भयात् ॥ ४२ ॥
स्रवन्ति सरितः भीताः ना उत्सर्पति उदधिः यतस् । अग्निः इन्धे स गिरिभिः भूः न मज्जति यद्-भयात् ॥ ४२ ॥
sravanti saritaḥ bhītāḥ nā utsarpati udadhiḥ yatas . agniḥ indhe sa giribhiḥ bhūḥ na majjati yad-bhayāt .. 42 ..
नभो ददाति श्वसतां पदं यन्नियमाददः । लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥
नभः ददाति श्वसताम् पदम् यत् नियम-आददः । लोकम् स्व-देहम् तनुते महान् सप्तभिः आवृतम् ॥ ४३ ॥
nabhaḥ dadāti śvasatām padam yat niyama-ādadaḥ . lokam sva-deham tanute mahān saptabhiḥ āvṛtam .. 43 ..
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
गुण-अभिमानिनः देवाः सर्ग-आदिषु अस्य यद्-भयात् । वर्तन्ते अनुयुगम् येषाम् वशे एतत् चराचरम् ॥ ४४ ॥
guṇa-abhimāninaḥ devāḥ sarga-ādiṣu asya yad-bhayāt . vartante anuyugam yeṣām vaśe etat carācaram .. 44 ..
सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५ ॥
सः अनन्तः अन्त-करः कालः अनादिः आदि-कृत् अव्ययः । जनम् जनेन जनयन् मारयन् मृत्युना अन्तकम् ॥ ४५ ॥
saḥ anantaḥ anta-karaḥ kālaḥ anādiḥ ādi-kṛt avyayaḥ . janam janena janayan mārayan mṛtyunā antakam .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे एकोनत्रिंशः अध्यायः ॥ २९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ekonatriṃśaḥ adhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In